सङ्गीतरत्नाकरः/प्रबन्धाध्यायः
दिखावट
- अथ चतुर्थः प्रबन्धाध्यायः
- रञ्जकः स्वरसंदर्भो गीतमित्यभिधीयते
- गान्धर्वं गानमित्यस्य भेदद्वयमुदीरितम् १
- अनादिसंप्रदायं यद्गन्धर्वैः संप्रयुज्यते
- नियतं श्रेयसो हेतुस्तद्गान्धर्वं जगुर्बुधाः २
- यत्तु वाग्गेयकारेण रचितं लक्षणान्वितम्
- देशीरागादिषु प्रोक्तं तद्गानं जनरञ्जनम् ३
- तत्र गान्धर्वमुक्तं प्रागधुना गानमुच्यते
- निबद्धमनिबद्धं तद्द्वेधा निगदितं बुधैः ४
- बद्धं धातुभिरङ्गैश्च निबद्धमभिधीयते
- आलप्तिर्बन्धहीनत्वादनिबद्धमितीरिता ५
- सा चास्माभिः पुरा प्रोक्ता निबद्धं त्वधुनोच्यते
- संज्ञात्रयं निबद्धस्य प्रबन्धो वस्तु रूपकम् ६
- प्रबन्धावयवो धातुः स चतुर्धा निरूपितः
- उद्ग्राहः पथमस्तत्र ततो मेलापकध्रुवौ
- आभोगश्चेति तेषां च क्रमाल्लक्ष्माभिदध्महे ७
- उद्ग्राहः प्रथमो भागस्ततो मेलापकः स्मृतः
- ध्रुवत्वाच्च ध्रुवः पश्चादाभोगस्त्वन्तिमो मतः ८
- ध्रुवाभोगान्तरे जातो धातुरन्योऽन्तराभिधः
- स तु सालगसूडस्थरूपकेष्वेव दृश्यते ९
- वातपित्तकफा देहधारणाद्भातवो यथा
- एवमेते प्रबन्धस्य धातवो देहधारणात् १०
- तत्र मेलापकाभोगौ न भवेतां क्वचित्क्वचित्
- स द्विधातुस्त्रिधातुश्च चतुर्धातुरिति त्रिधा ११
- प्रबन्धोऽङ्गानि षट्तस्य स्वरश्च विरुदं पदम्
- तेनकः प्लाटतालौ च प्रबन्धपुरुषस्य ते १२
- भवन्त्यङ्गवदङ्गानि मङ्गलार्थप्रकाशके
- तत्र तेनपदे नेत्रे स्तः पाटबिरुदे करौ १३
- कराभ्यामुद्भवात्कार्ये कारणत्वोपचारतः १४
- प्रबन्धगतिहेतुत्वात्पादौ तालस्वरौ मतौ
- स्वराः षड्जादयस्तेषां वाचकाः सरिगादयः १५
- स्वराभिव्यक्तिसंयुक्ताः स्वरशब्देन कीर्तिताः
- बिरुदं गुणनाम स्यात्ततोऽन्यद्वाचकं पदम् १६
- तेनेतिशब्दस्तेनः स्यान्मङ्गलार्थप्रकाशकः
- ॐ तत्सदिति निर्देशस्तत्त्वमस्यादिवाक्यतः १७
- तदिति ब्रह्म तेनायं ब्रह्मणा मङ्गलात्मना
- लक्षितस्तेन तेनेति पाटो वाद्याक्षरोत्करः
- तालस्तालप्रकरणे सप्रपञ्चो निरूप्यते १८
- मेदिन्यथाऽऽनन्दिनी स्याद्दीपनी भावनी तथा
- तारावलीति पञ्च स्युः प्रबन्धानां तु जातयः १९
- अङ्गैः षड्जादिभिर्द्व्यन्तैः केषांचन मते श्रुतिः
- नीतिः सेना च कविता चम्पूरित्युदितास्तु ताः २०
- अनिर्युक्तश्च निर्युक्तः प्रबन्धो द्विविधो मतः
- छन्दस्तालाद्यनियमादाद्यः स्यान्नियमात्परः २१
- पुनः प्रबन्धास्त्रिविधाः सूडस्था आलिसंश्रयाः
- विप्रकीर्णाश्च तत्राऽऽदौ सूडलक्षणमुच्यते २२
- एलाकरण्ढेङ्कीभिर्वर्तन्या झोम्बडेन च
- लम्भरासैकतालीभिरष्टभिः सूड उच्यते २३
- वर्णो वर्णस्वरो गद्यं कैवाडश्चाङ्कचारिणी
- कन्दस्तुरगलीला च गजलीला द्वियद्यपि २४
- चक्रवालः क्रौञ्चपदः स्वरार्थो ध्वनिकुट्टिनी
- आर्या गाथा द्विपथकः कलहंसश्च तोटकम् २५
- घटो वृत्तं मातृका च तथा रागकदम्बकः
- पञ्चतालेश्वरस्तालार्णव इत्येषु कश्चन २६
- सूडक्रमस्य मध्ये चेदसावालिक्रमो भवेत्
- सूडालिक्रमसंबन्धाद्द्वात्रिंशदिति कीर्तिताः २७
- ततोऽन्ये विप्रकीर्णास्तान्प्रसिद्धान्कतिचिद्ब्रुवे
- श्रीरङ्गः श्रीविलासः स्यात्पञ्चभङ्गिरतः परम् २८
- पञ्चाननोमातिलकौ त्रिपदी च चतुष्पदी
- षट्पदी वस्तुसंज्ञश्च विजयस्त्रिपथस्तथा २९
- चतुर्मुखः सिंहलीलो हंसलीलोऽथ दण्डकः
- झुम्बडः कन्दुकः स्यात्त्रिभङ्गिर्हरविलासकः ३०
- सुदर्शनः स्वराङ्कः श्रीवर्धनो हर्षवर्धनः
- वदनं चञ्चरी चर्या पद्धडी राहडी तथा ३१
- वीरश्रीर्मङ्गलाचारो धवलो मङ्गलस्तथा
- ओवी लोली ढोल्लरी च दन्ती षट्त्रिंशदित्यमी ३२
- अङ्घ्रौ खण्डद्वयं सानुप्रासमेकेन धातुना
- ततः प्रयोगस्तदनु पल्लवाख्यं पदत्रयम्
- द्वे स्तो विलम्बिते तत्र तृतीयं द्रुतमानतः ३३
- एवं पादत्रयं गेयमुद्ग्राहे तुल्यधातुकम्
- केवलं तु तृतीयेऽङ्घ्रौ संबोधकपदान्वितः ३४
- प्रयोगोऽन्त्यो विधातव्यो न पल्लवपदस्थितिः
- अमुं प्रयोगं मेलापं प्राहुः सोमेश्वरादयः ३५
- स्तुत्यनामाङ्कितो मध्यविलम्बितपदत्रयः
- ध्रुवस्ततस्तत्र पूर्वमेकधातुपदद्वयम् ३६
- भिन्नधातु तृतीयं स्यादाभोगस्तदनन्तरम्
- गेयो वाग्गेयकारेण स्वाभिधानविभूषितः ३७
- पुनर्गीत्वा ध्रुवे त्यागो ग्रहस्तु विषमो भवेत्
- एलासामान्यलक्ष्मैतत्पूर्वाचार्यैरुदीरितम् ३८
- मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन
- तालोऽस्यां त्यागसौभाग्यशौर्यधैर्यानुवर्णनम् ३९
- एलानां बहवः सन्ति विशेषास्तेषु केचन
- व्युत्पत्तये निरूप्यन्ते मतङ्गादिमतोदिताः ४०
- अकारे दैवतं विष्णुरिकारे कुसुमायुधः
- लक्ष्मीर्लकार एलानामिति वर्णेषु देवताः ४१
- काममन्मथवत्कान्तजितमत्तविकारिणः
- मांधातृसुमती शोभी सुशोभी गीतको नुतः ४२
- विचित्रो वासवमृदुसुचित्रा इति षोडश
- नामान्येलापदानां स्युः षोडशानामनुक्रमात् ४३
- पद्मालया पत्रिणी च रञ्जनी सुमुखी शची
- वरेण्या वायुवेगा च वेदिनी मोहिनी जया ४४
- गौरी ब्राह्मी च मातङ्गी चण्डिका विजया तथा
- चामुण्डैलापदेष्वेताः क्रमात्षोडश देवताः ४५
- समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः ४६
- अग्राम्यः सुकुमारश्च प्रसन्नौजस्विनाविति
- मांधात्रादिपदेषु स्युः प्राणा दश दशस्विमे ४७
- समानोऽल्पाक्षरध्वानो मधुरस्त्वनादजः
- अल्पमूर्छनया युक्तः सान्द्रस्तु निबिडाक्षरः ४८
- अल्प्लध्वनिस्तारगतिः कान्तः कान्तध्वनिर्मतः
- दीप्तस्तु दीप्तनादः स्यात्स्थायिस्थस्तु समाहितः ४९
- अग्राम्योऽक्षरनादानामावत्त्या समुदाहृतः
- सुकुमारो वर्णनादमूर्छनाकोमलत्वतः ५०
- प्रसन्नः स्यात्पदस्थानस्वरादीनां प्रसादतः
- ओजोबहुल ओजस्वीत्येभिः सर्वगुणैर्युतः ५१
- एला श्रोतुः प्रयोक्तुश्च धर्मकामार्थसिद्धिदा
- गणमात्रावर्णदेशविशिष्टास्ताश्चतुर्विधाः ५२
- गणः समूहः स द्वेधा वर्णमात्राविशेषणात्
- गुरुर्लघुरिति द्वेधा वर्णोऽनुस्वारसंयुतः ५३
- सविसर्गो व्यञ्जनान्तो दीर्घो युक्तपरो गुरुः
- वा पदान्ते त्वसौ वक्रो द्विमात्रो मात्रिको लघुः ५४
- ऋजुर्लिपौ भ्रे ष्के ष्पे च रहोर्योगे स वा लघुः
- ए ओइं हिं पदान्ते वा प्राकृते लघवो मताः ५५
- पदमध्येऽप्यपभ्रंशे हुंहे ए ओइमित्यमी
- तत्र वर्णगणो वर्णैस्त्रिभिरष्टविधश्च सः ५६
- मस्त्रिगुः पूर्वलो यः स्यान्मध्यलो रोऽन्तगुस्तु सः
- तोऽन्तलो मध्यगो जः स्याद्गादिर्भस्त्रिलघुस्तु नः ५७
- इत्येषां देवता भूमिजलाग्निमरुतोऽम्बरम् ५८
- सूर्यचन्द्रसुरावासाः क्रमात्कुर्युः फलानि ते
- श्रीवृद्धिनिधनस्थानभ्रंशनिर्धनतारुजः ५९
- शीर्तिमायुश्च वर्णस्य श्लोकगीतादियोगतः
- सोमो भौमो बुधो जीवः शुक्रः सौरी रविस्तमः ६०
- क्रमादकचटानां तपयशानां च देवताः
- वर्गाणां च फलान्येषामायुष्कीर्ती असद्यशः ६१
- संपत्सुभगता कीर्तिर्मान्द्यं मृत्युश्च शून्यता
- प्रयोगे श्लोकगीतादौ स्तुत्यस्योक्तानि सूरिभिः ६२
- मात्रा कला लघुर्लः स्यात्तद्गणाश्छपचास्तदौ
- स्युः षट्पञ्च चतुस्त्रिद्विसंख्यमात्रायुताः क्रमात् ६३
- यथा--ऽ ऽ ऽ इति च्छगणः ऽ ऽ । इति पगणः ऽ ऽ । इति
- चगणः ऽ । इति तगणः ऽ इति दगणः इति पञ्च मात्रागणाः ।
- अत्युक्तायास्तु चत्वारो भेदा रतिगणा मताः
- किंतु तत्र लपूर्वा ये तेष्वादावधिको लघुः ६४
- एवं मध्याभवा भेदा अष्टौ कामगणाः स्मृताः
- तद्वद्बाणगणा भेदाः प्रतिष्ठायास्तु षोडश ६५
- इति मात्रागणाः
- तत्र वर्णगणैर्जाता गणैला परिकीर्तिता
- सा भवेत्त्रिविधा शुद्धा संकीर्णा विकृता तथा ६६
- शुद्धा चतुर्विधा नादावती हंसावती तथा
- नन्दावती च भद्रावत्यथाऽऽसां लक्ष्म कथ्यते
- गणादिनियमस्त्वासामङ्घ्रिखण्डद्वयाश्रयः ६७
- नादावती पञ्चभिर्भैर्नान्तैः स्याट्टक्कमण्ठयोः
- ऋग्वेदोच्छ्वासिता विप्रा कैशिकीवृत्तिमाश्रिता
- पाञ्चाली रीतिर्भारत्याः ह्प्रीत्यै शृङ्गारवर्धनी ६८
- इति नादावती
- रगणैः पञ्चभिः सान्तैः प्रोक्ता हंसावती बुधैः
- द्वितीयताले हिन्दोले क्षत्त्रिया यजुरुद्भवा ६९
- लोहितारभटीवृत्तिं लाटीरीतिं च संश्रिता
- रौद्ररसे चण्डिकायाः प्रीतये विनियुज्यते ७०
- इति हंसावती
- पञ्चभिस्तगणैर्जान्तैरेला नन्दावती मता
- प्रतितालेन सा गेया रागे मालवकैशिके ७१
- सामवेदोद्भवा पीता वैश्या सात्वतवृत्तिजा
- गौडीयरीतिरिन्द्राण्याः प्रीत्यै वीररसाश्रिता ७२
- इति नन्दावती
- भद्रावती पञ्चभिर्मेर्यान्तैः कङ्कालतालतः
- ककुभेऽथर्ववेदोत्था कृष्णा शूद्रा च भारतीम् ७३
- वृत्तिं वैदर्भरीतिं च श्रिता बीभत्ससंभृता
- वाराहीदेवताप्रीत्यै शार्ङ्गदेवेन कीर्तिताः ७४
- इति भद्रावती
- बहुधासंकरादासां संकीर्णा बहुधा मताः
- अप्रसिद्धास्तु ता लक्ष्ये तेन नेह प्रपञ्चिताः ७५
- शुद्धाः स्युर्विकृतास्तिस्रआद्या गणविकारतः
- वासवी संगता त्रेता चतुरा बाणसंज्ञिता ७६
- एकद्वित्रिचतुष्पञ्चविकारात्पञ्चधेति ताः
- प्रत्येकं वासवी पञ्चविधा रामा मनोरमा ७७
- उन्नता शान्तिसंज्ञा च नागरेत्युच्यते बुधैः
- गणानां प्रथमादीनां विकारात्पञ्चमावधि ७८
- रमणीया च विषमा समा लक्ष्मीश्च कौमुदी ७९
- कामोत्सवा नन्दिनी च गौरी सौम्या ततः परम्
- रतिदेहेति दशधा संगता गदिता बुधैः ८०
- आद्यस्य स्युर्द्वितीयादिसहितस्य विकारतः
- चतस्रस्ता द्वितीयस्य तृतीयादियुजस्त्रयम् ८१
- विकारेण तृतीयस्य चतुर्थादियुजो द्वयम्
- तुर्यपञ्चमयोस्त्वेको लक्ष्म तासां क्रमादिति ८२
- त्रेता दशविधा प्रोक्ता मङ्गला रतिमङ्गला
- कलिका तनुमध्या च वीरश्रीर्जयमङ्गला ८३
- विजया रत्नमाला च गुरुमध्या रतिप्रभा
- आद्याक्षरेण ग्रहणं प्रथमादेरिहेष्यते ८४
- प्रद्वित्रिणां प्रद्विचानां प्रद्विपानां प्रचत्रिणाम्
- प्रत्रिपानां प्रचपानां द्वित्रिचानां द्विपत्रिणाम्
- चद्विपानां चत्रिपानां विकृतेः स्युः क्रमादिमाः ८५
- त्यक्त्वैकैकं गणं त्वाद्याच्चतुर्णां स्याद्विकारतः
- चतुरा पञ्चधा तत्र प्रथमा तूत्सवप्रिया
- महानन्दा मलहरी जया च कुसुमावती ८६
- आद्यात्पञ्चविकारेण बाणा स्यात्पार्वतीप्रिया ८७
- प्रत्येकमेकत्रिंशत्ते नादावत्यादिषु स्थिताः
- भेदास्त्रिनवतिर्युक्ता अन्ये पञ्चदश त्विमे ८८
- सावित्री पावनी वातसावित्री च त्रिधा मता
- संगता सवितुः क्षिप्ते पवनस्य गणे क्रमात् ८९
- द्वितीये चाऽऽद्यभेदाभ्यां द्विविधा वासवी मता
- नादावत्यामिमे भेदा हंसावत्यामपि त्रिधा ९०
- व्योमजा वारुणी व्योमवारुणी चेति संगताः
- तद्दैवत्यगणोपेता तथा स्याद्वासवी द्विधा ९१
- नन्दावत्यां वह्निजा च वारुणी वह्निवारुणी
- तद्गणैः संगता त्रेधा तथा द्वेधा च वासवी ९२
- इत्येते विकृता भेदा अष्टोत्तरशतं मताः ९३
- पार्वतीमतात्
- मात्रागणैस्तु मात्रैला सा च ज्ञेया चतुर्विधा
- रतिलेखा कामलेखा बाणलेखा तथाऽपरा ९४
- चन्द्रलेखेति तत्राऽऽद्ये पादे रुद्राः कला यदि
- द्वितीये च तृतीये तु मात्रा दश तदा भवेत् ९५
- रतिलेखा रतिगणैः कामलेखा तु मान्मथैः
- द्विगुणाभिः कलाभिः स्यान्मात्रात्रैगुण्यतो भवेत् ९६
- बाणलेखा बाणगणैश्चन्द्रलेखा तु मिश्रितैः
- गणैर्श्चतुर्गुणकलाश्चतस्रोऽन्या ब्रुवेऽधुना ९७
- आद्येन्दुमत्यथो ज्योतिष्मती पश्चान्नभस्वती
- वसुमत्यपि तत्रेन्दुमती छैः पञ्चभिः सतैः ९८
- पञ्चभिः पैः सचगणैराहुर्ज्योतिष्मतीं बुधाः
- त्रिभिश्चैः पगणेनापि च्छाद्यन्ता स्यान्नभस्वती ९९
- सा स्याद्वसुमती यस्यां दपचाः पत्रयं छतौ १००
- नन्दिमतात्
- नादावत्यादयो मात्राश्चाद्यैः स्वगणभङ्गजैः
- गणाः पञ्च त्रिमात्रोऽन्ते गणाः सप्तान्तिमो लघुः १०१
- गणाः सप्त लघुश्चान्ते त्रिमात्रोऽन्ते गणाष्टकः
- लक्ष्माणीति क्रमात्तासामित्यूचे सव्यसाचिना १०२
- एकद्वित्रिचतुष्पञ्चमात्रावृद्धिर्यदाऽङ्घ्रिषु
- तदा विचित्रमात्रैलां तां जगाद धनंजयः १०३
- नन्दिनी चित्रिणी चित्रा विचित्रेत्यभिधानतः
- रतिलेखादयः प्रोक्ताः क्रमादनियतैर्गणैः १०४
- एलयोराद्ययोरङ्घ्री व्यत्यस्तावयुजाविह १०५
- इति विंशतिर्मात्रैलाः
- गणमात्राद्यनियता वर्णैला वर्णसंख्यया
- षडक्षरादङ्घ्रिखण्डादेकोनत्रिंशदक्षरम्
- यावदेकैकवृद्ध्यैलाश्चतुर्विंशतिरीरिताः १०६
- प्रथमा मधुकर्युक्ता सुस्वरा करणी ततः १०७
- चतुर्थी सुरसा प्रोक्ता पञ्चमी तु प्रभञ्जनी
- षष्ठी मदनवत्युक्ता शशिनी च प्रभावती १०८
- मालती ललिताख्या च मता भोगवती ततः
- ततः कुसुमवत्याख्या कान्तिमत्यपरा भवेत् १०९
- ततः कुमुदिनी ख्याता कलिका कमला तथा
- विमला नलिनी संज्ञा कालिन्दी विपुला ततः ११०
- विद्युल्लता विशाला च सरला तरलेति ताः
- अत्रान्त्या वर्णमात्रैला द्वादशेत्यपरे जगुः १११
- मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन
- तालस्तासु विधातव्यो रागादिनियमो न तु ११२
- रमणी चन्द्रिका लक्ष्मीः पद्मिनी रञ्जिनी तथा
- मालती मोहिनी सप्त मतङ्गेनेति कीर्तिताः
- यतिमात्रेण भिन्नास्ता इत्यस्माभिर्न दर्शिताः ११३
- इति वर्णैला
- कर्णाटलाटगौडान्ध्रद्राविडानां तु भाषया
- देशाख्यैला बुधैः पञ्च प्रोक्ता मण्ठादितालतः ११४
- कर्णाटैलाऽऽदिमध्यान्तवर्त्यनुप्रासभूषिता
- नादावत्यादिका एव कर्णाटीरपरे विदुः ११५
- षट्प्रकारत्वमेतासां वक्ष्यमाणैर्विशेषणैः
- ब्रह्मणः पूर्ववदनाज्जन्म शंभुर्गणाधिपः ११६
- आद्याङ्घ्री आद्यनुप्रासो रत्यन्तं मदनद्वयम्
- प्रत्येकं च तयोरादिमध्यप्रासस्तृतीयकः ११७
- चतुष्कामो रतिप्रान्तः सुरेखा स्यात्तदाऽऽदिमा
- दक्षिणास्याज्जनुर्यस्याः सावित्री देवता हरिः ११८
- गणाधिपश्चतुष्कामं प्रत्येकं चरणद्वयम्
- आदिमध्यस्थितं प्रासं त्रिप्रासोऽङ्घ्रिस्तृतीयकः ११९
- अष्टौ कामाः कामलेखा प्रोक्ता हंसावती च सा
- पश्चिमाद्वदनाज्जन्म ब्रह्मा यस्या गणाधिपः १२०
- गायत्री देवताऽप्यादिमध्यप्रासास्त्रयोऽङ्घ्रयः
- पृथक्चतुःस्मरां नन्दावती सा स्वरलेखिका १२१
- जन्मोत्तरास्याद्गन्धर्वो गणेशः षट्च मन्मथाः
- बाणान्ताः पादयो यस्याः प्रत्येकं स्युस्तृतीयके १२२
- अष्टौ कामा आदिमध्यप्रान्तप्रासास्त्रयोऽङ्घ्रयः
- भद्रावती भद्रलेखा सा स्यात्कर्णाटसंमता १२३
- पञ्च कामा रतिश्चैका कामोऽन्ते चरणत्रये
- प्रत्येकं तासु चेदेताश्छन्दस्वत्योऽखिला मताः १२४
- गणादेर्न्यूनताधिक्यादेलाभासा इमा मताः १२५
- यदेकस्य द्वयोरङ्घ्र्योस्त्रयाणां चान्ततः कृतम्
- अङ्घ्रिपूर्त्यै तदन्यच्चेत्तृतीयाङ्घ्रिमितं पदम्
- शिखापदं तत्तृतीये त्वङ्घ्रौ मेलापकादयः १२६
- इति कर्णाटैला
- प्रान्तप्रासा तु लाटी स्याद्भूयो रसविराजिता
- गमकप्रासनिर्मुक्ता गौडी त्वेकरसा मता १२७
- नानाप्रयोगरागांशरसभावोत्कटाङ्घ्रिका
- भूरिभावरसोत्कर्षा द्राविडी प्रासवर्जिता १२८
- इति देशाख्यैला
- तत्तल्लक्ष्मा यदा तासु पादस्तुर्यो निबध्यते
- तदैता गदिताः सर्वाश्छन्दस्वत्यः पुरातनैः १२९
- द्वावङ्घ्री प्रासहीनौ स्तस्तृतीयः प्राससंयुतः
- ध्रुवाभोगौ च तेषु स्युश्चतस्रो यतयः पृथक्
- वर्णैलावत्परं यस्यां सा वस्त्वेला निरूपिता १३०
- षट्पञ्चाशद्युतं प्रोक्तमित्येलानां शतत्रयम्
- अनन्तत्वात्तु संकीर्णा न संख्याति हरप्रियः १३१
- इत्येलालक्षणम्
- अष्टधा करणं तत्र स्वराद्यं पाटपूर्वकम्
- बन्धादिमं पदाद्यं च तेनाद्यं बिरुदादिमम्
- चित्राद्यं मिश्रकरणमित्येषां लक्ष्म कथ्यते १३२
- यत्रोद्ग्राहध्रुवौ सान्द्रस्वरबद्धौ पदैः पुनः
- आभोगस्तत्र नाम स्याद्गातृनेत्रोर्ग्रहः पुनः १३३
- इष्टस्वरेऽशे न्यासः स्याद्रासतालो द्रुतो लयः
- करणं स्वरपूर्वं तत्तद्वदन्यान्यपि स्फुटम्
- किंतु तेषां स्वरस्थाने भेदकानि प्रचक्ष्महे १३४
- स्वरैः सहस्तपाटैस्तु स्यात्पाटकरणं ध्रुवम्
- क्रमव्यत्यासभेदेन तद्द्विधा परिकीर्तितम् १३५
- स्वरैर्मुरजपाटैर्यत्तद्बन्धकरणं मतम्
- स्वरैः पदैश्च बद्धं यत्करणं तत्पदादिमम् १३६
- यत्स्वरैर्विरुदैर्बद्धं करणं विरुदादि तत्
- स्वरैः सतेनकैर्यत्तु तत्तेनकरणं मतम् १३७
- स्वरैः सकरपाटैर्यन्निबद्धं मुरजाक्षरैः
- पदैस्तच्चित्रकरणमभिधत्ते हरप्रियः १३८
- स्यान्मिश्रकरणं बद्धं स्वरैः पाटैः सतेनकैः १३९
- मङ्गलारम्भ आनन्दवर्धनं कीर्तिपूर्विका
- लहरीति त्रिधा तानि प्रत्येकं गानभेदतः १४०
- द्विरुद्ग्राहं ध्रुवाभोगौ सकृद्गीत्वा पुनः सकृत्
- गीयते चेद्ध्रुवोद्ग्राहौ मङ्गलारम्भकस्तदा १४१
- उद्ग्राहध्रुवकौ प्राग्वद्ध्रुवार्धं पश्चिमं ततः
- आभोगध्रुवकोद्ग्राहाः सकृदानन्दवर्धने १४२
- उद्ग्राहस्य द्वितीयार्धं ध्रुवार्धस्थानगं यदि
- इतरत्पूर्ववत्कीर्तिलहरी कीर्तिता तदा १४३
- इति सप्तविंशतिः करणानि
- इति करणप्रबन्धः
- द्विर्गीत्वोद्ग्राहपूर्वार्धमुत्तरार्धं सकृत्ततः
- मेलापकः प्रयोगात्मा न वा स्यात्तावुभावपि
- अतालौ ढेङ्किकाताले कङ्काले वा विलम्बिते १४४
- लयान्तरेऽन्यतालेन ध्रुवाभोगौ ध्रुवस्त्विह १४५
- त्रिखण्डस्तत्र खण्डे द्वे गीयेते समधातुनी
- तृतीयमुच्चमेष द्विराभोगस्तु सकृत्ततः १४६
- पुनर्गीत्वा ध्रुवे न्यासो यस्यां सा ढेङ्किका मता
- चतुर्धा ढेङ्किका मुक्तावल्ली स्याद्वृत्तबन्धिनी
- युग्मिनी वृत्तमाला च तासां लक्ष्माण्यमून्यथ १४७
- अभावश्छन्दसां वृत्तं वृत्ते वृत्तानि च क्रमात् १४८
- त्रिधा तिस्रो द्वितीयाद्या वर्णिका गणिका तथा
- मात्रिका वर्णजैर्वृत्तैर्गणजैर्मात्रिकैरपि १४९
- दशापि स्युः पुनस्त्रेधा समालंकरणा तथा
- विषमालंकृतिश्चित्रालंकृतिर्लक्षणानि तु १५०
- समाऽलंकारसंख्या च विषमा मिश्रिता क्रमात् १५१
- इति त्रिंशड्ढेङ्क्यः
- इति ढेङ्कीप्रबन्धः
- स्वराद्यकरणस्येव वर्तन्या लक्ष्म किं त्विह
- रासकादन्यतालः स्याल्लयो ज्ञेयो विलम्बितः १५२
- द्वरुद्ग्राहो ध्रुवाभोगौ सकृन्मोक्षो ध्रुवे भवेत्
- कङ्काले प्रतिताले च कुडुक्के द्रुतमण्ठके
- रचिता चेत्तदा ज्ञेया वर्तन्येव विवर्तनी १५३
- इति वर्तनी
- इति वर्तनीलक्षणम्
- द्विर्यत्रोद्ग्राहपूर्वार्धमुत्तरार्धं सकृत्ततः १५४
- मेलापकः प्रयोगाद्यः सर्वा स्याद्द्विस्ततो ध्रुवः
- आभोगं तु सकृद्गीत्वा ध्रुवे न्यासः स झोम्बडः १५५
- निःसारुकः कुडुक्कश्च त्रिपुटप्रतिमण्ठकौ
- द्वितीयो गारुगीरासयतिलग्नाड्डतालिकाः १५६
- एकतालीत्यमी ताला झोम्बडे नियता दश
- केचिन्मण्ठमपीच्छन्ति नैष लक्ष्येषु लक्ष्यते १५७
- तारजोऽतारजश्चेति झोम्बडो द्विविधो मतः
- तारो ध्वनिस्थानकं स्यात्तद्युक्तस्तारजो मतः १५८
- स चतुर्धा स्थानकस्योद्ग्राहदिषु निवेशने
- अतारजस्तारहीनः सर्वोऽप्येष द्विधा मतः १५९
- त्रिधातुश्च चतुर्धातुरिति भूयो भवेद्द्विधा
- प्रभूतगमकः स्तोकगमकश्चेत्यमी स्फुटाः १६०
- प्रायोगिकः क्रमाख्यश्च ततः क्रमविलासकः
- चित्रो विचित्रलीलश्चेत्यमीं स्युः पञ्चधा पृथक्
- चतुराद्यष्टपर्यन्तं गणनिष्पादिताः क्रमात् १६१
- मातृकः श्रीपतिस्तद्वत्सोमो रुचिरसंगतौ
- ते लक्ष्येष्वप्रवृत्तत्वादस्माभिर्न प्रपञ्चिताः १६२
- विनियोगवशादेषां त्रयोदश भिदाः पृथक् १६३
- उपमारूपकश्लेषैर्ब्रह्मा वीरविलासयोः
- विष्णुश्चक्रेश्वरो वीरे बीभत्से चण्डिकेश्वरः १६४
- नरसिंहोऽद्भुतरसे भैरवस्तु भयानके
- हास्यशृङ्गारयोर्हंसः सिंहो वीरभयानके १६५
- विप्रलम्भे तु सारङ्गः शेखरः करुणे रसे
- सशृङ्गारे पुष्पसारः शृङ्गारे परिकीर्तितः
- रौद्रे प्रचण्डो नन्दीशः शान्ते धीरैरुदीरितः १६६
- गद्यजाः पद्यजा गद्यपद्यजा इति ते त्रिधा १६७
- झोम्बडा इति संख्याता वियच्चन्द्रशराग्नयः १६८
- इति झोम्बडाः
- इति झोम्बडलक्षणम्
- उद्ग्राहो द्विः सकृदैकखण्डो द्विशकलोऽथवा
- यत्र ध्रुवो द्विर्वाऽऽभोगो ध्रुवे मुक्तिः स लम्भकः १६९
- भागोऽस्मिञ्झोम्बडेऽप्यूर्ध्वं ध्रुवादुद्ग्राहसंनिभः
- ध्रुवाभोगध्रुवा गेयास्तत इत्यूचिरे परे १७०
- उद्ग्राहस्तालशून्यश्चेत्स स्यादालापलम्भकः
- स प्रलम्भो ध्रुवस्थाने यत्रोद्ग्राहोऽन्यधातुकः १७१
- यत्र भागो भवेल्लम्भे भागलम्भः स भण्यते
- त्रिश्चतुष्पञ्चवारं वा भिन्नोद्ग्राहसमन्वितः
- ध्रुवको गीयते यत्र स लम्भपदमुच्यते १७२
- ध्रुवभेदेऽनुलम्भोऽसौ द्विभेदे तूपलम्भकः १७३
- एते त्रयोऽप्यनाभोगा विलम्भस्तु स उच्यते
- उद्ग्राहा बहवो यस्मिन्ध्रुवाभोगविवर्जिताः
- एते सालगसूडस्थैस्तालैराकलिता मताः १७४
- इत्यष्टौ लम्भकाः
- इति लम्भलक्षणम्
- यो झोम्बडगतं लक्ष्म गमकस्थानकैर्विना
- भजते रासकः सोऽयं रासतालेन गीयते
- गणैर्वर्णैश्च मात्राभिः केचिदेनं त्रिधा जगुः १७५
- स्याद्रासवलयो हंसतिलको रतिरङ्गकः
- चतुर्थस्तत्र मदनावतारश्छगणादिजाः १७६
- षडक्षराङ्घ्रितस्त्रिंशदक्षरावधिवर्णजाः
- पञ्चविंशतिराख्याताश्चरणादष्टमात्रिकात् १७७
- षष्टिमात्रावधि प्रोक्तास्त्रिपञ्चाशत्तु मात्रिकाः
- लक्ष्ये प्रसिद्धिवैधुर्यात्तेष्वस्माकमनादरः १७८
- इति रासकलक्षणम्
- इति रास लक्षणम्
- द्विरुद्ग्राहो ध्रुवोऽपि द्विराभोगध्रुवकौ ततः
- गीत्वा न्यासो यत्र सा स्यादेकताल्येकतालिका १७९
- अस्यामालापमात्रेण केचिदुद्ग्राहमूचिरे १८०
- इत्येकताली । इति सूडक्रमः
- इत्येकतालीलक्षणम्
- इति शुद्धसूडक्रमः
- बिरुदैर्वर्णतालेन वर्णः कर्णाटभाषया
- तालत्रैविध्यतस्तस्य त्रैविध्यं गदितं बुधैः १८१
- इति वर्णः
- इति वर्णप्रबन्धः
- स्वरैः पाटैः पदैस्तेनै रचना वाञ्छितक्रमात्
- यस्य स्यात्तेनकैर्न्यासः स वर्णस्वर उच्यते १८२
- स्वरादेरादिविन्यासभेदादेष चतुर्विधः १८३
- इति वर्णस्वरः
- गद्यं निगद्यते छन्दोहीनं पदकदम्बकम्
- तत्षोढोत्कलिका चूर्णं ललितं वृत्तगन्धि च
- खण्डं चित्रं च तेषां च प्रभवः सामवेदतः १८४
- गातव्योत्कलिका वीरे रक्ता रुद्राधिदेवता
- गौडीयरीतिरुचिरा वृत्तिमारभटीं श्रिता १८५
- चूर्णं शान्ते रसे पीतं गातव्यं ब्रह्मदैवतम्
- वैदर्भरीतिसंपन्नं सात्वतीं वृत्तिमाश्रितम् १८६
- सितं मदनदैवत्यं शृङ्गाररसरञ्जितम्
- ललितं कैशिकीं वृत्तिं पाञ्चालीं रीतिमाश्रितम् १८७
- वृत्तगन्धि रसे शान्ते पीतं च मुनिदैवतम्
- पाञ्चालरीतौ भारत्यां पद्यभागविमिश्रितम् १८८
- खण्डं गणेशदैवत्यं सात्वतीं वृत्तिमाश्रितम्
- श्वतं हास्यकृदारब्धं वैदर्भीभङ्गिसंभवम् १८९
- शृङ्गारे वैष्णवं चित्रं चित्रकैशिकवृत्तिजम्
- वैदर्भ्या रचितं रीत्या नानारीतिविचित्रया १९०
- वेणी मिश्रमिति प्राहुरन्ये भेदद्वयं परम्
- वेणी सर्वैः कृता मिश्रं चूर्णकैर्वृत्तगन्धिभिः १०१
- द्रुता विलम्बिता मध्या द्रुतमध्या तथा परा
- गतिर्द्रुतविलम्बा स्यात्षष्ठी मध्यविलम्बिता
- इति गद्यस्य षट्प्रोक्ता गतयः पूर्वसूरिभिः १९२
- लघुभिर्बहुलैरल्पैः समैराद्यत्रयं क्रमात्
- पृथग्लगत्वे मिश्रैस्तु लगैस्तद्वत्परं त्रयम् १९३
- प्रत्येकं गतिषटिकेन षट्त्रिंशद्गद्यजा भिदाः १९४
- प्रणवाद्यमतालं च गमकैरखिलैर्युतम्
