गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०१

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः) गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०१
गर्गमुनि
अध्यायः ०२ →

गिरिराजखण्ड - प्रथमोऽध्यायः

श्रीगिरिराजपूजाविधिवर्णनम् -

बहुलाश्व उवाच -
कथं दधार भगवान् गिरिं गोवर्धनं वरम् ।
 उच्छिलींध्रं यथा बालो ह्स्तेनैकेन लीलया ॥ १ ॥
 परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः ।
 वदैतच्चरितं दिव्यमद्‌भुतं मुनिसत्तम ॥ २ ॥
 श्रीनारद उवाच -
वार्षिकं हि करं राज्ञे यथा शक्राय वै तथा ।
 बलिं ददुः प्रावृडन्ते गोपाः सर्वे कृषीवलाः ॥ ३ ॥
 महेन्द्रयागसंभारचयं दृष्ट्वैकदा हरिः ।
 नन्दं पप्रच्छ सदसि वल्लभानां च शृण्वताम् ॥ ४ ॥
 श्रीभगवानुवाच -
शक्रस्य पूजनं ह्येतत्किं फलं चास्य विद्यते ।
 लौकिकं वा वदन्त्येतदथवा पारलौकिकम् ॥ ५ ॥
 श्रीनन्द उवाच -
शक्रस्य पूजनं ह्येतद्‌भुक्तिमुक्तिकरं परम् ।
 एतद्विना नरो भूमौ जायते न सुखी क्वचित् ॥ ६ ॥
 श्रीभगवानुवाच -
शक्रादयो देवगणाश्च सर्वतो
     भुंजन्ति ये स्वर्गसुखं स्वकर्मभिः ।
 विशन्ति ते मर्त्यपदं शुभक्षये
     तत्सेवनं विद्धि न मुक्तिकारणम् ॥ ७ ॥
 भयं भवेद्वै परमेष्ठिने यतो
     वार्ता तु का कौ किल तत्कृतात्मनाम् ।
 तस्मात्परं कालमनंतमेव हि
     सर्वं बलिष्ठं सुबुधा विदुः परे ॥ ८ ॥
 ततस्तमाश्रित्य सुकर्मभिः परं
     भजेद्धरिं यज्ञपतिं सुरेश्वरम् ।
 विसृज्य सर्वं मनसा कृतेः फलं
     व्रजेत्परं मोक्षमसौ न चान्यथा ॥ ९ ॥
 गोविप्रसाध्वग्निसुराः श्रुतिस्तथा
     धर्मश्च यज्ञाधिपतेर्विभूतयः ।
 धिष्ण्येषु चैतेषु हरिं भजन्ति ये
     सदा त्विहामुत्र सुखं व्रजन्ति ते ॥ १० ॥
 समुत्थितोऽसौ हरिवक्षसो गिरि-
     र्गोवर्धनो नाम गिरीन्द्रराजराट् ।
 समागतो ह्यत्र पुलस्त्यतेजसा
     यद्दर्शनाज्जन्म पुनर्न विद्यते ॥ ११ ॥
 सम्पूज्य गोविप्रसुरान्महाद्रये
     दातव्यमद्यैव परं ह्युपायनम् ।
 एष प्रियो मे मखराज एव हि
     न चेद्यथेच्छास्ति तथा कुरु व्रज ॥ १२ ॥
 श्रीनारद उवाच -
तेषां मध्येऽथ सन्नन्दो गोपो वृद्धोऽतिनीतिवित् ।
 अतिप्रसन्नः श्रीकृष्णमाह नन्दस्य शृण्वतः ॥ १३ ॥
 सनंद उवाच -
हे नन्दसूनो हे तात त्वं साक्षाज्ज्ञानशेवधिः ।
