हारीतसंहिता/तृतीयस्थानम्
← द्वितीयस्थानम् | हारीतसंहिता तृतीयस्थानम् हारीतः |
चतुर्थस्थानम् → |
प्रथमोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि रोगसङ्करकारणम्
श्रमाद्व्यायामरोधाद्वा चिन्ताशोकभयादपि १
क्रोधादौषधगन्धेन क्षयाद्घातोर्विशेषतः
उदीर्य कोष्टादग्निञ्च रक्तपित्तं तथा बहिः
त्वचाश्रितञ्च सम्भूय ज्वरं तस्मात्करोति हि २
उक्तहेतुर्ज्वरो वापि ज्वरान्मन्दज्वरो भवेत् ३
मन्दान्मन्दतमो ज्ञेयस्तस्मादम्लातिसेवनात्
जायते कामलस्तस्मात्प्ररूढे स्याद्धलीमकम् ४
हलीमकाद्भवेत्पाण्डुस्तस्माद्यस्मात्प्रकीर्त्तिताः
यक्ष्मणो जायते शोफः शोफादुदरमेव च ५
तस्माद्गुल्मञ्च वाताद्यं गुल्माच्छ्वासोऽथशूलिता
मन्दाग्नित्वं भवेत्तस्मात्स्वरभेदोऽथ रोधनः ६
एतेषां सर्वरोगाणामुत्पत्तिः स्याज्ज्वरेण तु
ज्वरेण मृत्युर्विज्ञेयो न मृत्युः स्याज्ज्वरं विना ७
शृणु भेषजरोगज्ञ द्वितीयं रोगसङ्करम्
मन्दज्वरो भवेन्नॄणामतीसारस्ततो ज्वरः ८
तेन चापि भवेद्धिक्का शोषो मोहो भ्रमोऽरुचिः
एतेषां शोफतो मृत्युस्तृतीयः कथ्यतेऽधुना ९
दिवास्वप्नादिदोषैर्वा प्रतिश्यायश्च जायते
तस्मात्कासः समुद्दिष्टः कासात्पीनस एव च १०
तस्मात्क्षयः क्षयाच्छोफो शोफेनाऽपि मृतिं व्रजेत्
ज्वरः क्षयश्च यक्ष्मा च कुष्ठगुल्मार्शसंग्रहाः ११
शर्करा मेह उन्माद अपस्मारो भगन्दरः
एते महाघोरतरा याप्यं कुर्वन्ति मानवम् १२
वातपित्तादयो दोषास्तथा श्लैष्मसमुद्भवाः
जायन्ते व्याधयः सर्वे तेषां वक्ष्याम्युपक्रमम् १३
वातः पचति सप्ताहात्त्रिरात्रात्पित्तमेव च
श्लेष्मा सार्द्धदिनेनापि विपचेद्भिषजां वर १४
द्वन्द्वजं वातपित्तञ्च नवरात्रेण पच्यते
श्लेष्मवातौ दशाहेन पञ्चाहात्पित्तश्लैष्मिकम् १५
शमनाय च द्वन्द्वानां तुर्याहात्पाचनं तथा
त्रिदोषस्य च घोरस्य पाचनं द्वादशे दिने १६
सन्निपातश्च पचति चतुर्दशदिनैरपि
ज्ञात्वा दोषबलं पक्वं तस्माद्देयन्तु पाचनम् १७
युक्तं निदानलक्षैस्तु तस्मात्संशमनक्रिया
सप्ताहेनापि पच्यन्ते सप्तधातुगता मलाः १८
चिरादपि हि पच्यन्ते सन्निपातज्वरे मलाः
विरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि
न भवेत्सप्तमेऽहनि विरामज्वरकारणम् १९
विचार्य भेषजं दद्मादजीर्णे मतिमान्भिषक्
मन्दो हि सुतरामग्निर्भेषजं न विपाचयेत् २०
सर्वेषु दोषशामेषु पाचनं लङ्घनं स्मृतम्
लङ्घितं मध्यलङ्घितं स्यादतिलङ्घितमेव च २१
लक्षणं वक्ष्यते चैषां मनुष्याणां शृणुष्व हि २२
गतक्लमोऽरुचिम्लानिरिन्द्रियाणां प्रसन्नता
लङ्घने दोषपाकस्तु शुद्धलङ्घितलक्षणम् २३
किञ्चित्क्लमोऽरुचिग्लानिरिन्द्रियाणां विवर्णता
बहुतृष्णाल्पक्षुच्चापि श्रमश्चैव भिषग्वर २४
किञ्चित्संस्निग्धता गात्रे रुचिबाधातिबन्धता
मध्यपाकी च दोषः स्यान्मध्यलङ्घितलक्षणम् २५
वैकल्यं जायते तन्द्रा विड्भेदश्च विनिद्रता
वेपथुश्च शिरोऽर्त्तिश्च क्षुत्क्षामं शूलमेव च २६
श्यामास्यं प्लावनं नेत्रे मूर्च्छामोहश्रमातुरम्
अतिलङ्घितमेतैस्तु लक्षणं संविभावयेत् २७
वेलाज्वरे भूतज्वरे तथा पित्तज्वरेऽपि च
आयासे क्रोधजे वापि भयकामज्वरेऽपि च २८
एतेषां लङ्घनं नैव कारयेद्भिषगुत्तमः २९
बालं वृद्धं कृशं क्षीणमतीसारव्रणातुरम्
गुर्विणीं सुकुमारञ्च लङ्घयेन्न कदाचन ३०
सामे मन्दज्वरे तीव्रे रुचिविड्बन्धकेऽपि च
अजीर्णे तु प्रशस्तञ्च लङ्घनं मात्रयान्वितम् ३१
स्निग्धत्वञ्चातिगात्राणामुदरं गर्जयेद्भृशम्
शिरोऽर्त्तिर्जठराध्मानः प्रतप्तं कण्ठकूजनम् ३२
अरुचिः पीतता मूत्रे निद्रातन्द्रातुरं नरम्
आमज्वरञ्च विज्ञाय लङ्घयेद्भिषगुत्तमः ३३
अनशनवमनविरेचनरक्तस्रुतितप्ततोयपानैः
स्वेदनकर्मसहितैः षड्विधं लङ्घनं गदितम् ३४
क्षुत्क्षामं श्रमशैथिल्यं भ्रमवेगज्वरातुरम्
अन्तर्दाहं रक्तमूत्रं विरामज्वरलक्षणम् ३५
वातिको लङ्घनैः षड्भिः पैत्तिकस्तु दिनत्रयम्
सप्तभिः पचते श्लेष्मा दृष्ट्वा लङ्घनमाचरेत् ३६
त्रिदोषो दशरात्राणि पचते लङ्घनैस्तु सः
दिने पञ्चदशे प्राप्ते पचते सान्निपातिकः ३७
मुञ्चेद्वा आतुरं हन्ति भवेद्वा विषमज्वरः
बाल्ये रक्तमया दोषाः कफपित्तादनन्तरम् ३८
षोडशे तु समे प्राप्ते त्रिदोषप्रभवा गदाः
पञ्चविंशतिमे प्राप्ते ज्वरो वै सान्निपातिकः ३९
वातपित्तकफैरेव रसरक्तसमुच्चयात्
जायते यो ज्वरः सम्यक् पक्के क्वाथं तु दापयेत् ४०
क्वाथः सप्तविधः प्रोक्तः पाचनः शमनस्तथा
दीपनः क्लेदनः शोषी सन्तर्पणो विशेषतः ४१
पाचनञ्च नरे देयं निशासु प्रविजानता
पूर्वाह्णे शमनो देयोऽपराह्णे दीपनः स्मृतः ४२
सन्तर्पणो भेदनश्च कल्ये पानाय दापयेत्
शोषणोपि प्रभाते च क्वाथः पाने प्रकीर्त्तितः ४३
रात्रौ यः प्रथमो यामो भूतवेला प्रकीर्त्तिता
द्वितीयं निशि इत्याहुर्निशीथञ्च ततः परम् ४४
गणरात्रं ततो ज्ञेयं कालमप्राप्तराशिनम्
पूर्वापराह्णमध्याह्नाः परार्द्धदिनशेषकाः ४५
पूर्वे दिनावसाने च भेषजानामुपक्रमः ४६
पाचनो दीपनीयश्च शोधनः शमनस्तथा
तर्पणः क्लेदनः शोषी क्वाथः सप्तविधः स्मृतः ४७
पाचनोऽर्द्धावशेषी स्याच्छोधनो द्वादशांशकः
क्लेदनश्चतुरङ्गश्च शमनोऽष्टावशेषितः ४८
दीपनीयो दशांशस्तु तर्पणश्च समांशकः
विशोषी षोडशांशश्च क्वाथभेदाः प्रकीर्त्तिताः ४९
पाचनः पचते दोषान्दीपनो दीप्यतेऽनलम्
शोधनो मलशोधी स्याच्छमनः शमते गदान् ५०
तर्पणस्तर्पते धातून्क्लेदी हृत्क्लेदकारकः
विशोषी शोषमाधत्ते तस्मात्क्वाथं परीक्षयेत् ५१
क्लेदी विशोषी विज्ञाय वामनं कारयेन्नरम्
न लङ्घयेत्क्वाथकृतं नान्तराणि च चालयेत् ५२
न शोषयेत्पुनः स्थाप्यो नाशुचौ च चकासते
स च क्वाथो न शस्तः स्याद्रोगसङ्करकारणम् ५३
न शोषयेत्पुनः क्वाथं न च भूमिगतं पुनः
दोषसंशमनेनैते प्रशस्ता गदकर्मणि ५४
विदीर्यते पततेऽपि स्फुटते क्वाथतो जनः
एतेऽनिष्टकराः क्वाथा न दोषशमनाय च ५५
एतैर्हिलक्षणैर्हीनं क्वाथं दृष्ट्वा परीक्षयेत् ५६
कृष्णं नीलं घनं रक्तं पिच्छिलं शिथिलञ्च यत्
दग्धं कुणपगन्धञ्च विस्रगन्धं विवर्जयेत् ५७
एतैरसाध्यं जानीयाद्रोगिणं नात्र संशयः
द्रव्यगुणानुवर्णेन द्रव्यगन्धं विनिर्दिशेत् ५८
तद्वद्विशुद्धं सच्छायं कषायममृतोपमम्
वातज्वरे लङ्घनान्ते दत्त्वा चान्नं तथोपरि
निशासु पाचनं देयं ज्ञात्वा दोषबलाबलम् ५९
त्रिरात्रे पैत्तिके देयं श्लैष्मिके प्रथमेऽहनि
अविज्ञाते च दोषे च पाचनं न प्रदापयेत् ६०
सप्तरात्राद्धि मर्यादा ज्वरेणैवोपलक्ष्यते
तस्मान्नवज्वरे पीतं दोषकृन्न च दोषहृत् ६१
तस्मादादौ प्रदेयन्तु पाचनञ्च दिनत्रयम्
शमनीयं प्रदेयन्तु पञ्चरात्रं ततः परम् ६२
शोधनं दीपनीयन्तु एकरात्रं प्रदापयेत् ६३
क्वाथपाने क्लमो मूर्च्छा वैक्लव्यञ्च प्रदृश्यते
वमनञ्च यदा प्रोक्तं शमनं पथ्यकेऽपि वा ६४
सदा पथ्यं प्रयोक्तव्यं नापथ्येन स सिध्यति
औषधेन विना पथ्यैः सिध्यते भिषगुत्तमैः ६५
विना पथ्यं न साध्यः स्यादौषधानां शतैरपि
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ६६
अन्नकालेष्वभुञ्जानो हीयते म्रियतेऽपि वा
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ६७
तस्माद्रक्षेद्बलं पुंसां बलशान्तिर्हिजीवितम्
लङ्घिते चैव दोषे च यवागूपानमाचरेत् ६८
शालिषष्टिकमुद्गञ्च यूषं शस्तं वदन्ति हि ६९
पञ्चकोलकसंसिद्धा यवागूर्मध्यलङ्घिते
भवेत्प्रशस्ता सततं तस्य सन्तर्पणं हितम् ७०
आजं दुग्धं गुडोपेतं पानाय ज्वरशान्तये
तेन क्लमविनाशः स्यात्सुखमाशु प्रपद्यते ७१
उदीच्यां वा पूर्वस्यां वाऽभिमुखञ्चोपवेशयेत्
पाययेत्क्वाथपानञ्च कृत्वा ब्राह्मणवाचनम् ७२
पानपात्रमधः कृत्वा शयीता ज्ञानमेव च
पीत्वा चैव तृषार्त्तोऽपि न जलं पाययेत्क्षणम् ७३
गतक्लमं नरं दृष्ट्वा तदा सम्पद्यते सुखम् ७४
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भेषजपरिज्ञानविधिर्नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अनभिज्ञश्चिकित्सायां शास्त्राणां पठनेन किम्
यथा पलालं बीजैस्तु रहितं निष्प्रयोजकम् १
वरमाशीविषविषं क्वथितं ताम्रमेव च
पीतमत्यग्निसन्तप्ता भक्षिता वाप्ययोगुडाः २
न तु श्रुतवतां वेशं बिभ्रतां शरणागतात्
ग्रहीतुमन्नपानं वा वित्तं वा रोगपीडितात् ३
तदेव युक्तं भैषज्यं यदारोग्याय जायते
स चैव भिषजां श्रेष्ठो रोगेभ्यो यो विमोक्षयेत् ४
तस्मात्सर्वप्रयत्नेन रोगवारणहेतुना
युक्ता निदानलक्षैस्तु संहितोपायसंयुता ५
पठितव्या समासेन संहिताज्ञानहेतवे
ज्ञात्वा रोगप्रतीकारं ततः कुर्यात्प्रतिक्रियाम् ६
अविज्ञाय रुजं सम्यङ्मोहादारभते क्रियाः
विधानज्ञोऽथ शास्त्रज्ञो न तत्सिद्धिः प्रजायते ७
निदानं रोगविज्ञानं भेषजानां गुणागुणम्
विज्ञाय कुरुते यस्तु तस्य सिद्धिर्न दूरतः ८
आदावेव रुजां ज्ञानं साध्यासाध्यं विचक्षणः
याप्यं सर्वरुजाञ्चैव ततः कुर्यात्प्रतिक्रियाम् ९
देशं कालं वयो वह्निसात्म्यं प्रकृतिभेषजम्
एवं विज्ञाय सद्वैद्यस्ततः कुर्यात्प्रतिक्रियाम् १०
नास्ति रोगो विना दोषैर्दोषा वातादयः स्मृताः
ज्वरादयः स्मृता रोगास्तान्सम्यक्परिलक्षयेत् ११
आप्तानाञ्चोपदेशेन प्रत्यक्षीकरणेन च
आतुरादिदृशा स्पर्शाच्छीतादिप्रश्नतः परम् १२
दर्शनस्पर्शनप्रश्नै रोगज्ञानां त्रिधामतम्
मुखाक्षिदर्शनात्स्पर्शाच्छीतादिप्रश्नतः परम् १३
कृच्छ्रयाप्यसुखोपायो द्विविधः साध्य उच्यते
असाध्यो द्विविधो ज्ञेयः कृच्छ्रः कृच्छ्रतमोऽपरः १४
याप्याः केचित्प्रकृत्यैव याप्याः साध्या उपेक्षया
स्वभावाद्व्याधयः साध्याः केचित्साध्या उपेक्षिताः १५
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणांश्च साध्यास्तु नराणामक्रियावताम् १६
व्याधेरुपरि यो व्याधिः सोपद्रव उदाहृतः
सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः १७
ज्ञात्वाल्पकोऽपि भिषजाः परिचिन्तनीयो
नोपेक्षणीय इति रोगगणो ह्यसाध्यः ।
स्वल्पोऽप्यरिर्गरल वह्निसमानरूप
आप्तोबलं न शमतामुपयाति काले १८
शत्रुः स्थानबलं प्राप्य विक्रमं कुरुते बली
तथा धात्वन्तरं प्राप्य विक्रमं कुरुते गदः १९
बहुविधपरिकार्येणापि नीतं शमं यत्
कृशमपि हि न धार्यं रोगमूलं विधिज्ञ ।
कथमपि बहुपथ्यैर्व्यावृतो वा बलिष्ठो
न शमयति हि रोगं बाल्यमात्रेण सम्यक् २०
यथा स्वल्पं विषं तीव्रं यथा स्वल्पो भुजङ्गमः
यथा स्वल्पतरश्चाग्निस्तथा सूक्ष्मोऽपि रुग्रिपुः २१
यावत्स्थानं समाश्रित्य विकारं कुरुते गदः
तावत्तस्य प्रतीकारः स्थानत्यागाद्बलीयसः २२
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे
सहजाः कथिताश्चान्ये व्याधयस्त्रिविधा मताः २३
बहुभिरुपचारैस्तु ये न यान्ति शमं ततः
ते कर्मजाः समुद्दिष्टा व्याधयो दारुणाः पुनः २४
दोषजा वातपित्ताद्याः सहजाः क्षुत्तृषादयः २५
तस्माद्वक्ष्यामि चादौ ज्वरमतुलगदं वाजिनां कुञ्जराणां मानुष्याणां पशूनां
मृगमहिषखरोष्ट्रादिवानस्पतीनाम् ।
वल्लीनामोषधीनां क्षितिधरफणिनां पत्रिणां मूषिकाणामेष प्राणापहारी ज्वर इति गदितो दुर्निवारो हि लोके २६
असाध्योऽयं ज्वरो व्याधिर्गोमहिष्यश्वकुञ्जरे
किञ्चित्कृच्छ्रतमो नॄणामन्येषां जीवघातकः २७
यथा मृगाणां मृगयुर्बलिष्ठस्तथा गदानां प्रबलो ज्वरोऽयम्
नान्योऽपि शक्तो मनुजं विहाय सोढुं भुवि प्राणभृतः सुराद्याः २८
कर्मणा लभते यस्माद्देवत्वं मानुषो दिवि
ततश्चैवच्युतः स्वर्गान्मानुष्यमपि वर्त्तते २९
तस्मात्स देवभावात्तु सहते मानुषो ज्वरम्
शेषाः सर्वे विपद्यन्ते पशुवर्गा ज्वरार्दिताः ३०
रोगाणां रोगराजोऽयं यथा मृगपतिर्मृगे
दाहात्मसु यथा वह्निस्तथा रोगो ज्वरोऽधिकः
रुद्रक्रोधाग्निसम्भूतः सर्वभूतप्रतापनः ३१
पातकः स तु नागानामभितापस्तु वाजिनाम्
गवामीश्वरसंज्ञस्तु मानवानां ज्वरो मतः ३२
दारिद्रो महिषीणान्तु मृगरोगो मृगेषु च
अजावीनां प्रलापाख्यः करभेष्वलसो भवेत् ३३
शुनोऽलर्कः समाख्यातो मत्स्येष्विन्द्रमतो मतः
पक्षिणामभिघातस्तु व्यालेष्वैक्षितसंज्ञितः ३४
जलस्य नीलिका प्रायो भूमिषूषरनामतः
वृक्षस्य कोटराक्षस्तु ज्वरः सर्वत्र दृश्यते ३५
त्रिपाद्भस्मप्रहरणस्त्रिशिराः सुमहोदरः
वैयाघ्रचर्मवसनः कपिलोज्ज्वलविग्रहः ३६
पिङ्गेक्षणो ह्यस्वजङ्घो विमत्स्यो बलवानयम्
पुरुषो लोकनाशाय चासौ ज्वर इतिस्मृतः ३७
दग्धेन्धनो यथा वह्निर्धातून्हत्वा यथा विषम्
कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः ३८
तस्मात्तस्य समुत्पत्तिं वक्ष्यामि शृणु पुत्रक
चतुर्विधो महाघोरो जातो येन तु चाष्टधा ३९
दक्षादूर्ध्वरप्रशमनः कुपितो हि महेश्वरः
श्वासं मुमोच दयिताविधुरश्च तीव्रं तेन ज्वरोऽष्टविधसम्भवतोऽष्टधा स्यात् ४०
वातादिपित्तकफशोणित सन्निधानात्स्वेच्छान्नपाननिरतादृतुवैपरीत्यात्
दोषा मलाशयगता जठराग्निबाह्याः सम्प्रेरयन्ति रुधिरा श्रितवह्निपातम् ४१
तेषां ततो हि दधते ज्वरनाम सिद्धंव्यायामक्रोधभुक्त्यादिजननाच्छीतसम्भवत्वात् ४२
विरुद्धान्न विशेषेण पाननिर्झरवारिणा
कूपोदकेन सन्तुष्टस्तिग्मतीव्रांशुरश्मिभिः ४३
गन्धवातेन दोषाणामभिघाताभिशापतः
ज्वरोनाम महाघोरो जायते मनुजे भृशम् ४४
श्रमो जडत्वं नयनप्लवः स्याद्रोमोद्गमो घुर्घुरकञ्च जृम्भा
वैवर्णता द्वेषसशोषतास्ये ज्वरस्य च व्यक्तकलक्षणानि ४५
समीरणे च वै जृम्भा कफाद्दैन्यं निषीदति
पित्तान्नयनसन्तापः सर्वं वै सान्निपातिके
तस्माद्वक्ष्ये प्रतीकारं येन सम्पद्यते सुखम् ४६
वचा यवानी धनिका सविश्वा पिबेत्कषायं निशि सोष्णमेवम्
स वातिके वातरुजे ज्वराणां सम्पाचके स्यान्मनुजे सुखाय ४७
निशा सनिम्बा मृतवल्लिका च धान्यं च विश्वा सगुडः कषायः
निशासु च क्षीरसकोलमिश्रं पानं सपित्तज्वरपाचनाय ४८
वचा यवानी त्रिफला सविश्वा क्वाथो निशायां कफजे ज्वरे वा
सपाचनं स्यान्मनुजस्य दोषे शूले प्रतिश्यायकपीनसेषु ४९
शठीवचानागरकाफलानां वत्सादनीधन्वयवासकानाम्
क्वाथोहितः सर्वभवे ज्वरे च सम्पाचनं स्यान्मनुजत्रिदोषे ५०
रात्रौ सुखोष्णतोयेन प्रचुरेण च धीमताम्
अङ्गसम्मर्दनं पथ्यं निद्राव्यायामवर्जितम् ५१
वैपथुर्विषमवेगशोषणं कण्ठतालुवदने विरस्यता
रूक्षता वपुषि बन्धकुक्षयोर्जृम्भणं शिरसि रुग्विनिद्रता ५२