- वर्णैश्चातालशब्दानां स्वरैरन्तेऽन्तराऽन्तरा १९५
- प्रबन्धाङ्कं सतालं च पदद्वंद्वं पृथक्ततः
- द्विर्गीत्वा गीयते यत्र प्रयोगोऽपि विलम्बितः १९६
- गातृनाम सतालं च सतालं वर्ण्यनाम च
- विलम्बितेन मानेन पुनरप्यविलम्बितम्
- गीत्वा विलम्बितालेन न्यासो गद्यं तदिष्यते १९७
- इति गद्यम्
- इति गद्यप्रबन्धः
- पाटैः स्यातां ध्रुवोद्ग्राहौ कैवाडे न्यसनं ग्रहे १९८
- सार्थकैरर्थहीनैश्च पाटैः स द्विविधो मतः
- स शुद्धैर्मिश्रितैः पाटैः शुद्धो मिश्र इति द्विधा १९९
- इति कैवाडः
- वीररौद्राश्रितैर्बद्धा बिरुदैरङ्कचारिणी
- वर्ण्यनामान्विताभोगा तालेनेष्टेन गीयते २००
- वासवी कलिका वृत्ता ततो वीरवती भवेत्
- वेदोत्तरा जातिमती षट्प्रकारेति सा मता २०१
- एकद्वित्रिचतुष्पञ्च तालाः स्युर्विरुदानि तु
- अष्टौ षोडश तद्वच्च द्वात्रिंशद्द्व्यधिका क्रमात् २०२
- पञ्चाशञ्च चतुर्युक्तं शतमाद्यासु पञ्चसु
- नियमो जातिमत्यां तु न तालबिरुदाश्रयः २०३
- इत्यङ्कचारिणी
- कर्णाटादिपदैः पाटैर्विरुदैस्तालवर्जितः
- आर्यागीतौ रसे वीरे कन्दः स्यात्पाटमुक्तिकः २०४
- पवनो रविसंज्ञश्च धनदो हव्यवाहनः
- सुरनाथः समुद्रश्च वरुणः शशिशैलकौ २०५
- मधुमाधवनामानौ ततोऽपि मदनध्वजः
- जयन्तो मधुपश्चाथ शुकसारसकेकिनः २०६
- हरिश्च करभो हस्ती कादम्बः कूर्मको नयः
- विनयो विक्रमोत्साहौ धर्मार्थः काम इत्यमी
- एकोनत्रिंशदाख्याताः कन्दभेदाः पुरातनैः २०७
- त्रिंशाद्गुरोरा द्विगुरोः क्रमादेकैकभङ्गतः २०८
- इति कन्दः
- हयलीलेन तालेन हयलीला द्विधा च सा
- गद्यजा पद्यजा चेति पद्यजा तु चतुर्विधा २०९
- पूर्वार्धमुत्तरार्धं वा द्वेधा तालयुतं यदि
- आर्यायाः स्युस्तदा तिस्रश्चतुर्थी त्वादिमे दले
- स्वरैः पदैस्तु बिरुदैः सताले रचिता मता २१०
- केचित्तु हयलीलेन च्छन्दसा तां विदुर्बुधाः २११
- इति नव तुरगलीलाः
- इति हयलीलालक्षणम्
- तालेन गजलीलेन गजलीला निगद्यते
- छन्दोहीनेतरल्लक्ष्म हयलीलागतं मतम्
- इति गजलीलालक्षणम्
- शुद्धा खण्डा च मात्रादिः संपूर्णेति चतुर्विधा
- द्विपदी करुणाख्येन तालेन परिगीयते २१३
- पादे छः पञ्च भा गोऽन्ते जौ स्तः षष्ठद्वितीयकौ
- चतुर्भिरीदृशैः पादैः शुद्धा द्विपदिकोच्यते
- अर्धान्तेऽन्ये स्वरानाहुः खण्डा स्याच्छुद्धयाऽर्धया २१४
- षष्ठेनैकेन गुरुणा मात्राद्विपदिका मता
- ज्ञेया शुद्धैव संपूर्णा गुरुणाऽन्तेऽधिकेन तु २१५
- प्लुनश्चतुर्धा द्विपदी मानवी चन्द्रिका धृतिः
- तारेति मानवी छेन तद्वयेन कृताङ्घ्रिका २१६
- यद्वयं नगणश्चान्ते लगौ चेच्चन्द्रिका मता
- छगणेन चतुर्मात्रैस्त्रिभिश्च धृतिरुच्यते
- तारा छेन चतुर्भिश्च यगणैरन्तिमए गुरौ २१७
- इति द्विपदी
- पूर्वपूर्वाक्षरव्राते योऽन्त्यो वर्णचयः स चेत्
- उत्तरोत्तरसंघादौ चक्रवालस्तदोच्यते
- गद्यपद्यप्रभेदेन स द्विधा गदितो बुधैः २१८
- इति चक्रवालः
- पदैः स्वरैः क्रौञ्चपदः प्रतितालेन गीयते
- स्वरन्यासः स तन्नाम्ना छन्दसा मुक्तकोऽथवा २१९
- इति क्रौञ्चपदः
- इति क्रौञ्चपदलक्षणम्
- यत्र स्वराक्षरैरेव वाञ्छितोऽर्थोऽभिधीयते
- स स्वरार्थो द्विधा शुद्धो मिश्रस्तैः शुद्धमिश्रितैः २२०
- ग्रहन्यासोऽस्य भूयोऽसौ सप्तधैकादिकैः स्वरैः
- क्रमोत्क्रमाभ्यां बहुशो भिद्यन्ते द्विस्वरादयः २२१
- इति स्वरार्थः
- इति स्वरार्थलक्षणम्
- ध्रुवोद्ग्राहौ भिन्नतालौ मण्ठकङ्कालवर्जितौ २२२
- यस्यां समासु मात्रासु यतिर्मेलापको न च
- तालद्वयेन सा गेया ढेङ्कीवद्ध्वनिकुट्टिनी २२३
- इति ध्वनिकुट्टिनी
- अर्धान्ते चरणान्ते वा स्वरान्न्यस्यार्धमादिमम्
- द्विरार्याछन्दसो गीतं सकृद्गीतं दलान्तरम्
- यत्राऽऽभोगे गातृनाम साऽऽर्या स्याद्ग्रहमुक्तिका २२४
- लक्ष्मीः स्याद्वृद्धिबुद्धी च लीला लज्जा क्षमा तथा
- दीर्घा गौरी ततो राजी ज्योत्स्ना छाया च कान्तिका २२५
- मही मतिस्ततः कीर्तिरथ ज्ञेया मनोरमा
- स्याद्रोहिणी विशाला च वसुधा शिवया सह २२६
- हरिणी चाथ चक्राख्या सारसी कुररी तथा
- हंसी वधूरिति प्रोक्ता आर्याः षड्विंशतिः क्रमात् २२७
- षष्ठादन्यैर्गणैः सर्वगुरुभिः प्रथमा पराः
- एकादिगुरुभङ्गेन क्रमाल्लक्ष्माण्यमूनि तु २२८
- छन्दोलक्षणतो ज्ञेयाः शेषा भूरितरा भिदाः २२९
- इत्यार्या
- आर्यैव प्राकृते गेया स्यात्पञ्चचरणाऽथवा
- त्रिपदी षट्पदी गाथेत्यपरे सूरयो जगुः २३०
- इति गाथा
- छन्दसा द्विपथेन स्याद्द्विपथः स्वरमुक्तिकः
- तालहीनः सतालो वा स च ज्ञेयश्चतुर्विधः २३१
- स्वरैरेकोऽन्यः प्रयोगैः सोभयानुभयौ परौ
- प्राकृते दोहसंज्ञोऽसौ तस्य भेदा नव त्विमे २३२
- सारसो भ्रमरो हंसः कुररश्चन्द्रलेखकः
- कुञ्जरस्तिलको हंसक्रीडोऽप्यथ मयूरकः २३३
- त्रयोदशायुजि समे मात्रा द्वादश सारसे
- ओजेऽङ्घ्रौ मनवो मात्रा भ्रमरे रवयः समे २३४
- मात्राः पञ्चदशायुग्मे हंसे युग्मे त्रयोदश
- त्रयोदशायुजि कलाः कुररे मनवो युजि २३५
- ओजे कलाश्चन्द्रलेखे तिथयो रवयः समे
- त्रयोदशायुजि कलाः कुञ्जरे तिथयः समे २३६
- मात्राः पञ्चदशायुग्मे तिलके मनवः समे
- त्रयोदशासमे हंसक्रीडे युग्मे कलाः कलाः २३७
- यद्येषामर्धयोरन्ते पञ्चादिलघुभिः शिखा
- तं शिखाद्विपथं प्राहुर्मयूरमपि सूरयः
- एतेषु व्यत्ययेनापि चरणानां स्थितिर्भवेत् २३८
- भवन्त्येकादिपादानां सकृद्द्विर्गानभेदनः
- द्विपथा भूरिभेदास्ते लक्ष्या लक्ष्येषु सूरिभिः २३९
- इति द्विपथः
- छन्दसः कलहंसस्य पादैरन्ते स्वरान्वितैः
- कलहंसः स्वरे न्यासो गेयो झम्पादितालतः २४०
- वर्णजो मात्रिकश्चेति कलहंसो द्विधा मतः
- गद्यात्मा चेत्स्वरान्गीत्वा ततः पदनिवेशनम् २४१
- इति कलहंसः
- तोटकच्छन्दसा न्यस्तस्वरोऽङ्घ्र्यन्ते तु तोटकः
- ननु वृत्ते वक्ष्यमाणे पुनरुक्तोऽत्र तोटकः १४२
- सत्यं किंतु मते येषां वृत्तं वृत्ताख्यवृत्ततः
- तन्मते तोटकस्येह नैवास्ति पुनरुक्तता २४३
- इति तोटकः
- तेनैरर्धं द्विपद्यर्धं घटे तेनकमुक्तिके २४४
- इति घटः
- छन्दसा येन केनापि तालेनेष्टेन गीयते
- वृत्तं तस्य च पादान्ते वृत्तान्ते वा स्वरान्क्षिपेत् २४५
- स्वरहीनं तदित्यन्ये वृत्तं छन्दसि चापरे
- छन्दश्चित्यां विचेतव्याश्छन्दसां बहवो भिदाः २४६
- इति वृत्तम्
- एकैकमातृकावर्णपूर्वकाणि पदानि चेत्
- क्रमेण परिगीयन्ते मातृका सा त्रिधा मता २४७
- दिव्या च मानुषी दिव्यमानुषी चेति तत्र तु
- दिव्या संस्कृतया वाचा मार्गतालैश्च गीयते २४८
- मानुषी प्राकृतगिरा देशीतालैश्च निर्मिता
- उभयोर्मिश्रणादुक्ता मातृका दिव्यमानुषी २४९
- अनिबद्धा निबद्धा च द्विधा सा गद्यपद्यजा
- सर्वमन्त्रमयी ह्येषा सर्वसिद्धिप्रदायिनी
- गातव्या नियतैर्नित्यं गीर्वाणगणवल्लभा २५०
- इति मातृका
- नन्द्यावर्तः स्वस्तिकश्च द्विधा रागकदम्बकः
- चतुर्वृत्तश्चतुस्तालो रागराजिविराजितः
- नन्द्यावर्तो भवेत्तस्य तालमानद्वयेन वा २५१
- उद्ग्राहेणाथवा न्यासो गद्येनैनं परे जगुः २५२
- तालेनैकेन केचित्तु स्वस्तिको द्विगुणस्ततः
- अब्जपत्रोऽब्जगर्भश्च भ्रमराम्रेडितौ मते
- केषांचित्पूर्वपूर्वस्माद्द्विगुणः स्यात्परः परः २५३
- इति रागकदम्बकः
- आलापः प्रागतालः स्यात्पृथग्द्विः पदपञ्चकम्
- चच्चत्प्लुटेन तेनैव स्वराः पाटास्ततः परम् २५४
- द्विचच्चत्प्लुटमानेन पाटैः पटहसंभवैः
- कार्योऽन्तरस्ततश्चाचत्पुटेन पदपञ्चकः २५५
- तद्वत्तेन स्वराः पाटास्तद्विमानेन चान्तरः
- हुडुक्कपाटैस्तदनु षट्पितापुत्रकेण च २५६
- पृथक्पदानि पञ्च द्विस्तेनैव स्वरपाटकम्
- तद्विमानाच्छङ्खपाटैरन्तरः स्यात्ततस्तु षट् २५७
- प्रत्येकं द्विः पदानि स्युः संपक्वेष्टाकतालतः
- ततस्तद्वत्स्वराः पाटास्तद्विमानेन चान्तरः २५८
- कांस्यतालोद्भवैः पाटैरथोद्घट्टे पदानि षट्
- प्राग्वत्तथा स्वराः पाटाः पाटैर्मुरजसंभवैः २५९
- अन्तरः पूर्ववत्पश्चादाभोगश्चाविलम्बितः
- प्रबन्धनाम्ना प्राङ्मानं नेतृनामाथ मङ्गलम्
- वाक्यमालापके न्यासः पञ्चतालेश्वरो भवेत् २६०
- वीरावतारः शृङ्गारतिलकश्चेति स द्विधा
- वीरशृङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः २६१
- इति पञ्चतालेश्वरः
- इत्यालिक्रमप्रबन्धाः
- तालार्णवो भूरितालः स द्वेधा गद्यपद्यतः २६२
- इति तालार्णवः
- इत्यालिक्रमप्रबन्धलक्षणानि
- तालै रागैश्चतुर्भिः स्याच्छ्रीरङ्गोऽन्ते पदान्वितः २६३
- इति श्रीरङ्गः
- स्वरान्तः श्रीविलासः स्यात्तालै रागैश्च पञ्चभिः २६४
- इति श्रीविलासः
- तेनकान्तः पञ्चभङ्गिः पाटैः पञ्चाननोऽन्तगैः २६५
- रागाभ्यामपि तालाभ्यां
- इति पञ्चभङ्गिपञ्चाननौ
- स्यादुमातिलकः पुनः
- बिरुदान्तस्त्रिभिस्तालै रागैः सर्वाङ्गिका इमे २६६
- इत्युमातिलकः
- आद्यौ द्विद्विगणौ पादौ तृतीयश्च चतुर्गणः
- चतुर्थस्त्रिगणः पादेष्वेकादश गणा इमे २६७
- रतेः षष्ठश्च दशमः शेषाः स्युर्मान्मथा गणाः
- गीत्वाऽऽद्यपादौ तदनु किंचिच्छेषं तृतीयकम् २६८
- ततः समग्रं तं गीत्वा चतुर्थो यदि गीयते
- तदा स्यात्त्रिपदी तालहीना कर्णाटभाषया २६९
- इति त्रिपदी
- समे षोडश मात्राः स्युः पादे पञ्चदशायुजि
- यस्यां भिन्नौ च यमकावर्धयोः सा चतुष्पदी
- स्वरतेनकसंयुक्ता तेनकन्याससंयुता २७०
- इति चतुष्पदी
- षष्ठस्तृतीयस्त्रिगणः पृथग्द्विद्विगणाः परे
- चत्वारश्चरणा बाणप्रान्तौ षष्ठतृतीयकौ २७१
- इति षट्पदी
- शेषास्तु मन्मथगणा यस्यां सा षट्पदी मता
- कर्णाटभाषया तालवर्जिता नादमुक्तिका २७२
- इति षट्पदी
- भेदा वेद्यास्त्रिपद्यादेश्छन्दोलक्ष्मणि भूरयः २७३
- मात्राः पञ्चदशाऽऽद्येऽङ्घ्रौ तृतीये पञ्चमे तथा
- सूर्यास्तुर्ये द्वितीये च स्वरपाटान्तमादिमम् २७४
- अपरं स्वरतेनान्तमर्धं तदनु दोहकः
- यस्य स्यात्तेनके न्यासस्तद्वस्तु कवयो विदुः २७५
- इति वस्तु
- यत्र तेनैः स्वरैः पाटैः पदैर्विजयतालतः
- गीयते विजयस्तेनैर्न्यासः स विजयो मतः २७६
- इति विजयः
- पादत्रयं त्रिपथके पाटैश्च बिरुदैः स्वरैः २७७
- इति त्रिपथकः
- स्वरैः पाटैः पदैस्तेनैर्वर्णैः स्थाय्यादिभिः क्रमात्
- चत्वारश्चरणा गेया ग्रहे न्यासश्चतुर्मुखे २७८
- इति चतुर्मखः
- स्वरैः पाटैश्च बिरुदैस्तेनकैर्यो विरच्यते
- सिंहलीलेन तालेन सिंहलीलः स उच्यते २७९
- इति सिंहलीलः
- स्वनामतालके हंसलीलेऽङ्घ्री पदपाटजौ २८०
- इति हंसलीलः
- पादैः स्वरैर्दण्डकेन च्छन्दसा दण्डको मतः
- तस्य भूरितरा भेदाश्छन्दोलक्ष्मणि भाषिताः २८१
- इति दण्डकः
- झम्पटच्छन्दसा गेयं क्रीडातालेन झम्पटम् २८२
- इति झम्पटः
- पदैः पाटैर्श्च बिरुदैः कन्दुकः परिगीयते २८३
- इति कन्दुकः
- स्वरैः पाटैः पदैरुक्तस्त्रिभङ्गिः स च पञ्चधा
- एकस्त्रिभङ्गितालेन वृत्तेनान्यस्त्रिभङ्गिना २८४
- तालै रागैस्त्रिभिर्यद्वा यद्वा वृत्तत्रयान्वितः
- यद्वा देवत्रयस्तुत्या तालद्वैगुण्यमुक्तिकः २८५
- इति त्रिभङ्गिः
- पदैश्च बिरुदैः पाटैस्तेनैर्हरविलासकः २८६
- इति हरविलासः
- पदैश्च बिरुदैस्तेनैर्निर्दिशन्ति सुदर्शनम् २८७
- इति सुदर्शनः
- पदैः स्वरैश्च बिरुदैरुद्ग्राहादि त्रयं क्रमात्
- एकद्वित्राश्च तालाः स्युः स्वराङ्के न्यसनं स्वरैः २८८
- इति स्वराङ्कः
- श्रीवर्धनः स्याद्बिरुदैः पाटैरपि पदैः स्वरैः
- तालमानद्वयन्यासौ निःशङ्केनेति कीर्तितम् २८९
- इति श्रीवर्धनः
- पदैश्च बिरुदैर्हर्षवर्धनः स्वरपाटकैः २९०
- इति हर्षवर्धनः
- छपद्वयं दो वदनं स्वरपाटयुतान्तरम्
- तथोपवदनं प्रोक्तं छगणाच्छदतैर्युतम्
- तथैव वस्तुवदनं छयुगाद्दचछैः कृतम् २९१
- इति त्रिविधवदनम्
- रागो हिन्दोलकस्तालश्चच्चरी बहवोऽङ्घ्रयः
- यस्यां षोडशमात्राः स्युर्द्वौ र्द्वौ च प्राससंयुतौ २९२
- सा वसन्तोत्सवे गेया चच्चरी प्राकृतैः पदैः
- चच्चरीछन्दसेत्यन्ये क्रीडातालेन वेत्यपि
- घुत्तादिच्छन्दसा वाऽस्य च्छन्दोलक्ष्मोदिता भिदाः २९३
- इति चच्चरी
- पद्धडीप्रभृतिच्छन्दाः पादान्तप्रासशोभिताः
- अध्यात्मगोचरा चर्या स्याद्द्वितीयादितालतः २९४
- सा द्विधा छन्दसः पूर्त्या पूर्णाऽपूर्णा त्वपूर्तितः
- समध्रुवा च विषमध्रुवेत्येषा पुनर्द्विधा
- आवृत्त्या सर्वपादानां गीयते सा ध्रुवस्य वा २९५
- इति चर्या
- युग्मपादान्तगप्रासा पद्धडीछन्दसा युता
- बिरुदैः स्वरपाटान्तै रचिता पद्धडी मता २९६
- इति पद्धडी
- यत्र वीररसेन स्यात्सङ्ग्रामरचितस्तुतिः
- बहुभिश्चरणैः साऽत्र राहडी परिकीर्तिता २९७
- इति राहडी
- पदैश्च बिरुदैर्बद्धा वीरश्रीरिति गीयते २९८
- इति वीरश्रीः
- यस्तु गद्येन प्लद्येन गद्यपद्येन वा कृतः
- कैशिक्यां मङ्गलाचारः सनिःसारो स्वरान्वितः २९९
- इति मङ्गलाचारः
- त्रिविधो धवलः कीर्तिर्विजयो विक्रमस्तथा
- चतुर्भिश्चरणैः षड्भिरष्टभिश्च क्रमादसौ ३००
- विषमे डाच्च युग्मं चेत्तो वा दो वाऽधिकः समे
- तदा स्यात्कीर्तिधवलो विजये त्वाद्यतुर्ययोः
- कोदः षष्ठे द्वितीये च शेषौ द्वौ छेन पेन वा ३०१
- प्रथमे चत्रयं दः स्यात्तृतीये दास्त्रयस्तु च
- तुर्यद्वितीययोश्चोऽन्तः पञ्चमे सप्तमे तथा ३०२
- षष्ठेऽष्टमे दाश्चत्वारो यस्यासौ विक्रमो मतः
- आशीर्भिर्धवलो गेयो धवलादिपदान्वितः ३०३
- यदृच्छया वा धवलो गेयो लोकप्रसिद्धितः ३०४
- इति धवलः
- कैशिक्यां बोट्टरागे वा मङ्गलं मङ्गलैः पदैः
- विलम्बितलये गेयं मङ्गलच्छन्दसाऽथवा ३०५
- इति मङ्गलः
- खण्डत्रयं प्रासयुतं गीयते देशभाषया
- ओवीपदं तदन्ते चेदोवी तज्ज्ञैस्तदोदिता ३०६
- त्रयाणां चरणानां स्युरेकाद्यावृत्तितो भिदाः
- आदिमध्यान्तगैः प्रासैरेकाद्यैश्च पदे पदे ३०७
- छन्दोभिर्बहुभिर्गेया ओव्यो जनमनोहराः
- सानुप्रासैस्त्रिभिः खण्डैर्मण्डिता प्राकृतैः पदैः
- प्रान्ते लोलीपदोपेता लोली गेया विचक्षणैः ३०८
- इति लोली
- दोहडः स्याद्यदा प्रान्ते प्रोल्लसढ्ढोल्लरीपदाः
- ढोल्लरी नाम सा प्रोक्ता लाटभाषाविभूषिता ३०९
- इति ढोल्लरी
- अनुप्रासप्रधानं चेत्खण्डत्रयसमन्वितम्
- दन्तीपदान्वितं प्रान्ते तदा दन्ती निगद्यते ११०
- इति दन्ती
- अनुक्ताभोगवस्तूनां पदैराभोगकल्पना
- ओव्यादयस्तु चत्वारो भवन्त्याभोगवर्जिताः ३११
- इति षट्त्रिंशद्विप्रकीर्णप्रबन्धाः
- शुद्धश्छायालगश्चेति द्विविधः सूड उच्यते
- एलादिः शुद्ध इत्युक्तो ध्रुवादिः सालगो मतः ३१२
- छायालगत्वमेलादेर्यद्यथाऽऽचार्यसंमतम्
- लोके तथाऽपि शुद्धोऽसौ शुद्धसादृश्यतो मतः ३१३
- जात्याद्यन्तरभाषान्तं शुद्धप्रकरणान्वितम्
- तत्रोक्तः शुद्धसूडः प्राक्सालगस्त्वधुनोच्यते ३१४
- आद्यो ध्रुवस्ततो मण्ठप्रतिमण्ठनिसारुकाः
- अड्डतालस्ततो रास एकतालीत्यसौ मतः ३१५
- एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्राहस्ततः परम्
- किंचिदुच्चं भवेत्खण्डं द्विरभ्यस्तमिदं त्रयम् ३१६
- ततो द्विखण्ड आभोगस्तस्य स्यात्खण्डमादिमम्
- एकधातु द्विखण्डं च खण्डमुच्चतरं म्परम् ३१७
- स्तुत्यनामाङ्कितश्चासौ क्वचिदुच्चैकखण्डकः
- उद्ग्राहस्याऽद्यखण्डे च न्यासः सध्रुवको भवेत् ३१८
- एकादशाक्षरात्खण्डादेकैकाक्षरवर्धितैः
- खण्डे ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ३१९
- जयन्तशेखरोत्साहास्ततो मधुरनिर्मलौ
- कुन्तलः कामलश्चारो नन्दनश्चन्द्रशेखरः ३२०
- कामोदो विजयाख्यश्च कंदर्पजयमङ्गलौ
- तिलको ललितश्चेति संज्ञाश्चैषां क्रमादिमाः ३२१
- आदितालेन शृङ्गारे जयन्तो गीयते बुधैः
- स नेतृश्रोतृगातॄणामायुःश्रीवर्धनो मतः ३२२
- ऋद्धिसौभाग्यदो वीरे निःसारौ शेखरो भवेत्
- प्रतिमण्ठेन हास्ये स्यादुत्साहो वंशवृद्धिकृत् ३२३
- मधुरो भोगदो गेयः करुणे हयलीलया
- क्रीडातालेन शृङ्गारे निर्मलस्तनुते प्रभाम् ३२४
- लघुशेखरतालेन कुन्तलोऽभीष्टदोऽद्भुते
- कामलो विप्रलम्भे स्याज्झम्पातालेन सिद्धिदः ३२५
- हर्षोत्कर्षप्रदश्चारो वीरे निःसारतालतः
- नन्दनो वीरशृङ्गार एकताल्येष्टसिद्धिदः ३२६
- वीरे हास्ये च शृङ्गारे प्रतिमण्ठेन गीयते
- अभीष्टफलदः श्रोतृगातॄणां चन्द्रशेखरः ३२७
- प्ल्रतिमण्ठेन शृङ्गारे कामोदोऽभीष्टकामदः
- हास्ये द्वितीयतालेन विजयो नेतुरायुषे ३२८
- हास्यशृङ्गारकरुणेष्वादितालेन गीयते
- कंदर्पो भोगदो नृणां श्रीसदाशिवसंमतः ३२९
- क्रीडातालेन शृङ्गारे वीरे च जयमङ्गलः
- जयोत्साहप्रदः पुंसां ध्रुवकस्तिलकाभिधः ३३०
- रसे वीरे च शृङ्गार एकताल्या प्रगीयते
- प्रतिमण्ठेन शृङ्गारे ललितः सर्वसिद्धये ३३१
- स्याद्वर्णनियमः सर्वखण्डः खण्डद्वये तथा
- यथोक्तान्यो जयन्तादीन्गायेन्निपुणया धिया
- सर्वक्रतुफलं तस्येत्यवोचन्मुनिसत्तमः ३३२
- इति ध्रुवलक्षणम्
- द्वियत्येकविरामं वा यस्योद्ग्राहाख्यखण्डकम्
- ततः खण्डं ध्रुवाख्यं द्विस्ततो वैकल्पिकोऽन्तरः ३३३
- तं गीत्वा ध्रुवमागत्य वाऽऽभोगो गीयते सकृत्
- ध्रुवे न्यासस्ततः प्रोक्तः स मण्ठो मण्ठतालतः ३३४
- जयप्रियो म्नङ्गलश्च सुन्दरो वल्लभस्तथा
- कलापः कमलश्चेति षड्भेदा मण्ठके मताः ३३५
- षट्प्रकारो मण्ठतालो रूपकं तेन भिद्यते
- वीरे जयप्रियो गेयो मण्ठेन जगणात्मना ३३६
- मङ्गलो भेन शृङ्गारे सुन्दरः सेन तद्रसः
- वल्लभो रेण करुणे कलापो नगणेन तु ३३७
- विरामान्तेन गातव्यो रसे हास्ये विचक्षणैः
- विरामान्तद्रुतद्वंद्वाल्लघुना कमलोऽद्भुते ३३८
- इति मण्ठलक्षणम्
- मण्ठवत्प्रतिमण्ठादेर्लक्ष्मोद्ग्राहादिकं मतम्
- तेषामेष विशेषस्तु प्रत्येकं प्रतिपाद्यते ३३९
- तत्र च प्रतिमण्ठेन तालेन प्रतिमण्ठकः
- चतुर्धा सोऽमरस्तारो विचारः कुन्द इत्यपि
- अमरो गुरुणैकेन शृङ्गारे स विधीयते ३४०
- इत्यमरः
- विरामान्तद्रुतद्वंद्वाल्लघुद्वंद्वेन जायते
- ताराख्यः प्रतिमण्ठोऽसौ रसयोर्वीररौद्रयोः ३४१
- इति तारः
- लघुत्रयाद्विरामान्ताद्विचारः करुणे भवेत्
- इति विचारः
- कुन्दो विराममध्येन लत्रयेणाद्भुते भवेत् ३४२
- इति कुन्दः
- ते शृङ्गारेऽपि चत्वारो गीयन्ते लक्ष्मवेदिभिः ३४३
- इति चतुर्विधप्रतिमण्ठलक्षणम्
- बद्धो निःसारुतालेन प्रोक्तो निःसारुको बिधैः
- वैकुन्दानन्दकान्ताराः समरो वाञ्छितस्तथा ३४४
- विशालश्चेति स प्रोक्तः षड्विधः सूरिशार्ङ्गिणा
- द्रुतद्वंद्वाल्लघुद्वंद्वाद्वैकुन्दो मङ्गले भवेत्
- कुर्यादानन्दमानन्दे विरामान्तद्रुतद्वयात् ३४५
- इति वैकुन्दानन्दौ
- कान्तारो लगुरुभ्यां स्याद्विप्रलम्भे स गीयते
- इति कान्तारः
- लघुद्वयाद्विरामान्तात्समरो वीरगोचरः ३४६
- इति समरः
- लघुत्रयाद्द्रुतद्वंद्वाद्वाञ्छितो वाञ्छितप्रदः
- इति वाञ्छितः
- संभोगे स्याद्विशालाख्यो लाद्द्रुतद्वयतो लघोः ३४७
- इति विशलः
- इति षड्विधो निःसारुकः
- अड्डतालेन तालेनाड्डतालः परिकीर्तितः
- निशङ्कशङ्कशीलाश्च चारोऽथ मकरन्दकः ३४८
- विजयश्चेति स प्रोक्तः षोढा सोढलमूनुना
- लगुरुभ्यां द्रुतद्वंद्वान्निःशङ्को विस्मये भवेत् ३४९
- इति निःशङ्कः
- लघोर्द्रुतद्वयेन स्याच्छङ्कः शृङ्गारवीरयोः
- इति शङ्कः
- शान्ते शीलो विरामान्तद्रुतद्वंद्वाल्लघोर्भवेत् ३५०
- इति शीलः
- द्रुतद्वंद्वाल्लगाभ्यां स्याच्चारो वीरेऽद्भुते रसे
- इति चारः
- शृङ्गारे मकरन्दः स्याद्द्रुतद्वंद्वात्परे गुरौ ३५१
- इति मकरन्दः
- विजयाख्यो रसे वीरे द्रुताभ्यां लघुना भवेत् ३५२
- इति विजयः
- इति षड्विधोऽड्डतालः
- रासको रासतालेन स चतुर्धा निरूपितः
- विनोदो वरदो नन्दः कम्बुजश्चेति शार्ङ्गिणा
- आलापान्तध्रुवपदाद्विनोदः कौतुके भवेत् ३५३
- इति विनोदः
- ध्रुवादालापमध्यात्तु वरदो देवतास्तुतौ ३५४
- इति वरदः
- खण्डमाद्यं द्विखण्डस्योद्ग्राहस्याऽऽलापनिर्मितम्
- यस्यासौ रासको नन्दो गीयतेऽभ्युदयप्रदः ३५५
- इति नन्दः
- आलापादेर्ध्रुवपदात्कम्बुजः करुणे भवेत्
- इति कम्बुजः
- सर्वेषु रासकेष्वेषु द्विखण्डोद्ग्राहकल्पना ३५६
- इति चतुर्विधरासकलक्षणम्
- एकताली भवेत्तालेनैकताल्या त्रिधा च सा
- रमा च चन्द्रिका तद्वद्विपुलेत्यथ लक्षणम् ३५७
- सकृद्विरतिरुद्ग्राहोऽन्तरस्त्वक्षरनिर्मितः
- यस्यामसौ रमा सा च गातृश्रोत्रोः श्रिये भवेत् ३५८
- इति रमा
- उद्ग्राहो द्विदलो यस्यामालापरचितोऽन्तरः
- घनद्रुता घनयतिर्घनानुप्रासयोगिनी
- चन्द्रिका सैकताली स्याद्भूरिसौभाग्यदायिनी ३५९
- इति चन्द्रिका
- आलापपूर्वकोद्ग्राहा विपुलानन्ददायिनी
- आलापो गमकालप्तिरक्षरैर्वर्जिता मता
- सैव प्रयोगशब्देन शार्ङ्गदेवेन शब्दिता ३६०
- इति विपुला
- इति त्रिविधैकतालीलक्षणम्
- इति सालगसूडलक्षणम्
- गुणान्वितं दोषहीनं नवं रूपकमुत्तमम् ३६१
- रागेण धातुमातुभ्यां तथा ताललयौडुवैः
- नूतनै रूपकं नूत्नं राम स्थायान्तरैर्नवः ३६२
- धातु रागांशभेदेन मातोस्तु नवता भवेत्
- प्रतिपाद्यविशेषेण रसालंकारभेदतः ३६३
- लयग्रहविशेषेण तालानां नवता मता
- तालविश्रामतोऽन्येन विश्रामेण लयो नवः ३६४
- छन्दोगणग्रहन्यासप्रबन्धावयवैर्नवैः
- औडुवापरपर्याया रचना नवतां व्रजेत् ३६५
- रूपकं त्रिविधं ज्ञेयं परिवृत्तं पटान्तरम्
- भञ्जनीसंश्रितं चेति शार्ङ्गदेवेन कीर्तितम् ३६६
- खल्लोत्तारानुसारौ तु रूपकेष्वधमौ मतौ
- रूपकं पूर्वसंसिद्धं स्वस्थानेन नवेन यत् ३६७
- यद्वा रागेण तालेन कृतं तत्परिवृत्तकम्
- यत्र स्थायिनि यत्स्थानं रूपकं रचितं पुरा ३६८
- तत्स्वस्थानं तदन्यत्त्वं स्थाय्यैव परिवर्तनम्
- परिवृत्तं रागतालपरिवर्तभवं स्फुटम् ३६९
- तस्मिन्नेव रसे रागे ताले च रचितं भवेत्
- मातुस्थायविचित्रत्वाद्गुणोदारं पटान्तरम् ३७०
- केनापि रूपकं गीतं निजादन्येन धातुना
- येन तस्यान्यधातुत्वाद्भञ्जनीसंश्रितं मतम् ३७१
- प्राग्रूपकगतास्थायाः स्थानान्तरगता यदि
- मात्वन्तरेण रच्यन्ते खल्लोत्तारस्तदा भवेत् ३७२
- रागे ताले च तत्रैव किंचिद्धातुविलक्षणः
- मात्वन्तरेणानुसारो गुणोत्कर्षविवर्जितः ३७३
- इति पञ्चरूपकभेदलक्षणम्
- व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलंकृतम्
- समं सुरक्तं श्लक्ष्णं च विकृष्टं मधुरं तथा ३७४
- दशैते स्युर्गुणा गीते तत्र व्यक्तं स्फुटैः स्वरैः
- प्रकृतिप्रत्ययैश्चोक्तं छन्दोरागपदैः स्वरैः ३७५
- पूर्णं पूर्णाङ्गगमकं प्रसन्नं प्रकटार्थकम्
- सुकुमारं कण्ठभवं त्रिस्थानोत्थमलंकृतम् ३७६
- समवर्णलयस्थानं सममित्यभिधीयते
- सुरक्तं वल्लकीवंशकण्ठध्वन्यैकतायुतम् ३७७
- नीचोच्चद्रुतमध्यादौ श्लक्ष्णत्वे श्लक्ष्णमुच्यते
- उच्चैरुच्चारणादुक्तं विकृष्टं भरतादिभिः
- मधुरं धुर्यलावण्यपूर्णं जनमनोहरम् ३८७
- इति गीतगुणाः
- दुष्टं लोकेन शास्त्रेण शुर्तिकालविरोधि च
- पुनरुक्तं कलाबाह्यं गतक्रममपार्थकम्
- ग्राम्यं संदिग्धमित्येवं दशधा गीतदुष्टता ३७९
- इति गीतदोषाः
- इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे प्रबन्धाध्यायश्चतुर्थः समाप्तः ४