पञ्चविंशब्राह्मणम्/अध्यायः १७

विकिस्रोतः तः
व्रात्ययज्ञाद्यग्निहोत्र समाप्तिः

17.1
देवा वै स्वर्गं लोकमायंस्तेषां दैवा अहीयन्त व्रात्यां प्रवसन्तस्त आगच्छन् यतो देवाः स्वर्गं लोकमायंस्तेन तं स्तोमं न छन्दोऽविन्दन् येन तानाप्स्यंस्ते देवा मरुतोऽब्रुवन्नेतेभ्यस्तं स्तोमं तच्छन्दः प्रयच्छत येनास्मानाप्नवानिति तेभ्य एतं षोडशं स्तोमं प्रायच्छन् परोक्षमनुष्टुभं ततो वै ते तानाप्नुवन्
हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्यं चरन्ति न कृषिं वणिज्यां षोडशो वा एतत् स्तोमः समाप्तुमर्हति
मरुत्स्तोमो वा एष यानि क्षुद्राणि छन्दांसि तानि मरुताम्
ककुभं प्राचीमुदूहत्यथ यदेषा द्विपदा ककुभो लोके क्रियते रूपेणैवेनांस्तत् समर्धयति
धाहीन्द्र गिर्वण"इति विषमं छन्दो विषम इव वै व्रातः सर्वानेवैतान् समान् करोति
तासु द्यौतानम्
द्युतानो मारुतस्तेषां गृहपतिरासीत् त एतेन स्तोमेनायजन्त ते सर्व आर्ध्नुवन् यदेतत् साम भवत्यृध्या एव
यन्निरुक्तं निधनमुपेयुर्गृहपतिरेवर्ध्नुयादपेतर आर्ध्नीताथ यदनिरुक्तमुपयन्ति सर्वानेवैतानृद्धौ भूतौ प्रतिष्ठापयति
गरगिरो वा एते ये ब्रह्माद्यं जन्यमन्नमदन्त्यदुरुक्तवाक्यं दुरुक्तमाहुरदण्ड्यं दण्डेन घ्नन्तश्चरन्त्यदीक्षिता दीक्षितवाचं वदन्ति षोडशो वा एतेषां स्तोमः पाप्मानं निर्हन्तुमर्हति यदेते चत्वारः षोडशा भवन्ति तेन पाप्मनोऽधि निर्मुच्यन्ते
"देवो वो द्रविणोदा"इत्यग्निष्टोमसाम कार्यं देवतास्वेवैनान् प्रतिष्ठापयति
अथो खल्वाहुःऽऽदर्शि गातुवित्तम"इत्येव सतोबृहतीषु कार्यं विषम इव वै व्रातः सर्वानेवैनान् सतोबृहतः करोति
तदाहुः शिथिलमिव वा एतत् छन्दश्चराचरं यत् सतोबृहतीऽऽदेवो वो द्रविणोदा"इत्येव कार्यम्
एषा वै प्रतिष्ठिता बृहती या पुनःपदा तद्यत् पदं पुनरारभते तस्मात् पुत्रो मातरमध्येति
उष्णीषं च प्रतोदश्च ज्याह्णोडश्च विपथश्च फलकास्तीर्णः कृष्णशं वासः कृष्णवलक्षे अजिने रजतो निष्कस्तद्गृहपतेः
वलूकान्तानि दामतूषाणीतरेषां द्वे द्वे दामनी द्वे द्वे उपानहौ द्विषंहितान्यजिनानि
एतद्वै व्रात्यधनं यस्मा एतद्ददति तस्मिन्नेव मृजाना यान्ति
त्रयस्त्रिंशता त्रयस्त्रिंशता गृहपतिमभिसमायन्ति त्रयस्त्रिंशद्धि देवा आर्ध्नुवनृध्या एव
17.2
अथैष षट्षोडशी ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्
अभिपूर्वेण वा एते पाप्मना गृहीता ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसन्ति यत् षट्षोडशानि स्तोत्राणि भवन्ति तेन पाप्मानोऽधि निर्मुच्यन्ते
यदेकविंशोऽग्निष्टोमो भवति प्रतिष्ठाया एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति
उक्थो भवति पशवो वा उक्थानि पशवो नृशंसमग्र्यं परिणयन्ति पशुभिरेवैनानग्र्यं परिणयति
17.3
अथैष द्विषोडशो ये कनिष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्
हीना वा एते अहीयन्ते ये कनिष्ठाः सन्तो व्रात्यां प्रवसन्ति यत् त्रिवृतः पवमाना भवन्ति मुखं वै त्रिवृत् स्तोमानां मुखत एवैनान् यज्ञस्य परिणयति
यद्वै षोडशे स्तोत्रे भवतस्तेन पाप्मनोऽधि निर्मुच्यन्ते
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
17.4
अथैष शमनीचामेढ्राणां स्तोमो ये ज्येष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्
अग्रादग्रं रोहन्त्यूर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय
एतेन वै शमनीचामेढ्रा अयजन्त तेषां कुषीतकः सामश्रवसो गृहपतिरासीत् तान् लुशाकपिः खार्गलिरनुव्याहरदवाकीर्षत कनीयांसौ स्तोमावुपागुरिति तस्मात् कौषीतकानां न कश्चनातीव जिहीते यज्ञाव कीर्णा हि
17.5
इन्द्रो वै त्रिशिरसं त्वाष्ट्रमहंस्तमश्लीला वागभ्यवदत् सोऽग्निमुपाधावत् स एतदग्निस्तोत्रमपश्यत् तदात्मन्यधिविधाय तेनैनमयाजयत् तेनास्याश्लीलां वाचमपाहन्
अपाश्लीलां वाचं हते य एवं वेद
योऽपूत इव स्यादग्निष्टुता यजेताग्निनैवास्य पाप्मानमपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति
तदाहुर्यत् त्रिवृद्भवत्येकस्मादेवाङ्गात् पाप्मानमपहन्ति मुखादेवेति
ज्योतिष्टोम एव कार्यः
यत् त्रिवृद्भवति यदेवास्य मुखतोऽपूतं तत् तेनापहन्ति यत् पञ्चदशो यदेवास्योरस्तो बाह्वोरपूतं तत् तेनापहन्ति यत् सप्तदशो यदेवास्य मध्यतोऽपूतं तत् तेनापहन्ति यदेकविंशो यदेवास्य पदोरष्ठीवतोरपूतं तत् तेनापहन्ति
वैश्वानरं वा एष प्रविशतीत्याहुर्योऽग्निष्टुता यजत इति वारवन्तीयमग्निष्टोमसाम कार्यं तस्य यदपूतं तदग्निः क्षापयत्यथेतरः शुचिः पूत उदेति
17.6
त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वग्निष्टोमसाम
ब्रह्मवर्चसकामो यजेत
तेजो वै त्रिवृद्ब्रह्मवर्चसं यद्वायव्यास्वग्निष्टोमसाम भवत्युपैवैनं तद्धमति
यथा हिरण्यं निष्टपेदेवमेनमग्निष्टुन्निष्टपति
17.7
एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो यजेत
जरत्कक्षो वा एष योऽपशुर्यथा वै जरत्कक्षे पशवो न रमन्त एवमेतस्मिन् पशवो न रमन्ते योऽपशुर्यदा वै जरत्कक्षमग्निर्दहत्यथैनमभिवर्षत्यथास्मिन्नोषधयो जायन्तेऽथ वै तस्मिन् पशवो रमन्ते
रमन्तेऽस्मिन् पशवो य एवं वेद
यदेवास्यापशव्यं तदग्निष्टुन्निर्दहति यदग्निष्टुन्निर्दहति तदद्भी रेवतीभिः शमयति
17.8
ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत
यस्मिन् वा यज्ञक्रतौ विभ्रंशेत
अग्निर्वा एतस्य हव्यमत्ति यो यज्ञे विभ्रंशते न देवता हव्यं गमयत्यग्निमेवैकधर्ध्नोति
यद्वै संशीर्यतेऽथान्यन्निष्कुर्वन्ति तेन तद्याति यदा वाव तन्निष्कुर्वन्त्यथ तद्याति येष्वेव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तैरेव यजेत येष्वेव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तेष्वेव प्रतितिष्ठति
17.9
सप्तदशेनाग्निष्टुतान्नाद्यकामो यजेत
अन्नं वै सप्तदशोऽग्निरन्नाद्यस्य प्रदाताग्निरेवास्मा अन्नाद्यं प्रयच्छति
अन्नादो भवति य एवं वेद
सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
17.10
त्रिवृदग्निष्टोमस्तस्यानिरुक्तं प्रातःसवनम्
प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अपाक्रामन् स एतदनिरुक्तं प्रातःसवनमपश्यत् तेनासां मध्यं व्यवैत् ता एनमुपावर्तन्त पर्येनमाविशन्
ग्रामकामो यजेत यदेतदनिक्तं प्रातःसवनं भवति मध्यमेवासां व्यवैत्युपैनमावर्तन्ते पर्येनं विशन्ति
स एष प्रजापतेरपूर्वो नास्मात् पूर्वो भवति य एवं वेद
17.11
त्रिवृदग्निष्टोमः
तस्य प्रातःसवने सन्नेषु नाराशंसेष्वेकादशदक्षिणा व्यादिशत्यश्वद्वादशा मध्यन्दिने ता उभयीरपाकरोत्येकादश तृतीयसवने ता वशायामपाकरोति
त्रयस्त्रिंशदेता दक्षिणा भवन्ति त्रयस्त्रिंशद्देवता देवता एवाप्नोत्यश्वश्चतुस्त्रिंशो दक्षिणानां प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिमेवाप्नोति
स एष बृहस्पतिसवो बृहस्पतिरकामयत देवानां पुरोधां गच्छेयमिति स एतेनायजत स देवानां पुरोधामगच्छत्
गच्छति पुरोधां य एवं वेद
स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन् स एतेन यजेत
