गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः ११
गर्गमुनि
गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः) →

गिरिराजखण्ड - एकादशोऽध्यायः

गिरिराजप्रभाववर्णने सिद्धमोक्षवर्णनम् -


श्रीनारद उवाच -
इति श्रुत्वा सिद्धवाक्यं ब्राह्मणो विस्मयं गतः।
 पुनः पप्रच्छ तं राजन् गिरिराजप्रभाववित् ॥ १ ॥
 ब्राह्मण उवाच -
पुरा जन्मनि कस्त्वं भोस्त्वया किं कलुषं कृतम् ।
 सर्वं वद महाभाग त्वं साक्षाद्दिव्यदर्शनः ॥ २ ॥
 सिद्ध उवाच -
पुरा जन्मनि वैश्योऽहं धनी वैश्यसुतो महान् ।
 आबाल्याद्द्युतनिरतो विटगोष्ठीविशारदः ॥ ३ ॥
 वेश्यारतः कुमार्गोऽहं मदिरामदविह्वलः ।
 मात्रा पित्रा भार्ययापि भर्त्सितोऽहं सदा द्विज ॥ ४ ॥
 एकदा तु मया विप्र पितरौ गरदानतः ।
 मारितौ च तथा भार्या खड्‍गेन पथि मारिता ॥ ५ ॥
 गृहीत्वा तद्धनं सर्वं वेश्यया सहितः खलः ।
 दक्षिणाशां च गतवान् दस्युकर्माऽतिनिर्दयः ॥ ६ ॥
 एकदा तु मया वेश्या निःक्षिप्ता ह्यंधकूपके ।
 दस्युना हि मया पाशैर्मारिताः शतशो नराः ॥ ७ ॥
 धनलोभेन भो विप्र ब्रह्महत्याशतं कृतम् ।
 क्षत्रहत्या वैश्यहत्याः शूद्रहत्याः सहस्रशः ॥ ८ ॥
 एकदा मांसमानेतुं मृगान् हन्तुं वने गतम् ।
 सर्पोऽदशत्पदा स्पृष्टो दुष्टं मां निधनं गतम् ॥ ९ ॥
 संताड्य मुद्‌गरैर्घोरैर्यमदूता भयंकराः ।
 बद्‌ध्वा मां नरकं निन्युर्महापातकिनं खलम् ॥ १० ॥
 मन्वन्तरं तु पतितः कुम्भीपाके महाखले ।
 कल्पैकं तप्तसूर्मौ च महादुःखं गतः खलः ॥ ११ ॥
 चतुरशीतिलक्षाणां नरकाणां पृथक् पृथक् ।
 वर्षं वर्षं निपतितो निर्गतोऽहं यमेच्छया ॥ १२ ॥
 ततस्तु भारते वर्षे प्राप्तोऽहं कर्मवासनाम् ।
 दशवारं सूकरोऽहं व्याघ्रोऽहं शतजन्मसु ॥ १३ ॥
 उष्ट्रोऽहं जन्मशतकं महिषः शतजन्मसु ।
 सर्पोऽहं जन्मसाहस्रं मारितो दुष्टमानवैः ॥ १४ ॥
 एवं वर्षायुतांते तु निर्जले विपिने द्विज ।
 राक्षसश्चेदृशो जातो विकरालो महाखलः ॥ १५ ॥
 कस्य शूद्रस्य देहं वै समारुह्य व्रजं गतः ।
 वृन्दावनस्य निकटे यमुना निकटाच्छुभात् ॥ १६ ॥
 समुत्थिता यष्टिहस्ताः श्यामलाः कृष्णपार्षदाः ।
 तैस्ताडितो धर्षितोऽहं व्रजभूमौ पलायितः ॥ १७ ॥
 बुभिक्षितो बहुदिनैस्त्वां खादितुमिहागतः ।
 तावत्त्वया ताडितोऽहं गिरिराजाश्मना मुने ॥ १८ ॥
 श्रीकृष्णकृपया साक्षात्कल्याणं मे बभूव ह ।
 श्रीनारद उवाच -
एवं प्रवदतस्तस्य गोलोकाच्च महारथः ॥ १९ ॥
 सहस्रादित्यसंकाशो हयायुतसमन्वितः ॥ २० ॥
 सहस्रचक्रध्वनिभृल्लक्षपार्षदमण्डितः ।
 मंजीरकिंकिणीजालो मनोहरतरो नृप ॥ २१ ॥
 पश्यतस्तस्य विप्रस्य तमानेतुं समागतः ।
 तमागतं रथं दिव्यं नेमतुर्विप्रनिर्जरौ ॥ २२ ॥
 ततः समारुह्य रथं स सिद्धो
     विरंजयन्मैथिल मण्डलं दिशाम् ।
 श्रीकृष्णलोकं प्रययौ परात्परं
     निकुंजलीलाललितं मनोहरम् ॥ २३ ॥
 विप्रोऽपि तस्मात् पुनरागतो गिरिं
     गोवर्धनं सर्वगिरिन्द्रदैवतम् ।
 प्रदक्षिणीकृत्य पुनः प्रणम्य तं
     ययौ गृहं मैथिल तत्प्रभावित् ॥ २४ ॥
 इदं मया ते कथितं प्रचण्डं
     सुमुक्तिदं श्रीगिरिराजखण्डम् ।
 श्रुत्वा जनः पाप्यपि न प्रचण्डं
     स्वप्नेऽपि पश्येद्यममुग्रदण्डम् ॥ २५ ॥
 यः शृणोतिगिरिराज यशस्यं
     गोपराज नवकेलिरहस्यम् ।
 देवराज इव सोऽत्र समेति
     नन्दराज इव शान्तिममुत्र ॥ २६ ॥


इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजप्रभावप्रस्ताववर्णने सिद्धमोक्ष नाम एकादशोऽध्यायः ॥ ११ ॥
 इति श्रीगिरिराजखण्डःसमाप्तः ॥ ३ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