कृष्णताकररुहां प्रलापको गात्रभङ्गबलवान् बिभत्स्यति
भीतवत्स्वपिति जाग्रतो नरो लक्षणैर्भवति वातकृज्ज्वरः ५३
नागरं सुरतरुश्च धान्यकं कुण्डली बृहतिका युगन्निशम्
सप्तमे निशि प्रशस्यते ज्वरे चाष्टमांशगतको हि अष्टवान् ५४
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव तद्बालवृद्धयुवती मृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च ५५
इन्द्रियाणां लघुत्वञ्च नेत्रास्यस्य प्रसादता
सोद्गारमुष्णता कोष्ठे जीर्णभेषजलक्षणम् ५६
क्लमहृल्लाससदनं शिरोरुग्भ्रंशमेव च
उत्क्लेदो जायते यस्य विद्यादुत्क्राममौषधम् ५७
दाहाङ्गसदनं मूर्च्छा शिरोरुक्क्लमदीनता
भ्रमो रतिविशेषेण सविशेषौषधाकृतिः ५८
तस्मादौषधशेषे तु न दोषशमनं क्वचित्
कोपन्त्यनेकधा दोषा न देयं पाचनं विना ५९
शीघ्रं विपाकमुपयाति बलं न हन्यादन्नावृतं न च मुहुर्वदनान्निरेति
प्राग्भुक्तसेवितमहौषधमेतदेव दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः ६०
बिल्वाग्निमन्थशुकनासकपाटलीनां कुम्भारिकाप्रयुतकं क्वथितं कषायम्
दन्तान्विशोधयति वारयते समीरं नाशं करोति मरुतज्वरमाशु पुंसाम् ६१
किरातमुस्तमृतवल्लिक्रणासवित्र्यो गोकण्टको बृहतियुग्ममुदीच्यतिक्ताः ।
स्याच्छालिपर्णिकलशीक्वथितः समन्तात्क्वाथः समीरण भवं ज्वरमाशु हन्ति ६२
गुडूची शतपुष्पा च प्लक्षी रास्ना पुनर्नवा
त्रायमाणकक्वाथश्च गुडैर्वातज्वरापहः ६३
मूर्च्छा दाहो भ्रममदतृषावेगतीक्ष्णोऽतिसारस्तन्द्रालस्यं प्रलयन वमीपाकतापश्च वक्त्रे । स्वेदः श्वासो भवति कटुकं विह्वलत्वं क्षुधा वा एतैर्लिङ्गैर्भवति मनुजे पैत्तिको वै ज्वरस्तु ६४
रोध्रोत्पलामृतलताकमलं सिताड्यं तत्सारिवासहितमेव हि पाचनेषु ।
निष्क्वाथ्य क्वाथमति चाशु निहन्ति पित्तं पित्तज्वरप्रशमनं प्रकरोति पुंसाम् ६५
क्वथितं तण्डुलपयसा शक्राह्वं कटुरोहिणीसहितम्
क्वाथं यष्टीमधुना विनाशनं पित्तज्ज्वराणान्तु ६६
दुरालभावासकपर्पटानां प्रियंगुनिम्बकटुरोहिणीनाम्
किराततिक्तं क्वथितं कषायं सशर्कराढ्यं कथितञ्च पाचनम् ६७
सदाहपित्तज्वरंमाशु हन्ति तृष्णाभ्रमं शोषविकारयुक्तम् ६८
एकोऽपि वै पर्पटको वरिष्ठः पित्तज्वराणां शमनाय योग्यः
तस्मात्पुनर्नागरवालकाढ्यः सिंहो यथा कङ्कटकप्रवृत्तः ६९
नागरोशीरमुस्ता च चन्दनं कटुरोहिणी
धान्यकानां तु क्वाथश्च पित्तज्वरविनाशनः ७०
अमृतं पर्पटो धात्री क्वाथः पित्तज्वरं हरेत् ७१
द्राक्षापर्पटकतिक्तापथ्यारग्वधमुस्तकैः
क्वाथस्तृषाभ्रमदाहयुक्तपित्तज्वरापहः ७२
विदारिकारोध्रदधित्थकानां स्यान्मातुलुङ्गस्य च दाडिमानाम्
यथानुलाभेन च तालुलेपो निहन्ति दाहं तृषामूर्च्छनञ्च ७३
उत्तानस्य प्रसुप्तस्य कांस्ये वा ताम्रभाजने
नाभौ निधाय धारां नु शीतान्दाहं निवारयेत् ७४
रम्यारामाकुचभरनतालिङ्गनं चेष्टसङ्गाद्द्राक्षापानं निगदितमथो शीतलं सेवनं
स्यात् । शुभ्राम्भोजञ्च मलयजलासिक्तसंशीतवासो मुक्ताहारो विशदतुहिनं कौमुदीयामुखाय ७५
एभिर्हन्ति द्रुततरनिभं मानुषाणां तु पित्तं दाहं शोषं क्लममपि तथा तृड्भ्रमं
मूर्च्छनाञ्च । एतैर्योगैर्भवति नितरां पित्तदाहस्य शान्तिर्योग्या चैवं भवति सततन्तत्क्रियाश्रीमताञ्च ७६
यदि जिह्वागलतालुशोषश्चेन्मनुजस्य च
केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्
पेष्यमाणं तालुलेपे सद्यः पित्तज्वरापहम् ७७
स्तैमित्यं मधुरास्यता च जडता तन्द्रा भृशञ्च तथा गात्राणां गुरुतारुचिर्विस्मता रोमोद्गमः शीतता
प्रस्वेदाः श्रुतिरोधनञ्च कुरुते नेत्रे च पाण्डुच्छवी विष्टब्ध मलवृत्तिकासवमनं श्लेष्मज्वरे ते विदुः ७८
पिप्पलादिककल्कं तु कफजे पाचनं हितम् ७९
तद्वद्व्याघ्री च सिंही च रोध्रं कुष्ठपटोलकम्
ज्वरे कफात्मजे चैतत्पाचनं स्यात्तदुत्तमम् ८०
वासा गुडूची त्रिफला पटोली शठी च तिक्ता मधुनीकषायम्
श्लेष्मप्रभूतेषु रुजेषु सम्यग् ज्वरं निहन्यात्कफजञ्च शीघ्रम् ८१
आमलक्यभया कृष्णा षड्ग्रन्था त्रित्रिकन्तथा
मलभेदी कफान्तको ज्वरनाशनदीपनः ८२
पिप्पली शृङ्गवेरञ्च षड्ग्रन्था वत्सकं फलम्
क्वाथो मधुप्रगाढः स्याच्छ्लेष्मज्वरविनाशनः ८३
क्षोद्रेण पिप्पलीचूर्णं लिह्येच्छ्लेष्मज्वरापहम्
प्लीहानाहविषं हन्ति कासश्वासाममर्दनम् ८४
तृष्णा मूर्च्छा वमिरथ कटुता चानने रूक्षता स्यादन्तर्दाहो वपुषि नयने
रक्तता कण्ठशोषः ।
निद्रानाशः श्वसनशिरसो रुक्प्रभेदोऽङ्गभङ्गोरोमोद्घर्षस्तमकमिति चेद्वातपित्तज्वरः स्यात् ८५
संसृष्टदोषैर्विहितञ्च सम्यग्विपाचनं पित्तमरुज्ज्वरे च
फलत्रिकं शाल्मलिसम्प्रयुक्तं रास्नाकिरातस्य पिबेत्कषायम् ८६
द्विपञ्चमूली सह नागरेण गुडूचिभूनिम्बघनैः समेता
कल्कः प्रशस्तः सगुडो मरुत्सु स पित्तवातज्वरनाशहेतुः ८७
किराततिक्तामलकीशठीनां द्राक्षोषणानागरकामृतानाम्
क्वाथः सुशीतो गुडसंयुतः स्यात्स पित्तवातज्वरनाशहेतुः ८८
अमृतमुस्तकवासापर्पटविश्वाजलेन क्वाथः
पानं पित्तमरुत्सु ज्वरं निहन्याच्च भद्रमुञ्जः ८९
निद्रागौरवकात्ससन्धिशिररुक्चार्त्तिस्तथा पर्वणां भेदो मध्यमवेगमत्र नयने
वातान्विते श्लेष्मणि ।
सन्तापः श्वसनं रुचिः श्रुतिपथे कण्ठे च शुष्कावृतिस्तन्द्रामोहमरोचकभ्रममथ श्लेष्मज्वरे पित्तले ९०
नागरं भद्रमुस्ता वा गुडूच्यामलकाह्वयम्
पाठामृणालोदीच्याश्च क्वाथः पित्तज्वरे कफे ९१
पाचनो दीपनीयः स्याद्रक्तशोषनिवारणः ९२
द्राक्षामृतावासकरिष्टकाश्च भूनिम्बतिक्तेन्द्रयवाः पटोलम्
मुस्तासभार्गा क्वथितः कषायः पित्तकफस्य ज्वरनाशनाय ९३
गुडूचिका निम्बदलानि शुण्ठी मुस्तञ्च कुस्तुम्बुरुचन्दनानि
क्वाथं विदध्यात्कफपित्तवातज्वरं निहन्याच्च गुडूचिकाद्यः ९४
एष सर्वज्वरान्हन्ति हृल्लासाद्यानरोचकान्
प्रतिश्यायपिपासाघ्नः शोषदाहनिवारणः ९५
गुडूचीनिम्बचक्रवासकञ्च शठी किरातं मगधाष्टहल्यौ
दार्वीपटोलं क्वथितं कषायं पिबेन्नरः पित्तकफे ज्वरे च ९६
पटोली चन्दनं तिक्ता मूर्वा पाठामृतागणः
पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूनिवारणः ९७
पटोलवासापिचुमन्दकस्य मूलानि यष्टीमधुकं घना च
कषायमेतत्प्रतिसाधितन्तु ज्वरे कफे पित्तभवे प्रशस्तः ९८
सन्दीपनो पित्तकफात्मके च तथैव पित्तासृजसम्भवे च
ज्वरे मलानां प्रतिभेदनः स्यात्पटोलधान्याश्रितकः प्रशस्तः ९९
शीतं वेपथुपर्वभङ्गवमथुर्गात्रे जडत्वं रुजां मन्दोष्मारुचिबन्धनं परुषता
कासस्तमः शूलवान् ।
तन्द्रा कूजनमात्मलौल्यमथवास्तैमित्यजृम्भारुचिः प्रस्वेदोमलमूत्ररोधसहितः
स्याच्छ्लेष्मवातज्वरः १००
आरग्वधस्तिक्तकरोहिणी च हरीतकी पिप्पलिमूलमुस्ता
निष्क्वाथ्य कल्कः कफवातयुक्ते ज्वरे सशूले हितपाचनोऽयम् १०१
क्षुद्रा गुडूची सह नागरेण वासाजलं पर्पटकञ्च पथ्याः
मुस्ता च दुःस्पर्शयुतः कषायः पानो हितो वातकफज्वरस्य १०२
पर्पटनागाख्यवचातन्तुककट्फलैलाभयाविश्वभूतिके
क्वाथो हिंगुमधुयुतः कफवाते सहिक्कारोगे सगलग्रहे च १०३
द्विपञ्चमूलकः क्वाथः कणाचूर्णेन भावितः
देयो वातकफे शूले ज्वरे श्वासे च पीनसे १०४
तन्द्रालस्यं मुखमधुरता ष्ठीवनं कण्ठशोषो निद्रानाशः श्वसनविकलो मूर्च्छना शोचना च ।
जिह्वाजाड्यं परुषमथ वा पृष्ठशीर्षे व्यथा स्यादन्तर्दाहो भवति यदि वा
विद्धि दोषं त्रिदोषम् १०५
दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम्
तस्मादादौ कफस्यास्य शोषणं परिकीर्त्तितम् १०६
न कुर्यात्पित्तशमनं यदीच्छेदात्मनो यशः
कफवातैर्बलवतः सद्यो हन्ति रुजातुरम् १०७
लङ्घनं दमनं वापि ष्ठीवनं स्यात्त्रिदोषजे
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा १०८
लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम्
कफं विशोषितं ज्ञात्वा ततो वातनिवारणम् १०९
पित्तसंशमनं कार्यं ज्ञात्वा पित्तस्य कोपनम्
शोषणीयौ वातकफौ न तु पित्तं विनाशयेत् ११०
तृष्णा च शूलशोषः श्वसनमथ निशाजागरो वासरैस्तु
तन्द्रा मोहश्च शोषो भवति च वदने घ्राणजिह्वाधराणाम्
पाकं निष्ठीवते यः कृशतनुश्च भवेन्मण्डलानाञ्च देहे
सम्भूतिः श्यावनेत्राधरवदनमदस्वेद आध्मानशोषः १११
क्षुन्नाशो वा भ्रमणमपि तथा शिरसो लोडनं वा
शिरोऽर्त्तिः स्रोतोरोधो वमिर्वा गलकघुरघुराशूलकैर्वा वृतस्तु ।
एतैर्लिङ्गैः प्रयुक्तः प्रभवति च नृणां सन्निपातेतिसंज्ञा
रोगाणामाशुकारी ज्वर अतिदुःखदो वाजिनां वा द्विपानाम् ११२
सन्निपातज्वरे पूर्वं कुर्याद्वातकफापहम्
पश्चाच्छ्लेष्मणि संक्षीणे निरामे पित्तमारुतौ ११३
सन्निपातज्वरे यत्नं कृत्वा तन्द्रां जयेत्पराम्
उपद्रवः कष्टतमो ज्वराणाञ्च विशेषतः ११४
पथ्ये कारयते यस्तु रोगिणां कफपूरितम्
स एवास्य शत्रुः स्यान्न पथ्यं न च भेषजम् ११५
शठी द्विपञ्चमूलकं दुरालभा च कोटजम्
पटोलं पौष्करं वाथ युक्ता भार्गवी पिप्पली ११६
निहन्ति सान्निपातिकज्वराग्निमाद्यन्दशाङ्गः ११७
भूनिम्ब दारुदशमूलमहौषधाब्दतिक्तेन्द्रबीज धनिकभद्रकण्टकणाकषायः
तन्द्राप्रलापभ्रमतृषारुचिदाहमोहश्वासाग्निमान्द्ययुक्तमथज्वरमाशु हन्ति ११८
शण्ठीघनागजकणासुरदारुधान्यातिक्ताकलिङ्गदशमूलसमोऽपि कल्कः
श्रेष्ठस्त्रिदोषजनितज्वरनाशनाय श्वासभ्रमारुचिविबन्धहृदामयघ्नः ११९
मुस्तोशीरनिशाविशालमधुकं पाठा बला रोहिणी
नीली धन्वयवास कटृवरशठी शुण्ठी समङ्गा विवृत् ।
यष्टीपिप्पलिमूलपर्पटफला पिप्पल्यकं दारु च
श्यामाहेमगुडूचिकासमपयः क्वाथो ज्वरान्तः स्मृतः १२०
द्वे बृहत्यौ शठी शृङ्गी किरातं कटुरोहिणी
पटोलं पौष्करं भार्ङ्गी वत्सकञ्च दुरालभा १२१
एतद्बृहत्यादिकपाचनं स्यात्कासादिकोपद्रवनाशनञ्च
शीघ्रं निहन्ति ज्वरसन्निपातं शूलार्त्तितन्द्राशमने प्रशस्तम् १२२
शठी किरातं कटुका विशाला गुडूचिभृङ्गी बृहतीद्वयञ्च
महौषधं पौष्करधन्वयासरास्नासुराह्वा गजपिप्पली च १२३
पीतन्तु निष्क्वाथ्य हितं नराणां शठ्यादिचातुर्दशकं प्रशस्तम्
जघान तन्द्राश्वसनं शिरोऽर्त्तिजाड्यं सशूलं ज्वरमाशु हन्ति १२४
भूनिम्बसुरदारुनागरघनातिक्ताकलिङ्गानि च
तद्वद्धस्तिकणा द्विपञ्चकगणैर्युक्तः कषायो हितः ।
पीतः सर्वरुजां विनाशनकरः स्यात्सन्निपातज्वरं
हन्ति श्वासविशोषवक्षसिरुजं तन्द्रां जघान द्रुतम् १२५
रास्ना गुडूचिघनपर्पटकं पटोली भूनिम्बवत्सकशठीयुतनागराणाम्
तिक्तासुराह्वगजमागधिकायवासावासाबलागजबलाक्वथितः समांशः १२६
क्वाथो निहन्ति मरुतप्रभवामयानां सश्वास कासजठरार्तिविषूचिकानाम्
श्रेष्ठो नृणां भुवि च पाचनसन्निपाते रोगेऽथवा कफसमीरणके प्रदेयः १२७
रास्नात्रिकण्टशतमौषधीनान्तथा च भार्ङ्गी सपुष्करघना सुरदारुधान्याः
क्वाथो हितः सकलमारुतजिज्ज्वरेषु स्यात्सन्निपातप्रभवेष्वतिदारुणेषु १२८
त्रिवृद्विशाला च तथा सुराह्वमारग्वधस्तिक्तकरोहिणी च
क्वाथो भवेद्भेदनको मलानां स्याद्वातशूले नयतो भयघ्नः १२९
वचा यवानी च महौषधञ्च शुष्कञ्च चूर्णं तनुलेपनाय
शस्तं वदन्ति ज्वरघर्मशान्तिं करोति नूनं परिमर्दनञ्च १३०
मागधी च सुरदारु तथा च विश्वकं तिक्ता च दीप्यकयुतं तनुलेपनाय
चूर्णं प्रशस्तमपि वारयते शरीरे स्वेदञ्च शीतलतनुर्भवेदाशु नूनम् १३१
मधूकसारं समहौषधेन वचोषणा सैन्धवसंयुता च
मूत्रेण वा चोष्ण जलेन पिष्टं प्रनष्टज्ञानप्रतिबोधनाय १३२
शोभाञ्जनकमूलस्य रसं समरिचान्वितम्
विसङ्गितानां नस्यं स्याद्बोधनं चाशु रोगिणाम् १३३
एकं बृहत्याः फलपिप्पलीकं शुण्ठीयुतं चूर्णमिदं प्रशस्तम्
प्रधामयेद्घ्राणपुटे तु संज्ञाचेष्टां करोति क्षवथुप्रबोधः १३४
शिरीषबीजं मरिचोपकुल्या मूत्रेण घृष्टं सह सैन्धवेन
नेत्राञ्जनं स्यान्नयने नराणां प्रनष्टसंज्ञां प्रकरोति बोधः १३५
त्रिकटु तथा च करञ्जबीजं त्रिफला सुरदारु सैन्धवम्
तुलसी वर्त्ति दयनाञ्जनकं तन्द्रा नाशं करोति नयनानाम् १३६
केसरं मातुलुङ्गस्य शृङ्गवेरं ससैन्धवम्
त्रिकटुसंयुतं कृत्वा आकण्ठाद्धारयेन्मुखे १३७
दन्तजिह्वामुखं तालुघर्षणं कारयेद्बुधः
कुर्यान्निष्ठीवनं सर्वं वारंवारं विधानतः १३८
तेन कण्ठविशुद्धिः स्याच्छ्लेष्माणं चापकर्षति
जिह्वापटुत्वरुचिकृत्वासः श्वासश्च शाम्यति १३९
त्रकटुचव्यकापथ्या चूर्णं सैन्धवसंयुतम्
तेन दन्तांस्तथा जिह्वां घर्षयेत्तालुकामलम् १४०
निष्ठीवनं गलशुद्धिरुचिकृत्कफसूदनम्
हृल्लासो नाशमाप्नोति पटुत्वं कुरुते भृशम् १४१
यदि वा शीतगात्रे च तदा स्वेदो विधीयते
स्वेदास्त्रयोदश ज्ञेयाः स्वेदवारणकारणाः १४२
सङ्करः प्रस्तुतो नाडीपरिषेकोऽपगाहनः
आतङ्कोऽस्मयनः कर्षः कूटी भूकुम्भिरेव च १४३
कूपो होलाक इत्येते स्वेदयन्ति त्रयोदशः १४४
कालस्वेदं घटीस्वेदं वालुकास्वेदमेव च
कारयेद्धस्तपादाभ्यां तथा शिरसि चातुरे
एवं नो शान्तिर्यदि वा दहेल्लोहशलाकया १४५
पादौ दग्धे न चेच्छैत्यं दहेद्वाङ्गुष्ठमूलके
तथा च मणिबन्धे च हृदि मूर्ध्नि तथापि वा १४६
स्वेदो ललाटे हिमो वा नरस्य शीतार्दितस्यापि सपिच्छलस्य
कण्ठस्थितो यस्य न याति वक्षो नूनं समभ्येति गृहं हि मृत्योः १४७
सप्ताहे वा दशाहे वा द्वादशाहेऽथवा पुनः
त्रयोदशे पञ्चदशे प्रशमं याति हन्ति वा १४८
अथ पञ्चादशाहे वा हन्ति रक्षति मानवम्
सन्निपातो महाघोरो ज्वरः कालाग्निसन्निभः १४९
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च
सन्निपातस्य दोषस्य नरस्यास्य भिषग्वर १५०
सन्निपातेऽन्तर्दाहे मनुजं यः शीतवारिणा सिञ्चेत्
आतुरः कथमपि जीवेद्वैद्यश्चासौ कथं पूज्यः १५१
यः सन्निपातजलधौ पतितं मनुष्यं वैद्यः समुद्धरति किन्न कृतं नु तेन ।
धर्मेण वाथ यशसा विनयेन युक्तः पूजां च कां भुवितले न लभेत्तु वैद्यः १५२
वातपित्तकफैस्त्रिभिर्युक्तस्तथा त्रिदोषजः
स च रक्तेन संयुक्तो ज्वरः स्यात्सान्निपातिकः १५३
न रक्तेन विना विद्धि ज्वरं वै सान्निपातिकम्
क्वाथैः पाचनकैर्दोषाः प्रशमं यान्ति मानवे १५४
तस्मात्प्रशमिते दोषे रक्तं नैव विलीयते
तेनैव जायते शोफः कर्णमूले तु दारुणः १५५
तस्मात्तस्य प्रतीकार कुर्याद्रक्तविरेचनम्
जलौकालाबुभृङ्गैस्तु ततश्च लेपनं हितम् १५६
बीजपूरकमूलानि अग्निमन्थस्तथैव च
आलेपनमिदं चास्य कर्णमूलस्य नाशनम् १५७
आगारधूपरजनीसुमहौषधेन सिद्धार्थसैन्धववचापयसा विमर्द्य
लेपोहितोरक्तविनाशकारी शोफव्रणस्य शमनो मनुजस्य कर्णे १५८
यदा पाको भवेत्तस्य कार्या तत्र प्रतिक्रिया
धवार्जुनकदम्बत्वग्लेप्लनं व्रणरोहणम् १५९
निम्बारग्वधमूलानां निशायुक्तं प्रलेपनम्
स्रावणं पूयगन्धानां रोहणं स्याद्व्रणेषु च १६०
वर्जयेच्च दिवास्वप्नं योषित्सङ्गं बहूदकम्
शीताम्बु जागृतिं रात्रौ व्यायामं शोचनं तथा १६१
माषांश्च यवगोधूमतिलपर्णीकमेव च
मसूरत्रिपुटांश्चैतांस्तैलञ्च दूरतस्त्यजेत् १६२
मासमेकं व्यवायं च पक्षैकं चातिभोजनम्
वर्जयेत्कर्णमूलञ्च सुखं तेनोपपद्यते १६३
षष्टिकान्नं पुराणं वा बाल्य सूपस्तथाढकी
कुलत्थामुद्गयूषं वा भोजने च प्रशस्यते १६४
वार्त्ताकञ्च पलाण्डुं च कन्दशाकान्परित्यजेत्
एतेन सुखमाप्नोति शीघ्रं रोगाद्विमुच्यते १६५
अन्ते पित्तं यदा तिष्ठेद्बाह्ये श्लेष्मसमीरणो
तदान्तर्दाहशोषः स्याद्बाह्ये सस्वेदशीतता १६६
तस्यामृतापयः क्वाथं मधुपिप्पलिसंयुतम्
पाययेदाशु मुच्येत ज्वराद्वै सान्निपातिकात् १६७
अथवातिविषा वालं नागरं घनपर्पटम्
क्वाथो वा शर्करायुक्त अन्तर्दाहोपशान्तये १६८
बाह्ये पित्तं यदा तिष्ठेदन्ते वा कफमारुतौ
तेनोष्णत्वं शरीरस्य अन्ते शैत्यं च जायते १६९
तस्य शठ्यादिकं क्वाथं प्रयुञ्जीयात्कफापहम् १७०
यस्योर्ध्वाङ्गे वातकफावधोगं पित्तमेव च
तेनार्द्धं शीतलं गात्रमर्द्धे चोष्णं च जायते १७१
तस्य रास्नादिकं क्वाथं प्रयुञ्जीयात्तथोष्णकम् १७२
यस्योर्ध्वं रक्तपित्तञ्च मध्ये वातकफावुभौ
तेनोर्ध्वं जायते चोष्णमधः शीतं प्रजायते १७३
तस्य नागरादिक्वाथं युञ्जीयाद्भिषगुत्तमः १७४
यस्योष्मा दृश्यते चापि मन्दस्रष्टा च जायते
बाह्यवेगं विजानीयाज्ज्वरः साध्यो विजानता १७५
यस्यान्ते जायते चोष्मा तृष्णा दाहः शिरोव्यथा
गम्भीरवेगं जानीयात्कृच्छ्रसाध्यो नृणामपि १७६
तस्य कुर्यात्प्रतीकारं योगोऽष्टादशको नृणाम् १७७
अन्ते पित्तं यदा तिष्ठेद्देहे वातकफावुभौ
तेन शैत्यं शरीरस्य उष्णत्वं करपादयोः १७८
तस्य रास्नादिकः क्वाथः प्रदेयः पिप्पलीयुतः १७९
देहे पित्तं यदा तिष्ठेदन्ते वातकफावुभौ
तस्योष्मा जायते देहे शीतत्वं करपादयोः १८०
तस्य द्राक्षादिकः क्वाथः प्रदेयो गुडकान्वितः १८१
यत्र यत्र भवेच्छैत्यं तत्र स्वेदो विधीयते
नात्युष्णे स्वेदनं कार्यं ज्वरस्यास्य विजानता १८२
कफपित्तेन निश्चेष्टो भवत्येवानिलः सदा
तस्मादेवानिलाद्रोगाः सम्भवन्ति ज्वरादयः १८३
भ्रमः शैत्यं विह्वलता कम्पो विड्भेदनं क्लमः
श्रमः स्वेदो जल्पनञ्च ज्वरमोक्षे भवन्ति च १८४
प्रस्वेदकण्डू च शिरा च पुष्टा तथा मुखेषु क्षवथुर्लघुत्वम्
अन्नाभिलाषो विपुलेन्द्रियञ्च गतक्लमो गतरुजो मनुष्यः १८५
विमुक्तस्यापि हि शिरोगुरुत्वं नैव मुञ्चति
अविमुक्तं विजानीयाज्ज्वरः पुनरुपैति तम् १८६
यदि धातुगतश्चैव ज्वरो देहे प्रपद्यते
विषमज्वरं जानीयात्स च ज्ञेयश्चतुर्विधः १८७
एकाहिको द्व्याहिकश्च त्र्याहिकश्च तथापरः
वेलाज्वरश्चतुर्थोऽपि विजानीयाद्विचक्षणः १८८
शीतश्च पूर्वं भवति पश्चादुष्णश्च जायते
स साध्यो मनुजे प्रोक्तः शीघ्रं सिध्यति भेषजैः १८९
पश्चाच्च दाहमाप्नोति ज्वरो भवति दारुणः
सोऽपि न मुच्यते शीघ्रं ज्वरो धातुक्षयङ्करः १९०
त्रिकोरुकट्यां रुजवातपित्तं स्याच्च पित्तं मस्तके सुग्भ्रमश्च
पृष्ठे तनुश्लेष्मरुजाकरं स्यात्त्रिधा तृतीयज्वरलक्षणं तत् १९१
कफपित्तात्त्रिकग्राहीपृष्ठाद्वातकफात्मकः
वातपित्तशिरोग्राही त्रिविधः स्यात्तृतीयकः १९२
चतुर्थो द्विविधो ज्ञेयो वातश्लेष्मात्मको ज्वरः
जङ्घाभ्यां श्लेष्मकोज्ञेयः शिरसोऽनिलसम्भवः १९३
एवं विज्ञाय सद्वैद्यः कुर्यात्तत्र प्रतिक्रियाम् १९४
वेलाज्वरो रसगते रक्ते चैकाहिकस्तथा
मांसगोऽपि तृतीयः स्याच्चतुर्थोऽस्थिसमाश्रितः
सर्वधातुगतो ज्ञेयो जीर्णो धातुक्षयङ्करः १९५
भूतजे भूतविद्या स्याद्दधाति शमताडनम्
अभिशापाज्ज्वरो यस्य तस्य शान्तिः प्रतिक्रिया १९६
कामजे कामला पित्तैर्नयेच्च श्वसनं हितम् १९७
क्रोधजे पित्तजे वापि सद्वाक्यैरुपशामयेत्
ओषधी गन्धजैर्मूर्च्छा कारयेत्सेवनं हितम् १९८
निदिग्धिकानागरिकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्
जीर्णज्वरारोचनकासशूलश्वासाग्निमान्द्यार्दितपीनसेषु १९९
कासाजीर्णे श्वासहृत्पाण्डुरोगे मन्दे वाग्नौ कामलारोचके च
तेषां शस्ता पिप्पली स्याद्गुडेन हन्ति नॄणां जीर्णमाशु ज्वरञ्च २००
लघुपञ्चमूलीक्वथितः कषायश्छिन्नोद्भवायाः सह पिप्पलीभिः
जीर्णज्वरे श्वासकफामयघ्नो मन्दाग्निशूलारुचिपीनसानाम् २०१
पटोलपाठाकटुरोहिणीनां फलत्रयं वत्सकनिम्बमोक्षाः
द्राक्षामृताचन्दननागराणां क्वाथः पुराणज्वरनाशनाय २०२
सजीरकं गुडं भक्षेत्सगुडां वा हरीतकीम्
सगुडान्वा तिलान्भक्षेज्ज्वरे च विषमानुगे २०३
गुडार्द्रकं वा सम्भक्षेत्सगुडं त्रिफलाक्वाथम्
क्वाथोऽपि विषमाणान्तु ज्वराणां नाशकारकः २०४
वासाधात्रीफलदारुपथ्यानागरसाधितः
मधुना संयुतः क्वाथश्चातुर्थिकनिवारणः २०५
अगस्तिपत्रं स्वरसैर्निहन्ति नस्ये च चातुर्थिकरोगमुग्रम्
कासं भ्रमं चापि शिरोरुजाञ्च नाशञ्च नस्यं च हितं नराणाम् २०६
रसोनकल्कं तिलतैलमिश्रं योऽश्नाति नित्यं विषमज्वरार्त्तः
विमुच्यतेऽसौ विषमज्वरेभ्यो वातामयैश्चाप्यतिघोररूपैः २०७
पलञ्च निम्बस्य दलानि कुष्ठं वचा गुडं गुग्गुलुसर्षपानाम्
हरीतकी सर्पिर्युतं च धूपं विनाशनं वै विषमज्वराणाम् २०८
सुरसा मूलमावृत्य हस्ते बद्धः शुभे दिने
वेलाज्वरादिकान् हन्ति भूतज्वरनिवारणः २०९
मुस्तामृतामलक्यश्च नागरं कण्टकारिका
कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः २१०
एकाहिकं वा वेलाद्यं ज्वरं जातं व्यपोहति २११
रसोनबीजं विहाय खण्डं कृत्वा निशासु च
तक्रमध्ये विनिक्षिप्य प्रभाते घृतसंयुतम् २१२
सेवितञ्च ज्वरान्हन्ति वेलाद्यान्देहधातुगान् २१३
पिप्पलीवर्द्धमानञ्च पिबेत्क्षीरं रसायनम्
महौषधं नागरञ्च धान्यं चन्दनवालुकम् २१४
गुडूचिकापयः पिबेत्तृतीयकज्वरापहम्
अपामार्गस्य मूलञ्च नीलीमूलमथापि वा २१५
लोहितेन तु सूत्रेण आमस्तकप्रमाणतः
वामकर्णे कटीं बद्ध्वा ज्वरं हन्ति तृतीयकम् २१६
वानरेन्द्रमुखं दिव्यं तरुणादित्यतेजसम्
ज्वरमेकाहिकं घोरं तत्क्षणादेव नश्यति २१७
वानराकृतिमालिख्य खटिकायाः पुनः शृणु
गन्धपुष्पाक्षतैर्धूपैरर्चयन्ति भिषग्वराः २१८
ॐ ह्रां ह्रीं क्लीं सुग्रीवाय महाबलपराक्रमाय सूर्यपुत्रायामिततेजसे एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमहाज्वरभूतज्वरभय ज्वरक्रोधज्वरवेलाज्वरप्रभृतिज्वराणां दह दह पच पच अवत अवत वानरराज ज्वराणां बन्ध
बन्ध ह्रां ह्रीं ह्रूं फट् स्वाहा । नास्ति ज्वरः ।
ज्वरापगमनसमर्थज्वरस्त्रास्यते २१९
पुनश्चात्र प्रवक्ष्यामि ज्वराणां रूपलक्षणम् २२०
सन्तप्तकाञ्चनाभासो हुताशनसमप्रभः
उड्डीनयज्ञोपवीती च रौद्रो ब्राह्मणरूपकः २२१
जपाकुसुमसङ्काशो रौद्रदंष्ट्रान्वितस्तया
खङ्गहस्तो महारौद्रो माह्रेन्द्रः क्षत्त्रियो मतः २२२
पञ्चकप्रसवाभासतप्तकाञ्चनभूषितः
दण्डहस्तो मध्यवेगी वैश्यो ज्वरेश्वरो मतः २२३
कृष्णमेघाञ्जनाकारस्तीक्ष्णदंष्ट्रोज्ज्वलाननः
त्रिनेत्रो ज्वलनप्रभः कालः शूद्रो मतस्तथा २२४
तीक्ष्णवेगः क्षुधायुक्तः शुचिर्द्वेष्टा व्रतप्रियः
मूत्रञ्च किंशुकाभासं पाठशीलोऽतिजल्पकः २२५
बहुश्वासी तृषाक्रान्तो रौद्रब्राह्मणपीडितः
तस्य स्नानं जपं होमं कृत्वा शान्तिः प्रपद्यते २२६
तीक्ष्णज्वरोऽतितृष्णश्च रक्तमूत्रञ्च मूत्र्यते
कुरुते युद्धवार्त्ताञ्च उत्तिष्ठति बलातुरः २२७
तप्तनेत्रो महाश्वासः क्षुधया पीडितस्तथा
मधुगन्धो मुखे स्वेदो माहेन्द्रक्षत्त्रियार्दितः २२८
तस्यादौ ग्रहहोमं तु देवतास्तवनं शुचिः
दानजपादिभिः कार्यैः प्राप्यते सिद्धिसङ्गमः २२९
मध्यवेगः पीतगात्रः स्वप्नशीलोऽरुचिस्तथा
शीतपवनहृदुष्णः कण्ठस्वेदोऽतिविह्वलः २३०
बहुमूत्री भक्तियुक्तो मौनी पीतान्तलोचनः
नातितृष्णातुरः स्निग्धः स विज्ञेयो ज्वरेश्वरः २३१
तत्र स्वस्त्ययनातिथ्यं द्विजदैवतपूजनम्
जपहोमादिकं सर्वं कर्त्तव्यं शान्तिहेतुना २३२
हृच्छूलश्चातिसारी वा मत्स्यगन्धाङ्गलेपनः
उन्मादी चातितृप्ताक्षो रतेषु विकलेन्द्रियः २३३
प्रणयी त्वध्वनो भीरुर्ग्रासं नैवाभिकांक्षया
कालभृङ्गारकेणापि शूद्रे सिद्धिर्न जायते २३४
स्नानं दानजपं सुरार्चनविधिर्होमादयः प्रीतता
भूतानाञ्च विशेषणेन बहुधा तृप्तिं च कुर्यात्ततः ।
गोभूमिं कनकान्नपानविधिना दानेन शान्तिर्भवेत्
सर्वेषां च रुजां विनाशनमिदं शंसन्ति सत्यव्रताः २३५
वेगं कृत्वा विषं यद्वदाशये लीयते बलम्
कुप्यते प्रबलं भूयः काले दोषो बिषं तथा २३६
शालिषष्टिकभक्तानां यूषं मुद्गाढकीषु च
पूर्वोक्तानि च शाकानि वातघ्नानि भवन्ति हि २३७
शतपुष्पा च जीवन्ती तण्डुलीयकवास्तुकम्
घृतेन भाजिका सिद्धा शाकपत्राणीमानि च २३८
लावतित्तिरमांसादिवार्त्ताकानां तथातुरे
मृगछिक्करिकाद्यानि जाङ्गलानि प्रयोजयेत् २३९
कोशातकी पटोलं च शुण्ठीकं च हितं भवेत्
वर्जयेद्विदलान्नानि विदाहीनि गुरूणि च २४०
न पिच्छलानि तैलानि तथाम्लानि च वर्जयेत्
दधिमस्तुविशालानि क्षुद्रान्नानि भिषग्वरः २४१
बहूदकञ्च ताम्बूलं घृतं वापि सुरामपि २४२
क्रोधं शोकञ्च त्यक्त्वा वै सदा सौख्यं विभुञ्जते
न कुर्याज्जागरं रात्रौ दिवास्वप्नञ्च वर्जयेत् २४३
शकटवाजिकरिद्विपिवाहनं प्रबलं परिवर्जयेत्तु सततम्
ज्वरिणमाशु सुखं बुभुजे सुधीः शुभविधाननिधान उपस्तितः २४४
व्यायामं च व्यवायं च अशनं रात्रिजागरम्
ज्वरमुक्तो न सेवेत तदा सम्पद्यते सुखम् २४५
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने ज्वरचिकित्सानाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अथातीसार विज्ञानं भेषजं शृणु पुत्रक
ज्वरजो वातिसारश्व भेषजं चोपदिश्यते १
दोषसंशमनं किञ्चित् किञ्चिच्च धातुदूषणम्
स्वस्थवृत्तौ मतं किञ्चिद्द्रव्यं त्रिविधमुच्यते २
तच्च दैवपथाश्रयं युक्तिपथाश्रयं सत्त्वावजयञ्च
मन्त्रौषधमणिमङ्गगलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्यनप्रणिधाना
दीति दैवपथाश्रयम् । आहारव्यवहारौषधद्रव्याणां योजनेति युक्तिपथाश्रयम् । अहितेभ्योऽर्थेभ्यो मनोनिग्रह इति सत्त्वावजयञ्च ३
स्निग्धातिशीतगुरुशीतलपिच्छलान्नं दुष्टाशनातिविषमाशनपान भक्ष्यम्
अद्यादजीर्णमथ शोकविषैर्भयैर्वा शोकार्त्तिदुष्टपयसा तु विपर्ययेषु ४
दौर्बल्यतां विषमभोजनकेन चाप्सु सम्भिद्यते मलमजीर्णं निहन्ति चाग्निः
सञ्जायते हि मनुजस्य तदातिसारो हत्वोदराग्निं मनुजस्य तदातिसारः ५
सञ्जायते स तु पुनर्बहलो मलेन स्यात्पञ्चधा निगदितो मुनिभिर्विधिज्ञैः
रक्ष्ये समासत उदीर्णरुजस्य नाशः क्वाथादिकैर्भवति पाचनकैश्च पूर्वम् ६
युगपज्जायते यस्य ज्वरश्चैवातिसारकैः
ज्वरातिसारो घोरोऽसौ कष्टसाध्यो मनीषिणाम् ७
न पित्तेन विना सोपि जायते शृणु पुत्रक
तस्य नो लङ्घनं प्रोक्तं ज्वरे चैवातिसारके ८
सुवर्चलमतिविषाहिंगुपथ्याकलिङ्गकैः
शुण्ठी वामातिसारघ्नी शूलघ्नी ग्राहिपाचनी ९
पथ्यादारुवचामुस्तानागरातिविषायुतैः
आमातिसारनाशाय क्वाथमेभिः पिबेन्नरः १०
उत्पलं धान्यकं शुण्ठी पृश्निपर्णी बलायुतम्
बालबिल्वं गवां तक्रेणात्युष्णेन च पेशयेत् ११
तेन लाजाकृतं मण्डं देयमानीय शीतलम्
ज्वरातिसारशमनं हुताशनबलप्रदम् १२
शुण्ठीविषातलधरामृतवत्सकानां तिक्ताह्वयं कनकशीतलकः कषायः
पाने विधेयमधुना प्रतिसाधितस्तु ज्वरातिसारशमनाय सदा प्रदेयः १३
पाठेन्द्रभूनिम्बघनामृतानां सपर्प्पटः क्वाथ इह प्रशस्तः
आमातिसारञ्च जयेद्रुतं वा ज्वरेण युक्तं सहजञ्च तीव्रम् १४
शुण्ठी बालकमुस्ता बिल्वं पाठा विषा च धान्यानि
पाचनमरुचौ छर्द्दिज्वरातिसारं विनाशयति १५
वत्सकश्च सुरदारुरोहिणी धान्यबिल्वमगधात्रिकण्टकम्
निम्बबीजगजपिप्पलीवृकीक्वाथ एवमतिसारस्यौषधम् १६
पञ्चमूलीबलाबिल्वगुडूचीमुस्तनागरैः
पाठाभूनिम्बह्रीबेरकुटजत्वक्फलैर्भृतः १७
इति सर्वानतीसारान्वमिश्वासज्वरार्दितान्
सशूलोपद्रवांश्चासौ हन्याच्चासुरदारुणम् १८
पञ्च मूल्यतिसामान्या योज्या पित्ते कनीयसी
महती पञ्चमूली तु वातश्लेष्मज्वरे हिता १९
उत्पलं दाडिमत्वक्च केशरं तथा मधु पद्मकम्
धात्री पिष्टा तण्डुलतोयैः पाचनं ज्वरातिसारघ्नम् २०
उशीरं धान्यकं मुस्तं सबिल्वं बालकं बला
तथा च धातकी पुष्पं कषायस्य प्रशस्यते २१
ज्वरातिसारशमनं सहशोणितपैत्तिकम्
निहन्ति शोफं सकलं रुचिप्रदविपाचनम् २२
विगतामातिसारं चिरोत्थितं रक्तसहितमतिवृद्धम्
मधुना सहितः शमयत्यरलुः पुटपाकनिर्यासितः २३
जम्बूवटोदुम्बरप्लक्षको हि नागश्च प्रपौण्डरिकं शमी च
गुन्द्रः सचूतोऽम्बुदजीविकाया आसां हि पुञ्जञ्च सदा विदध्यात् २४
प्रस्थद्वयेनप्रपिबेद्धि तावद्यावद्विशेषांशमिदं प्रजायते
पुनः कटाहे विपचेच्च सम्यग्दार्वीप्रलेपः स्वरसश्च यावत् २५
उत्तार्य नूनं भिषगुत्तमेन क्षौद्रेण मिश्रं हरतेऽतिसारम् २६
हारीतेन तथा प्रोक्ता काकमाची सुपूजिता
आलोक्यानेकशास्त्राणि आत्रेयेणापि पूजिता २७
जम्बूत्वचं वत्सकवल्कलं च निष्क्वाथ्य नूनं सलिले समीरणम्
चतुर्विभागेष्वपि शेषितेषु उत्तार्य वस्त्रेष्वथगालयेच्च २८
पुनः कटाहे विपचेच्च सम्यग्दार्वीप्रलेपः स्वरसस्तु यावत्
उत्तार्य शीते मधुना विमिश्रं लीढं हरेदप्यतिसारमुग्रम् २९
कुक्षो दरे वक्षसि नाभिदेशे प्रायुप्रदेशे सततं निरुद्धे
वातस्य रोधश्च शकृद्विभङ्गो भवन्ति सर्वेष्वतिसारकेषु ३०
सफेनिलं पिच्छलमेव रूक्षमल्पं सकृदामसशब्दशूलम्
कृष्णं भवेद्गात्रविचेष्टनञ्च वातातिसारे प्रवदन्ति तज्ज्ञाः ३१
तस्यादौ लङ्घनं चैकमल्पे वा नैव लङ्घनम्
तस्माद्देयं कषायं तु पानभोजनमेव च ३२
उदीच्यधान्यस्य जलेन कल्कं पाने हितं पाचयतेऽतिसारम्
तृष्णापहं दाहविनाशनञ्च सशूलहिक्कासुविनाशनं स्यात् ३३
बालकद्वयमोचहरीतकीपर्पटेन सहितं जलेन च
क्वाथपानमिदमेवातिसारे नाशमाशु कुरुते च विट्छान्तिम् ३४
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका
बालाश्वदंष्ट्रा बिल्वानि पाठा नागरधान्यकम् ३५
