सामग्री पर जाएँ

शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ०७

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
ततो मेना पुरस्सा वै सुता भूत्वा महाद्युतिः ।।
चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ।। १ ।।
अरिष्टशय्यां परितस्सद्विसारिसुतेजसा ।।
निशीथदीपा विहतत्विष आसन्नरं मुने ।। २ ।।
श्रुत्वा तद्रोदनं रम्यं गृहस्थास्सर्वयोषितः ।।
जहृषुस्सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ।।३।।
तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ।।
पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ।। ४ ।।
तच्छुद्धान्तचरायाशु पुत्रीजन्म सुशंसते ।।
सितातपत्रं नादेयमासीत्तस्य महीभृतः ।।५ ।।
गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ।।
ददर्श तनयां तान्तु शोभमानां सुभाससा ।। ६ ।।
नीलोत्पलदल श्यामां सुद्युतिं सुमनोरमाम् ।।
दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ।। ७ ।।
सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ।।
तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ।। ८ ।।
बभूव मंगलं गानं ननृतुर्वारयोषितः ।।
दानं ददौ द्विजातिभ्यो जातकर्मविधाय च।।९।।
अथ द्वारं समागत्य चकार सुमहोत्सवम्।।
हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणन्ददौ।।2.3.7.१०।।
अथो मुहूर्त्ते सुमते हिमवान्मुनिभिः सह।।
नामाऽकरोत्सुतायास्तु कालीत्यादि सुखप्रदम्।।११।।
दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ।।
उत्सवं कारयामास विविधं गानपूर्व्वकम् ।। १२ ।।
इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ।।
लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ।। १३ ।।
तत्र सा ववृधे देवी गिरिराजगृहे शिवा ।।
गंगेव वर्षासमये शरदीवाथ चन्द्रिका ।। १४ ।।
एवं सा कालिका देवी चार्वङ्गी चारुदर्शना।।
दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ।।१५।।
कुलोचितेन नाम्ना तां पार्वतीत्याजुहावहा।
बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ।। १६ ।।
उमेति मात्रा तपसे निषिद्धा कालिका च सा ।।
पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ।। १७ ।।
दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ।।
अपत्ये पार्वतीत्याख्ये सर्वसौभाग्य संयुते ।। १८ ।।
मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ।।
विशेषसंगा भवति सहकारे मुनीश्वर ।। १९ ।।
पूतो विभूषितश्चापि स बभूव तया गिरिः ।।
संस्कारवत्येव गिरा मनीषीव हिमालयः ।।2.3.7.२०।।
प्रभामहत्या शिखयेव दीपो भुवनस्य च ।।
त्रिमार्गयेव सन्मार्गस्तद्वद्गिरिजया गिरिः ।। २१ ।।
कन्दुकैः कृत्रिमैः पुत्रैस्सखीमध्यगता च सा ।।
गंगासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ।। २२ ।।
अथ देवी शिवा सा चोपदेशसमये मुने ।।
पपाठ विद्यात्सुप्रीत्या यतचित्ता च सद्गुरोः ।।२३।।
प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ।।
हंसालिस्स्वर्णदी नक्तमात्मभासो महौषधिम् ।। २४ ।।
इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ।।
अन्यलीलाम्प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने ।। २५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनंनाम सप्तमो ऽध्यायः ।। ७ ।।