गच्छति स्थापत्यं य एवं वेद
कृष्णाजिनेऽध्यभिषिच्यत एतद्वै प्रत्यक्षं ब्रह्मवर्चसं ब्रह्मवर्चस एवाध्यभिषिच्यते
आज्येनाभिषिच्यते तेज आज्यं तेज आत्मन् धत्ते
17.12
त्रिवृदग्निष्टोमः स सर्वस्वारो यः कामयेतानामयतामुं लोकमियामिति स एतेन यजेत
प्राणो वै त्रिवृत् प्राणः स्वरः प्राणानेवास्य बहिर्णिरादधाति ताजक्प्रमीयते
त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत् त्रिवृद्भवत्याशीयः संगच्छाता इत्यनन्तो वै स्वरोऽनन्तोऽसौ लोकोऽनन्तमेवैनं स्वर्गं लोकं गमयति
अभिवत्यः प्रवत्यो भवन्त्यस्मादेवैनं लोकात् स्वर्गं लोकं गमयन्ति
आर्भवपवमाने स्तूयमान औदुम्बर्या दक्षिणा प्रावृतो निपद्यते तदेव संगच्छते
स एष शुनस्कर्णस्तोम एतेन वै शुनस्कर्णो बाष्किहोऽयजत तस्माच्छुनस्कर्णस्तोम इत्याख्यायते
17.13
त्रिवृदग्निष्टोमो वैश्वदेवस्य लोकः
आग्नेयी प्रतिपद्वैश्वदेवः पशुर्बार्हस्पत्यानुबन्ध्या
न यूपं मिन्वन्ति नोत्तरवेदिं निवपन्ति
परिधौ पशुं नियुञ्जन्ति
पञ्चाशद्दक्षिणा
अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसमश्नाति न स्त्रियमुपैति
ततश्चतुर्षु मासेषु वरुणप्रघासानां लोके द्विदिवः
वारुणी प्रतिपन्मारुतः पशुः
कवती प्रतिपद्वारुणः पशुः
मैत्रावरुण्यनूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशू नियुञ्जन्ति
शतं दक्षिणा अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसमश्नाति न स्त्रियमुपैति
ततश्चतुर्षु मासेषु साकमेधानां लोके त्रिरात्रः
अनीकवती प्रतिपदाग्नेयः पशुर्मारुती प्रतिपदैन्द्राग्नः पशुर्वैश्वकर्मणी प्रतिपदेकादशिनी पशवः सौर्यानूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशून्नियुञ्जन्ति पञ्चाशच्छतं दक्षिणा
अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसमश्नाति न स्त्रियमुपैति
ततश्चतुर्षु मासेषु शुनासीर्यस्य लोके ज्योतिष्टोमोऽग्निष्टोमः
उपवती प्रतिपद्वायव्यः पशुराश्विन्यनूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशुं नियुञ्जन्ति द्वादशं शतं दक्षिणा
अग्निः संवत्सरः सूर्यः परिवत्सरश्चन्द्रमा इदावत्सरो वायुरनुवत्सरोऽग्निं संवत्सरं वैश्वदेवेनाप्नोति सूर्यं परिवत्सरं वरुणप्रघासैश्चन्द्रमसमिदावत्सरं साकमेधैर्वायुमनुवत्सरं शुनासीर्येण
हविर्यज्ञैर्वै देवा इमं लोकमभ्यजयन्नन्तरिक्षं पशुमद्भिः सोमैरमुमिमानेव लोकानाप्नोत्येषु लोकेषु प्रतितिष्ठति य एवं वेद
यदाग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्र्या, यदा दश संवत्सरानग्निहोत्रं जुहोत्यथ दर्शपूर्णमासयाजिनमाप्नोति, यदा दश संवत्सरान् दर्शपूर्णमासाभ्यां यजतेऽथाग्निष्टोमयाजिनमाप्नोति, यदा दशभिरग्निष्टोमैर्यजतेऽथ सहस्रयाजिनमाप्नोति, यदा दशभिः सहस्रैर्यजतेऽथायुतयाजिनमाप्नोति, यदा दशभिरयुतैर्यजतेऽथ प्रयुतयाजिनमाप्नोति, यदा दशभिः प्रयुतैर्यजतेऽथ नियुतयाजिनमाप्नोति, यदा दशभिर्नियुतैर्यजतेऽथार्बुदयाजिनमाप्नोति, यदा दशभिरर्बुदैर्यजतेऽथ न्यर्बुदयाजिनमाप्नोति, यदा दशभिर्न्यर्बुदैर्यजतेऽथ निखर्वकयाजिनमाप्नोति, यदा दशभिर्निखर्वकैर्यजतेऽथ बद्वयाजिनमाप्नोति, यदा दशभिर्बद्वैर्यजतेऽथाक्षितयाजिनमाप्नोति यदा दशभिरक्षितैर्यजतेऽथ गौर्भवति, यदा गौर्भवत्यथाग्निर्भवति यदाग्निर्भवत्यथ संवत्सरस्य गृहपतिमाप्नोति
यदा संवत्सरस्य गृहपतिर्भवत्यथ वैश्वदेवस्य मात्रामाप्नोत्यतो वा इतरे परस्तरां परस्तरामेव सर्वे
एतानेव लोकानाप्नोत्येतान् लोकान् जयति य एवं वेद

१७.१.१ साधारण स्तोम विधानं

देवा वै स्वर्गं लोकं आयंस्तेषां दैवा अहीयन्त व्रात्यां प्रवसन्तस्त आगच्छन्यतो देवाः स्वर्गं लोकं आयंस्तेन तं स्तोमं न छन्दोऽविन्दन्येन तानाप्स्यंस्ते देवा मरुतोऽब्रुवन्नेतेभ्यस्तं स्तोमं तच्छन्दः प्रयच्छत येनास्मानाप्नवानिति तेभ्य एतं षोडशं स्तोमं प्रायच्छन्परोक्षं अनुष्टुभं ततो वै ते तानाप्नुवन्

१७.१.२ प्रकृते तद्योजनं

हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्यं चरन्ति न कृषिं वणिज्यां षोडशो वा एतत्स्तोमः समाप्तुं अर्हति

१७.१.३ प्रकृते तद्योजनं

मरुत्स्तोमो वा एष यानि क्षुद्राणि छन्दांसि तानि मरुताम्

१७.१.४ प्रकृते तद्योजनं

ककुभं प्राचीं उदूहत्यथ यदेषा द्विपदा ककुभो लोके क्रियते रूपेणैवेनांस्तत्समर्धयति

१७.१.५ ब्रह्मसाम्नः स्तोत्रीया विधानं

ऽऽअधाहीन्द्र गिर्वणऽऽ इति विषमं छन्दो विषम इव वै व्रातः सर्वानेवैतान्समान्करोति

१७.१.६ गातव्यसामविधानं

तासु द्यौतानम्

१७.१.७ समृद्धिहेतुता

द्युतानो मारुतस्तेषां गृहपतिरासीत्त एतेन स्तोमेनायजन्त ते सर्व आर्ध्नुवन्यदेतत्साम भवत्यृध्या एव

१७.१.८ निधनकार्य्यं

यन्निरुक्तं निधनं उपेयुर्गृहपतिरेवर्ध्नुयादपेतर आर्ध्नीताथ यदनिरुक्तं उपयन्ति सर्वानेवैतानृद्धौ भूतौ प्रतिष्ठापयति

१७.१.९ षोडशस्तोम प्रशंसा

गरगिरो वा एते ये ब्रह्माद्यं जन्यं अन्नं अदन्त्यदुरुक्तवाक्यं दुरुक्तं आहुरदण्ड्यं दण्डेन घ्नन्तश्चरन्त्यदीक्षिता दीक्षितवाचं वदन्ति षोडशो वा एतेषां स्तोमः पाप्मानं निर्हन्तुं अर्हति यदेते चत्वारः षोडशा भवन्ति तेन पाप्मनोऽधि निर्मुच्यन्ते

१७.१.१० षोडशस्तोम प्रशंसा

ऽऽदेवो वो द्रविणोदाऽऽ इत्यग्निष्टोमसाम कार्यं देवतास्वेवैनान्प्रतिष्ठापयति

१७.१.११ शाखान्तरीय मतोपन्यासः

अथो खल्वाहुःऽऽअदर्शि गातुवित्तमऽऽ इत्येव सतोबृहतीषु कार्यं विषम इव वै व्रातः सर्वानेवैनान्सतोबृहतः करोति

१७.१.१२ स्वपक्ष निर्गमनं

तदाहुः शिथिलं इव वा एतत्छन्दश्चराचरं यत्सतोबृहतीऽऽदेवो वो द्रविणोदाऽऽ इत्येव कार्यम्

१७.१.१३ दोष वैलक्षण्यं

एषा वै प्रतिष्ठिता बृहती या पुनःपदा तद्यत्पदं पुनरारभते तस्मात्पुत्रो मातरं अध्येति

१७.१.१४ दक्षिणाद्रव्यं

उष्णीषं च प्रतोदश्च ज्याह्णोडश्च विपथश्च फलकास्तीर्णः कृष्णशं वासः कृष्णवलक्षे अजिने रजतो निष्कस्तद्गृहपतेः

१७.१.१५ दक्षिणाद्रव्यं

वलूकान्तानि दामतूषाणीतरेषां द्वे द्वे दामनी द्वे द्वे उपानहौ द्विषंहितान्यजिनानि

१७.१.१६ व्रात्यता निर्हरणहेतुता

एतद्वै व्रात्यधनं यस्मा एतद्ददति तस्मिन्नेव मृजाना यान्ति

१७.१.१७ गावोपि दक्षिणार्थाः

त्रयस्त्रिंशता त्रयस्त्रिंशता गृहपतिं अभिसमायन्ति त्रयस्त्रिंशद्धि देवा आर्ध्नुवनृध्या एव

१७.२.१ व्रात्यस्तोम प्रस्तुतिः

अथैष षट्षोडशी ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्

१७.२.२ पापसद्भावमाह

अभिपूर्वेण वा एते पाप्मना गृहीता ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसन्ति यत्षट्षोडशानि स्तोत्राणि भवन्ति तेन पाप्मानोऽधि निर्मुच्यन्ते

१७.२.३ अग्निष्टोम स्तोमः

यदेकविंशोऽग्निष्टोमो भवति प्रतिष्ठाया एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति

१७.२.४ उक्थसंस्थाविधानं

उक्थो भवति पशवो वा उक्थानि पशवो नृशंसं अग्र्यं परिणयन्ति पशुभिरेवैनानग्र्यं परिणयति

१७.३.१ वयः कनिष्ठ व्रात्य यागः

अथैष द्विषोडशो ये कनिष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्

१७.३.२ त्रिवृत् स्तोमः

हीना वा एते अहीयन्ते ये कनिष्ठाः सन्तो व्रात्यां प्रवसन्ति यत्त्रिवृतः पवमाना भवन्ति मुखं वै त्रिवृत्स्तोमानां मुखत एवैनान्यज्ञस्य परिणयति

१७.३.३ षोडश स्तोमः

यद्वै षोडशे स्तोत्रे भवतस्तेन पाप्मनोऽधि निर्मुच्यन्ते

१७.३.४ एकविंश स्तोमः

एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

१७.४.१ स्थविर व्रात्य यज्ञः

अथैष शमनीचामेढ्राणां स्तोमो ये ज्येष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्

१७.४.२ ऊर्द्ध्वतम स्तोमता

अग्रादग्रं रोहन्त्यूर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय

१७.४.३ प्रकारान्तरे दोषः

एतेन वै शमनीचामेढ्रा अयजन्त तेषां कुषीतकः सामश्रवसो गृहपतिरासीत्तान्लुशाकपिः खार्गलिरनुव्याहरदवाकीर्षत कनीयांसौ स्तोमावुपागुरिति तस्मात्कौषीतकानां न कश्चनातीव जिहीते यज्ञाव कीर्णा हि

१७.५.१ आख्यायिका कथनं

इन्द्रो वै त्रिशिरसं त्वाष्ट्रं अहंस्तं अश्लीला वागभ्यवदत्सोऽग्निं उपाधावत्स एतदग्निस्तोत्रं अपश्यत्तदात्मन्यधिविधाय तेनैनं अयाजयत्तेनास्याश्लीलां वाचं अपाहन्

१७.५.२ वेदितुः फलं

अपाश्लीलां वाचं हते य एवं वेद

१७.५.३ अग्निष्टुतविधानं

योऽपूत इव स्यादग्निष्टुता यजेताग्निनैवास्य पाप्मानं अपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति

१७.५.४ दोष प्रदर्शनं

तदाहुर्यत्त्रिवृद्भवत्येकस्मादेवाङ्गात्पाप्मानं अपहन्ति मुखादेवेति

१७.५.५ प्राशस्त्यनिरूपणं

ज्योतिष्टोम एव कार्यः

१७.५.६ पापनिवारण कारणं

यत्त्रिवृद्भवति यदेवास्य मुखतोऽपूतं तत्तेनापहन्ति यत्पञ्चदशो यदेवास्योरस्तो बाह्वोरपूतं तत्तेनापहन्ति यत्सप्तदशो यदेवास्य मध्यतोऽपूतं तत्तेनापहन्ति यदेकविंशो यदेवास्य पदोरष्ठीवतोरपूतं तत्तेनापहन्ति

१७.५.७ वारवन्तीयाग्निष्टोमः

वैश्वानरं वा एष प्रविशतीत्याहुर्योऽग्निष्टुता यजत इति वारवन्तीयं अग्निष्टोमसाम कार्यं तस्य यदपूतं तदग्निः क्षापयत्यथेतरः शुचिः पूत उदेति

१७.६.१ तृतीयाग्निष्टुतः

त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वग्निष्टोमसाम

१७.६.२ अधिकारि निरूपणं

ब्रह्मवर्चसकामो यजेत

१७.६.३ अग्निष्टोम साम करणं

तेजो वै त्रिवृद्ब्रह्मवर्चसं यद्वायव्यास्वग्निष्टोमसाम भवत्युपैवैनं तद्धमति

१७.६.४ अग्निष्टोम साम करणं

यथा हिरण्यं निष्टपेदेवं एनं अग्निष्टुन्निष्टपति

१७.७.१ पशुकामाग्निष्टुतः

एतस्यैव रेवतीषु वारवन्तीयं अग्निष्टोमसाम कृत्वा पशुकामो यजेत

१७.७.२ पशुसाधनत्वोपपादनं

जरत्कक्षो वा एष योऽपशुर्यथा वै जरत्कक्षे पशवो न रमन्त एवं एतस्मिन्पशवो न रमन्ते योऽपशुर्यदा वै जरत्कक्षं अग्निर्दहत्यथैनं अभिवर्षत्यथास्मिन्नोषधयो जायन्तेऽथ वै तस्मिन्पशवो रमन्ते

१७.७.३ तद्वेदन प्रशंसा

रमन्तेऽस्मिन्पशवो य एवं वेद

१७.७.४ पशुदाहसेकाग्निजलनिर्णयः

यदेवास्यापशव्यं तदग्निष्टुन्निर्दहति यदग्निष्टुन्निर्दहति तदद्भी रेवतीभिः शमयति

१७.८.१ ज्योतिष्टोमाग्निष्टुत्

ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत

१७.८.२ ज्योतिष्टोमाग्निष्टुत्

यस्मिन्वा यज्ञक्रतौ विभ्रंशेत

१७.८.३ ज्योतिष्टोमाग्निष्टुत्

अग्निर्वा एतस्य हव्यं अत्ति यो यज्ञे विभ्रंशते न देवता हव्यं गमयत्यग्निं एवैकधर्ध्नोति

१७.८.४ ज्योतिष्टोमाग्निष्टुत्

यद्वै संशीर्यतेऽथान्यन्निष्कुर्वन्ति तेन तद्याति यदा वाव तन्निष्कुर्वन्त्यथ तद्याति येष्वेव स्तोमेषु विभ्रंशते यस्मिन्यज्ञक्रतौ तैरेव यजेत येष्वेव स्तोमेषु विभ्रंशते यस्मिन्यज्ञक्रतौ तेष्वेव प्रतितिष्ठति

१७.९.१ अन्याग्निष्टुत्

सप्तदशेनाग्निष्टुतान्नाद्यकामो यजेत

१७.९.२ अन्नसाधनत्वं

अन्नं वै सप्तदशोऽग्निरन्नाद्यस्य प्रदाताग्निरेवास्मा अन्नाद्यं प्रयच्छति

१७.९.३ वेदितुः फलं

अन्नादो भवति य एवं वेद

१७.९.४ स्तोमानुवाद स्तुतिः

सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिं एवाप्नोति

१७.१०.१ बृहस्पति सवः

त्रिवृदग्निष्टोमस्तस्यानिरुक्तं प्रातःसवनम्

१७.१०.२ अनिरुक्त स्तुतिः

प्रजापतिः प्रजा असृजत ता अस्मात्सृष्टा अपाक्रामन्स एतदनिरुक्तं प्रातःसवनं अपश्यत्तेनासां मध्यं व्यवैत्ता एनं उपावर्तन्त पर्येनं आविशन्