एतदाहारसंयोगे हितं सर्वातिसारिणाम्
तिन्दुकत्वचमाहृत्य काश्मरीपत्रवेष्टितम् ३६
मृदा विलिप्य विधिवद्दहेन्मृद्वग्निना भिषक्
रसं गृहीत्वा मधुसंयुतं पानं सर्वातिसारघ्नञ्च ३७
तुलामथार्द्रागिरिमल्लिकायाः सङ्कुट्य कर्षञ्च समादधीत
तस्मिन्सपूते पलसंसितञ्च देयञ्च पिष्ट्वा सह शाल्मलेन ३८
पाठा समङ्गातिविषा समुस्ता बिल्वञ्च पुष्पाणि च धातकीनाम्
प्रक्षिप्य भूयो विपचेच्च तावद्दार्वीप्रलेपः स्वरसस्तु यावत् ३९
पीतस्त्वसौ कालविदा जलेन मण्डेन वाजापयसाऽथवापि
निहन्ति सर्वमतिसारमुग्रं कृष्णं सितं लोहितपीतकञ्च ४०
दोषं ग्रहण्यां विविधं च रक्तपित्तं तथार्शांसि सशोणितानि
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ४१
घर्मेण चोष्णान्नविभोजनेन घर्मेण तप्तोदकसेवनेन
शोकेन तापेन रुषा कटुत्वे क्षारेण पित्तासृक्सारकः स्यात् ४२
तेनारुणं पीतमथातिनीलं दुर्गन्धशोषज्वरपाण्डुयुक्तम्
भ्रमार्त्तिमूर्च्छा च तृषाङ्गदाहः पित्तातिसारस्य च लक्षणानि ४३
शालिपर्णीपृश्निपर्णीबलाबिल्वैस्तु साधितः
दाडिमाम्लो हितः पेयः पित्तातीसारशान्तये ४४
कुशकाशेक्षुमूलानां शालीनलभवैर्जलैः
मूलानां क्वाथमाहृत्य शस्तं पित्तातिसारिणाम् ४५
धान्यपञ्चकमूलानां क्वाथः पित्तातिसारिणाम् ४६
शाल्मलीमूलत्वग्गुडदुग्धपेषितं च
पानं पित्तातिशमनं सरक्तदाहशोषहरम् ४७
दुःस्वप्नादिश्रमाद्वै सहजजडतया शीतसंसेवनेन स्निग्धाहारातिभोज्यात्सतिलपलगुडैश्वेक्षुखण्डैर्गुरूणाम् ।
शीतातिस्नानलौल्यात्पयसि दधियुताहारसंसेवनाच्च जातः श्लेष्मातिसारो
जठरहुतभुजहन्तिपुंसामपाकः ४८
तेन श्लेष्मा शुष्कभेदारुचिः स्यात्सान्द्रं विस्रं जाड्यता रोमहर्षः
मन्दाग्नित्वं मन्दवेगो विशिष्टः सालस्योऽपि विद्धि सारः कफोत्थः ४९
तस्यादौ लङ्घनं प्रोक्तं ज्ञात्वा देहबलाबलम्
पाचनं च विधातव्यं त्र्यूषणाद्यं भिषग्वर ५०
त्र्यूषणमभया हिंगु चातिविषा रुचकं वचायुक्तम्
मधुसहितं लेहनं नृणां गङ्गामपि वाहिनीं रुन्ध्यात् ५१
कालिङ्गपाठातिविषा बला च सोदीच्यमुस्तामरिचानि शुण्ठी
गुडेन क्षौद्रेण प्रशस्तकल्को रक्तातिसारे कफजे शमाय ५२
वत्सकातिविषबिल्वमुस्तकं वालकेन सहितं जले न तु
क्वाथपानमतिशूलरक्तपूयनाशं ज्वरयुतेऽतिसारके ५३
यस्तु रक्तं च शुद्धं विरेचने शोषदाहमतिरिञ्चेत्
रक्तातिसार इति ज्ञेयो वैद्यैर्महामतिभिः ५४
धान्यनागरमुस्ता च वालकं बालबिल्वकम्
बला नागबला चेति क्वाथो रक्तातिसारिणाम् ५५
दाडिमं च कपित्थं च पथ्याजंब्वाम्रपल्लवान्
पिष्ट्वा देया मस्तुयुक्ता रक्तातीसारवारणाः ५६
गुडेन पक्वं दातव्यं बिल्वं रक्तातिसारिणे
मनुजे पथ्या वा मधुयुक्ता वा दध्ना रक्तातिसारघ्ना ५७
वत्सकातिविषानागराभया पिषितं च मस्तुसंयुतम्
लेहस्तु शस्तो मधुनापि मानुजे रक्तवाहमतिवारयत्यपि ५८
कुटजत्वक्च पाठा च विश्वं बिल्वं च धातकी
मधुना सहितं चूर्णं देयं रक्तातिसारघ्नम् ५९
वराहवासासदृशं तिलाभं मांसधावनाभासम्
पक्वजम्बूफलसदृशं सन्निपातः प्रवहताम् ६०
तुलामथार्द्रागिरिमल्लिकायाः सङ्कुट्य पक्त्वा रसयाददीत
तस्मिन्सुपूते पलसम्मिते च देयं च पिष्ट्वा सह शाल्मलेन ६१
पाठा समङ्गातिविषासमुस्ता बिल्वं च पुष्पाणि च धातकीनाम्
प्रक्षिप्य भूयो विपचेच्च तावद्दार्वीप्रलेपः सरसस्तु यावत् ६२
पीतस्ततः कालविदा जलेन मण्डेन च क्षौद्रयुतेन वापि
निहन्ति सर्वमतिसारमुग्रं कृष्णं सितं लोहितपीतकं च ६३
दोषं ग्रहण्यां विविधं च रक्तं पित्तस्य चार्शांसि सशोणितानि
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ६४
पथ्यापञ्चमूलक्वाथश्चतुर्भागावशेषतः
तत्र क्वाथे पुनश्चूर्णमिमानि वौषधानि तु ६५
शृङ्गवेरं तथा लाक्षा पिप्पली कटु रोहिणी
दाडिमफलत्वक्चूर्णं दार्वी सवत्सकं विषम् ६६
आटरूषकचूर्णानि संक्षिप्यात्र निघट्टयेत्
आजं दुग्धं तदर्द्धेन घृतं चाष्टांशकं क्षिपेत् ६७
दार्व्या विलेपितं ज्ञात्वा गुडस्य षोडशानि तु
पलानि मिश्रितं तत्र देयमप्रातराशने ६८
त्रिदोषसन्निपातोत्थ अतिसारश्च दारुणः
शूलमूर्च्छाभ्रमानाहकामलानां विपाचनः ६९
क्षतक्षीणक्षयाणां तु हितोऽयममृतो वटः ७०
एकबिल्वागुरुरोध्रचूर्णं मध्वादियोजितम्
रक्तातिसारशमनं बालानां क्षीणधातुकम् ७१
यदा गुह्यं निरस्येत्तु तदा कुर्यात्क्रियामिमाम्
सहचर्या बलानां च रसो ग्राह्यो घृतं पुनः ७२
पक्वघृतेन लेपः स्यात्तस्य चेदं प्रशस्यते
अरणीपल्लवक्वाथो वाप्यं लोष्टं सचन्दनम् ७३
प्रतप्तमथवाग्निनिभं तथा नरस्य निर्वाप्य काञ्जिकमथ विदधीत तद्वत्
सौख्यं च सम्यग्गुदसेचनकं प्रशस्तं संवेश्य मध्यतो गुदं दृढबन्धनं स्यात् ७४
लशुनकुणपगन्धं पूयगन्धं घनं वा पललजलसमानं पक्वजम्बू निभं वा
घृतमधुपयसाभं तैलशैवालनीलं सघनदधिसवर्णं वर्जयित्वातिसारम् ७५
भ्रममदनमकार्शं शूलमूर्च्छाविदाहं श्वसनमतिविवर्णं छर्द्दिमूर्च्छातृडार्त्तम्
विकलमतिशयेन सौख्यशोफज्वरार्त्तिः स परिहरतु दूरं सद्विधाता न दृष्टः ७६
शोफं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्
छर्दिमूर्च्छां च हिक्कां च दृष्ट्वातीसारिणं त्यजेत् ७७
दृष्ट्वा शोफं तथाध्मानं हिक्कां छर्दिमरोचकम्
तथा च पाण्डुरोगार्त्तमतिसारयुतं त्यजेत् ७८
यदल्पमल्पं क्रमशो निषेवितं मलं भगाधारगतं च नित्यम्
हित्वान्तराग्निं कुरुते नरस्य विकारमाहुर्ग्रहणीति संज्ञाम् ७९
निर्वृत्ते चातिसारे शमयति दहनं भूयसा दोषितोऽपि
भुक्त्वा नाश्यमलांशं बहुदिनमनिशं सञ्चयित्वा निसर्त्ति ।
वारं वारं विगृह्य सहजमसरलं पक्वमानं घनं वा
दुर्व्याधिर्घोररूपो मनुज रुजकरः स्यात्तथा ग्रहणीति ८०
लक्षयेच्चातिसारे च विज्ञेयं ग्रहणीगदम्
वातिकं पैत्तिकं चैव श्लेष्मिकं सान्निपातिकम् ८१
नैव चैकेन दोषेण जायते ग्रहणीगदः
तेन संक्षीयते देहमन्तर्दाहो विपाकता ८२
तिक्तः कषायः कटुकाम्लविदाहिरूक्षः शीताल्पभोजनपरैः श्रम मैथुनैश्च
भाराध्वहस्तिरथवाहनधावनेन संक्रुद्धवायुहननेऽनल वेगमेनम् ८३
तस्मात्तदग्रमनिलेन च छिद्यमानं रक्तेन युक्तमनिले परिपाकमेति
सञ्जायतेऽपि मनुजस्य तथा तृतीयं गुल्मेति नाम स च पञ्चविधो बभूव ८४
प्लीहा यकृज्जठरकण्डुमलस्य बन्धोऽष्ठीला क्रिमिर्जठररोगभवोऽथ षष्ठः
एते भवन्ति ग्रहणीपरिवर्त्तमाना घोरास्तथा दुःखदाश्च मनुजस्य चित्ते ८५
कण्ठस्य शोषस्तिमिरं तथा पार्श्वशूलं नाभौ तथातिकृशतातिविषूचिका च
कर्णे स्वनोऽतिवमनं क्लमशूलमोहः श्वासेन गुल्ममिति लक्षणमेव विद्धि ८६
यस्यैतानि च लिङ्गानि गुल्मिनं तं विदुर्बुधाः
ग्रहणी नाम साध्यो यस्तस्य वक्ष्यामि लक्षणम् ८७
चित्रं सशब्दं सृजतेऽत्र वर्चः शोफोऽनिलो वर्चमतीव रूक्षम्
श्वासार्त्तियुक्तं तनुशैथिलं च स्रावो ग्रहण्यानिलकोपतः स्यात् ८८
विदाहि शीर्णं सरुजं तृषार्त्तं दुर्गन्धपीतारुणनीलकालम्
संसृज्यते यस्य मलो विमिश्रः पित्तोद्भवा सा ग्रहणीति संज्ञा ८९
हृल्लासश्छर्दिः श्वसनं शोफः कासो जडत्वं च सशीतता च
वैरस्यमास्ये गुरुगात्रता स्यादरोचकं शङ्खशकृद्ग्रहस्तु ९०
त्रिभिः समेतं गदितं च चिह्नमेतस्य कोपो मधुरास्यता वा
दाहोऽथ मूर्च्छा श्वसनं जडत्वं स सन्निपातग्रहणीगदः स्यात् ९१
दारुनागरनिशा सवासका कुण्डली मगधजा शठी घनम्
रास्ना सभार्ङ्गी सरलाह्वपुष्करं पाचनं भवति वातिकग्रहे ९२
नलवेणुकुशानां च काशेक्षूणां च मूलकम्
क्वाथपानं हितं वास्य पाचनं पैत्तिके ग्रहे ९३
व्याघ्रीग्रन्थिकचव्यसुरसा शुण्ठी दाडिमम्
रजनी घनचित्रकमेवं हिक्कामथकफग्रहणीं हन्ति ९४
शुण्ठी कणा द्विरजनी च घनं तथा च योज्यः पुनः प्रतिविषं त्रिफला विडङ्ग
सिन्धूत्थवह्नित्रिकटुं त्रिसुगन्धियुक्तं चूर्णं पुनर्गुडयुतं घृतमिश्रितं च ९५
कृत्वा बिडालपदमात्रकमोदकाश्च भक्षेद्यथा जलमपि ग्रहणीगदे च
अर्शोभगन्दरमरोचकगुल्ममेहाञ्छूलाश्मरीकृमिजरोगहरं च पाण्डु ९६
श्रेष्ठं रसायनमिदं बलिनाशनं स्याद्वृष्यं बलं विदधतेऽतिकृशत्वदोषम्
वर्णेन्द्रियसकलदीप्तिकरं रुजोघ्नं कुष्ठभ्रमापहरणं कुरुतेसदैव ९७
हरीतकीपञ्चशतानि धीमान् द्रोणेन गोमूत्रशतेन पाच्यम्
मृद्वग्निना यावदशेषमेव मूत्रं विजीर्णे विधिवद्विधिज्ञः ९८
निर्वाप्य चूर्णे प्रतिशोष्य शीतं छायाविशुष्कान् प्रविदार्य चाष्टीः
चूर्णं च शुण्ठीमगधाविषाश्च सुगन्धिमूर्वाचविक्रान्विताश्च ९९
निष्क्वाथ्य कल्कः कुटजस्य तावद्दर्व्योपलेपी भवतीति यावत्
तस्यार्द्धभागेन गुडं विमथ्यात्क्षीरं तदर्द्धेन गवाजकं वा १००
निर्वापितं तं घृतभाजते च संस्थापितं प्राङ्मुदितेन तेन
सिन्धूत्थवह्नित्रिकटुं त्रिसुगन्धियुक्तं चूर्णं पुनर्गुडयुतं घृतमिश्रितं च १०१
चूर्णेन तेन सकलग्रहणीयपाण्डुशोषाश्मरीं कृमिजगुल्ममथातिसारान्
प्लीहायकृच्छ्वासिषु मानवेषु विषूचिका पीनसमस्तकार्त्तिम् १०२
विनाशनः सद्यस्तथा ज्वराणामध्वश्रमक्षीणबलोदराणाम्
एकाहिकादिज्वरनाशनःस्याल्लेहोऽभयाद्योऽमृतवन्नराणाम् १०३
इत्यभयाद्योऽवलेहः
द्राक्षाक्षीरेण पक्त्वा यावद्घनं दर्व्युपलेपि च
दृष्ट्वा पश्चात्तैः समालोड्य चेमान्यौषधानि मतिमान् १०४
पर्पटातिविषा मूर्वा पटोलं घनवालकम्
तथाभयानां चूर्णं तु समशर्करयायुतम् १०५
तेन क्षीरेण संयोज्य विदार्याः कन्दमेव च
घृतेन नवनीतेन पिण्डं कृत्वाऽथ भक्षयेत् १०६
सपित्तग्रहणीपाण्डुकामलार्त्तितृषापहम्
भ्रम मूर्च्छां तथा हिक्कां तमकोन्मादमश्मरीम् १०७
मेहपित्तासृजं कुष्ठं नाशयत्याशु निश्चितम् १०८
इति द्राक्षादिक्षीरम्
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अतीसारचिकित्सानाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
शृणु पुत्र प्रवक्ष्यामि गुल्मानां चैवलक्षणम्
तस्मात्तेषां प्रतीकारमौषधानि विशेषतः १
पञ्चधा सम्भवंत्येते गुल्मा जठरसंसृताः
हृत्कुक्षौ नाभिबस्तौ च मध्ये च पञ्चमः स्मृतः २
हृदयस्थो यकृन्नाम कुक्षौ साष्ठीलकोच्यते
मध्ये प्लीहा समाख्यातो बस्तौ चण्डविवृद्धकः ३
नाभौ संलक्ष्यते ग्रन्थी नामान्येषां पृथक् पृथक्
अतः प्रकोपं वक्ष्यामि येन कुर्वन्ति बाधकम् ४
स्वभावात्पित्तरक्तोत्थे सेविताम्लविदाहिनम्
उष्णं च क्षारमद्यं वा चोष्णपानातिसेवनात् ५
तथा शोकः श्रमोऽध्वानां शोषात्संक्षोभनादपि
उच्चभाषण गानेन धनुर्ज्याकरणेन च ६
पृष्टं मुष्ट्यभिघातेन हृदयात्ताडनेन वा
भारणोद्धारणाद्वापि रक्तं शोषयते हृदि ७
तेन गुल्मेति नाम तु जायते रक्तपित्तकम्
कदाचित्रिषु दोषेषु सम्भवश्चास्य दृश्यते ८
वातेनोदीरितञ्चैव कफेन च घनीकृतम्
पित्तेन पाकतां प्राप्तं त्रिदोषसंसृतं यकृत् ९
लक्षणं तस्य वक्ष्यामि येन तच्चापि लक्ष्यते
क्षीयते येन मनुजो मृत्युमाशु प्रपद्यते १०
वमिः क्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः
दाहोऽरुचिस्तृषा मूर्च्छा कण्ठे दाहः शिरोव्यथा ११
हृच्छूलं च प्रतिश्यायष्ठीवनं कटुकैः सह
सशल्यं हृदि शूलं च निद्रानाशः प्रलापतः १२
हृदये मन्यते दार्ढ्यमुदरं गर्जति भृशम्
एतैर्लिङ्गैर्विजानीयाद्यकृत्कोष्ठान्तवक्षसि १३
यदि साक्षात्त्रिकटुकं कुष्ठं तथा पञ्चमकं यवानीम्
षष्ठं च सिन्धूत्थविमिश्रितं च सूक्ष्मं च चूर्णं सह रामठेन
भक्षेच्च तस्योपरि तक्रपानं निष्क्वाथ्य तोयं च पिबेच्च वाम्लम् १४
सौवीरकं वा विनिहन्ति शीघ्रं यकृद्विधानुदरशूलकासान्
विषूचिकाजीर्णकफामयघ्नं पाड्वामयार्त्तिग्रहणीं सगुल्माम् १५
शुण्ठ्यादिचूर्णं त्वरितं निहन्ति
क्षारं मुष्कककिंशुकार्जुनधवापामार्गरम्भातिला जीवन्तीकनकाह्वयञ्चरजनी
कूष्माण्डवल्ली तथा ।
वासासूरणमेव तीव्रदहनं प्रज्वाल्य भस्मीकृतं तोयेन प्रतिसेव्य निभृतपयः
पानं विधेयं यकृत् १६
तथाशूलानाहविबन्धकफजान्रोगाञ्जयेत्कामलान्विद्रधीन् हृदिशूलपाण्डुग्रहणीशोफार्शसां पीनसान् ।
मन्दाग्नीनामजीर्णकृम्यलसगुदभ्रंशमोहांस्तथा क्षतजवृद्धिस्तेन सदाहशूलकास्युद्गारता वमिः १७
पूयाभः पततेश्लेष्मा पूतिगन्धोऽतिविस्रकः
रक्ताभस्तत्र सङ्काशष्ठीवते स मुहुर्मुहुः
तथातिसार्यते रक्तं श्रमः संक्षीयते वपुः १८
क्षतजाः संसृता गात्रे यकृद्वक्षसि संसृतः १९
श्वासस्तृषा वमिर्मोहः शोफः स्यात्करपादयोः
रुचिबन्धोऽतिसारश्च यकृद्दुरे परित्यजेत् २०
अतो वक्ष्यामि भैषज्यं येन सम्पद्यते सुखम्
तस्यादौ लङ्घनं चैकं पाचनं तदनन्तरम् २१
शुण्ठ्योपकुल्या तिमिरं शठीनां यवानिकाभीरुहरीतकीनाम्
क्वाथोथकल्क पाचनके प्रशस्त आनाहगुल्मार्त्तिविषूचिकानाम् २२
भद्रोपकुल्याभयशृङ्गवेरं पथ्या त्रिभागा च कणाचतुर्था २३
क्षतक्षयं यकृत्पूर्वं वोपवासं च पाचनम्
न देयं हिंगुसंयुक्तं चूर्णं हितं तद्रातुरे २४
निम्बनीपधरवेतसं निशा काश्मरी च तुलसी च सिंहिका
क्वाथ एव हृदयामयापहः शूलमाशु यकृदास्यनाशकृत् २५
सौराष्ट्रिकासीसमहौषधानि दुरालभाजातिप्रवालकं च
दार्वी यवानी ककुभं समङ्गा क्वाथः ससर्पिर्यकृदाशु हन्ति २६
धवार्जुनकदम्बानां शिरीषबदरीषु च
निष्क्वाथ्य पानमामघ्नं विषूच्या शूलवारणम् २७
कदलीक्षारमादाय शङ्खक्षारमथापि वा
प्रस्राव्य जलपानं तु हिंगुसौवर्चलान्वितम् २८
आमं हरति विसृष्टं शूलं चाशु नियच्छति
विषूचिकानां शमनमजीर्णं जरयत्यपि २९
मातुलुङ्गरसं ग्राह्यं द्विगुणं तत्र काञ्जिकम्
हिंगुसौवर्चलयुतं पानं हन्ति विषूचिकाम् ३०
क्षारं तोयं च पानाय दाहस्योपरि पाचयेत्
शूलाध्मानं निहन्त्याशु कुरुते चाग्निदीपनम् ३१
आमेषु वमनं कुर्याद्विपक्वे चैव लङ्घनम्
विशिष्टस्वेदनं निद्रा रसशेषे विरेचनम् ३२
उन्मत्ते चातिसारे च वमिक्रोधातुरेषु च
अजीर्णे तु विषूच्यां च दिवास्वप्नं हितं भवेत् ३३
न हितं श्लेष्मणि चैव हृद्रोगे तु शिरोरुजि
हृल्लासे च प्रतिश्याये दिवास्वप्नं च वर्जयेत् ३४
फलत्रयं त्र्यूषकरञ्जबीजं रसं तथा दाडिममातुलुंग्यः
निशायुतं पेष्यकृता च वर्त्तिस्तदञ्जने हन्ति विषूचिकाञ्च ३५
रास्ना विशाला च सुरब्दकुष्ठं शिग्रु वचा नागरकं शताह्वम्
आग्नेय पिष्टाहपुषाविदार्यः खल्लीं विषूचीषु निवारयन्ति ३६
स्वेदो विधेयो घटकस्य बाष्पमेकैर्घटाभिर्वसनेन चोष्णः
तथोष्णपाणिं प्रतिसेक एवं जयेद्विषूचीं जठरामयानाम् ३७
गन्धकं सैन्धवं त्र्यूषं निम्बूरसविमर्दितम्
