सामग्री पर जाएँ

गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३६

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३५ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३६
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३७ →

अश्वमेधखण्डः - षट्‌त्रिंशोऽध्यायः

बल्वलपुत्रस्य कुनन्दनस्य वधम् -

गर्ग उवाच -
कुनन्दनोऽपि संमूर्च्छां त्यक्त्वागाद्‌रणमण्डले ॥
 रथस्थः क्रोधसंयुक्तः प्रवर्षन्धनुषा शरान् ॥१॥
 दृष्ट्वा तमागतं वीरोऽनिरुद्धः परवीरहा ॥
 पप्रच्छ सेवकांस्तस्य वार्तां रोषेण दीपितः ॥२॥
 सेवकास्ते ततः प्रोचुरेष बल्वलनन्दनः ॥
 त्वया सार्द्धं महाराज युद्धं कर्तुं समागतः ॥३॥
 श्रुत्वानिरुद्धः प्रोवाच हनिष्येऽहं कुनन्दनम् ॥
 तदैव तमुवाचाथ कृष्णपुत्रः सुनन्दनः ॥४॥
 सुनन्दन उवाच -
राजन्कोऽयं दैत्यपुत्रः क्वेदं परिमितं बलम् ॥
 जेष्येऽहं त्वत्प्रतापेन तस्माद्‍गच्छाम्यहं प्रभो ॥५॥
 राजञ्छृणु प्रतिज्ञां मे तवानंदप्रदायिनीम् ॥
 न चेत्कुनन्दनं जेष्ये बहुसंग्रामकोविदम् ॥६॥
 कृष्णस्य चरणांभोजमध्वास्वादवियोगिनम् ॥
 यत्पापञ्च भवेत्तन्मे न जये यदि दानवं ॥७॥
 यो गुरुं भवहर्तारं पितरं च न सेवते ॥
 यदघं तु भवेत्तस्य तन्मे भूयाञ्जयेन वै ॥८॥
 इति प्रतिज्ञामाकर्ण्यानिरुद्धस्तस्य भूपते ॥
 जहर्ष चित्ते तं वीरं निर्द्दिदेश रणं प्रति ॥९॥
 इत्याज्ञप्तोऽनिरुद्धेन चैकाकी कृष्णनन्दनः ॥
 जगाम दंशितस्तत्र यत्रास्ते बल्वलात्मजः ॥१०॥
 कुनन्दनस्तमाज्ञाय त्वागतं प्रधने रुषा ॥
 प्रत्युज्जगाम वीराग्र्यो रथी शूरशिरोमणिः ॥११॥
 अन्योन्यं तौ सम्मिलितौ रथस्थौ चापधारिणौ ॥
 रेजाते राजशार्दूल यथा दमनपुष्कलौ ॥१२॥
 उभौ सायकभिन्नंगावुभौ रुधिरविप्लुतौ ॥
 मुञ्चंतौ शरकोटीश्च संधंतौ तरसा शरान् ॥ १३॥
 आदानेनैव सन्धानं मोचनं च न भूपते ॥
 दृश्यते तौ महाशूरौ कुण्डलीकृतकार्मुकौ ॥१४॥
 तद्‌रथं राजपुत्रस्तु भ्रामकास्त्रेण शोभिना ॥
 भूतले भ्रामयामास कुंभकारस्य चक्रवत् ॥१५॥
 भ्रांत्वा मुहूर्तमात्रं तु तद्‌रथो वाजिसंयुतः ॥
 स्थितिं लेभे ततः कार्ष्णिर्जघान तद्‌रथे शरम् ॥१६॥
 सयानस्तेन बाणेन खे बभ्राम मतंगवत् ॥
 पपात कौ विशीर्णोऽभूद्यथा वै काचभाजनम् ॥१७॥
 उत्थितः सोऽपि विरथो हताश्वो हतसारथिः ॥
 अन्यं रथं समारुह्य यावदायाति संमुखम् ॥१८॥
 बभंज तावद्बाणैश्च तद्‌रथं कृष्णनन्दनः ॥
 एवं सप्त रथा भग्ना दैत्यपुत्रस्य वै रणे ॥१९॥
 तदा कुनन्दनः संख्ये स्थित्वा याने विचित्रिते ॥
 आययौ नृप वेगेन कृष्णपुत्रं नियोधितुम् ॥२०॥
 आगत्य दशभिर्बाणैस्ताडयामास तं मृधे ॥
 शरैस्तेः सोऽपि निहतः परं कश्मलतां गतः ॥
 ततः स धनुरुद्यम्य गृहीत्वा दश सायकान् ॥
 मुमोच तस्य हृदये क्रुद्धः कृष्णात्मजो बली ॥२२॥