१७.१०.३ अधिकारि निर्णयः

ग्रामकामो यजेत यदेतदनिक्तं प्रातःसवनं भवति मध्यं एवासां व्यवैत्युपैनं आवर्तन्ते पर्येनं विशन्ति

१७.१०.४ वेदितुः फलं

स एष प्रजापतेरपूर्वो नास्मात्पूर्वो भवति य एवं वेद

१७.११.१ बृहस्पति सवैकाहः

त्रिवृदग्निष्टोमः

१७.११.२ दक्षिणाविभागः

तस्य प्रातःसवने सन्नेषु नाराशंसेष्वेकादशदक्षिणा व्यादिशत्यश्वद्वादशा मध्यन्दिने ता उभयीरपाकरोत्येकादश तृतीयसवने ता वशायां अपाकरोति

१७.११.३ संहत्य स्तुतिः

त्रयस्त्रिंशदेता दक्षिणा भवन्ति त्रयस्त्रिंशद्देवता देवता एवाप्नोत्यश्वश्चतुस्त्रिंशो दक्षिणानां प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिं एवाप्नोति

१७.११.४ संज्ञानिर्व्वचनं

स एष बृहस्पतिसवो बृहस्पतिरकामयत देवानां पुरोधां गच्छेयं इति स एतेनायजत स देवानां पुरोधां अगच्छत्

१७.११.५ वेदन फलं

गच्छति पुरोधां य एवं वेद

१७.११.६ प्राप्त स्थापत्यानुष्ठेयः

स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन्स एतेन यजेत

१७.११.७ तद्वेदन प्रशंसा

गच्छति स्थापत्यं य एवं वेद

१७.११.८ यजमानाभिषेकः

कृष्णाजिनेऽध्यभिषिच्यत एतद्वै प्रत्यक्षं ब्रह्मवर्चसं ब्रह्मवर्चस एवाध्यभिषिच्यते

१७.११.९ अभिषेकद्रव्याणि

आज्येनाभिषिच्यते तेज आज्यं तेज आत्मन्धत्ते

१७.१२.१ त्रिवृदग्निष्टुतैकाहः

त्रिवृदग्निष्टोमः स सर्वस्वारो यः कामयेतानामयतामुं लोकं इयां इति स एतेन यजेत

१७.१२.२ उत्पत्तिफलानुगुण्यं

प्राणो वै त्रिवृत्प्राणः स्वरः प्राणानेवास्य बहिर्णिरादधाति ताजक्प्रमीयते

१७.१२.३ स्तोम स्वरस्तुतिः

त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत्त्रिवृद्भवत्याशीयः संगच्छाता इत्यनन्तो वै स्वरोऽनन्तोऽसौ लोकोऽनन्तं एवैनं स्वर्गं लोकं गमयति

१७.१२.४ स्तोत्रीया विधान स्तुतिः

अभिवत्यः प्रवत्यो भवन्त्यस्मादेवैनं लोकात्स्वर्गं लोकं गमयन्ति

१७.१२.५ मरणार्थ सम्वेशनं

आर्भवपवमाने स्तूयमान औदुम्बर्या दक्षिणा प्रावृतो निपद्यते तदेव संगच्छते

१७.१२.६ यागनाम प्रदर्शनं

स एष शुनस्कर्णस्तोम एतेन वै शुनस्कर्णो बाष्किहोऽयजत तस्माच्छुनस्कर्णस्तोम इत्याख्यायते

१७.१३.१ वैश्वदेवपर्व्वीय सोमयागः

त्रिवृदग्निष्टोमो वैश्वदेवस्य लोकः

१७.१३.२ पशुदेवता विशेषः

आग्नेयी प्रतिपद्वैश्वदेवः पशुर्बार्हस्पत्यानुबन्ध्या

१७.१३.३ प्राप्त प्रतिषेधः

न यूपं मिन्वन्ति नोत्तरवेदिं निवपन्ति

१७.१३.४ यूपाभावे पशुनियोजनं

परिधौ पशुं नियुञ्जन्ति

१७.१३.५ दक्षिणापरिमाणं

पञ्चाशद्दक्षिणा

१७.१३.६ यजमानानुष्ठेय व्रतं

अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसं अश्नाति न स्त्रियं उपैति

