सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४८७
बालमनोरमा ।


गुपेरादेः कुत्वं च संज्ञायाम् । सुवर्णरजतभिन्न धनं कुप्यम् । गोप्यमन्यत् । कृष्ट स्वयमेव पच्यन्ते कृष्टपच्या: कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः ।

२८६६ । भिद्योद्यौ नदे । (३-१-११५)

भिदेरुज्ज्ञेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदक मुद्धयः । “ नदे' किम् । भेत्ता । उज्झिता ।

२८६७ । पुष्यसिध्यौ नक्षत्रे । (३-१-११६)

अधिकरणे क्यन्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिध्यन्त्यस्मि न्सिध्य

२८६८ । विपूयविनीयजिल्या मुञ्जकल्कहलिषु । (३-१-११७)

पूङ्नीजिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्क । पिष्ट औषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्य इत्यर्थः । कृष्टसमीकरणार्थ स्थूलकाष्ठं हलिः । अन्यतु विपव्यम् । विनेयम् । जेयम् ।

२८६९ । प्रत्यपिभ्यां ग्रहेः । (३-१-११८)

'छन्दसीति वक्तव्यम्’ (वा १९४४) । प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ।


इत्युका अमरः आह् “ताभ्यां यदन्यत्तत्कुप्यम्” इति । कृष्ट इति । कृष्टप्रदेशे ये स्वयं पच्यन्त फलान्त त कृष्टपच्याः इत्यथ । कर्मकर्तरीति । अत्र कर्मकर्तरि क्यबिल्यर्थ । निपातनादिति भावः । शुद्धे त्विति ॥ मुख्यकर्मणि तु ण्यति उपधावृद्धौ “चजोः' इति कुत्वे कृष्टपाक्य इति रूपमित्यर्थः । न व्यथते अव्यथयः इति । अत्र निपातनात् कर्तरि क्यविति भावः । भिद्योद्धौ नदे ॥ क्यबिति । नदविशेषे कर्तरि निपात्यते इति शेष । पुष्यसिद्धे ॥ निपात्येते इति शेष । नक्षत्रविशपे गम्ये इत्यर्थः । विपूय ॥ विपूय विनीय, जित्य, एते यथाक्रमं मुञ्जकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह । विपूय इत्यादिना ॥ न्यादिसाहचर्यात् भौवादिकस्यैव पूधातोहणमिति भावः । कल्कः शोधक द्रव्यम् । पापमिति वेति ॥ कल्कशब्दस्य शोधनीये पापेऽपि प्रसिद्धत्वादिति भावः । हलिशब्दस्य विवरणम् । कृष्टसमीकरणार्थमिति ॥ प्रत्यपिभ्यां ग्रहेः ॥ छन्दसीति ॥ वार्तिकमिदम् । वक्तव्यमिति वृत्तिकृता प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास