सामग्री पर जाएँ

शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः १८

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ।।
मोहकस्समधोश्चादौ धर्मं विस्तारयन्स्थितः ।। १ ।।
वसंतस्य च यो धर्म्मः प्रससार स सर्वतः ।।
तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ।। २ ।।
वनानि च प्रफुल्लानि पादपानां महामुने ।।
आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ।। ३ ।।
पुष्पाणि सहकाराणामशोकवनिकासु वै ।।
विरेजुस्सुस्मरोद्दीपकाराणि सुरभीण्यपि ।।४।।
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।।
बभूबुर्मदनावेशकराणि च विशेषतः ।। ५ ।।
सकामोद्दीपनकरं कोकिलाकलकूजितम् ।।
आसीदति सुरम्यं हि मनोहरमतिप्रियम् ।। ६ ।।
भ्रमराणां तथा शब्दा विविधा अभवन्मुने ।।
मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ।। ७ ।।
चंद्रस्य विशदा कांतिर्विकीर्णा हि समंतत ।।
कामिनां कामिनीनां च दूतिका इव साभवत् ।। ८ ।।
मानिनां प्रेरणायासीत्तत्काले कालदीपिका ।।
मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ।। ९ ।।
एवं वसंतविस्तारो मदनावेशकारकः ।।
वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत् ।। 2.3.18.१० ।।
अचेतसामपि तदा कामासक्तिरभून्मुने ।।
सुचेतासां हि जीवानां सेति किं वर्ण्यते कथा।।१ १ ।।
एवं चकार स मधुस्स्वप्रभावं सुदुस्सहम्।।
सर्वेषा चैव जीवानां कामोद्दीपनकारकः ।।१२।।
अकालनिमितं तात मधोर्वीक्ष्य हरस्तदा ।।
आश्चर्य्यं परमं मेने स्वलीलात्ततनुः प्रभुः ।। १३ ।।
अथ लीलाकरस्तत्र तपः परमदुष्करम् ।।
तताप स वशीशो हि हरो दुःखहरः प्रभुः ।। १४ ।।
वसंते प्रसृते तत्र कामो रतिसमन्वितः ।।
चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ।। १५ ।।
स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ।।
रत्यायुक्तं तदा कामं दृष्ट्वा को वा न मोहितः ।। १६ ।।
एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैस्सह ।।
हावभावयुतस्तत्र प्रविवेश हरांतिकम् ।। १७ ।।
मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ।।
न दृष्टवांस्तदा शंभोश्छिद्रं येन प्रविश्यते ।।१८।।
यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ।।
महादेवस्तदा सोऽभून्महाभयविमोहितः ।। १९ ।।
ज्वलज्ज्वालाग्निसंकाशं भालनेत्रसमन्वितम् ।।
ध्यानस्थं शंकरं को वा समासादयितुं क्षमः ।। 2.3.18.२० ।।
एतस्मिन्नंतरे तत्र सखीभ्यां संयुता शिवा ।।
जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ।। २१ ।।
पृथिव्यां यादृशं लोकैस्सौंदर्यं वर्ण्यते महत् ।।
तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ।। ।। २२ ।।
आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ।।
तत्सौंदर्यं कथं वर्ण्यमपि वर्षशतैरपि ।।२३।।
यदा शिवसमीपे तु गता सा पर्वतात्मजा ।।
तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ।।२४।।
तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।।
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ।। २५ ।।
शृंगारैश्च तदा भावैस्सहिता पार्वती हरम् ।।
जगाम कामसाहाय्ये मुने सुरभिणा सह ।। २६ ।।
तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ।।
द्रुतं पुष्पशरं तस्मै स्मरोऽमुंचत्सुसंयतः ।। २७ ।।
यथा निरंतरं नित्यमागच्छति तथा शिवम् ।।
तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ।।२८।।
सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ।।
विवृण्वती तदांगानि स्त्रीस्वभावात्सुलज्जया ।। २९ ।।
सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ।।
शिवोपि वर्णयामास तदंगानि मुदा मुने ।। 2.3.18.३० ।।
शिव उवाच ।।
कि मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ।।
 भ्रुकुट्यौ धनुषी चैते कंदर्पस्य महात्मनः ।।३१ ।।
अधरः किं च बिंबं किं किं नासा शुकचंचुका ।।
किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ।। ३२ ।।
किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ।।
पुष्पाणि किं च वर्ण्यंते वस्त्राणि च तथा पुनः ।।३३।।
लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ।।
सर्वथा रमणीयानि सर्वांगानि न संशयः ।।३४।।
अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ।।
एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी।।३५।।
सुलावण्यानिधिश्चेयमद्भुतांगानि बिभ्रती ।।
विमोहिनी मुनीनां च महासुखविवर्द्धिनी ।। ३६ ।।
।। ब्रह्मोवाच ।।
इत्येवं वर्णयित्वा तु तदंगानि मुहुर्मुहुः ।।
विधिदत्तवराध्यासाद्धरस्तु विरराम ह ।।३७।।
हस्तं वस्त्रांतरे यावदचालयत शंकरः ।।
स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ।। ३८।।
विवृण्वती निजांगानि पश्यंती च मुहुर्मुहुः ।।
सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ।।३९।।
एवं चेष्टां तदा दृष्ट्वा शंभुर्मोहमुपागतः।।
उवाच वचनं चैवं महालीलो महेश्वरः ।।2.3.18.४०।।
अस्या दर्शनमात्रेण महानंदो भवत्यलम् ।।
यदालिंगनमेनस्याः कुर्य्यां किन्तु ततस्सुखम् ।। ४१ ।।
क्षणमात्रं विचार्य्येत्थं संपूज्य गिरिजां ततः ।।
प्रबुद्धस्य महायोगी सुविरक्तो जगाविति ।। ४२ ।।
किं जातं चरितं चित्रं किमहं मोहमागतः ।।
कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ।। ४३ ।।
ईश्वरोहं यदीच्छेयं परांगस्पर्शनं खलु।।
तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ।।४४।।
एवं वैराग्यमासाद्य पर्य्यंकासादनं च तत्।।
वारयामास सर्वात्मा परेशः किं पतेदिह ।।४५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये पार्वतीखण्डे कामकृतविकारवर्णननामाष्टादशोऽध्यायः।।१८।।