१७.१३.७ वरुणप्रघास पर्व्वसोमयागः

ततश्चतुर्षु मासेषु वरुणप्रघासानां लोके द्विदिवः

१७.१३.८ प्रतिपत् पशुदेवते

वारुणी प्रतिपन्मारुतः पशुः

१७.१३.९ प्रतिपत् पशुदेवते

कवती प्रतिपद्वारुणः पशुः

१७.१३.१० शङ्कानिरासः

मैत्रावरुण्यनूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशू नियुञ्जन्ति

१७.१३.११ दक्षिणाव्रते

शतं दक्षिणा अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसं अश्नाति न स्त्रियं उपैति

१७.१३.१२ साकमेध पर्व्व सोमयागः

ततश्चतुर्षु मासेषु साकमेधानां लोके त्रिरात्रः

१७.१३.१३ प्रतिपत् पशुदेवतादि

अनीकवती प्रतिपदाग्नेयः पशुर्मारुती प्रतिपदैन्द्राग्नः पशुर्वैश्वकर्मणी प्रतिपदेकादशिनी पशवः सौर्यानूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशून्नियुञ्जन्ति पञ्चाशच्छतं दक्षिणा

१७.१३.१४ यजमान व्रत निर्णयः

अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसं अश्नाति न स्त्रियं उपैति

१७.१३.१५ शुनासीरी पर्व्व सोमयागः

ततश्चतुर्षु मासेषु शुनासीर्यस्य लोके ज्योतिष्टोमोऽग्निष्टोमः

१७.१३.१६ प्रतिपत् पशु देवतादि

उपवती प्रतिपद्वायव्यः पशुराश्विन्यनूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशुं नियुञ्जन्ति द्वादशं शतं दक्षिणा

१७.१३.१७ चातुर्म्मास्य याग फलं

अग्निः संवत्सरः सूर्यः परिवत्सरश्चन्द्रमा इदावत्सरो वायुरनुवत्सरोऽग्निं संवत्सरं वैश्वदेवेनाप्नोति सूर्यं परिवत्सरं वरुणप्रघासैश्चन्द्रमसं इदावत्सरं साकमेधैर्वायुं अनुवत्सरं शुनासीर्येण

१७.१३.१८ चातुर्म्मास्य याग फलं

हविर्यज्ञैर्वै देवा इमं लोकं अभ्यजयन्नन्तरिक्षं पशुमद्भिः सोमैरमुं इमानेव लोकानाप्नोत्येषु लोकेषु प्रतितिष्ठति य एवं वेद

१७.१४.१ अग्निहोत्रादेः फलं

यदाग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्र्या, यदा दश संवत्सरानग्निहोत्रं जुहोत्यथ दर्शपूर्णमासयाजिनं आप्नोति, यदा दश संवत्सरान्दर्शपूर्णमासाभ्यां यजतेऽथाग्निष्टोमयाजिनं आप्नोति, यदा दशभिरग्निष्टोमैर्यजतेऽथ सहस्रयाजिनं आप्नोति, यदा दशभिः सहस्रैर्यजतेऽथायुतयाजिनं आप्नोति,

१७.१४.२ अग्निहोत्रादेः फलं

यदा दशभिरयुतैर्यजतेऽथ प्रयुतयाजिनं आप्नोति, यदा दशभिः प्रयुतैर्यजतेऽथ नियुतयाजिनं आप्नोति, यदा दशभिर्नियुतैर्यजतेऽथार्बुदयाजिनं आप्नोति, यदा दशभिरर्बुदैर्यजतेऽथ न्यर्बुदयाजिनं आप्नोति, यदा दशभिर्न्यर्बुदैर्यजतेऽथ निखर्वकयाजिनं आप्नोति, यदा दशभिर्निखर्वकैर्यजतेऽथ बद्वयाजिनं आप्नोति, यदा दशभिर्बद्वैर्यजतेऽथाक्षितयाजिनं आप्नोति यदा दशभिरक्षितैर्यजतेऽथ गौर्भवति, यदा गौर्भवत्यथाग्निर्भवति यदाग्निर्भवत्यथ संवत्सरस्य गृहपतिं आप्नोति

१७.१४.३ वैश्वदेवाक्षय फलं

यदा संवत्सरस्य गृहपतिर्भवत्यथ वैश्वदेवस्य मात्रां आप्नोत्यतो वा इतरे परस्तरां परस्तरां एव सर्वे

१७.१४.४ तद्वेदितुः फलं

एतानेव लोकानाप्नोत्येतान्लोकान्जयति य एवं वेद