शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः २१

विकिस्रोतः तः

ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।
सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् १ ।
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः ।
शिवपार्थिवलिंगानां कृपया दीनवत्सल २ ।
सूत उवाच ।
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम् ।
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ३ ।
अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा दमदानादिकं वृथा ४ ।
संख्या पार्थिवलिंगानां यथाकामं निगद्यते ।
संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ५ ।
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक् ।
लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ६ ।
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् ।
पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ७ ।
नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम् ।
पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ८ ।
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम् ।
दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ९ ।
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम् ।
मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् 1.21.१० ।
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः ।
स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ११ ।
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् ।
महाराजभये पंचशतं ज्ञेयं विचक्षणैः १२ ।
चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम् ।
डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् १३ ।
दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम् ।
अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः १४ ।
एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम् ।
त्रिलिंगं सर्वकामानां कारणं परमीरितम् १५ ।
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि ।
मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः १६ ।
लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान् ।
निर्भयो हि भवेन्नूनं महाराजभयं हरेत् १७ ।
कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः ।
डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा १८ ।
सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत् ।
लिंगानामयुतेनैव कन्यकासंततिं लभेत् १९ ।
लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात् ।
लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् 1.21.२० ।
कोटिमेकां तु लिंगानां यः करोति नरो भुवि ।
शिव एव भवेत्सोपि नात्र कार्य्या विचारणा २१ ।
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा ।
भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् २२ ।
विना लिंगार्चनं यस्य कालो गच्छति नित्यशः ।
महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः २३ ।
एकतः सर्वदानानि व्रतानि विविधानि च ।
तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता २४ ।
कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते ।
तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः २५ ।
भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम् ।
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् २६ ।
शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः ।
यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः २७ ।
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् ।
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् २८ ।
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् ।
उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः २९ ।
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम् ।
इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् 1.21.३० ।
अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः ।
पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ३१ ।
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये ।
विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ३२ ।
सर्वमेतत्परित्यज्य कर्मजालमशेषतः ।
भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत् ३३ ।
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् ।
संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ३४ ।
अज्ञानतिमिरांधानां विषयासक्तचेतसाम् ।
प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ३५ ।
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः ।
गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ३६ ।
नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा ।
सप्रजापतयश्चान्ये मनवः किन्नरा नराः ३७ ।
पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम् ।
प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ३८ ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः ।
पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ३९ ।
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः ।
अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः 1.21.४० ।
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् ।
अन्येषामपि जंतूनां वैदिकेन न संमतम् ४१ ।
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः ।
कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ४२ ।
दधीचिगौतमादीनां शापेनादग्धचेतसाम् ।
द्विजानां जायते श्रद्धानैव वैदिककर्मणि ४३ ।
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा ।
अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ४४ ।
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः ।
पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ४५ ।
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ ।
यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ४६ ।
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः ।
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ४७ ।
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः ।
ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ४८ ।
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् ।
वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ४९ ।
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा ।
तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः 1.21.५० ।
ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च ।
स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ५१ ।
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् ।
इति प्रोक्तमशेषं च शिवपूजनमादरात् ५२ ।
रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि ।
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः ५३ ।
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् ।
न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ५४ ।
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।
बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ५५ ।
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ।
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ५६ ।
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः २१ ।