गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ४६

विकिस्रोतः तः

बलरामकृतं वसन्तमालतीपुरीकर्षणम्

अथ कृष्णे भगवति पुरीं द्वारावतीं गते ॥
प्रद्युम्नः सैनिकैः सार्द्धं नदं कामदुघं ययौ ॥१॥
शतयोजनविस्तीर्णा गंधर्वाणां मनोहरा ॥
वसंतमालति नाम्ना हेमरत्‍नमयी पुरी ॥२॥
लवंगलतिकाजालै-रेलाकाश्मीरदेशकैः ॥
जातीफलादिजावित्री-श्रीखंडपारिजातकैः ॥३॥
मत्तालिनादिता भृंगैः शब्दिता चित्रपक्षिभिः ॥
गंधर्वै राजिता भव्यैर्नागैर्भोगवती यथा ॥४॥
पतंगो नाम तत्रैव गंधर्वेशो महाबलः ॥
करोति राज्यं सुकृती शक्रवद्‌बलपौरुषम् ॥५॥
श्रुत्वा प्रद्युम्नमायातं दिग्जयार्थं विनिर्गतम् ॥
गंधर्वैरुद्‌भटैर्युक्तो युद्धं कर्तुं मनो दधे ॥६॥
रथाश्वगजवीरैश्च गंधर्वैर्दशकोटिभिः ॥
पतंग आगतो योद्धुं प्रद्युम्नस्यापि संमुखे ॥७॥
गंधर्वैर्यदुभिः सार्द्धं घोरं युद्धं बभूव ह ॥
भल्लैर्गदाभिः परिघैर्मुद्‌गरैस्तोमरर्ष्टिभिः ॥८॥
बाणांधकारे संजाते पतंगोऽतिरथो बली ॥
धनुष्टंकारयन् प्राप्तो जगर्ज घनवद्‌बली ॥९॥
गदो गदां समादाय बलदेवानुजो बली ॥
तद्‌बलं पोथयामास वज्रेणेंद्रो यथा गिरिन् ॥१०॥
गदस्य गदया केचिद्‌गंधर्वाः पतिता रणे ॥
रथाश्चूर्णीकृताः सर्वे मातंगा भिन्नमस्तकाः ॥११॥
अश्वारूढाः केऽपि वीराः पतिता रणमूर्द्धनि ॥
अधोमुखा ऊर्ध्वमुखा गंधर्वाश्छिन्नबाहवः ॥१२॥
क्षणमात्रेण तत्सैन्ये रुधिराणां नदी ह्यभूत् ॥
प्रमथा हरमालार्थं शिरांसि जगृहुर्मृधे ॥१३॥
सिंहारूढा भद्रकाली डाकिनी शतसंवृता ॥
कपालेनापि रुधिरं पिबंति दृश्यते मृधे ॥१४॥
एवं युद्धे गदकृते गन्धर्वाणां पलायताम् ॥
गंधर्वेशस्तदा प्राप्तो हस्तिलक्षबलान्वितः ॥१५॥
गदं तताड गदया पतंगो हृदि मैथिल ॥
गदोऽपि तं स्वगदया पतंगं हृदि चौजसा ॥१६॥
तयोश्च गदया युद्धं बभूव घटिकाद्वयम् ॥
विस्फुलिंगान् क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥१७॥
लक्षभारमयीं गुर्वीं गदामादाय सत्वरम् ॥
गदं तताड शिरसि पतंगो रणदुर्मदः ॥१८॥
गदाप्रहारेण गदः क्षणं मूर्छामवाप ह ॥
एवं कृते घोरमृधे पतंगेन महात्मना ॥१९॥
तदैव द्वारकापुर्य्यास्तेजः संघट्टमागतम् ॥
ददृशुर्यादवाः सर्वे कोटिमार्तंडसन्निभम् ॥२०॥
तस्मिंस्तेजसि गौरांगो बलदेवो महाबलः ॥
आविर्बभूव सहसा भगवान् भक्तवत्सलः ॥२१॥
गंधर्वाणां बलं सर्वं समाकृष्य हलेन वै ॥
तताड मुसलं क्रुद्धो बलो नीलांबरो बली ॥२२॥
रथान् गजांस्तुरंगांश्च वीराः शस्त्रभृतां वराः ॥
निपेतुर्युगपत्सर्वे चूर्णिताश्चोपला इव ॥२३॥
पतंगो विरथस्तस्माद्‌भीतभीतः पुरीं ययौ ॥
पुनर्योद्धुं यादवैश्च सेनाव्यूहं चकार ह ॥२४॥
शतयोजनविस्तीर्णां गंधर्वाणां महापुरीम् ॥
वसंतमालतीं सर्वामुद्विदार्य हलेन वै ॥२५॥
विचकर्ष बलः क्रुद्धो नदे कामदुघे नृप ॥
हाहाकारस्तदैवासीन्नगर्यां पतित्तैर्गृहे ॥२६॥
तिर्यक्पोतमिवाघूर्णां नगरी वीक्ष्य सत्वरम् ॥
पतंगः सर्वगंधर्वैर्हषितः सन्कृतांजलिः ॥२७॥
खचिद्धेमसुवर्णानां मुक्तातोरणशालिनाम् ॥
दशयोजनविस्तीर्णीकृतानां विश्वकर्मणा ॥२८॥
कामगानां पताकाभिर्युतानां कुंभकोटिभिः ॥
सहस्रार्कप्रकाशानां विमानानां द्विलक्षकम् ॥२९॥
चतुर्लक्षं गवां चैव तुरंगाणां दशार्बुदम् ॥
एलालवंगकाश्मीरजातीफलफलैः सह ॥३०॥
सुधाफलानां दिव्यानां कोटिशो भाजनानि च ॥
नीत्वा बलिं समादाय दत्वा नत्वा प्रधर्षितः ॥३१॥
कृताञ्जलिः प्राह बलं बलभद्रप्रसादवित् ॥
पतंग उवाच -
राम राम महावीर्य न जाने तव विक्रमम् ॥
यस्यैकमूर्ध्नि तिलकं दृश्यते भूमिमंडलम् ॥३२॥
देवाधिदेव भगवन् कामपाल नमोऽस्तु ते ॥
नमोऽनंताय शेषाय साक्षाद्‌रामाय ते नमः ॥३३॥
जयजयाच्युत देव परात्पर
     स्वयमनंतदिगंतगतश्रुते ॥
सुरमुनींद्रफणींद्रवराय ते
     मुसलिने बलिनै हलिने नमः ॥३४॥
श्रीनारद उवाच -
एवं स्तुतः पतंगेन बलभद्रो महाबलः ॥
प्रसन्नचेता गंधर्वं मा भैष्टेत्यभयं ददौ ॥३५॥
स्थापयित्वा बले कार्ष्णिं प्रणतं यादवेश्वरः ॥
यादवैः प्रस्तुतः शीघ्रं पुरीं द्वारावतीं ययौ ॥३६॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वसंतमालतीकर्षणं नाम षट्‍चत्वारिंशोऽध्यायः ॥४६॥