शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ०३
नारद उवाच ।।
विधे प्राज्ञ महाधीमन्वद मे वदतां वर ।।
ततः परं किमभवच्चरितं विष्णुसद्गुरो ।। १ ।।
अद्भुतेयं कथा प्रोक्ता मेना पूर्वगतिः शुभा ।।
विवाहश्च श्रुतस्सम्यक्परमं चरितं वद ।।२।।
मेनां विवाह्य स गिरिः कृतवान्किं ततः परम् ।।
पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका ।।३।।
तपस्सुदुस्सहं कृत्वा कथं प्राप पतिं हरम् ।।
एतत्सर्वं समाचक्ष्व विस्तराच्छांकरं यशः ।। ४ ।।
।। ब्रह्मोवाच ।।
मुने त्वं शृणु सुप्रीत्या शांकरं सुयशः शुभम्।।
यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात्।।५।।
यदा मेनाविवाहन्तु कृत्वागच्छद्गिरिर्गृहम्।।
तदा समुत्सवो जातस्त्रिषु लोकेषु नारद।।६।।
हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम्।।
भूसुरान्बंधुवर्गांश्च परानानर्च सद्धिया ।।७।।
सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् ।।
ययुस्तस्मै स्वस्वधाम बंधुवर्गास्तथापरे ।।८।।
हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे ।।
रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि ।।९।।
तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः ।।
मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके ।। 2.3.3.१० ।।
दृष्ट्वा तानागतान्देवान्प्रणनाम मुदा गिरिः ।।
संमानं कृतवान्भक्त्या प्रशंसन्स्व विधिं महान् ।। ११ ।।
साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः ।।
रोमोद्गमो महानासीद्गिरेः प्रेमाश्रवोऽपतन् ।। १२ ।।
ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः ।।
उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान् ।।१३।।
हिमाचल उवाच ।।
अद्य मे सफलं जन्म सफलं सुमहत्तपः ।।
अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः ।।१४।।
धन्योऽहमद्य संजातो धन्या मे सकला क्षितिः ।।
धन्यं कुलं तथा दारास्सर्वं धन्यं न संशयः ।। १५ ।।
यतः समागता यूयं मिलित्वा सर्व एकदा ।।
मां निदेशयत प्रीत्योचितं मत्त्वा स्वसेवकम् ।। १६ ।।
।। ब्रह्मोवाच ।।
इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा ।।
ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः ।।१७।।
देवा ऊचुः ।।
हिमाचल महाप्राज्ञ शृण्व स्मद्वचनं हितम् ।।
यदर्थमागतास्सर्वे तद्ब्रूमः प्रीतितो वयम् ।।१८।।
या पुरा जगदम्बोमा दक्षकन्याऽभवद्गिरे ।।
रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि ।। १९ ।।
पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती ।।
जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका।।2.3.3.२०।।
सा कथा विदिता लोके तवापि हिमभूधर।।
एवं सति महालाभो भवेद्देवगणस्य हि।।२१।।
सर्वस्य भवतश्चापि स्युस्सर्वे ते वशास्सुराः ।।२२।।
।।ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः।।
तथास्त्विति प्रसन्नात्मा प्रोवाच न च सादरम्।।२३।।
अथ ते च समादिश्य तद्विधिम्परमादरात्।।
स्वयं जग्मुश्च शरणमुमायाश्शंकर स्त्रियः ।।२४।।
सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् ।।
प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः ।।२५।।
देवा ऊचुः ।।
देव्युमे जगतामम्ब शिवलोकनिवासिनी ।।
सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि ।।२६।।
श्रीशक्तिं पावनां शान्तां पुष्टिम्परमपावनीम्।।
वयन्नामामहे भक्त्या महदव्यक्तरूपिणीम् ।।२७।।
शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ।।
अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ।। २८ ।।
त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ।।
त्वन्दीधितिस्सूर्य्यगता स्वप्रपञ्चप्रकाशिनी ।। २९ ।।
या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ।।
आप्याययति ब्रह्मादितृणान्तं तां नमामहे ।।2.3.3.३०।।
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती।। ७० ।।
त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ।।३१।।
निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि।।
तृष्णा कान्तिश्छविस्तुष्टिस्सर्वानन्दकरी सदा ।।३२।।
त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ।।
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ।३३।।
त्वन्तस्वरूपा भूतानां पञ्चानामपि सारकृत् ।।
त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ।।३४।।
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।।
ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ।। ३५ ।।
समस्तगीर्वाणगणस्य शक्तिस्तमोमयी धातृगुणैकदृश्या ।।
रजः प्रपंचात्तु भवैकरूपा या न श्रुता भव्यकरी स्तुतेह ।। ३६ ।।
संसारसागरकरालभवाङ्गदुःखनिस्तारकारितरणिश्च निवीतहीना ।।
अष्टाङ्गयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै ।। ३७ ।।
नासाक्षि वक्त्रभुजवक्षसि मानसे च धृत्या सुखानि वितनोषि सदैव जन्तोः ।।
निद्रेति याति सुभगा जगती भवा नः सा नः प्रसीदंतु भवस्थितिपालनाय ।। ३८ ।।
ब्रह्मोवाच ।।
इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् ।।
सुप्रेयमनसः सर्वे तस्थुस्ते दर्शनेप्सवः ।। ३९ ।।
इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवस्तुतिर्नाम तृतीयोऽध्यायः ।। ३ ।।