गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः १२
प्रद्युम्नस्य अगस्त्यात् उपदेशप्रार्थना
श्रीनारद उवाच -
अर्णवं दक्षिणं स्नात्वा प्रद्युम्नो यादवाधिपः ॥
उशीनरांस्ततो जेतुमाजगाम बलैः सह ॥१॥
कोटिशः कोटिशो गावो यत्र देशे चरंति हि ॥
गोपालमंडलैर्युक्ता व्रजंत्यो भव्यमूर्तयः ॥२॥
औशीनराः क्षीरपाना गौरवर्णा मनोहराः ॥
हय्यंगवीनमादाय ते ययुः कार्ष्णिसंमुखे ॥३॥
तैः पूजितः शम्बरारिर्ददौ तेभ्यो महाधनम् ॥
गजान् रथान् हयान् रत्नवस्त्रभूषादि हर्षितः ॥४॥
चंपावती नाम पुरी मणिरत्नसमन्विता ॥
विराजते यत्र नृपैः सर्पैर्भोगवती यथा ॥५॥
चंपावतीपतिर्वीरो नाम्ना हेमांगदो नृपः ॥
नीत्वा बलिं समेत्याशु श्रीकार्ष्णिं प्रणनाम ह ॥६॥
तस्मै तुष्टः शंबरारिर्मालां किंजल्किनीं ददौ ॥
सहस्रदलशोभाढ्यं पद्मं दिव्यं ददौ पुनः ॥७॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥
विदर्भान्प्रययौ धन्वी दुंदुभीन्नादयन्मुहुः ॥८॥
भीष्मकः कुंडिनपतिरागतं रुक्मिणीसुतम् ॥
आनीय पूजयामास ससैन्यं बहुभिर्धनैः ॥९॥
मातामहं ततो नत्वा रुक्मिणीनंदनो बली ॥
कुंतदेशांश्च दरदान्प्रययौ यादवेश्वरः ॥१०॥
मलयाचलपाटीरवायुभिः परिसेवितः ॥
श्रीखंडकेतकीपुष्पगंधाक्ते मलयाचले ॥११॥
अगस्त्यं मुनिशार्दूलं पीताब्धिं स ददर्श ह ॥
कृतांजलिपुटः कार्ष्णिर्नमस्कृत्य महामुनिम् ॥
स्थितोऽभूदुटजे साक्षादाशीर्भिरभिनंदितः ॥१२॥
श्रीप्रद्युम्न उवाच -
दृश्यं पदार्थ तु जगत्सत्यवद्वर्तते कथम् ॥
मुक्तो ब्रह्मांशको भूत्वा बद्ध्यतेऽयं कथं गुणैः ॥१३॥
एतत्प्रश्नं मम ब्रूहि नितरां मुनिसत्तम ॥
त्वं सर्वविद्दिव्यचक्षुः सर्वब्रह्मविदां वरः ॥१४॥
अगस्त्य उवाच -
त्वं साक्षात्कृष्णचंद्रस्य परिपूर्णतमस्य च ॥
पुत्रोऽसि पृच्छसे मां वै लीलामात्रमिदं वचः ॥१५॥
लोकसंग्रहमेवार्थं कुर्वन्देवो हरिर्यथा ॥
तथा नृणां च कल्याणं कुर्वन्विचरसि प्रभो ॥१६॥
यथा सत्यस्य सूर्यस्य बिंबं वारिषु सत्यवत् ॥
दृश्यते सत्यवद्दृश्यं प्रधानपरयोस्तथा ॥१७॥
काचे मुखं गुणे सर्पं सैकते जीवनं यथा ॥
तथायं सन्देहगुणैर्बद्ध्यते प्रेक्षता स्वयम् ॥१८॥
प्रद्युम्न उवाच -
कथं न बद्ध्यते देही येनोपायेन तद्वद ॥
वैराग्येण दृढेनापि ब्रूहि ब्रह्मविदां वर ॥१९॥
अगस्त्य उवाच -
विवेकं यः समाश्रित्य भजेद्ब्रह्म सनातनम् ॥
मनोमयं जगन्मत्त्वा स व्रजेत्परमं पदम् ॥२०॥
जन्ममृत्यू शोकमोहौ जराबालयुवादयः ॥
अहं मदो व्याधिभयं दुःखं शोकः क्षुधा रतिः ॥२१॥
आधिर्भयं तस्य राजन्न भवेत कदाचन ॥
आत्मा निरीहो ह्यतनुः सर्वतश्चानहंकृतिः ॥
शुद्धो गुणाश्रयः साक्षात्परो निष्कल आत्मदृक् ॥२२॥
ज्ञानात्मकः सदा पूर्णो विदितो यो मुनीश्वरैः ॥
तं ब्रह्म परमात्मनं ज्ञात्वायं विचरेत्सुखी ॥२३॥
अस्मिञ्छयाने जागर्ति सर्वं पश्यति यः पुमान् ॥
नायं तं वेत्ति पश्यंतं न पश्यति कदाचन ॥२४॥
नभोऽग्निपवनाः कोष्ठकाष्ठप्रोद्गतरेणुभिः ॥