आतुरो भक्षयेच्छीघ्रं विषूचीनां निवारणम् ३८
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गुल्मचिकित्सानाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
क्रिमयो द्विविधाः प्रोक्ता बाह्याभ्यन्तरसम्भवाः
बाह्यायूकाः प्रसिद्धाः स्युराभ्यन्तराश्च किञ्चकाः १
सप्त विधो भवेद्बाह्यः षड्विधोऽन्तःसमुद्भवः
तेषां वक्ष्यामि सम्भूतिं बाह्यानाभ्यन्तरे नृणाम् २
रौक्ष्यादतिमलात्स्वेदाच्चिन्तया शोचनादपि
कफाधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ३
यूकाः कृष्णाः पराः श्वेतास्तृतीया चर्मणि स्थिता
सूक्ष्मातिविकटा रूक्षा चर्मभा चर्म यूकिका ४
चतुर्थी बिन्दुकी नाम वर्त्तुला मूत्रसम्भवा
मत्कुणा स्याच्च पञ्चमी बाह्योपद्रवकारिणी ५
यूका मस्तकसंस्थाने श्वेता शिरोनिवासिनी
चर्मयूका नेत्रचर्मे सूक्ष्मे रोमणि यष्टिका ६
रूक्षान्नयवान्नगोधूमपिष्टैर्गुडेन वा क्षीरविपर्ययेण
दिवाशयानेन सपिच्छलेन घर्मेण तापोदकसेवनेन ७
सञ्जायते तेन मलाशयेषु क्रिमिव्रजं कोष्ठविकारकारि ८
षड्विधास्ते समुद्दिष्टास्तेषां वक्ष्यामि लक्षणम्
कफकोष्ठं मलाधारं कोष्ठे सर्पन्ति सर्पवत् ९
पृथुमुण्डा भवन्त्येके केचित्किञ्चुकसन्निभाः
धान्याङ्कुरनिभाः केचित्केचित्सूक्ष्मास्तथाणवः १०
सूचीमुखाः परिज्ञेयाश्चान्त्राणि सीदयन्ति ते
वक्ष्यामि लक्षणं तेषां चिकित्साञ्च शृणष्व मे ११
ज्वरो हृद्रोगशूलं वा वमिहृत्क्लेदनं भ्रमः
रुचिबन्धो विवर्णत्वमतीसारः सफेनिलः १२
गर्जनं जठरे चैव मन्दाग्नित्वं च जायते
पिपासा पीतता नेत्रे किञ्चुकैः पीडितस्य च १३
सूचीवतुद्यतेऽन्त्राणि रक्तं चेवातिसार्यते
यकृद्वा भक्ष्यन्त्यन्ये रक्तं वा वमते भृशम् १४
क्लेदो मुखेऽरुचिर्जाड्यं मन्दाग्नित्वं च वेपथुः
क्षुत्तृष्णा च ज्वरो ज्ञेयाः सूचीमुखक्रिमीरुजः १५
ये च धान्याङ्कुरास्तेषां वक्ष्याम्यथ च लक्षणम्
मलाशयस्थाः क्रिमयो मलं जग्धन्ति ते भृशम् १६
तैस्तु सम्पीड्यते देहे कृशत्वविद्रधिभेदपरुषताः
तेन गात्रे रुजत्वञ्च हृत्क्लेदो यवक्रिमयो मताः १७
हारीतः संशयापन्नः पादौ संगृह्य पृच्छति
कथं देहे मनुष्यस्य मलसृत्ररसाशये १८
सम्भवन्ति कथं चादौ वर्द्धयन्ति कथं पुनः
कथं च शीर्णेऽन्नरसे नानाहारविभक्षणे १९
जायन्ते केन क्रिमयः सूक्ष्मा वाप्यधोगामिनः
नानामपक्वभक्ष्यान्नं दहते वा हुताशनः २०
कथं ते क्रिमयश्चान्ते न दह्यन्तेंऽन्तराग्निना
एवं पृष्टो महाचार्यः प्रोवाच मुनिपुङ्गवः २१
आत्रेय उवाच
शृणु पुत्र महाबाहो क्रिमिसम्भवकारणम्
विरुद्धान्नरसैः पुत्र रक्तं चैवास्य कुप्यति २२
कफेनैकदिनं याति शुक्रेण कारणं व्रजेत्
पञ्चभूतात्मके काये ते तु जाताः सचेतनाः २३
कोष्ठाग्निना न दह्यन्तेन जीर्यन्ते रसानिति
विषे जातो यथा कीटो न विषेण मृतिं व्रजेत् २४
तथा हुताशनोद्भूतं न हुताशेन जीर्यते २५
भेषजं सम्प्रवक्ष्यामि येन तेऽपि तरन्ति वै
पतन्ति वा शमं यान्ति भेषजानि शृणुष्व मे २६
वचाजमोदा क्रिमिजित्पलाशबीजं शठी रामठकं त्रिविश्याः
उष्णोदके तत्परिपिष्य पेयं पतन्ति शीघ्रं शतधार्त्तमलम् २७
शटीयवानीपिचुमन्दपुत्रान् विडङ्गकृष्णाति विषारसानाम्
सम्पिष्य मूत्रेण त्रिवृत्प्रयुक्तं विनाशनं सर्वकृमीरुजानाम् २८
मरिचं पिप्पलिमूलं विडङ्गशिग्रुजवानिकात्रिवृतः
गोमूत्रेण तु पेष्यं पानं शीघ्रं क्रिमीन् हन्ति २९
मुस्ताविशालात्रिफलासुपर्णिशिग्रूसुराह्वं सलिलेन कल्कः
पानं सकृष्णाक्रिमिशत्रुचूर्णं विनाशनं सर्वकृमीरुजां च ३०
सुरसा च सुरदारु मागधी विडङ्गकम्पिल्लविडङ्गदन्तिनी
त्रिवृत्ताडकरसोनकं क्रिमिहृद्रोगहृत्सलिलेन सेवितम् ३१
मातुलुङ्गस्य मूलानि रसोनः क्रिमिजित्त्रिवृत्
अजमोदानिम्बपत्रं गोमूत्रेण तु पेषयेत् ३२
पानमेतत्प्रशंसन्ति क्रिमिदोषनिवारणम्
ज्वरप्रोक्तानि पथ्यानि क्रिमिदोषे प्रदापयेत् ३३
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने क्रिमिचिकित्सा नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अग्निश्चतुर्विधः प्रोक्तः समो विषमतीक्ष्णकः
मन्दस्तदापरः प्रोक्तः शृणु चिह्नानि साम्प्रतम् १
वातपित्तकफसाम्यात्समः सञ्जायतेऽनलः
तैरेवं विषमं प्राप्ते विषमो जायतेऽनलः २
तीक्ष्णपित्ताधिकत्वेन जायते जठराग्निकः
वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ३
यद्भुक्तं प्रकृतिस्थं तु पाचयत्यन्नसञ्चम्
स समो नाम निर्दोषः सर्वधातुविवर्द्धनः४
किञ्चित्पाचयते भक्ष्यं कदाचिदविपक्वकः
वतेन वा न विषमं करोत्यपि विषूचिकाम् ५
प्रकृत्या चाधिकं स्नाति तृप्तिं न लभतेऽपि च
सदाहपीतता नेत्रे तीक्ष्णो वै क्षयकृद्बले ६
यद्भोक्तुन्नैव शक्नोति यत्तु श्लेष्मबलाधिकात्
सोऽपि मन्दानलो नाम गुल्मोदरपरो मतः ७
समेन समता देहे देहधातुबलेन्द्रियैः
हृष्टः सम्पूर्णगात्रस्तु सचेष्टो वर्त्तते नरः ८
विषमे वानिलाद्याश्च ग्रहणी चातिसारकाः
प्लीहा गुल्मो विषूची च शूलोदावर्त्तसंज्ञकः ९
आनाहो मन्दचेष्टत्वं जायते विषमाग्निना
वातकफावुभौ क्षीणौ तीव्रो भवति पित्तकः १०
भोजने लभते प्रीतिं भुक्त्वा चैव च जीर्यते
तेन भस्मकसंज्ञस्तु जायते जठरानलः ११
पाण्डुः पित्तातिसारस्तु राजयक्ष्मा हलीमकः
भ्रमः क्लमोऽतिवैकल्यं यकृद्वापि प्रमेहकाः १२
शूलमूर्च्छा रक्तपित्तं पित्ताम्लं मूत्रकृच्छ्रकम्
तेन संक्षीयते गात्रं जायतेऽन्नस्य लौल्यता १३
भक्षिताः काष्ठपाषाणाः जीर्यन्ते तस्य देहिनः
इति प्रोक्तं निदानं च नरस्याग्निप्रकोपनम् १४
बहुधापि न वोक्तं तु ग्रन्थविस्तारशङ्कया १५
अतो वक्ष्ये समासेन भेषजानि पृथक्पृथक्
पाचनं शमनं चैव दीपनञ्च तथोपरि १६
रास्ना शठी प्रतिविषा सुरसा च शुण्ठी सिन्धूत्थहिङ्गु मगधा च सुवर्चलं च
चूर्णं कृतं सगुडमोदकभक्ष्यमाणं वातात्मकन्तु विषमाग्निं समीकरोति १७
शूलानजीर्णविषमाग्निविषूचिकासु वातादयः सकलगुल्मविनाशनं स्यात्
भुक्तोपरि क्वथितमेव पिबेत्सुखोष्णं श्रेष्ठं तथोपरि समस्तरसानुभोज्यम् १८
द्राक्षाभया तिक्तकरोहिणी च विदारिका चन्दनवासकं च
मुस्ता पटोलं च किरातकानां कृष्णा बला च विकचाविषाणा १९
पलालवङ्गालसपद्मकं च योज्या च भृङ्गी धनिका समांशा
चूर्णं सखर्जूरसितासमेतं घृतेन तद्वार्द्धबलप्रमाणम् २०
भक्षेत्प्रभाते पयसा मनुष्यो निष्क्वाथ्य पानं सघृतं विधेयम्
करोति तीव्राग्निसमं प्रकृष्टं कृशस्य पुष्टिं तनुतेऽपि नूनम् २१
क्लमभ्रमशोषविनाशनं स्यात्तृष्णातिलौल्यशमनं करोति
सरक्तपित्तं क्षयपाण्डुरोगं हलीमकं कामलमाशु नश्येत् २२
तण्डुलारक्तशालीनां भागद्वयेन धीमताम्
भृष्ट्वा तिलांश्च संकुट्य तदर्द्धेन विमिश्रितान् २३
भृष्ट्वा तत्सममुद्गांश्च चैकोकृत्य तु साधयेत्
सिद्धां च कृशरां सम्यग्घृतेन सह भोजयेत् २४
एकाहान्तरितो यस्तु तीव्राग्निस्तस्य नश्यति २५
हरीतकी हरिहरतुल्यषड्गुणा चतुर्गुणा चतुर्विशालपिप्पली
हुताशनं हिंगुसैन्धवसंयुतं रसायनं कुरुनृपवह्निदीपनम् २६
दीप्यकाग्निर्हरीतकी विडङ्गो भागवृद्धि विनियोज्य चूर्णितम्
अत्यम्ल वेतञ्च तथा च कोलं दाडिमं तथा च तिन्तिडीकम् २७
समानि चेमानि च कर्षमात्रं कर्षाद्विभागेष्वितरे बलानि
जाजी वराङ्गं च सुवर्चलं च कणाशतैकं मरिचं तदर्द्धे २८
पलानि चत्वार्यपि शर्करायाः समं विचूर्ण्याथोदरान् प्रमार्ष्टिं
भक्षेद्यदेदं रुचिकृद्विबन्धं स प्लीहशूलं जयते सकासम् २९
श्वासं विनश्येद्धृदयामयघ्नं जिह्वाकण्ठामयशोधनं भवेत्
ग्राहग्रहण्यार्शविकारमन्दानलस्य सन्दीपनमेव चूर्णम् ३०
यवानिकाखण्डविकाभिधानमरोचकानां शमनं प्रशस्तम् ३१
यवागूः पञ्चकोलस्य कुलत्थाढक्यपूषकम्
मुद्गयूषेण वा सम्यग्भक्तानां भोजनं हितम् ३२
सहिंगु त्र्यूषणाढ्यं च व्यञ्जनं सम्प्रशस्यते
अगस्तिघृतवच्छ्रेष्ठं भोजनारोचकेष्वपि ३३
कारवेल्लं पटोलञ्च पलाण्डुः सूरणं शठी
लवणं धान्यकं श्रेष्ठं प्रलेहश्च कटुत्रिकम् ३४
शठी सर्षपवास्तुकं शतपुष्पा काञ्चनमाचिका
तुण्डीरकस्य मूलानां शाकं श्रेष्ठं प्रशस्यते ३५
गोधूमपोलिकाः श्रेष्टा भृष्टाङ्गारैररोचके
जाङ्गलानि च मांसानि भोजयेद्भिषगुत्तमः ३६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मन्दाग्निचिकित्सा नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
व्यायामपाननिशिजागरणव्यवायशोकातिभारगतिधावनकश्रमेण
वैषम्यपानशयनेन च भोजनेन शीतेन वायुः कुपितः प्रकरोति बलम् १
विष्टम्भिरूक्षयवमाषकलायमुद्गनिष्पावकास्त्रिपुटकोद्रवका मसूरः
गोधूमक्षुद्रकफरूक्षविभोजनेन चैतच्च पानमलरोधनमूत्ररोधैः २
वायुस्त्वधोगतपथं प्रविरुह्य मूलं वातात्मको भवति चान्तरवह्निमांश्च
तस्मादिति प्रबलताकुपितः प्रकोष्ठे शूलं करोति गुद मार्गनिरोधितेऽपि ३
गात्रेऽपि तोदविरतिर्मलिनातिदीना वातार्त्तिपीडितनरस्य महामते स्यात् ४
क्रोधातपादनलसेवनहेतुना च शोकाद्भयार्त्तिगतिधावनधर्मयोगाम्
क्षाराम्लमद्यकटुकोष्णविदाहिरूक्षसौवीरशुष्कपललेखन राजिकाभिः ५
सङ्कुप्यतेऽनिलसमीरितं तत्तु पित्तं शूलं करोति जठरे मनुजस्य तीव्रम्
तेनाङ्गदाहारतिधर्मतृषार्त्तिमूर्च्छा नाभ्यन्तरे दहति दोषः सपीततास्ये ६
अव्यायामेऽस्निग्धसंसेवतेन लौल्याहारे चेक्षुतैलपयोभिः
अल्पाहारे निद्रया सेवनैस्तु योगैरेतैः कोपयेच्छ्लेष्मकस्तु ७
माषातिशीतलपयोदधिभिःसुशीतैर्मत्स्यैस्त्वनूपपललैरतिसेवितैस्तु
श्लेष्मा भृशं शमयतेऽनलमाशु शूलं कोष्ठे करोति मनुजस्य विकारमुग्रम् ८
हृल्लासकासवमिजाड्यशिरोगुरुत्वं स्तैमित्य शीतलतनूरुचिबन्धनं च
भुक्तप्रसेकमधुरास्यं तथाभिरामं स्निग्धं मुखं भवति यस्य कफात्मकोऽसौ ९
श्लेष्मा भवत्येव भवन्ति यस्य चिह्नानि स भवति च सशूलः
सपैत्तिकानीव भवन्ति यस्य तमाहुरजीर्णेऽपि नराः सशूलम् १०
हृत्कण्ठपार्श्वे कफः पैत्तिकस्तु हृन्नाभिमध्ये कफपित्तशूलः
बस्तौ च नाभौ दधतःप्रदेशे विलोलमानः स तु वातपित्तात् ११
एकोऽपि सुखसाध्योऽसौ द्वन्द्वः कष्टेन सिध्यति
त्रिदोषजस्त्वसाध्यस्तु बहूपद्रवसंयुतः १२
निदानैः कुपितो वायुर्वर्त्तते जठरान्तरे
तेनेति संज्ञा दश स्युः शूलस्य परिगीयते १३
त्रयो वातादिका ज्ञेया द्वन्द्वजास्तु पुनस्त्रयः
सामनिरामकौ द्वौ च शूलाश्चाष्टाविमे स्मृताः १४
अजीर्णान्नवमः प्रोक्तो दशमः परिणामजः
एवं दशप्रकारेण शूलं सम्भवते नृणाम् १५
भुक्तोपरि भवेद्यस्तु सोऽपि ज्ञेयः कफात्मकः
जीर्णेऽन्ने च भवेद्यस्तु स ज्ञेयः परिणामजः १६
आध्मानमूर्ध्वं च विबन्धनं च जृम्भा तथा वेपथुमार्जनं च
उद्गीरणं स्निग्धमुखातिजिह्वा वातेन शूलं भजते विधिज्ञः १७
दाहो रतिर्मोहस्तथैव तृष्णा कृच्छ्रेण मूत्रं कटुकास्थता च
स्वेदाति शोषो वदनं च पीतं पित्तात्मकोऽसौ प्रवदन्ति धीराः १८
छर्दिस्तथा कासबलासमोह आलस्यतन्द्रा जडतातिशैत्यम्
कफात्मकं तद्भिषजां वरिष्ठ शूलं भवेद्द्वन्द्वजरोगसंज्ञम् १९
त्रिभिस्तु दोषैस्तु त्रिदोषजः स्याद्रक्तेन चैकादश एवमुक्तः
पित्तात्मकानि प्रभवन्ति यस्य चिह्नानि यस्यासृगछर्दनं च २०
शोषस्तृषा दाहस्तथैव कासः श्वासेन रक्तप्रभवोऽतिशूलः २१
विना वातेन नो शूलं विना पित्तेन नो भ्रमः
न कफेन विना छर्दिर्न रक्तेन विना तमः २२
इति शुलपरिज्ञानमतो वक्ष्यामि भेषजम्
येन शूलार्त्तिशमनं शूली संपद्यते सुखम् २३
दृष्ट्वा शूलं लङ्घनं पाचनं च विरेचनं वान्तिसंस्वेदनं वा
क्षारं चूर्णं चार्पयेच्छूलशान्त्यै पानाभ्यङ्गाल्कासमाने मनुष्ये २४
हिंगु नागरशठीसुवर्चलं दारुपौष्करघनापुनर्नवाः
क्वाथपानमिति शूलिनां हितं पाचनं जठरगुल्मिनामपि २५
हिंगु पौष्करशठीसुवर्चलं क्वाथमेवमपि शूलिनां हितम्
वातशूलशमनाय शस्यते पाचनं निगदितं च वर्त्तते २६
सिन्धूत्थहिंगु रुचकं च शठी यवानी पथ्यायवक्षारसमं विचूर्णम्
देयं सुखोष्णेन निहन्ति शूलं वातात्मकं वाप्यचिरेण शूलम् २७
हिंगु सौवर्चलं पथ्या यवानी सपुनर्नवा
बलैरण्डो बृहत्यौ द्वे तुवरं त्र्यूषणान्वितम् २८
क्षारसौवर्चलोपेतं क्वाथो वा चूर्णितस्तथा
सद्यो वातात्मकं शूलं हन्ति सद्यो विषूचिकाम् २९
तुम्बुरुपौष्करहिंगु यवानी त्र्यूषञ्च वा त्रिबृहतीगुणेन
युक्तमिदं लवणाष्टकचूर्णं भवति शूलनिवारणक्षमम् ३०
क्वाथो निहन्ति मरुतोद्भवशूलसङ्घानेरण्डनागरसुवर्चलरामठेन
पथ्यावचेन्द्रयवनागरतोययुक्तं हिंगु सुवर्चलयुतं च निहन्ति शूलम् ३१
हिंगु नागरषड्ग्रन्था यवानी उभया त्रिवृत्
विडङ्गं दारु चव्यञ्च तुम्बुरुकुष्ठमुस्तकाः ३२
हपुषा कलशी रास्ना वत्सका सदुरालभा
सितारवी बृहत्यौ च लाङ्गली पञ्चजीरकम् ३३
पुष्करं तिन्तिडीकं च वृक्षाम्लं चाम्लवेतसम्
द्वौ क्षारौ पञ्चलवणं समं चैकत्र मिश्रयेत् ३४
मूत्रेण भावनाञ्चैकां दत्वा छायाविशोषिताम्
बीजपूरक तोयेन भावयेच्च दिनत्रयम् ३५
बिडालपदिकां मात्रां युञ्जीत शूलशान्तये
वातेनोष्णोदकेनापि सितशर्करयान्वितः ३६
त्रिफला क्वाथो मद्येन श्लेष्मरोगे प्रशस्यते
शूलानाहविबन्धानां मन्दाग्नौ गुल्मविद्रधीन् ३७
प्लीहोदराणाञ्च पाण्डुज्वरिणां च विशेषतः
निहन्ति देहसङ्घातं मेघवृन्दं मरुद्यथा ३८
धात्रीफलं लोहरजश्च पथ्या त्र्यूषं समांशेन विभाव्य तं तु
रसेन वा दाडिममातुलुङ्ग्याश्चूर्णं सिताढ्यं च सपित्तशूले ३९
बिडालकं दाडिमपूतनां च धात्रीसमेतं विदधीत चूर्णम्
तन्मातुलुङ्गस्य रसेन भावितं सपित्तशूलशमनाय भक्षेत् ४०
जीवन्त्याद्यं घृतं पाने क्षीरं वापि सितान्वितम्
कर्त्तव्यं रेचनं नित्यं पित्तशूलनिवारणम् ४१
शिशिरसरसतोयागाहनं चन्दनानि विशदपुटितमध्ये स्वापनं वै निशासु
कनकरजतकांस्याम्भोजहैमं तुषारं कृतमिति विधिना वै पैत्तिके मूलहेतोः ४२
सितशाल्योद्भवा लाजाः सितामधुयुतं पयः
दाहं पित्तज्वरं छर्दि सद्यः शूलं निहन्ति च ४३
जाङ्गलानि च मांसानि भोजनार्थे प्रशस्यते
घृतं क्षीरं समधुरं प्रशस्तं पित्तशूलिनाम् ४४
लङ्घनं वमनं चैव पाचनं श्लेष्मशूलिनाम्
न घनातिमधुराणि शयनं च विधेयकम् ४५
बिल्वाग्निमन्थवृषचित्रकनागराश्च एरण्डहिंगु सहसैन्धवकं समाशम्
क्वाथो निहन्ति कफजोद्भवसद्यः शूलं सद्यो निहन्ति जठरानलवर्द्धनं च ४६
मातुलुङ्गरसं धात्रीरसं सैन्धवसंयुतम्
शोभाञ्जनकमूलस्य रसं च मरिचान्वितम् ४७