 कर्तव्या केन विधिना पूजाऽद्रेर्वद तत्त्वतः ॥ १४ ॥
 श्रीभगवानुवाच -
आलिप्य गोमयेनापि गिरिराजभुवं ह्यधः ।
 धृत्वाऽथ सर्वसम्भारं भक्तियुक्तो जितेन्द्रियः ॥ १५ ॥
 सहस्रशीर्षामंत्रेणाद्रये स्नानं च कारयेत् ।
 गंगाजलेन यमुनाजलेनापि द्विजैः सह ॥ १६ ॥
 शुक्लगोदुग्धधाराभिस्ततः पञ्चामृतैर्गिरिम् ।
 स्नापयित्वा गन्धपुष्पैः पुनः कृष्णाजलेन वै ॥ १७ ॥
 वस्त्रं दिव्यं च नैवेद्यमासनं सर्वतोऽधिकम् ।
 मालालंकारनिचयं दत्त्वा दीपावलिं पराम् ॥ १८ ॥
 ततः प्रदक्षिणां कुर्यान्नमस्कुर्यात्ततः परम् ।
 कृतांजलिपुटो भूत्वा त्विदमेतदुदीरयेत् ॥ १९ ॥
 नमो वृन्दावनाङ्काय तुभ्यं गोलोकमौलिने ।
 पूर्णब्रह्मातपत्राय नमो गोवर्धनाय च ॥ २० ॥
 पुष्पांजलिं ततः कुर्यान्नीराजनमतः परम् ।
 घण्टकांस्यमृदङ्गाद्यैर्वादित्रैर्मधुरस्वनैः ॥ २१ ॥
 वेदाहमेतं मंत्रेण वर्षलाजैः समाचरेत् ।
 तत्समीपे चान्नकूटं कुर्याच्छ्रद्धासमन्वितः ॥ २२ ॥
 कचोलानां चतुःषष्टिपञ्चपंक्तिसमन्वितम् ।
 तुलसीदलमिश्रैश्च श्रीगंगायमुनाजलैः ॥ २३ ॥
 षट्पञ्चाशत्तमैर्भागैः कुर्यात्सेवां समाहितः ।
 ततोऽग्नीन् ब्राह्मणान्पूज्य गाः सुरान् गन्धपुष्पकैः ॥ २४ ॥
 भोजयित्वा द्विजवरान् सौगंधैर्मिष्टभोजनैः ।
 अन्येभ्यश्चाश्वपाकेभ्यो दद्याद्‌भोजनमुत्तमम् ॥ २५ ॥
 गोपीगोपालवृन्दैश्च गवां नृत्यं च कारयेत् ।
 मंगलैर्जयशब्दैश्च कुर्याद्‌गोवर्द्धनोत्सवम् ॥ २६ ॥
 यत्र गोवर्धनाभावस्तत्र पूजाविधिं शृणु ।
 गोमयैर्वर्द्धनं कुर्यात्तदाकारं परोन्नतम् ॥ २७ ॥
 पुष्पव्यूहैर्लताजालैरिषिकाभिः समन्वितः ।
 पूजनीयः सदा मर्त्यैर्गिरिर्गोवर्धनो भुवि ॥ २८ ॥
 शिलासमानं पुरटं क्षिप्त्वाऽद्रौ तच्छिलां नयेत् ।
 गृह्णीयाद्यो विना स्वर्णं स महारौरवं व्रजेत् ॥ २९ ॥
 शालग्रामस्य देवस्य सेवनं कारयेत्सदा ।
 पातकं न स्पृशेत्तं वै पद्मपत्रं यथा जलम् ॥ ३० ॥
 गिरिराजशिलासेवां यः करोति द्विजोत्तमः ।
 सप्तद्वीपमहीतीर्थावगाहफलमेति सः ॥ ३१ ॥
 गिरिराजमहापूजां वर्षे वर्षे करोति यः ।
 इह सर्वसुखं भुक्त्वाऽमुत्र मोक्षं प्रयाति सः ॥ ३२ ॥


इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारद बहुलाश्व संवादे
श्रीगिरिराजपूजाविधिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