गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः २७
दशार्णदेशविजयम्
श्रीनारद उवाच -
हरिवर्षं नाम खण्डं सर्वसंपत्तिसंयुतम् ॥
तस्य सीमागिरिः साक्षान्निषधो नाम मैथिल ॥१॥
वीरकोदंडटंकारघोषैर्व्याप्तवनांतरात् ॥
उड्डीतास्तु महागृध्राः क्रोशमात्रवपुर्धराः ॥२॥
तीक्ष्णतुंडाः सगरुडाः सर्वे दीर्घायुषो नृप ॥
अग्रसन्सैनिकान्नगान्हयांस्तेऽपि बुभुक्षिताः ॥३॥
आकाशे पक्षिभिर्व्याप्ते जाते पक्षप्रभंजने ॥
सेनायामंधकारेण हाहाकारो महानभूत् ॥४॥
तदा कार्ष्णिर्महाबाहुस्तार्क्ष्यमस्त्रं समादधे ॥
तद्बाणान्निर्गतः साक्षाद्वैनतेनयः खगेश्वरः ॥५॥
सेनायामंधकारेण व्याप्तायां पतगेश्वरः ॥
कांश्चित्तुंडप्रहारेण कांश्चित्पक्षैः स्फुरत्प्रभैः ॥६॥
गृध्रान्कुलिंगान्गरुडो पातयामास भूतले ॥
भग्नदर्पाश्छिन्नपक्षा भक्षिताः पक्षिणश्च ते ॥७॥
भयातुरा दुद्रुवस्ते तार्क्ष्येणापि दिशो दश ॥
ततः कार्ष्णिर्महाबाहुर्दशार्णान् विषयान् ययौ ॥८॥
दशार्णदेशाधिपतिः शुभांगः सूर्यवंशजः ॥
नागायुतसमो युद्धे निष्कौशांबीपुरीपतिः ॥९॥
वेदव्यासमुखाच्छ्रुत्वा प्रद्युम्नं चंडपौरुषम् ॥
दशार्णां तां नदीं दीर्घां समुत्तीर्य समाययौ ॥१०॥
कृतांजलिः शुभांगोऽसौ किरीटेन नताननः ॥
ददौ बलिं सुरत्नानां प्रद्युम्नाय महात्मने ॥११॥
प्रद्युम्नो भगवान् साक्षात्सर्वगः सर्वदर्शनः ॥
पप्रच्छेदं शुभांगं तं लोकसंग्रहकाम्यया ॥१२॥
प्रद्युम्न उवाच -
दशार्णोऽयं कथं देशः केन नाम्ना बभूव ह ॥
एतन्मे ब्रूहि हे राजन्निष्कौशांबीपुरीपते ॥१३॥
शुभांग उवाच -
हिरण्यकशिपुं हत्वा नृसिंहो भगवान्पुरा ॥
प्रह्लादेन त्विहागत्य हरिवर्षे स्थितोऽभवत् ॥१४॥
प्रह्लादं भगवान्प्राह नृसिंहो भक्तवत्सलः ॥
नृसिंह उवाच -
शांतस्य तव भक्तस्य मया पुत्र पिता हतः ॥
तस्मान्न घातयिष्यामि वंशं ते हि महामते ॥१५॥
शुभांग उवाच -
इति प्रवदतोऽक्षिभ्यामानंदजलबिंदवः ॥
पतिता कौ च तै राजन् सरोऽभून्मंगलायनम् ॥१६॥
तदा प्राप्तवरो राजन् प्रह्लादो हर्षविह्वलः ॥
नृसिंहं प्राह धर्मात्मा नत्वा भूत्वा कृतांजलिः ॥१७॥
प्रह्लाद उवाच -
मातुः पितुर्मया सेवा न कृता सात्वतांपते ॥
ऋणात्तयोः कथं मुच्ये वदैतत्परमेश्वर ॥१८॥
नृसिंह उवाच -
मन्नेत्रजलसंभूते तीर्थे वै मंगलायने ॥
स्नानं कुरु महाभाग मुच्यसे दशभिर्ऋणैः ॥१९॥
मातुः पितुश्च भार्यायाः सुतानां गुरुदेवयोः ॥
विप्राणां च प्रपन्नानामृषीणां पितृणामृणम् ॥२०॥
यः स्नास्यति महातीर्थे सर्वहेलनतत्परः ॥
ऋणैश्च दशभिः सोऽपि मुच्यते नात्र संशयः ॥२१॥
शुभांग उवाच -
दशार्णमोचने तीर्थे स्नात्वा कायाधवोऽनृणी ॥
भूत्वाद्यापि समायाति स्नातुं तन्निषधाद्गिरेः ॥२२॥
दशार्णमोचने तीर्थे दशार्णो देश उच्यते ॥
तत्स्रोतःसु समुद्भूता दशार्णेयं नदी स्मृता ॥२३॥
श्रीनारद उवाच -
तच्छ्रुत्वा भगवान्कार्ष्णिः सर्वैः परिचरैः सह ॥
दशार्णमोचने तीर्थे दानं स्नानं चकार ह ॥२४॥
दशार्णमोचनस्यापि कथां यः शृणुयान्नृप ॥
ऋणैश्च दशभिः सोऽपि मुच्यते मुक्तिभाग्भवेत् ॥२५॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे दशार्णदेशविजयो नाम सप्तविंशोऽध्यायः ॥२७॥