सक्षारमधुनोपेतं श्लेष्मशूलनिवारणम्
कृतक्षयोद्भवं कासं नाशयत्याश्वसंशयम् ४८
तुवरं ग्रन्थिकैरण्डा व्योषं पथ्याजमोदकम्
सक्षारलवणोपेतं चूर्णं शूले कफात्मके ४९
एरण्डबिल्वबृहतीद्वयमातुलुङ्गं पाषाणभित्त्रिकटुमूलकृतः कषायः
सक्षारहिंगुलवणोपेततैलमिश्रं श्रोण्यंसमेढ्रहृदयस्तनकुक्षिदेयम् ५०
पटोलारिष्टपत्राणि त्रिफलासंयुतानि च
क्वाथमधुयुतं पानं शूले पैत्ते समीरणे ५१
पित्तज्वरतृषादाहरक्तपित्तनिवारणम् ५२
दुरालभा पर्पटकं च विश्वा पटोलनिम्बाम्बुदतिन्तिडीकम्
सशर्करं कल्कमिदं प्रयोज्यं सपित्तवातोद्भवशूलशान्त्यै ५३
सौवर्चलं समशठी सहनागरा च शुण्ठीयुतेन क्वथितेन जलेन चूर्णम्
पीतं निहन्ति मरुतायुतश्लैष्मिकाणां पार्श्वातिशूलजठरानलहृत्प्रशस्तम् ५४
दारु नागरकं वासा हिंगु सौवर्चलान्वितम्
क्वाथो वातकफे शूले आमे जीर्णे विबन्धके ५५
पलाशकदलीवासापामार्गकोकिलाह्वयम्
गोमूत्रेण श्रितं तत्तु हिंगुनागरसंयुतम् ५६
हितं त्रिदोषजे शूले कामलाविड्विबन्धके
गुल्मोदराणां शमनं मन्दाग्नीनां नियच्छति ५७
एक एव कुबेराक्षः सर्व शूलापहारकः
किं पुनः स त्रिभिर्युक्तः पथ्यारुचिकरामठैः ५८
शङ्खक्षारं च लवणं हिंगुव्योषसमन्वितम्
उष्णोदकेन तत्पीतं हन्ति शूलं त्रिदोषजम् ५९
लङ्घनं वमनं चैव विरेकश्चानुवासनम्
निरूहो बस्तिकर्माणि परिणामे त्रिदोषजे ६०
चित्रकं त्रिवृता दन्तो विडङ्गं कटुकत्रयम्
समं चूर्णं गुडेनाथ कारयेन्मोदकान्सुधीः ६१
भक्षयेत्प्रातरुत्थाय पश्चादुष्णोदकं पिबेत्
परिणामोद्भवं शूलं हन्ति शूलं नरस्य च ६२
यवानी हिंगु सिन्धूत्थक्षारं सौवर्चलाभया
सुराभाण्डेन पातव्या परिणामे त्रिदोषजे ६३
हिंगुव्योषवचाजमोदहपुषा पथ्या यवानी शठी
जाजीपिप्पलिमूलदाडिमवृकीचव्याग्निकं तिन्तिडी ।
तस्माच्चाम्लसुवर्चलेपि च यवक्षारं तथा सर्जिका
सिन्धूत्थं विडचूर्णकं समकृतं स्याद्बीजपूरे रसे ६४
कुर्याच्चूर्णगुटीं समक्षफलदामक्षप्रमाणामिमां
कल्को वातविकारिणां प्रददतः शूलार्शसत्प्लीहकान् ।
कासानाहविबन्धमेहहृदयशूलं निहन्त्याशुवै ६५
एष हिंग्वादिको नाम सर्वशूलार्त्तिनाशनः
सर्ववातविकारघ्नः सर्वक्षयनिवारणः ६६
अतीसारस्तृषा मूर्च्छा अनाहो गौरवोऽरुचिः
श्वासकासौ वमिर्हिक्का शूलस्यौपद्रवा दश ६७
शूलं सोपद्रवं तृष्णां भिषग्दूरे परित्यजेत्
अनुपद्रवे श्रिया प्रोक्ता भिषजां सिद्धिमिच्छता ६८
वर्जयेद्द्विदलं शूली तथा सघनशीतलम्
पिच्छलं च दधि चैव दिवानिद्रां च वर्जयेत् ६९
शालिषष्टिकसिन्धूत्थहिंगुसौवीरकं तथा
सुरा वा गुडशुण्ठी वा पाने श्रेष्ठा भिषग्वर ७०
शतपुष्पावास्तुकं च हितं प्रोक्तं प्रशस्यते ७१
एणतित्तिरिलावाश्च क्रौञ्चशशकसारसाः
एषां मांसानि शस्तानि कथितानि भिषग्वर ७२
इति आत्रेय भाषितेहारीतोत्तरे तृतीयस्थाने शूलचिकित्सा नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
शृणु पुत्र प्रवक्ष्यामि पाण्डुरोग महागदम्
पञ्चैव पाण्डुरोगास्ते सम्भवन्तीह मानुषे १
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः
पञ्चमो रूक्षणः प्रोक्तो वक्ष्ये चैषां तु सम्भवम् २
दीर्घाध्वन्ये पीडितो वा ज्वरेण रक्तस्रावेपीडितो वा व्रणेन
चिन्तायासाद्रोधनाद्धे मनुष्य अयं पाण्डुर्जायते सेवते यः ३
क्षारं चाम्लं कल्यमैरेयसेवा अव्यायामान्मैथुनातिश्रमेणनिद्राणाशेनातिनिद्रादिवापियोगैश्चेतैर्मृत्तिकाभक्षणेन ४
पथि शिथिलशरीरे रोगसम्पीडिते वा लवणकटुकषायासेवनाम्लेन मृद्भिः
अतिसुरसमजस्रं सेवनातिक्रमेण नयति रुधिरशोषं तेन वै पाण्डुरोगम् ५
तेनाक्षकूटे श्वयथुः शरीरे पाण्डुत्वमायाति च पीतमूत्रः
निष्ठीवते त्वक् प्रविदीर्यते च सञ्जायते तस्य पुरःसराणि ६
तोदः परुषत्वशिरोगुरुत्वं त्वङ्मूत्रनेत्रे नखे पीतता स्यात्
वातात्मकं तं मनुजस्य विद्धि लिङ्गरुपेतोऽनिलपाण्डुरोगः ७
आमत्वपीतत्वकरो हि लोके बिभर्त्ति शोषं कटुतास्यतां च
मन्दज्वरो वै तृषामोहशोफः पीतच्छविः पित्तभवो हि पाण्डुः ८
तन्द्रालुशोफकफकासयुक्त आलस्यप्रस्वेदगुरुत्वमेवम्
सञ्जायते तस्य कफात्मकोऽसौ नरस्य पाण्डुत्वभवो विकारः ९
तन्द्रालस्यं श्वयथुवमथू कासहृल्लासशोषा विड्भेदालस्यं परुष नयने
सज्वरो वै क्षुधार्त्तः ।
मोहतृष्णाक्लममथ नरस्याशु पश्येत्सुदूरं त्याज्यो वैद्यैर्निपुणमतिभिः सन्निपातोत्थपाण्डुः १०
मृत्तिकाभक्षणेनाथ शृणु पुत्र गदो महान्
पाण्डुरोगो गरिष्ठोऽपि भवेद्धातुक्षयङ्करः ११
मृद्भक्षणाच्चैव मलं प्रकीर्य स्रोतांसि तुष्यन्ति तु मृत्तिकायाः
तेनैव नासृक् परिवर्त्तयन्ति न तर्पयन्ति वपुषं रसेन १२
क्षारात्कषायान्मधुरस्य पानात्स कोपत्याशु नरस्य मृत्सा
श्लेष्मप्रकोपान्मधुरान्करोति मृत्सा न जग्धा हितकारिणी स्यात् १३
विकृता एव बलिष्ठा मारुताद्यास्त्रयस्तु द्युतिबलजीवनाशां नाशयन्त्याशु
दोषाः ।
भवति विकलमेवं पाण्डुरोगे शरीरं हरति जठरवह्निं मृत्तिकाभक्षणेन १४
गोमूत्रे लोहं मतिमान्स्थापयेत्सप्तरात्रकम्
तस्माच्चूर्णं तु मधुना देयं पाण्ड्वामयापहम् १५
त्र्यूषणं त्रिफला मुस्ता विडङ्ग चित्रकं समम् १६
भागमेकं लोहचूर्णमपि वेक्षुरसेन भावयेत्
सप्तकाहमलोपि खल्वितं पुनरपि प्रवरं स्यात् १७
शीलितं तु मधुनापि घृतेन पाण्डुरोगहृदयामयापहम्
कामलार्शोहलीमकहारि कथितं सुमतिभिश्च पण्डितैः १८
त्र्यूषणं त्रिफलया सह चित्रकं मेघचव्यसुरदारुमाक्षिकम्
ग्रन्थिकं च शिखिभृङ्गराजकं योजयेत्पलिकभागिकानिमान् १९
चूर्णिताद्द्विगुणमेव योजयेल्लोहचूर्णमपि कज्जलप्रभम्
अष्टभागसममूत्रकल्पितं पाचितं पुनरहो बलप्रदम् २०
सेवयेद्बलमुपक्रमं तथा तत्र संयुतमिहास्ति शोभनम्
नाशयेच्च कफकामलान्कृमीन्पाण्डुकुष्ठगुदजान्हलीमकम् २१
पुनर्नवाव्योषत्रिवृत्सुराह्वयं निशाह्वयं चव्यफलत्रयं तथा
घना यवा तिक्तवरोहिणी समा द्विभागिकं लोहरजो विमिश्रयेत् २२
गवां पयो वा द्विगुणं वियोज्यं दार्व्या प्रलेपं प्रणिधाय धीमान्
छायाविशुष्का गुटिका विधेया क्षौद्रेण मूत्रेण गवां च भक्षयेत् २३
ज्ञात्वा बलं रोगबलं नरस्य पाण्ड्वामये कामलसर्वमेहे
गुल्मोदराजीर्णविषूचिकानां शोफातिसारग्रहणीविबन्धान्
शूलक्रिमीनर्शविकारहेतोः २४
पञ्चकोलककटुत्रिकं घना देवदारुकृमिशत्रुकोलकम्
एष भागसहितो वियोजितो मिश्रयेत्तदनु चायसं रजः २५
तत्र चाष्टगुणमूत्रमध्यतः पाचयेद्भवति येन लेपिका
कारयेद्बदरमात्रया पुनश्छाययापि पिषितञ्च शोषणम् २६
कारयेत्सुरभिमथितेन च पानकञ्च शमयेत्सकामलम्
पाण्डुमर्शमतिसारमन्दभुक् शोषमेहगुदजान् क्रिमीनपि २७
धात्रीफलानां रसप्रस्थमेकं प्रस्थं तथा चेक्षुरसं विदध्यात्
प्रस्थं तु कूष्माण्डरसप्रदिष्टमार्कं रसं प्रस्थविमिश्रमेकम् २८
एकीकृतं मन्दहुताशनेन पाच्यं भवेद्व्यापदशेषमेति
विमिश्रयेदौषधसङ्घमेतत्पलैकमात्रं विपचेच्च पश्चात् २९
भृङ्गी सुराह्वं शतपुष्पधान्यं सुगन्धशुण्ठी मधुकं विशाला
सपिप्पलीकं सकटुत्रयं च विडङ्गमुस्ता हपुषादलानि ३०
भूरिहरिद्राकटुरोहिणीनां दुरालभापौष्करवत्सकानाम्
कुष्ठाजमोदासुरसा दलानि चूर्णं त्वमीषां विनियोजनीयम् ३१
गुडं पुराणं द्विगुणं तु मध्ये गोघृतेन वटिकां विबन्धयेत्
भक्षणाज्जयतिकामलार्शसं पाण्डुरोगमतिदारुणज्वरान् ३२
शोफशोषग्रहणी विनिघ्नति वातातिसारक्षयकासगुल्मान् ३३
गोधूमशालियवषष्टिकमुद्गकानां श्यामाढकीघृतयुतं पयसा सतक्रम्
गाण्डीववास्तुकमथो शतपुष्पवर्त्तापथ्यं हितं निगदितं मनुजस्य पाण्डौ ३४
जाङ्गलानि च मांसानि भोजने च प्रशस्यते ३५
तिक्तानि रूक्षाणि च कटुकानि तीव्राणि दाहान्यपि काञ्जिकानि
सुराम्लसौवीरकबीजपूरान् तैलानि वर्ज्यानि च पाण्डुरोगे ३६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने पाण्डुरोगचिकित्सा नाम अष्टमोऽध्यायः ८
नवमोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
शृणु च भिषग्वरिष्ठ व्याधिर्घोरो नराणां भवति विहितचेष्टो वातलप्राणिनां वै
।
चिरनिचयकरोऽयं प्राकृतैः कर्मपाकैरिह परिभवकारी मानुषस्य क्षयोऽयम् १
देवानां प्रकरोति भङ्गमथवा भ्रूणस्य सन्तापनं
गोपृथ्वीधरविप्रबालहननमारामविध्वंसनम् ।
सोऽयं स्थानविनाशनं च कुरुते स्त्रीणां वधं यो नरस्
तस्यैतैर्गुरुकर्मभिः क्षयगदो देहार्थहारी महान् २
देवानां दहतो धनं च दहतो भ्रूणप्रपातेऽपि च
देवत्वं हरती विषं च ददत आरामकं निघ्नतः ।
तेनासौ नियमेन सम्भवति वै नॄणां च तीव्रा रुजा
धातूनां क्षयकारिणी च मनुजस्यात्मापहा दारुणा ३
क्षयो दशविधश्चैव विज्ञातव्यो भिषग्वरैः ४
श्रमाद्वाभाराद्वाविषमशयनैर्दीर्घचलनैरजीर्णे भोज्याद्वा सुरतरतिसेवापरतया ।
ज्वरेणातिक्रान्ताद्विषमशयनाच्छीतलतरैः क्षयं याति श्लेष्मा पवनमथ पितञ्च तनुषु ५
रोगाक्रान्ताद्विषमशयनात्तस्य मन्दज्वराद्वा
श्लेष्मापित्तञ्च मरुदथवा याति देहक्षयं वा ।
रसरक्तमांसमेदश्चास्थि मज्जा च शुक्रमिति सप्त
एवं दशविधा ज्ञेयाः क्षया भवन्ति नृणां शरीरेषु ६
पुनरपि लक्षणमेषां वक्ष्यते ते शृणु त्वम् ७
अतिस्वेदातिघर्मेण चिन्ताशोषभयादिना
वाताद्यैः सेवितैश्चापि जायते मारुतक्षयः ८
तेन तन्द्राङ्गदाहश्च पिपासारुचिवेपथुः
तमः क्लमो भ्रमश्चैव भवेच्च मारुतक्षये ९
तस्मादनूपानि सेव्यानि रसानि पललानि च
रसोनादिककल्कञ्च सेवयेद्वातनाशने १०
पित्तक्षयेऽग्निमान्द्यं च जायतेऽरुचिजाड्यता
कासहृल्लासशोफश्च जायते मन्दचेष्टता ११
स्वेदाभ्यङ्गान्नपानानि दीपनानि प्रयोजयेत्
जाङ्गलानि रसान्नानि सेवयेत्पित्तकृत्क्षये १२
व्यायामे च व्यवाये च रूक्षान्नाहारसेवनैः
सन्तापक्रोधनैश्चैव जायते कफसम्भवः १३
तेन दाहोऽथवा पाण्डुः शोफो निःश्वसनं भ्रमः
विनिद्रता क्षुत्तृषा च स्त्रीसङ्गेनापि नन्दति १४
तस्य शीतान्नपानानि कन्दशाकादिकै रसैः
अनूपैर्दधिदुग्धैर्वा सेवनं च समीहितम् १५
त्रिभिर्दोषैः क्षयं प्राप्तैस्तदा हि मरणं ध्रुवम्
तस्य क्रिया प्रयोक्तव्या साधारणा महामते १६
अथ धातुक्षयं वक्ष्ये हारीत शृणु साम्प्रतम्
रसरक्तमांसमेदाः प्रत्येकं क्षयलक्षणम् १७
रसक्षयेऽतिशोषश्च मन्दाग्नित्वं च वेपथुः
शिरोरुग्मन्दचेष्टत्वं जायते च क्लमभ्रमौ १८
रक्तक्षये क्षयः पाण्डुर्मन्दचेष्टो भवेन्नरः
श्वासो निष्ठीवनं शोषो मन्दाग्नित्वं च जायते १९
मांसक्षयेऽतिकृशता चेष्टनं चाङ्गभङ्गता
निद्रानाशोऽतिनिद्रास्य विसंज्ञो लघुविक्रमः २०
मेदःक्षये मन्दबलो विसंज्ञता चाङ्गभङ्गो गमनं परुषता
श्वासातिकासारुचिताग्निमान्द्यं विशोषस्तेन तनुशोषो जायते २१
अस्थिक्षये स्यादतिमन्दचेष्टता मन्दवीर्य इति मेदसः क्षये
विसंज्ञता कृशता च कम्पना अङ्गभङ्गवमनं परुषता २२
शोषदोषसदनं च शोफिता विकम्पनं शोषरुषश्च जायते
भिषग्वर त्वं परिवेद लक्षणं मज्जाक्षये कम्पनमेव वास्ति २३
भ्रमः क्लमः स्यादतिमन्दचेष्टः शोफो निशाजागरणं च तन्द्रा
मन्दज्वरः शोषसमो मनुष्ये शुक्रक्षये चाङ्गविचेष्टितानि २४
रूक्षभ्रमकम्पनशोषरोषस्त्रीद्वेषितादीनि
विरूपता च वैकल्यं सन्धिषु जातशोषः २५
इदानीं सम्प्रवक्ष्यामि भेषजानि यथाक्रमम्
स्नेहनं रूक्षणं चैव तथा विम्लापनं हितम् २६
जाङ्गलानि च मांसानि भोजनानि च सेवयत्
गुडूची शृङ्गवेरञ्च यवानीक्वथितं जलम् २७
मरिचैः क्वथितं दुग्धं पाने रात्रौ प्रशस्यते
तेन रसानां वृद्धिः स्याच्छीघ्रं तस्माद्विमुच्यते २८
रसानां वृद्धिकरणं गोधूमयवशालीनाम्
कथितानि भिषक्छ्रेष्ठैर्जाङ्गलानि विशेषतः २९
घृतदुग्धसिताक्षौद्रमरीचानि च पिप्पली
पानं शस्तं मनुष्याणां रक्तवृद्धिकरं परम् ३०
अनूपानि च धान्यानि लघुनामानि कल्पयेत्
कल्यांश्च घृतदुग्धादीन्सेवयेन्मधुराणि च ३१
रसाश्च जाङ्गलानि स्युः सेवनार्थे भिषग्वर ३२
सितोपलादिकं चूर्णमजाक्षीरं सकोलकम्
हितं पानं क्षये चैव कल्यमप्रातराशनम् ३३
पक्वानि घृतशस्तानि क्षीराणि विविधानि च
चन्दनानि च द्राक्षादिचूर्णानि च भिषग्वर ३४
जाङ्गलानि च सर्वाणि सेवनीयानि पुत्रक
अन्नानि च मधुराणि सर्वाणि च प्रयोजयेत् ३५
शुक्रक्षये प्रपाकानि रसानि च विशेषतः
नवनीतं तथा क्षीरं मधुराणि च सेवयेत् ३६
कर्कटीमूलपयसा विदारीकन्दशाल्मली
सिताढ्यपानं च हितं शस्यन्ते मधुराणि च ३७
शुक्रक्षयवृद्धिकरणमिदानीं चूर्णानि वक्ष्यन्ते ३८
बला विदारी लघुपञ्चमूली पञ्चैव क्षीरद्रुमत्वक् प्रयोज्या
पुनर्नवा मेघतुगायुतं स्यात्सञ्जीवनीयैर्मधुकैः समांशैः ३९
अक्षप्रमाणानि समानि तानि सर्वाणि चैतानि विचूर्णयित्वा
विमिश्रयेत्तत्र कणाशतानि यवान्न गोधूमयवांश्च पिष्ट्वा ४०
तुगासमांशं सिततण्डुलानां सेयं सुभृङ्गारकमिश्रितं तु
प्राकर्णकार्द्धेन वियोजनीयं सर्वांशकेनापि सिता प्रयोज्या ४१
विभावयेच्चामलकीरसेन वारत्रयं गोपयसा विभाव्य
ततोऽस्य सर्वैश्च सशर्करैर्वा घृतेन चैवं पुनरेव भाव्यम् ४२
तं भक्षयेत्क्षौद्रयुतं पलार्द्धं जीर्णे च भोज्यं कटुकाम्लवर्जम्
क्षीरं घृतं वा सितशर्करां वा यवान्नगोधूमकशालिभक्ष्यान् ४३
ज्ञात्वाग्निपाकं जठरे नरस्य देयो विधिज्ञैः क्षयरोगशान्त्यै
पथ्यक्षये श्रान्तचिराभितापसम्पीडितानां च तथा शिरोऽर्त्तौ ४४
पित्तातुराणां रुधिरक्षयाणां श्रमाध्वंसम्पीडितकामलानाम्
श्वासातुराणां मधुमेहिनां च क्षीणेन्द्रियाणां बलकारि शस्तम् ४५
गर्भो गृहीतश्च यया स्त्रिया च तस्याः प्रशस्तं तु बलादिचूर्णम् ४६
इति बलादिचूर्णम्
बिल्वाग्निमन्थशोणाकाः काश्मरी पाटली तथा
शालिपर्णी पृश्निपर्णी श्वदंष्ट्रा बृहतीद्वयम् ४७
भृङ्गी शीता चामलकी जयन्ती पुष्कराह्वयम्
द्राक्षाभयामृता मेदा चन्दनागुरुपद्मकम् ४८
बलाह्वयास्तु कर्णे द्वे जीवकऋषभावुभौ
काकोली क्षीरकाकोली विदार्याः कन्दमांसकम् ४९
सर्वेषां पलिका मात्रा योजयेद्भिषजां वरः
धात्री फलं पञ्चशतं सुपक्वरससंयुतम् ५०
जलद्रोणे विपक्तव्यं चतुर्भागे च शोषितम्
तथा निर्वाप्य मतिमान् कलकानि समुद्धरेत् ५१
तत्क्वाथं कल्कयेत्तावद्यावद्दर्वीप्रलेपकः
पुनस्तैलेन वाज्येन पक्त्वा चामलकीफलान् ५२
पाचिताश्चूर्णितान्सर्वान्समशर्करयायुतान्
चतुष्पलातुगाक्षीरैर्योजयेद्भिषजां वरः ५३
पिप्पलीनां सहस्रैकं त्वगेलापत्रकं तथा
एषां द्विपलिकां मात्रां विदध्यात्तत्र सत्तमः ५४
सर्वं प्राक्कथिते लेहे योजयेच्च विचूर्णितम्
आदरेण समं लिह्यान्नराणां च रसायनम् ५५
श्वासकासक्षयपाण्डुकामलानां विशोषणम्
क्षीणक्षतानां बालानां वृद्धानां देहरक्षणम् ५६
स्वरभङ्गपिपासानां हृद्रोगे पित्तशोणितम्
शुक्रदोषं शिरोरोग्रं पीनसं चापकर्षति ५७
जीर्णज्वरञ्च मन्दाग्निं कुष्ठं दुष्टं भगन्दरम्
मेहं कृच्छ्राश्मरीं हन्ति तथा रोचनवारणम् ५८
हृद्रोगशूलमानाहं नाशयत्यविसंशयम्
वन्ध्यानां पुत्रजननं वृद्धानामल्परेतसाम् ५९
षण्ढोऽपि जायते चैव सदा ऋतुकरः परः
मेधा स्मृती तथा तेजो वर्द्धयत्याशु निश्चितम् ६०
सौख्यसौभाग्यदर्शी च वृद्धोऽपि तरुणायते
क्षयरोगविनाशाय कथितं चात्रिणा महत् ६१
च्यवनप्राशनं नाम कृष्णात्रेयविभाषितम् ६२
इति च्यवनप्राशनं नामावलेहः
भार्ङ्गीपुष्करमूलचित्रककणामूलं गजाह्वा शठी
शङ्खाह्वादशमूलचित्रकबलायासात्मगुप्तास्तथा ।
एतेषां द्विपलांशकी भिषग्वर प्रोक्ता च पञ्चाढके
पथ्यानां शतकं विपाच्य बहुधा मन्दाग्निना सन्ततम् ६३
निर्वाप्य पुनरेव पूतसरसं चोद्धृत्य पथ्याशतं
संशुष्यामतिशीतले सुभवनक्वाथः प्रशस्तः पुनः ।
दत्वा जीर्ण गुडस्य चैकतुलया कुडवञ्च क्षौद्रं घृतं
स्नेहस्यार्द्धमथाक्षकेण मगधा योज्यं शतं पञ्चकम् ६४
चूर्णं तत्र निधापयेत्पुनरपि सङ्घट्टयेदुच्चकं
पथ्ये द्वे मधुना सहातिहितकृत्सर्वामयच्छेदनः ।
पाण्डुकासहलीमकगुदरुजो हृद्रोगहिक्काभ्रमान्
हन्यात्पीनसमेहपित्तरक्तकुष्ठं च ग्रहण्यामयम् ६५
पुष्पं चैव तनोति शोफ मरुचिगुल्मार्त्तिराजक्षयमेहानाहविबन्धरोगशमनं क्षीणेन्द्रियाणां हितम् ।
मन्दाग्नेः प्रशमं करोति वडवातुल्योऽरुचिबन्धको
नाशं वा विदधाति देहसुखदागस्तिप्रणीताभया ६६
बलाह्वयं गोक्षुरको बृहत्यौ निष्क्वाथ्य दुग्धेन कणासमेतम् ।
पानं हितं स्यान्मधुना सिताढ्यं विनाशनं कामलकं क्षयं वा ।
मेहस्य तृष्णाशय नाशकारि क्षीणेन्द्रियाणां बलमातनोति ६७
पिप्पलीं वर्द्धमानं वा कारयेद्दुग्धसर्पिषा
आद्यः पञ्च पुनः सप्त पुनरेव नव क्रमात् ६८
एकादशस्त्रयोदशः पञ्चदशस्तथा सप्तदशः स्मृतः
एकोनविंश एकविंशः पृथक्पृथग्यथाक्रमम् ६९
एवं क्रमेण वृद्धिः स्यात्कारयेच्छतमात्रया
ततः क्रमेण पुनः पश्चाद्यावच्छेषं च पञ्चकम् ७०
भोजयेत् षष्टिकान्नं तु मुद्गेन सर्पिषा युतम्
एवं बालश्च वृद्धश्च नरो नागबलो भवेत् ७१
पिप्पली वर्द्धमाना तु ज्वरे जीर्णे प्रशस्यते
मन्दाग्नौ पीतमेवाथ गुदजे वा तथा पुनः ७२
इति पिप्पलीवर्द्धमानम्
द्वे पले मार्कवं धातु माक्षिकं च पुनर्नवा
तुगा पृक्का शालिपर्णी वासकं च दुरालभा ७३
चूर्णार्द्धेन समं योज्यं त्रिगन्धं मरिचानि च
तालीसं मगधा चैव तदर्द्धेन शिलोद्भवम् ७४
शिलाभेदं तदर्द्धेन सर्वं चैकत्र मिश्रयेत्
समेन तिलचूर्णं तु शर्करायाः समायुतम् ७५
भक्षयेत्क्षीरपानं वा शस्यते घृतसंयुतम्
तेन क्षयो राजयक्ष्मा कामला च विनश्यति ७६
अपस्मारं जयत्याशु बलवीर्याधिको भवेत्
शाम्यन्ति च महारोगाः शुक्राढ्यो जायते नरः ७७
इति शिलाजतुचूर्णम्
जीवन्तिकावत्सकयष्टिकानां सपौष्करं गोक्षुरकं बले द्वे
नीलोत्पलं चामलकी यवासं सत्रायमाणा मगधा च कुष्ठम् ७८
द्राक्षामलक्या रसप्रस्थमेकं प्रस्थद्वयं छागलकं पयश्च
प्रस्थं दधिषु पचेद्घृतं वह्निवातं पाने प्रशस्तमेव भोज्ये ७९
नस्ये च बस्तावपि योजयेत्तद्विनाशमेत्याशु च राजयक्ष्मा
हलीमकः कामलपाण्डुरोगो मूर्च्छा भ्रमः कम्पशिरोऽर्त्तिशूलम् ८०
महाश्मरी वा गुदकीलकुष्ठं शिरोगतो नाशमुपैति रोगः
तस्य प्रदानेन वियोजितेन पानेन पाण्ड्वामयराजयक्ष्मा ८१
नाशं शमं याति हलीमको वा बस्तिप्रदानेन गुदोद्भवाश्च
रोगी विनाशं समुपैति पुंसां विसर्पविस्फोटकप्रोक्षणेन ८२
कणा पलाशः पञ्चगुणं पयश्च आद्यं घृतं वै विपचेत्समांशम्
पानेऽथवा भोजनके प्रशस्तं देयं च राजक्षयनाशहेतोः ८३
पञ्चकोलं यवाग्रञ्च क्षीरं दध्ना घृतं पुनः
समांशेन तु योज्यानि भार्ङ्गी कुष्ठं तु पौष्करम् ८४
शतं तत्र हरीतक्या जले चैव चतुर्गुणे
क्वाथं चैकत्रयं योज्यं क्वाथयेन्मृदुवह्निना ८५
मृदुपाकं घृतं सिद्धं पाने नस्ये च बस्तिषु
गुणाधिक्यं भवेन्नॄणां पाण्डुरोगे हलीमके ८६
राजयक्ष्मणि क्षये चैव शस्तं चोक्तं भिषग्वर ८७
यष्टी बला गुडूची च पञ्चमूलं समांशकम्
क्वाथेन सदृशं धात्रीरसं चेक्षुरसं तथा ८८
विदार्याश्च रसं चैव घृतं च समभागिकम्
क्षीरं दधिसमं चात्र नवनीतं तु तत्समम् ८९
द्राक्षातालीससंयुक्तं यथालाभेन योजयेत्
सिद्धं घृतं च पानाय नस्ये बस्ता प्रदापयेत् ९०
जयति राजयक्ष्माणं पाण्डुरोगं सुदारुणम्
हलीमकं चार्शसं च रक्तपित्तनिवारणम् ९१
लेपेन दुष्टवैसर्पपित्तदग्धव्रणापहम् ९२
बला श्वदंष्ट्रा बृहतीद्वयं च पर्णीद्वयं गोक्षुरकं स्थिरा च
पटोलनिम्बस्य दलानि मुस्तं सत्रायमाणा च दुरालभा च ९३
कृत्वा कषायं च यदावशेषं पूतीकृते चूर्णमिदं प्रयुंज्यात्
द्राक्षा शठी पुष्करमूलधात्री तमालकी दुग्धसमं कषायम् ९४
सर्पिःप्रयुक्तं नवनीतकं च सर्पिस्तदर्द्धेन नियोजनीयम्
सिद्धं घृतं पानमथैव बस्तौ नस्ये तथाभ्यञ्जनभोजनेन ९५
जघन्यकासक्षयकामलानां राजक्षये क्षीणबलेन्द्रियाणाम्
शतेषु शोफेषु व्रणेषु शस्तं शिरोऽर्त्तिपार्श्वार्त्तिगुदामयघ्नम् ९६
चन्दनं सरलं दारु यष्ट्येला वालकं शठी
नलशैलेयकं पृक्कापद्मकं वनकेसरम् ९७
कङ्कोलकं मुरामांसी शैरियं द्विहरीतकी
रेणुकात्वक्कुङ्कुमञ्च सारिवे द्वे तिक्तागुरुः ९८
नलिकाबले तथा द्राक्षा कषायं सुपरिस्रुतम्
तैलमस्तु तथा लाजा रसेन समभागिकम् ९९
मन्दाग्निना पचेत्तैलं सिद्धं पाने च बस्तिषु
नस्ये चाभ्यञ्जने चैव योजयेत्तद्भिषग्वरः १००
हन्ति पाण्डुक्षयं कासं ग्रहघ्नं बलवर्णकृत्
मन्दज्वरमपस्मारकुष्ठ पामाहरं पुनः १०१
करोति बलपुष्ट्योजो मेधाप्रज्ञायुर्वर्द्धनम्
रूपसौभाग्यदं प्रोक्तं सर्वभूतयशस्करम् १०२
स्वामिभार्याभिगमने गुरुपत्न्यभिलाषणात्
राजस्वहेमचौर्याद्वा राजयक्ष्मा भवेद्गदः १०३
अथवा दुष्टरोगेण जायते शृणु पुत्रक
चतुर्भिर्हेतुभिर्यक्ष्मा जायते शृणु साम्प्रतम् १०४
व्यायामयानसुरतागतिपीडिताङ्गरोगेण वा व्रणनिपीडितक्षीणदेहात्
क्रोधातिशोकानशनादिभयोपवासैः सञ्जायते च मनुजस्य महागदोऽयम् १०५
वार्द्धक्याद्यो भवति नितरां ज्याधनुःकर्षणेन भारात्यर्थं भवति हननोत्पातबन्धेन युद्धात्
दूराध्मानात्कदशनवशाच्चिन्तयातिव्यवायात्सम्भूतिः स्यान्मनुजबलहृद्राजयक्ष्मेतिसंज्ञः १०६
क्षतक्षयाच्छ्रमाद्वापि सहसोपप्लवादपि
व्यवायातिप्रसङ्गेन तथा रूक्षातिसेवनात् १०७
तेन संक्षीयते गात्रं ज्वरो मन्दश्च जायते
ज्वरान्ते जायते शोफो मलविट् चातिमूत्रता १०८
अतिसारश्च भवति भक्षणेनातिशेषते
कासते ष्ठीवतेऽत्यर्थं शोषञ्च कुरुते भृशम् १०९
स्त्रियोऽभिलाषतात्यर्थं वार्त्तायाद्विषता पुनः
राजयक्ष्मेति विज्ञेयो गदः साध्यो न विद्यते ११०
सुप्तौ पादौ भवेतां तु ग्रासञ्च बहु मन्यते
शब्दे च पटुता यस्य राजयक्ष्मा न जीर्यति १११
यदन्नं यत्समाहारं यादृशं प्रतियाचते
तत्तस्य च प्रदातव्यं मधुरं घनमेव च ११२
यद्यदाहारमिच्छेद्वा नरं वा राजयक्ष्मिणम्
तस्य तस्यास्य लाभेन क्षीयन्ते धास्य धातवः ११३
यदा सरक्ताः शोफाः स्युः पाकतां याति मानवे
तदा पुनर्नवाक्वाथः सलेशः प्रविधीयते ११४
सञ्जीवेच्चतुरो मासान्षण्मासं वा बलाधिकः
उत्कृष्टैश्च प्रतीकारैः सहस्राहं तु जीवति ११५
सहस्रात्परतो नास्ति जीवितं राजयक्ष्मिणः
गतप्राणौजोवीर्यश्च क्षीणश्च विकलेन्द्रियः ११६
न भवेत्पुनरुच्छ्रायो याप्यरोगश्च मुञ्चति
यस्तदायाससम्पन्नो भूयोऽपि कासना भवेत् ११७
तस्य प्राणापहारी स्याद्राजयक्ष्मातिदारुणः
त्रिभिर्मासैश्च षण्मासैर्वर्षैश्चापि त्रिभिः पुनः ११८
शतमूलीरसे प्रस्थं गुडूचीकल्कप्रस्थकम्
हरीतकीशतानां च कुटजस्य त्वचा तुलाम् ११९
निष्क्वाथ्य च पृथक्त्वेन पूतनाञ्चैकत्र मिश्रयेत्
दार्वीप्रलेपनं कृत्वा गुडानां शतपञ्चकम् १२०
सिता चामलकीचूर्णं त्वगेला चित्रकं शठी
द्राक्षा कुष्ठं शिलाजिच्च शिलाभेदस्तु तालकम् १२१
योज्यं तत्राक्षमानेन भक्षयेच्छुद्धसर्पिषा
तस्योपरि पिबेत्क्षीरं भोजनञ्च ततः परम् १२२
राजयक्ष्मी लभेत्सौख्यं पाण्डुकामलकाञ्जयेत्
अतीसारं विनश्यति बले नागबलो भवेत् १२३
तालकं च शिलाभेदस्तथा चैव शिलाजतुः
क्षीरके द्वे समङ्गा च कुष्ठं नागबला बला १२४
एलापत्रकतालीसं तमालं हरिचन्दनम्
मुस्ता द्राक्षा च रास्ना च मुण्डी शैलेयकं पुरः १२५
सुरसा चैव संयोज्या तिलाः कृष्णा द्विभागिकाः
चूर्णं सूक्ष्मं प्रयुञ्जीत गुडेन मधुना युतम् १२६
पश्चाद्गोक्षीरपानं स्यात्क्षीरेण सह भोजनम्
राजयक्ष्मादिभिः क्षीणा ग्रहणीपीडिताश्च ये १२७
धातुक्षीणबला ये च तेषां संयोजयेद्भृशम्
वृद्धोपि तरुणो भूत्वा नरो नार्याभिनन्दति १२८
बन्ध्यापि लभते पुत्रं षण्ढोऽपि पुरुषायते
तालकाम्रातकं नाम कृष्णात्रेयविभाषितम् १२९
गुडूची च बले द्वे च धात्री च मरिचानि च
चूर्णं गुडेन संयुक्तं राजयक्ष्मापहं नृणाम् १३०
शालिषष्टिकगोधूमवास्तुकं जाङ्गलानि च
मुद्गांश्च गोपयश्चैव शशकैणकुरङ्गिणाम् १३१
तित्तिरक्रौञ्चलावानां वार्त्ताकपिच्छकच्छागलानां हि
कथितानि मांसादीनि प्रलेपकानि जगति च १३२
विभोजयेत्क्षीरसर्पिः क्षये वा राजयक्ष्मिणः
क्षाराम्लकटुकं तीक्ष्णं तैलं सौवीरकं सुरा
राजिकावर्जिताश्चैते क्षये वा राजयक्ष्मिणः १३३
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने क्षयरोगचिकित्सा नाम नवमोऽध्यायः ९
दशमोऽध्यायः
[सम्पाद्यताम्]अतिघर्मतया वापि तीक्ष्णोष्णकटुसेवनात्
क्षाराम्लसेवनाद्वापि मद्यपानादिसेवनात् १
अतिव्यवायाच्छीतेन शुष्कशाकादिसेवनात्
एतैस्तु कुपितं पित्तं रक्तेन सह मूर्च्छितम् २
पुत्रस्तु संशयापन्न पप्रच्छ पितरं पुनः ३
हारीत उवाच
कथं पित्तं प्रकुपितं केन वापि प्रचाल्यते
तद्वद्रक्तं प्रकुपितं जायते केन हेतुना ४
युगपद्दृश्यते केन कथं वापि प्रवर्त्तते
एवं पृष्टो महाचार्यः प्रोवाच मुनिपुङ्गवः ५
आत्रेय उवाच
शृणु प्राज्ञ महातेजश्चिकित्सागमपारग
येनैव कुप्यते पित्तं रक्तं तेनैव कुप्यते ६
तावत्प्रकुपिते कोष्ठे वायुर्दारयते भृशम्
ऊर्ध्मं च नयते प्राणश्चापानोऽपानमीरति ७
मध्ये समानः कुरुते रक्तपित्तस्य कोपनम्
एवं युगपत्पित्तञ्च रक्तेन सह कुप्यति ८
चतुर्द्धा दृश्यते कोपो गतिश्चास्य द्विधा मता
ऊर्ध्वश्लेष्मणि संसृष्टं नासास्ये कर्णरन्ध्रयोः ९
रक्तं प्रवर्त्तते यस्य साध्यास्तु विजिगीषुणा
अधोयातेन संसृष्टं गुदेनापि प्रवर्त्तते १०
स ज्ञेयो रक्तपित्तस्तु कृच्छ्रेण सिद्धिमिच्छति
उभाभ्यामधऊर्ध्वाभ्यां वातश्लेष्मणि वर्त्तते ११
तमसाध्यं विजानीयात्कृच्छ्रेण यदि सिध्यति १२
एकमार्गबलतो वा नाभिवेगेन चोत्थितः
रक्तपित्तः सुखेनापि साध्यः स्यान्निरुपद्रवः १३
एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
असाध्यस्तु त्रिदोषेषु रक्तपित्तः प्रवर्त्तते १४
ऊर्ध्वगरक्तपित्तेषु विरेकं कारयेत्सुधीः
अधोभागगते रक्ते तदास्य वमनं हितम् १५
रोगक्षीणे छविरविकले हीनदौर्बल्यकाये
मन्दाग्निर्वा क्षवथुरथवा पाण्डुता दाहशोषः ।
तृष्णा छर्दिः श्वसनमधृतिर्भक्तविद्वेषमोहो
हृत्पीडा स्याद्भ्रममथ भवेद्रक्तपित्तोपसर्गात् १६
अष्टादश इमे प्रोक्ता रक्तपित्तौपद्रवाः
उपद्रवैर्विना साध्योऽसाध्यः सोपद्रवस्तथा १७
रक्तनिष्ठीवनोपेतो रक्तनेत्रो भ्रमातुरः
रक्तमूत्रश्च वमते रक्तमूत्री न जीवति १८
एवं प्रोक्तो निदानार्थस्ततो वक्ष्यामि भेषजम्
सुलक्षणसमायुक्तं रक्तपित्तं सुखावहम् १९
यस्यारुणं पवनफेनयुतं च तावत्पित्तातिकृष्णमथ पीतकुसुम्भकाभम्
पित्तेन पित्तमिति तं प्रवदन्ति धीराः सान्द्रं सपाण्डुरतिजं सघनं कफेन २०
क्षीणमांसं कृशं वृद्धं बालं वा ज्वरपीडितम्
शोषमूर्च्छाभ्रमापन्नं नातिरेचनमाचरेत् २१
निष्पीड्य वासारसमाददीत क्षौद्रेण खण्डेन युतं च पानम्
नासास्यकर्णे नयनप्रवृत्तं रक्तं तु शीघ्रं शमतां प्रयाति २२
वासाकषायोत्पलमृत्प्रियंगुरोध्राञ्जनाम्भोरुहकेसराणि
पीत्वा समध्वा ससिता प्रयोज्या पित्ताश्रयं चैवमुदीर्णमाशु २३
प्रविद्यमानं पिचुवासकेन कथं नरः सीदति रक्तपित्ते
क्षये च कासे श्वसनेऽपि यक्ष्मे वैद्याः कथं नातुरमादरन्ति २४
भिषग्भिषजां माता वा पुरा कृत्य क्रिया यदि
क्रियायत्ते रक्तपित्ते क्षये कासे च सिद्धिदा २५
वासायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति २६
तालीसचूर्णं वृषपत्ररसेन युक्तं पेयं समारभ्य पुनः कफपित्तकासे
हन्ति भ्रमं श्वसनकासतासङ्करोत्थं भङ्गस्वरे त्वरितमाशु सुखं ददाति २७
आटरूषकमृद्वीकापथ्याक्वाथः सशर्करः
क्षौद्राढ्यः श्वसनकासरक्तपित्तनिवारणः २८
छागं पयो वा सुरभीपयो वा चतुर्गुणश्चापि जलेन कल्कः
सशर्करं पानमिदं प्रशस्तं सरक्तपित्तं विनिहन्ति चाशु २९
बलाश्वदंष्ट्रामलकीफलानि द्राक्षा मधूकं मधुयष्टिकानाम्
सिद्धं पयः पानमिदं हितं स्यात्पित्ते सरक्ते मनुजस्य शान्त्यै ३०
खदिरस्य प्रियंगूनां कोविदारस्य शाल्मलेः
पुष्पचूर्णं तु मधुना लिह्यादारोग्यमस्तुते ३१
आटरूषकरसेन सप्तधा भाविता च पुनरेव शोषिता
पिप्पलीमधुसमन्विताभया रक्तपित्तमतिदुर्जयं जयेत् ३२
एलाफलानि सपद्मकनागकेशरं द्राक्षा घना मधुकपिप्पलिका समांशा
एषांसमांशसितशर्करयुक्तलेहः खर्जूरिका समभिहन्ति च रक्तपित्तम् ३३
दाहंज्वरार्त्तिश्वसनं च विमोहतृष्णां मूर्च्छांनिहन्ति रुधिरवमिजित्तथैव ३४
घ्राणे प्रवृत्तं रुधिरं यदि स्यात्तदा घृतेनामलकीफलानि
तोयेन पिष्ट्वा शिरसि प्रलेपः स रक्तपित्तं सहसा रुणाद्धि ३५
द्राक्षारसं वा घृतशर्कराढ्यं जलं सिताढ्यं च सरक्तपित्ते
यवान्न चैवेक्षुरसं सिताढ्यं क्षयं च कासं क्षतजं निहन्ति ३६
नस्यं विदध्याद्धरितालिकाया रसेन वालक्तरसेन वापि
स्याद्दाडिमस्य प्रसवोद्भवेन रसेन नस्यं रुधिरस्रुतेऽपि ३७
आम्रास्थिजम्बूद्भवशर्कराढ्यं नस्यं सिताढ्यं हितकृज्ज्वराणाम्
नासाप्रवृत्तं रुधिरं निहन्ति हिक्कासच्छर्दिश्वसनं विमर्दि ३८
पलाण्डुपत्रनिर्यासनस्यं नासाग्रजावहम्
यष्टीमधूमधुयुतं पश्चान्नस्येऽस्रजं जयेत् ३९
