गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः ०२ गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०३
गर्गमुनि
अध्यायः ०४ →

गिरिराजखण्ड - तृतीयोऽध्यायः

इन्द्रयज्ञभङ्गं तथा गोवर्धनधारणम् -

श्रीनारद उवाच -
अथ मन्मुखतः श्रुत्वा स्वात्मयागस्य नाशनम् ।
 गोवर्धनोत्सवं जातं कोपं चक्रे पुरन्दरः ॥ १ ॥
 सांवर्तकं नाम गणं प्रलये मुक्तबंधनम् ।
 इन्द्रो व्रजविनाशाय प्रेषयामास सत्वरम् ॥ २ ॥
 अथ मेघगणाः क्रुद्धा ध्वनंतश्चित्रवर्णिनः ।
 कृष्णाभाः पीतभाः केचित्केचिच्च हरितप्रभाः ॥ ३ ॥
 इन्द्रगोपनिभाः केचित्केचित्कर्पूरवत्प्रभाः ।
 नानाविधाश्च ये मेघा नीलपंकजसुप्रभाः ॥ ४ ॥
 हस्तितुल्यान्वारिबिन्दून् ववृषुस्ते मदोद्धताः ।
 हस्तिशुंडासमाभिश्च धाराभिश्चंचलाश्च ये ॥ ५ ॥
 निपेतुः कोटिशश्चाद्रिकूटतुल्योपला भृशम् ।
 वाता ववुः प्रचण्डाश्च क्षेपयन्तस्तरून् गृहान् ॥ ६ ॥
 प्रचण्डा वज्रपातानां मेघानामन्तकारिणाम् ।
 महाशब्दोऽभवद्‌भूमौ मैथिलेन्द्र भयंकरः ॥ ७ ॥
 ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ।
 विचेलुर्दिग्गजास्तारा ह्यपतन्भूमिमण्डलम् ॥ ८ ॥
 भयभीता गोपमुख्याः सकुटुम्बा जिगीषवः ।
 शिशुन्स्वान्स्वान्पुरस्कृत्य नन्दमन्दिरमाययुः ॥ ९ ॥
 श्रीनन्दनन्दनं नत्वा सबलं परमेश्वरम् ।
 उचुर्व्रजौकसः सर्वे भयार्ताः शरणं गताः ॥ १० ॥
 गोपा उचुः -
राम राम महाबाहो कृष्ण कृष्ण व्रजेश्वर ।
 पाहि पाहि महाकष्टादिन्द्रदत्तान्निजान्जनान् ॥ ११ ॥
 हित्वेन्द्रयागं त्वद्वाक्यात्कृतो गोवर्धनोत्सवः ।
 अद्य शक्रे प्रकुपिते कर्तव्यं किं वदाशु नः ॥ १२ ॥
 श्रीनारद उवाच -
व्याकुलं गोकुलं वीक्ष्य गोपीगोपालसंकुलम् ।
 सवत्सकं गोकुलं च गोपानाह निराकुलः ॥ १३ ॥
 श्रीभगवानुवाच -
मा भैष्ट याताद्रितटं सर्वैः परिकरैः सह ।
 वः पूजा प्रहृता येन स रक्षां संविधास्यति ॥ १४ ॥
 श्रीनारद उवाच -
इत्युक्त्वा स्वजनैः सार्द्धमेत्य गोवर्धनं हरिः ।
 समुत्पाट्य दधाराद्रिं हस्तेनैकेन लीलया ॥ १५ ॥
 यथोच्छिलींध्रं शिशुरश्रमो गजः
     स्वपुष्करेणैव च पुष्करं गिरिम् ।
 धृत्वा बभौ श्रीव्रजराजनन्दनः
     कृपाकरोऽसौ करुणामयः प्रभुः ॥ १६ ॥
 अथाह गोपान्विशताद्रिगर्तं
     हे तात मातर्व्रजवल्लभेशाः ।
 सोपस्करैः सर्वधनैश्च गोभि-
     रत्रैव शक्रस्य भयं न किंचित् ॥ १७ ॥
 इत्थं हरेर्वचः श्रुत्वा गोपा गोधनसंयुताः ।
 सकुटुम्बोपस्करैश्च विविशुः श्रीगिरेस्तलम् ॥ १८ ॥
 वयस्या बालकाः सर्वे कृष्णोक्ताः सबला नृप ।
 स्वान्स्वांश्च लगुडानद्रेरवष्टंभान्प्रचक्रिरे ॥ १९ ॥
 जलौघमागतं वीक्ष्य भगवांस्तद्‌गिरेरधः ।
 सुदर्शनं तथा शेषं मनसाऽऽज्ञां चकार ह ॥ २० ॥
 कोटिसूर्यप्रभं चाद्रेरूर्ध्वं चक्रं सुदर्शनम् ।
 धारासंपातमपिबदगस्त्य इव मैथिल ॥ २१ ॥
 अधोऽधस्तं गिरेः शेषः कुण्डलीभूत आस्थितः ।
 रुरोध तज्जलं दीर्घं यथा वेला महोदधिम् ॥ २२ ॥
 सप्ताहं सुस्थिरस्तस्थौ गोवर्धनधरो हरिः ।
 श्रीकृष्णचंद्रं पश्यंतश्चकोरा इव ते स्थिताः ॥ २३ ॥
 मत्तमैरावतं नागं समारुह्य पुरन्दरः ।
 ससैन्यः क्रोधसंयुक्तो व्रजमण्डलमाययौ ॥ २४ ॥
 दूराच्चिक्षेप वज्रं स्वं नंदगोष्ठजिघांसया ।
 स्तंभयामास शक्रस्य सवज्रं माधवो भुजम् ॥ २५ ॥
 भयभीतस्तदा शक्रः सांवर्तकगणैः सह ।
 दुद्राव सहसा देवैर्यथेभः सिंहताडितः ॥ २६ ॥
 तदैवार्कोदयो जातो गता मेघा इतस्ततः ।
 वाता उपरताः सद्यो नद्यः स्वल्पजला नृप ॥ २७ ॥
 विपंकं भूतलं जातं निर्मलं खं बभूव ह ।
 चतुष्पदाः पक्षिणश्च सुखमापुस्ततस्ततः ॥ २८ ॥
 हरिणोक्तास्तदा गोपा निर्ययुर्गिरिगर्ततः ।
 स्वं स्वं धनं गोधनं च समादाय शनैः शनैः ॥ २९ ॥
 निर्यातेति वयस्यांश्च प्राह गोवर्धनोद्धरः ।
 ते तमाहुश्च निर्गच्छ धारयामोऽद्रिमोजसा ॥ ३० ॥
 इति वादपरान् गोपान् गोवर्धनधरो हरिः ।
 तदर्द्धं च गिरेर्भारं प्रादात्तेभ्यो महामनाः ॥ ३१ ॥
 पतितास्तेन भारेण गोपबालाश्च निर्बलाः ॥ ३२ ॥
 करेण तान् समुत्थाप्य स्वस्थाने पूर्ववद्‌गिरिम् ।
 सर्वेषां पश्यतां कृष्णः स्थापयामास लीलया ॥ ३३ ॥
 तदैव गोपीगणगोपमुख्याः
     सम्पूज्य कृष्णं नृप नन्दसूनुम् ।
 गन्धाक्षताद्यैर्दधिदुग्धभोगै-
     र्ज्ञात्वा परं नेमुरतीव सर्वे ॥ ३४ ॥
 नन्दो यशोदा नृप रोहिणी च
     बलश्च सन्नन्दमुखाश्च वृद्धाः।
 आलिंग्य कृष्णं प्रददुर्धनानि
     शुभाशिषा संयुयुजुर्घृणार्ताः ॥ ३५ ॥
 संश्लाघ्य तं गायनवाद्यतत्परा
     नृत्यन्त आरान्नृप नन्दनन्दनम् ।
 आजग्मुरेव स्वगृहान्व्रजौकसो
     हरिं पुरस्कृत्य मनोरथं गताः ॥ ३६ ॥
 तदैव देवा ववृषुः प्रहर्षिताः
     पुष्पैः शुभैः सुन्दरनन्दनोद्‌भवैः ।
 जगुर्यशः श्रीगिरिराजधारिणो
     गन्धर्वमुख्या दिवि सिद्धसङ्घाः ॥ ३७ ॥


इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गोवर्धनोद्धरणं नाम तृतीयोऽध्यायः ॥ ३ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