नशब्दे नुशब्दे च लङ्का स्यात् । अकार्षीः किम् । न करोमि ।
नाकार्षम् । अहं नु करोमि । अहं न्वकार्षम् ।
२७८२ । पुरि लुङ् चास्मे । (३-२-१२२)
अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् । चालट् । न तु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुर छात्राः—अवात्सुः-अवसन्-ऊषुर्वा । “ अस्मे' किम् । यजति स्म पुरा । भावष्यतात्यनुवतमान ।
२७८३ । यावत्पुरानिपातयोर्लट् । (३-३-४)
यावदुङ्गे । पुरा भुङ्गे । निपातावेतौ निश्चयं द्योतयत । 'निपातयो किम् । यावद्दास्यते तावद्भोक्ष्यते । करणभूतया पुरा यास्यति ।
२७८४ । विभाषा कदाकह्यः । (३-३-५)
भविष्यति लट् वा स्यान् । कदा कर्हि वा भुङ्के-भोक्ष्यते-भोक्ता वा ।
न नु अनयोर्द्धन्द्वः । तदाह । नशब्दे नुशब्दे चेति॥ लद्दा स्यादिति ॥ भूते इति शेष अकार्षीः किमिति प्रश्र.। न करोमि नाकार्षमित्युत्तरम् । अह् नु करोमि। अहं न्वकार्षमिति च । ‘तकें नु स्यात्' इत्यमर. । पुरि लुङ् चास्मे ॥ अस्मे इति च्छेदः । पुरेल्याकारान्तमव्ययम् पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभागादालोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चालुडिति । तथाच लुड् लट् च वेति फलितम् । पक्षे इति ॥ एतदुभयाभावपक्ष इत्यथ । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाविवक्षा यान्तु लडित्यर्थः। ‘अभिज्ञावचने' इत्यारभ्य एतदन्ताः विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीय स्य तातीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । ‘भविष्यतिगम्यादयः’ इति सूत्रादिति भावः । यावत्पुरा ॥ यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोर्लट् स्यादि त्यर्थः । लुडादेरपवादः । निश्चयं द्योतयतः इति ॥ ‘यावत्तावच साकल्येऽवधैो मानेऽवधा रणे' इत्यमरः । यावद्दास्यते तावद्रोक्ष्यते इति ॥ यत्परिमाणक तत्परिमाणकमित्यर्थः । 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुबन्तत्वेन निपातत्वाभावान्न लडिति भावः । करणभूत येति ॥ पुरा यास्यतीति प्रत्युदाहरणान्तरम् । पुरशब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फो रणाय करणभूतयेत्युक्तम् । विभाषा कदाकहा ॥ भविष्यति लड़ा स्यादिति शेषपूर णम्। लडभावपक्षे लुट्लटौ यथाप्राप्तम् । तदाह । कदा कर्हि वा भुङ्के भोक्ष्यते भोक्ता घेति । नच कर्हियोगे लडभावपक्षे लुडेवोचितः, नतु लट् । ‘अनद्यतने र्हिलन्यतरस्याम्' इति र्हिलन्तकर्हियोगविरोधादिति वाच्यम् । लड़दाहरणस्य कदायोगमात्रविषयत्वादित्याहुः 58