 ते शरा रुधिरं पीत्वा निपेतुर्वै महीतले ॥
 यथा हि पितरो राजन्नरके कूटसाक्षिणः ॥ २३॥
 कुनंदनः सुनन्दनं सुनन्दनः कुनन्दनम् ॥
 महद्‌रणे महच्छरैर्निजघ्नतुः परस्परम् ॥२४॥
 एवं हि तौ द्वौ शरभिन्नगात्रौ
     रक्ताप्लुतौ चापधरौ रुषाढ्यौ ॥
 प्रचक्रतुर्युद्धवरं शरैश्च
     कुशांबसांबाविव संयुगे वै ॥२५॥
 ततः कृष्णात्मजो वीरः कोदंडे स्वर्णनिर्मिते ॥
 मृगांकार्द्धमुखं बाणं धृत्वा शीघ्रं तमब्रवीत् ॥२६॥
 सुनन्दन उवाच -
शृणु मद्वचनं वीर बाणेनानेन त्वच्छिरः ॥
 सद्यश्छिन्नं करिष्येऽहं शिरो रक्ष बली यदि ॥२७॥
 यदि मद्वचनं सत्यं प्रधने त्वं न मन्यसे ॥
 तदा शृणु प्रतिज्ञां मे तव मृत्युविषूचिकाम् ॥२८॥
 सतीं च गुरुपत्‍नीं च यो दूषयति कामतः ॥
 स याति यातनां यां वै यमराजस्य सन्निधौ ॥२९॥
 सा यातना च मे भूयात्सत्यं मम प्रतिश्रुतम् ॥
 यः समर्थश्च स्वगुरुं पितरं च न पालयेत् ॥३०॥
 तस्य पापं ममैवास्तु न हनिष्ये च त्वां रणे ॥
 इति श्रुत्वा च तद्वाक्यं दैत्य आह रुषा ज्वलन् ॥३१॥
 राजपुत्र उवाच -
बिभेमि नाहं रणात्संग्रामे शत्रुसम्मुखे ॥
 प्राणिनां चैव सर्वेषां मृत्युर्भवति सांप्रतम् ॥३२॥
 यदि मुंचसि संग्रामे मद्‌वधार्थे महाशरम् ॥
 तदाहं स्वशरेणापि शीघ्रं छेद्मि न संशयः ॥३३॥
 एकादश्यां च ये मानादन्नं भुंजंति भूतले ॥
 मातरं भ्रातृपत्‍नीं च भगिनीं च सुतां तथा ॥
 पापं तेषां ममैवास्तु न छेद्मि यदि त्वच्छरम् ॥३४॥
 इति तस्य वच: स्पष्टं श्रुत्वा शंकितमानसः ॥
 प्रत्युवाच पुनर्वाक्यं श्रीकृष्णं सोऽपि संस्मरन् ॥३५॥
 सुनन्दन उवाच -
मया कृष्णांघ्रियुगलं सेवितं मनसा यदि ॥
 कपटेन विना तर्हि सत्यं भूयाद्वचो मम ॥३६॥
 स्वपत्‍नीं च विना वीर नान्यां पश्यामि कामतः ॥
 तेन सत्येन संग्रामे वाक्यं भूयादृतं मम ॥३७॥
 इत्युक्त्वा सायकं तीक्ष्णं विमुमोच सुनन्दनः ॥
 मंत्रयित्वा च मंत्रेण महाकालानलोपमम् ॥३८॥
 प्रमुक्तं वीक्ष्य विशिखं स्वबाणेन नृपात्मजः ॥
 सद्यश्चिच्छेद हि यथा सर्पं पक्षेण पक्षिराट् ॥३९॥
 छिन्ने तस्मिञ्छरे राजन्हाहाकारस्तदाभवत् ॥
 चचाल पृथिवी लोकैर्देवास्ते विस्मयं गताः ॥४०॥
 परार्द्धः पतितो बाणः पूर्वार्द्धः फलसंयुतः ॥
 शिरश्चिच्छेद दैत्यस्य तरोः स्कंधं यथा गजः ॥४१॥
 किरीटकुण्डलैर्युक्तं पतितं तस्य मस्तकम् ॥
 निरीक्ष्य हाहाशब्दं वै चक्रुर्दैत्याश्च दुःखिताः ॥४२॥
 कुनन्दनकबंधस्तु शीघ्रमुत्थाय संयुगे ॥
 खड्गेन मुष्टिभिः पादैर्बहूञ्छत्रूञ्जघान ह ॥४३॥
 ततश्च यदुसेनायां नेदुर्दुंदुभयो मुहुः ॥
 सुनंदनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४४॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
दैत्यपुत्रवधवर्णनं नाम षट्‌त्रिंशोऽध्यायः ॥३६॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता