गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः १५

विकिस्रोतः तः

केकयविजयम्

श्रीनारद उवाच -
दिग्जयस्य मिषेणासौ भूभारं हारयन्मुहुः ॥
प्रद्युम्नो भगवान्साक्षादंगदेशं ततो ययौ ॥१॥
अंगेशोऽन्तःपुराधीशो गृहीतो यादवैर्वने ॥
सोऽपि तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥२॥
उड्डीशडामराधीशो बृहद्‌बाहुर्महाबलः ॥
न ददौ स बलिं तस्मै प्रद्युम्नाय मदोत्कटः ॥३॥
प्रद्युम्नप्रेषितो वीरः साम्बो जांबवतीसुतः ॥
एकाकी प्रययौ धन्वी रथेनादित्यवर्चसा ॥४॥
छादयामास बाणौघैर्डामरं नगरं नृप ॥
गिरिं तुषारपटलैर्जीमूत इव सर्वतः ॥५॥
तदा तु डामराधीशो धर्षितः सन्कृतांजलिः ॥
बलिं ददौ नमस्कृत्य प्रद्युम्नाय महात्मने ॥६॥
वंगदेशाधिपो वीरो वीरधन्वा मदोत्कटः ॥
आययौ संमुखे योद्धुमक्षौहिण्याऽऽवृतो बलि ॥७॥
चंद्रभानुर्हरेः पुत्रः प्रद्युम्नस्य प्रपश्यतः ॥
बिभेद तद्‌बलं बाणैः कुवाक्यैर्मित्रतामिव ॥८॥
करिणां बाणभिन्नानां शिरसो मौक्तिकानि च ॥
प्रस्फुरंति निपेतुः कौ रात्रौ तारागणा इव ॥९॥
निपेतू रथिनोऽनेका गजाश्वाश्च पदातयः ॥
तद्‌बाणैश्छिन्नशिरसः कूष्मांडशकला इव ॥१०॥
क्षणमात्रेण तत्सैन्यक्षतजानां नदी ह्यभूत् ॥
मनस्विनां हर्षकरी त्रस्तानां भयकारिणी ॥११॥
मुण्डैः कबंधैर्धावद्‌भिर्हरिकेयुरकुंडलैः ॥
किरीटैः कंकणैः शस्त्रैर्महामारीव भूर्बभौ ॥१२॥
कूष्माण्डोन्मादवेताला भैरवा ब्रह्मराक्षसाः ॥
शिरांसि जगृहुर्वेगाद्धरमालार्थहेतवे ॥१३॥
इत्थं निपातिते सैन्ये वीरधन्वा समागतः ॥
चंद्रभानुं तताडाशु गदया वज्रकल्पया ॥१४॥
तद्‌गदातिप्रहारेण न चचाल हरेः सुतः ॥
चंद्रभानुर्गदां नीत्वा तं तताड भुजांतरे ॥१५॥
गदाप्रहारव्यथितो मूर्छितो धरणीतले ॥
पपात पादप इव प्रोद्वमन् रुधिरं मुखात् ॥१६॥
लब्धसंज्ञो मुहूर्तेन वंगदेशाधिपो नृपः ॥
प्रययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥१७॥
याते दत्तबलौ राजन्नगरं वीरधन्वनि ॥
ब्रह्मपुत्रं समुत्तीर्य प्रद्युम्नोऽमितविक्रमः ॥१८॥
आशीमाधिपतिं बिंबं गृहीत्वा यादवेश्वरः ॥
बलिमादाय यदुभिः कामरूपं समाययौ ॥१९॥
कामरुपेश्वरः पुंड्र ऐंद्रजालविशारदः ॥
निर्गतः सेनया सार्द्धं योद्धुं प्रद्युम्नसंमुखे ॥ २०॥
आशीमानां यदूनां च घोरं युद्धं बभूव ह ॥
बाणैः कुठारैः परिघैः शूलैः खड्गर्ष्टिशक्तिभिः ॥२१॥
पुंड्रो विद्याश्चकाराशु पैशाचोरगराक्षसीः ॥
ततो गुह्यकगंधर्वाः सर्वतो मैथिलेश्वर ॥२२॥
प्रधावंतो रणे राजन्पिशाचाः पिशिताशनाः ॥
कोटिशः कोटिशोंऽगारान् क्षेपयंतो मुहुर्मुहुः ॥२३॥
क्षणमात्रेण तत्सैन्यं वमंतो गरलं मुखात् ॥
फूत्कारमपि कुर्वंतो दंदशूकाः समागताः ॥२४॥
खरारूढा दंतवक्रा ललज्जिह्वाभयंकराः ॥
चर्वयंतो नरान् युद्धे धावंतो राक्षसास्ततः ॥२५॥
यक्षाश्च सिंहवदना तुरंगवदना नृप ॥
छिंधि भिंधीति गर्जंतः शूलहस्ता इतस्ततः ॥२६॥
क्षणमात्रेण मेघानां समूहैश्छादितं नभः ॥
अंधकारो ह्यभूद्राजन् रजसा वातवेगतः ॥२७॥
भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥
भयं प्रापुर्महायुद्धे न्यस्तशस्त्रा यदूत्तमाः ॥२८॥
कृष्णदत्तं धनुः कार्ष्णिरादाय प्रतिकारवित् ॥
सत्त्वात्मिकां महाविद्यां बाणैः प्रायुङ्क्त मैथिल ॥२९॥
बाणैः पिशाचानुरगान् सयक्षान्
     रक्षांसि गंधर्वघनांधकारान् ॥
बिभेद दिव्यैः प्रभवैर्यथा हि
     नीहारमेघान् किरणैर्विवस्वान् ॥३०॥
बाणैश्च पुंड्रं सरथं सवाहनं
     तं भ्रामयित्वा घटिकाद्वयं खे ॥
निपातयामास रणे सपत्‍नं
     पद्मं पृथिव्यामिव मारुतः किल ।३१॥
बुद्धस्तदा तं शरणं समेत्य
     प्रधर्षितः सद्य उपायनानि ॥
लक्षैर्हयानामयुतैर्गजानां
     युतानि दत्त्वा प्रणनाम कार्ष्णिम् ॥३२॥
विपाशां स तदोत्तीर्य सैन्यैः शोणनदं नृप ॥
कैकयानाययौ धन्वी प्रद्युम्नो यदुनंदनः ॥३३॥
कैकयस्याधिपो राजा धृतकेतुर्महाबलः ॥
वसुदेवस्वसुः साक्षाच्छ्रुतकीर्तेः पतिर्महान् ॥३४॥
प्रद्युम्नमर्हयामास धृतकेतुः स यादवम् ॥
भक्त्या परमया राजञ्छ्रीकृष्णस्य प्रभाववित् ॥३५॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कैकयविजयो नाम पंचदशोऽध्यायः ॥१५॥