सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४८५
बालमनोरमा ।


'वृन्' । वृत्यम् । “वृध्’ । वृध्यम् । क्लपिचत्योस्तु । कल्प्यम् । चत्र्यम् । “तपरकरणम्’ किम् । “कृन्’ कीत्र्यम्' । अनित्यण्यन्ताश्चुराद्य इति णिजभावे ण्यत् । णिजन्तात्तु यद्व

२८६० । ई च खनः । (३-१-१११)

चात्कन्यप् । आद्रुणः । खयम् । 'इ च' इति ह्रस्वः सुपठः ।

२८६१ । भृङओोऽसंज्ञायाम् । (३-१-११२)

भृत्याः कर्मकरा भर्तव्या इत्यर्थः । क्रयाशब्दोऽयं न तु संज्ञा । 'समश्च बहुलम्' (वा १९४०) । सम्भृत्याः-सम्भार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । 'असंज्ञायाम्' किम् । भायाँ नाम क्षत्रिया । अथ कथं भार्य वधूरिति । इह हि *संज्ञायां समज –' (सू ३२७६) इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यम् । बिभर्ते इति दीघन्तात्क्रयादेर्वा ण्यन् । क्यप्तु भरतेरेव । तदनुबन्धकग्रहणे-' इति परिभाषया।


आह । अनित्यण्यन्ता इति ॥ णिजन्तात्तु यदेवेति । “अचो यत्’ इत्यनेनेति भावः । ई च खनः ॥ चात् क्यबिति । रखनः कन्यप् स्यात् प्रकृतेः ईकारोऽन्तादेशवेत्यर्थः । हृस्वस्सुपठ इति । हस्वस्य इकारस्य विवौ आदुणेन खेयमिति सिद्धेः इति भावः । दीघ चारणसमर्थनन्तु भाष्ये स्पष्टम् । भृञ्जोऽसंज्ञायाम् ॥ क्यबिति शेषः । भृत्याः कर्मकरा इति । भृत्यर्थङ्कर्म कुर्वाणा इत्यर्थ । ‘कर्मणि भृतैौ' इति कृङअष्ट. । भर्तव्या इति ॥ वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कमकरघुरूढत्वात्सज्ञाशब्दत्वमवत्यत आह । क्रियाशब्द इति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढस्संज्ञाशब्दोऽयमिति भावः । अथ कथं भार्येति ॥ क्यपा भवितव्यमित्याक्षेपः । ननु वध्वाम्भार्याशब्दस्य सज्ञाशब्दत्वात् ‘भृोऽसज्ञायाम्' इत्यस्याप्रवृत्तरयमाक्षेपोऽनुपपन्न इत्यत आह । इह हीति । स्त्रियां क्तिन्’ इत्यतः स्त्रियामित्यनुवृत्तौ ‘त्रजयजोर्भावे क्यप्'। ‘सज्ञाया समजनिषद' इति सूत्रेण क्यप् स्यादित्यर्थ । ननु सज्ञायां भृञ्जः क्यव्विधौ ‘मृजेोऽसज्ञायाम्' इत्यत्र असज्ञायामिति व्यर्थमित्यत आह । संज्ञापर्युदासस्त्विति ॥ समाधते । सत्यमिति । ‘ड धृञ् धारणपोः षणयोः' इति जुहोत्यादौ हस्वान्तः ड़ित् अिच 'भृ भत्सैन, भरणेऽपि' इति क्रयादौ दीर्घन्तः । आभ्या 'ऋहलोऽण्यैत्' इति ण्यदेवेत्यर्थः । क्यप् तु भरतेरेवेति । 'भृञ् भरणे' इति भवादौ हस्वान्तो जित् । अस्यैव “सज्ञायां समजनिषद' इत्यत्र “भृत्रेऽसज्ञाम्' इत्यत्र च भृञ्जग्रहणेन ग्रहणम् । नतु डुभृओो जौहोत्यादिकस्य । न च कैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भाव. । कुत इत्यत आह । तदनुबन्धकेति । “तदनुबन्धकग्रहणे नातदनु बन्धकस्य' इति परिभाषयेत्यर्थः । बिभर्तः क्यबभाव बीजमिदम् । क्रेयादिकस्य दीघर्षान्तत्वात् 'संप्रत्युपलभ्यमानभाष्यकोशेषु तु न तत्समर्थनमस्ति । एतद्विचारस्तु प्रैढमनोरमायां दृश्यते ।