न सज्जंते गुणैर्ब्रह्म वर्णश्च स्फटिको यथा॥२५॥
लक्षणाभिर्ध्वनिव्यंग्यैर्ज्ञायते न कदाचन ॥
कुतस्तु लौकिकैर्वाक्यैस्तस्मै श्रीब्रह्मणे नमः ॥२६॥
केचित्कर्म वदंत्येनं केचित्कालं तथाऽपरे ॥
कर्तारं योगमपरे सांख्यं ब्रह्म वदंति कम् ॥२७॥
केचित्तं परमात्मानं वासुदेवं वदंति के ॥
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ॥२८॥
विचार्य तद्ब्रह्म परं निःसंगो विचरेदिह ॥
यथांभसा प्रचलता तरवोऽपि चला इव ॥२९॥
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥
तथा गुणानां भ्रमणो भ्रमता मनसा यतः ॥३०॥
भ्राम्यमाणः सदा राजन्करेणालातचक्रवत् ॥
करिष्यामि करोमीति ममेदं तव चाब्रुवन् ॥
त्वमहं च सुखी दुःखी सदाज्ञानविमोहितः ॥३१॥
सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ॥
तैरिदं जगदाव्याप्तमोतप्रोतपटं यथा ॥३२॥
ऊर्ध्वं गच्छंति सत्वस्था मध्ये तिष्ठंति राजसाः ॥
जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ॥३३॥
अंधकारे गुणात्कार्ष्णे सर्पबुद्धिर्भवेद्यथा ॥
आरान्मरीचिकां वारि तथेदं मन्यते जगत् ॥३४॥
गतागतं सुखं विद्धि यथा मंडलवर्तिनाम् ॥
तथा नॄणां च तद्दुःखं यथा नरकवासिनाम् ॥
घनावलिर्देहगुणा अहोरात्रमृतेर्यथा ॥३५॥
यथा सार्थं तथा दृश्यं न किंचित्सर्वदैव हि ॥
पक्षे जाते यथा नीडात्पारे याते यथोडुपात् ॥३६॥
ज्ञाने प्राप्ते तथा लोकाद्दर्पणात्किं प्रयोजनम् ॥
तथा मार्गं निधायाशु विचरेत्समदृङ्मुनिः ॥३७॥
यथेन्दुरुदपात्रेषु यथाऽग्निः काष्ठसंचये ॥
तथैको भगवान्साक्षात्परमात्मा व्यवस्थितः ॥३८॥
घटे मठे यथाऽऽकाशो वर्ततेऽन्तर्बहिर्महान् ॥
तथा परात्मा निर्लिप्तो देहिषु स्वकृतेषु च ॥३९॥
यः कृष्णभक्तः शांतात्मा ज्ञाननिष्ठो विरागवान् ॥
तं न स्पृशंतीह गुणाः कानीव बिसिनीदलम् ॥४०॥
ज्ञानी सदानंदमयो बालवद्विचरेत्तनुम् ॥
न पश्यति धृतं वासो मदिरामदमत्तवत् ॥४१॥
सूर्योदये यथा वस्तु गृहे राजन् प्रदृश्यते ॥
दूरीकृत्य तथाज्ञानं साक्षात्तत्त्वं ततो बृहत् ॥४२॥
यथेन्द्रियं पृथग्द्वारैरर्थो बहुगुणाश्रयः ॥
नानेयते तथा ब्रह्म वाचिभिः शास्त्रवर्त्मभिः ॥४३॥
परं पदं वदंत्येतत्केचिद्वै वैष्णवं नृप ॥
केचिद्वै व्याप्य वैकुंठं शांतं केऽपि ततः परम् ॥४४॥
कैवल्यं तद्ब्रह्म केचित्परमं धाम चाव्ययम् ॥
अक्षरं च परां काष्ठां गोलोकं प्रकृतेः परम् ॥४५॥
केचिन्निकुंजं विशदं वदन्तीह पुराविदः ॥
ज्ञानवैराग्यभक्तिभ्यः प्राप्नोतीह न चान्यतः ॥४६॥
श्रीकृष्णचण्द्रस्य हरेः परस्य
कैवल्यनाथस्य परात्परस्य ॥
व्रजेत्पदं श्रीपुरुषोत्तमस्य
यत्प्राप्य भक्तो न निवर्ततेऽथ ॥४७॥
श्रीनारद उवाच -
इति भागवतं ज्ञानं श्रुत्वा कार्ष्णिर्महामुनिम् ॥
अगस्त्यं पूजयामास भक्त्या नत्वा कृतांजलिः ॥४८॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे उशीनरविदर्भकुंतदरददेशविजये अगस्त्यकार्ष्णिज्ञानप्रस्तावो नाम द्वादशोऽध्यायः ॥१२॥