वासापत्ररसं विधाय मतिमान्योज्यानि चेमानि तु
रोध्रं चोत्पलमृत्तिकासमधुकं कुष्ठं प्रियङ्ग्वन्वितम्
चूर्णं पुष्परसेन पाचकमिदं पित्ताश्रयाणां हितं
कासकामलपाण्डुरोगक्षतजश्वासापमर्दि भवेत् ४०
रसो हितो दाडिमपुष्पकस्य तथैव किञ्जल्करसोत्पलस्य
लाक्षारसो वा पयसा च नस्याद् घ्राणप्रवृत्तं रुधिरं रुणद्धि ४१
यदि वदनपथेऽसृक्प्रवृत्ते तस्य कुर्यात्प्रतिविधिर्विहितः स्याद्वक्ष्यते मानुषस्य
भवति न सुखसाध्यं लोहितं मानुषेषु तदनुयुवतियोन्यां रक्तवाहस्त्वसाध्यः
४२
मधु मधुकमुशीरं कञ्जकिञ्जल्कदूर्वारसमिह परिपीतं दाडिमस्य प्रसूतम्
मलयजसितकुष्ठं पद्मकं चैव बालं मधु मधुकबालकौ कोद्रवौ द्वौ समन्तात्
४३
समसुरभिपयो वा धावनं तण्डुलानां परिकलितसमग्रं तुर्यभागेन योज्यम्
लघुतरमपि वह्नौ धावितं सिद्धमेव भवति वदनवृत्ते लोहिते पानमस्य ४४
श्रुति पथमपि रक्ते वा प्रवृत्ते तु नासं विहितमपि तदा स्यात्पूरणं कर्णनासे
रुधिरमभिरुणद्धि श्वासमाशु क्षतं वा श्वसितरुधिरच्छर्दि मेहमुन्मादरोगम् ४५
नासाप्रवृत्ते नस्यं स्यान्मुखे पानं विधेयकम्
कर्णे नेत्रे पूरणं च गुदमार्गे निरूहणम् ४६
दाडिमफलत्वचं वा चूर्णं लिह्यात्सितायुतम्
पद्मकिञ्जल्कचूर्णं वा लिह्याद्वा सितया पुनः ४७
मुखप्रवृत्तरुधिरं रुणद्ध्याशु वमिं क्लमम्
श्वासशोषौ भ्रमं तृष्णां नाशयत्याशु निश्चयः ४८
जम्ब्वाम्रपल्लवानि स्युर्हरीतक्या युतानि तु
मधुशर्करया युक्तमास्यलोहितवारणम् ४९
वटप्रबालार्जुनवृक्षकदम्ब जम्ब्वाम्रकाणां खदिरस्य वापि
यथाप्रपन्नो मधुनावलेह आस्यस्रजं वारयते क्षणेन ५०
शतावरी मधुकं बला च ससिता काकोलिका दाडिमा
मेदः क्षीरविदारिका च फलिनी स्यात्तिन्तिडीकं बला ।
सिद्धा गोपयसाज्यकं हितमिदं पाने तथा बस्तिषु
योनौ मेढ्रगुदप्रवृत्तरुधिरं हण्यात्सकासक्षयम् ५१
मृद्वीका मधुकं विदारिवसुधा नीली समङ्गाफला
काकोल्यो बृहती युगं वृषमहामेदासितं चन्दनम् ।
जातीपल्लवपटोलश्यामामृतासञ्जीवकाः साभया
मेदे द्वे च कुचन्दनं मधुरसाः श्यामाः समांशास्त्वमी ५२
पक्त्वा गोपयसा विशुद्धविधिना सिद्धं चतुर्थांशकं मत्स्यण्डी मधुकं च
सिद्धिमिति चेत्पानं प्रशस्तं नृणाम् ।
स्त्रीणां चापि हितं निहन्ति रुधिरं पित्ताद्गुदे वा भवेन्मेढ्रे चापि च रोमकूपकपथे वृत्तं निहन्त्यात्स्रजम् ५३
एतद्द्राक्षाभिधानं घृतमपि विहितं रक्तपित्ते ज्वरे वा वातास्रे योनिशूले भ्रममदशिरसोन्मादरक्तप्रमेहे ।
पित्ताम्लेऽतिकुष्ठे क्षयक्षतरुधिरे राजयक्ष्मेऽथ पाण्डौ पाने बस्तौ च नस्ये हितमपि मनुजां भाषितं चात्रिणा च ५४
छल्लिं निष्कृष्य कूष्माण्डखण्डानि प्रतिकल्पयेत्
काञ्जिकेनाशु धौतानि पुनरेव जलेन तु ५५
पश्चात्क्षीररसप्रस्थे कल्कयेत्पुनरेव च
घृतेन पुनरेवैतत्पाचयेत्सुविधानतः ५६
यदा मधुनिभानि स्युस्तदा शर्करया सह
निधाय तत्र चेमानि भेषजानि प्रकल्पयेत् ५७
पिप्पलीशृङ्गवेराभ्यां द्वे पले मरिचानि च
जीरके द्वे तथा धात्री त्वगेलापत्रकं तथा ५८
पलार्द्धेन वियुञ्जीयाच्चूर्णं तत्र विनिक्षिपेत्
दार्व्या विघट्टयेत्तावल्लेहीभूतं यदा भवेत् ५९
तदा मधुघृतेनापि लिह्याज्ज्ञात्वाबलाबलम्
रक्तपित्तं क्षयं कासं कामलं नैमिकं भ्रमम् ६०
छर्दितृष्णाज्वरश्वासपाण्डुरोगान् क्षतक्षयम्
अपस्मारं शिरोर्त्तिञ्च योनिशूलं च दारुणम् ६१
चिरं योनौ रक्तवाहं मन्दज्वरनिपीडनम्
वृद्धोऽपि च युवा कामी वन्ध्या भवति पुत्रिणी ६२
अवीर्यो वीर्यमाप्नोति भवेत्स्त्रीणां प्रियो नरः
एष कूष्माण्डको लेहः सर्वरोगनिवारणः ६३
सुस्निग्धकूष्माण्डकखण्डकानि पलानि पञ्चाशदथो सितायाः
युञ्ज्यात्सतोयं प्रणिधाय धीमान् घृतेन प्रस्थं परिपक्वमेव ६४
विज्ञाय पक्वं पुनरेव तत्र वासाकषायञ्च विमिश्रयेच्च
पश्चात्पचेद्यावत्तु दर्वीलेपो ज्ञात्वा तु चेमानि पुनर्वियुञ्ज्यात् ६५
धात्री घना च भार्ङ्गी च सुगन्धत्रयं च युञ्ज्यात्समस्तानि तानि कर्षमात्राम्
तस्मात्पुनर्नवा च नागरधान्यकानि एषां पलस्य तुलिता कथितानुमात्रा ६६
श्यामापलाष्टकमिदं विदधीत चूर्णं सङ्घट्टयेत्सकलमेव पुनस्तु दर्व्या
युञ्ज्यात्समं मधुयुतं सकलामयघ्नं कासं ज्वरं क्षतजमाशु निहन्ति हिक्काम् ६७
हृद्रोगपित्तरुधिरं क्षयपीनसं च पित्ताम्लकं विजयते श्वसनं च मूर्च्छाम्
स्त्रीणां हितं भवति बालकवृद्धकेषु श्रेष्ठं समस्तरुजनाशबलप्रदं च ६८
शतावरी मुण्डितिकामृता च फलात्वक्च पुष्करमूलभार्ङ्गी
वृषो बृहत्या खदिरं च मांशली पृथक्पृथक् पञ्चपलैकमात्रया ६९
उत्तार्य पक्वं जलमाशु पश्चाद्यावद्भवेच्छेषमथैव पूतम्
विमूर्च्छितं तत्र निधाय धीमान्पलं तथा द्वादशमाक्षिकस्य ७०
तथाशु चूर्णस्य च लोहकस्य विघट्टितं खण्डघृतेन तुल्यम्
देयं पलं षोडशकं विधिज्ञो विपाचयेल्लोहमये च पात्रे ७१
गुडेन तुल्योऽपि विभाति यावत्तुगा विडङ्गं मगधा च शुण्ठी
द्वे जीरके कण्टकं त्रिफलानां भृङ्गं धान्यमरिचं सकेसरम् ७२
पलेन मात्रां विदधीत पृथक् सुघट्टितं चूर्णमिदं घृतस्य
स्निग्धे कटाहे प्रणिधाय युञ्ज्यात्कर्षप्रमाणं विदधीत चूर्णम् ७३
प्रभातकाले सरोवारिपानं गुरूणि चाम्लानि च वातलानि
भगन्दरादिश्वयथून्निहन्ति रक्ताम्लकं वा श्वसनञ्च यक्ष्मिणम् ७४
विशोषणं कुष्ठरुजां च गुल्मान्बलप्रदं वृष्यतमं प्रदिष्टम्
स रक्तपित्तं सहसा निहन्ति योनिप्रभावं च सरक्तशूलम् ७५
रक्तातिसारं रुधिरप्रमेहं समेढ्रबस्तौ निहितं नराणाम्
सौभाग्यदं कान्तिकरं प्रदिष्टं तेजौजःपुष्टिं बलमातनोति ७६
रक्तातिसारे च प्रयोजनीयं रक्तप्रवाहे सरुजे सदाहे
फलत्रिकञ्च सविषा समङ्गा सपर्पटं दाडिमधातकीनाम् ७७
चूर्णं मधुशर्करया समेतं तथैव दध्ना सघृतं सलेहम्
रक्तातिसारं रुधिरप्रवाहं सततं स्त्रियश्च ७८
निवारयत्याशु हितं नराणां बालेऽतिसारे प्रशमाय योग्यम् ७९
योनिप्रवाहे मधुकं समङ्गा एलादलं निम्बदलानि पथ्या
मुस्ता विशाला कटुरोहिणी च कल्को हितः शर्करया युतोऽयम् ८०
योनिप्रवाहं विनिवारयेच्च सयोनिशूलं सरुजां तृषार्त्तिम्
एला समङ्गा सहशाल्मलीनां हरीतकी मागधिका समांशा ८१
क्वाथोदितः शर्करया समाध्व्या योनिप्रवाहं विनिवारयेच्च ८२
घर्मातपान्ते च विदाहि चाम्लं सौवीरकं वा कटुकं कषायम्
क्षारं सुरा वा परिवर्जनीयं सरक्तपित्ते मनुजे हिताय ८३
वास्तूकचिल्ली सुनिषण्णकञ्च जीवन्तिका वा शतपुष्पिका वा
शाका हिता रक्तमेव च पित्ते मुद्गास्तथा लोहिततण्डुलाश्च ८४
यवगोधूमचणकाः कोशातक्यः पटोलकम्
मुद्गा माषा हिताश्चैव रक्तपित्तनिवारणे ८५
हरिणशशकलावास्तित्तिरास्ते कुलिङ्गाः
ककेरा अपि मयूराः क्रौञ्चपारावतानाम्
पललमनिलपित्तबर्हणं वै हितञ्चेद्भवति बलममोधं सत्त्वतेजश्च कान्तिः ८६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तपित्तचिकित्सा नाम दशमोऽध्यायः १०
एकादशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अथातो वक्ष्यते पुत्र अर्शस्य च चिकित्सितम्
षट्प्रकारेण ये प्रोक्तास्तेषां च शृणु लक्षणम् १
जाता दोषैस्त्रिभिरपि वातपित्तकफादिकैः
सन्निपाते चतुर्थः स्यात्पञ्चमो रक्तसम्भवः २
षष्ठकः सहजो ज्ञेयश्चार्शसां षड्विधो भवः
एवं च षट्प्रकारेण जायन्ते गुदजा रुजः ३
अनशनलघुरूक्षाहारसंसेवनेन कटुलवणविदाहिसेवया वातरोधात्
भवति सततवीप्सा विष्टरेणैव हीना कुपितमरुतवेगादर्शसां भूतिरासीत् ४
अनशनोपविष्टस्य मलमूत्रावधारणे
शीतसंसेवनेनापि गुदजः सम्प्रकुप्यति ५
लवणकटुकषाया तिक्तसंसेवनेन अमितलघुतरभोज्याच्छीतलेनातिरोधात्
कुपितमलिननामापानमार्गेष्वपाने सृजति रुधिरवातोपानमार्गे मरुत्सु ६
कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च
सेवनानिलतोयेन श्रमाद्व्यायामपीडया
यानव्यवायदोषाद्वा दुर्नामा पित्तसम्भवः ७
अव्यायामात्तस्य शीलादजस्रं शीताद्वान्याद्वातसंसेवनाच्च
लौल्यात्यम्लात्तैलसम्पिच्छलेन दुर्नामा सञ्जायते श्लेष्मरोगात् ८
शीतत्वतोदं परुषं विनिद्रा गुल्मोदराष्ठीलविषूचिकावा
शोफावुभौ कृष्णनखस्य नेत्रे लिङ्गानि वातप्रभवार्शसानाम् ९
दाहभ्रमौ ज्वरपिपासिशरीरतो वा मूर्च्छारुचिर्नयनदन्तमुखानि यस्य
पीतच्छविर्भवति वा विटभेदनं च पित्तेन जातगुदजस्य च लक्षणानि १०
निद्रा च जाड्यधनमन्दरुजा च शोफा शूलातिगुल्मगुदभंगुरकास्तथा स्युः
विड्बन्धतोदमरुचिर्गतिमन्दता च श्लेष्मोद्भवा गुदरुजः खलु भेषजज्ञ ११
शूलानाहारुचिः कासो हृल्लासो रुचिनोदता
स्कन्धयोर्जाड्यता सर्वाश्चार्शसि सम्भवन्ति हि १२
गुदजलक्षणं वक्ष्ये गदे कण्डूरसृक्स्रवः
परुषा विषमा दीर्घा वातेन गुदजा मताः १३
सदाहाश्च विचित्राश्च पीता नीलावभासिकाः
लोहितं स्रवते सोष्णं पित्तेन गुदजा मताः १४
सदाहा कठिना ये तु तत्र पाको विबन्धता
शीतकण्डूसमस्थूलाः कफेन गुदजा मताः १५
सदाहाः सरुजः श्यावाः कण्डूः शोषश्च जायते
स्रवते सततं रक्तं ते कण्ड्वासृग्भवार्शसाः १६
धान्याङ्कुरसमाकाराः क्रिमयः सम्भवन्ति च
वातवर्च समा लिङ्गा गुदजाः सम्भवन्ति हि १७
वक्रास्तीक्ष्णाः स्फुटितवदना दीर्घबिम्बीफलाभाः केचित्सिद्धार्थककणनिभाः कालखर्जूरकाभाः ।
कर्कन्ध्वाभाः कलम्बकसमाः केचिदम्भोजबीजा वायोश्चासौ मनुज विहितः सम्भवश्चार्शसां च १८
गुदे नासाकर्णरन्ध्रे मुखे वा तथावर्त्तनेत्रान्तरयोनिमध्ये
नराणां सकाशे भवन्ति रोगा न साध्याः सुखेन क्रिया यत्नतः स्यात् १९
त्रिवलीगुदमध्ये तु बाह्यतोऽभ्यन्तरेषु च
अर्शसां तु विजानीयात्त्रीणि स्थानानि चैव हि २०
बाह्यतः सुखसाध्यः स्यान्मध्ये कष्टेन सिध्यति
असाध्योऽन्तर्बलीजातो गुदजो भिषजां वर २१
प्रलेपवर्त्तिभिः स्वेदैर्बाह्याः सिध्यति चोत्तमाः
यन्त्रशस्त्रेण मध्यास्तु अन्तर्जाश्चान्तरौषधैः २२
तस्मात्पुत्र प्रयत्नेन क्रिया कार्या विजानता
येनातुरस्य रक्षा स्याद्येन रोगो निवर्त्तते २३
करचरणमुखे वा नाभिमेढ्रे गुदे वा भवति हि यदि पुंसां शोफशोषो ज्वरश्च
श्वसनतमकच्छर्दिर्मोहहृत्पार्श्वशूलं कृशमरुचिविबन्धश्चातिसारोपसर्गाः २४
इत्येवं द्वादशार्शसां सम्भवन्ति ह्युपद्रवाः
उपद्रवैर्विना साध्या न साध्या बहूपद्रवाः २५
शूलारोचकतृष्णार्त्तश्चातिरक्तप्रवाहवान्
शूलशोफातिसारार्त्तो ध्रुवं न जीवतेऽर्शसः २६
अतोर्शसां प्रवक्ष्यामि क्रियां चैव भिषग्वर वटकाक्षारशस्त्राणि येन सम्पद्यते
सुखम् २७
अर्शसां च क्रियाः प्रोक्ताश्चार्शघ्ना बलवर्द्धनाः
पित्तशोणितशमना न च वातप्रकोपनाः २८
तस्यादौ पचनं श्रेष्ठं ततो भेषजमाहरेत्
पथ्यामृता च धनिका पाने क्वाथो गुडान्वितः २९
दन्ती विडङ्गमगधा धान्या भल्लातकगुडं तिलकुष्ठयुक्तम्
संसिच्य पयसातिकल्को निहन्ति पाने गुदजांश्च रोगान् ३०
नागरपिप्पलीबिल्वविडङ्गं दन्ती च शठ्यभया त्रिवृता च
कल्कमिदं सगुडं प्रतिपाने वार्शसि नाशनकारि नराणाम् ३१
पत्रककेसरशुण्ठीसमैलातुम्बुरुधान्यविडङ्गतिलानाम्
क्वाथो हरीतकीसर्पिर्गुडेन पीतो निहन्ति गुदे गदजानि ३२
पिप्पलिकामभयां गुडयुक्तां प्रातर्भवे नरो भक्षति चैताम्
तस्य गुदकीलकमाशु हन्ति सकामलपाण्डुजरोगवर्गान् ३३
सुस्विन्नवार्ताकफलस्य तोयं दध्ना सिताह्वा सलिलामृतेन
पाने विधेयं गुदकीलकानां क्रिमीन्निहन्यात्क्रिमिजांश्च रोगान् ३४
भल्लातकाः कृष्णतिलाश्च पथ्या चूर्णं गुडेनापि नरस्य सेव्यम्
हन्याच्च पाने गुदकीलमेहशूलार्शकासान् विनिहन्ति तस्य ३५
सूरणकन्दकमर्कदलैस्तु वेष्टितमेव हि कर्दमलिप्तम्
तप्तमनलवर्णकसमानं तत्पयःसैन्धवतैलविमिश्रम् ३६
भक्षति चार्शविनाशहेतोर्वातविकारहितोऽपि नरस्य ३७
चित्रकपुष्करमूलशठीनां तेषु समांशास्तिला विनियोज्याः
सूरणकन्दकखण्डसमेतं तेषु समोऽग्निकफलानि दध्यात् ३८
सैन्धवं तस्य चतुर्गुणकञ्च भावितमर्कदलेन समस्तम्
तञ्च घृतस्य घटे विनिधाय अरण्यगोमयवह्निविपक्वम् ३९
क्षीरमिदं लवणघृतपक्वं तक्रयुतं प्रतिपानमतोऽपि
नाशयति गुदकीलककीलान्हन्ति विषूचिभगन्दरानपि ४०
कामलपाण्डवानाहविबन्धान्गुल्ममरोचकनाशनकारी
मूत्रगदगलकण्डुक्रिमीणां नाशनभद्रकसैन्धवो नाम ४१
त्रिकटुकमगधानां मूलचित्रं त्रिगन्धं समतुलितममीषां तुल्यभल्लातकानि
समलमिह समन्तादेकतः सम्प्रचूर्ण्यं द्विगुणतुलितमात्रं योजनीयोगुडस्तु ४२
सकलमपि विकुट्य स्निग्धभाण्डे निधाय प्रतिदिनमपि सेव्यं चाक्षमात्रं
सुधीरैः ।
गुदजजठररोगं शूलगुल्मान्क्रिमींस्तु जनयति वडवाग्निं हन्ति पाण्डुं क्षयं वा ४३
नागरं त्रिफलां चैव पलांस्त्रींश्च प्रयोजयेत्
चतुष्पलानि मरिचानां पिप्पलीनां पलद्वयम् ४४
पलमेकं तु चव्यस्य योज्यं तत्र भिषग्वरैः
तालीसार्द्धं पलं देयं पलार्द्धं पद्मकस्य च ४५
जीरकस्य समं मात्रा समेन तुलितो गुडः
सुपक्वा सुघना श्यामा पिप्पलीनां शतत्रयम् ४६
उलूखले क्षोदयित्वा स्निग्धभाण्डेन धारयेत् ४७
अक्षप्रमाणा गुटिका नराणां प्रातः प्रदेया सकलामयघ्नी
निहन्ति चार्शांसि च पाण्डुरोगं हलीमकं कामलकं भ्रमं वा ४८
गुल्मातिसारं च सरक्तपित्तं क्षयं क्षतं चाक्षयमस्य यक्ष्मा
जीर्णज्वरारोचकपीनसानां हितो भवेत्प्राणदमोदकोऽयम् ४९
जाजीपिप्पलिमूलकोलमगधापथ्याग्निकं नागराः सूक्ष्मैला च पलद्वयेऽपि
क्रमशः कृत्वा पलैः सैन्धवम् ।
भल्लातक्यफलानि पञ्चशतकं तेन समस्तेन गु द्वैगुण्येपि पुराणसूरणस्ततः सर्वस्य तुल्यो गुडः ५०
क्षोदित्वा वटकाक्षमात्रमुपरि जातो विशेषो गुणः कुर्वत्यर्शनिवारणं क्षयमपि पुष्टं तथा सुप्रभम् ।
मन्दाग्निर्वडवासमो भ्रमहरो हृद्रोगपाण्ड्वामयं शूलानाहभगन्दरो भयहरो दुष्टार्त्तिनिर्वासनः ५१
कृतोऽप्यर्थे विकारोऽपि ऋषिणा योगयुक्तिना
काङ्कायनेन मतिमान् तेन सौख्यमभीप्सति ५२
लवणोत्तमं वह्निकलिङ्गवचा चिरबिल्वमहत्पिचुमन्दयुतम्
पिब सप्तदिनं समस्तु लुलितं यहदि मर्दितुमिच्छसि पायुरुजाम् ५३
विश्वोपकुल्यामरिचानि केसरं पत्रं लवङ्गैलकवृद्धिमाह्वयाः
चूर्ण हितञ्च शर्करयुक्तमेतद्गुदामयानामुदरार्त्तिशान्तये ५४
सनागरं पुष्करवृद्धदारुकं गुडो नवो मोदकमम्बुदारुकम्
अर्शेषु दुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् ५५
त्रिकटुकमभयानां पुष्करं चित्रकाणां कृमिरिपुतिलचूर्णं कारयेत्संगुडेन
उषसि वटकमेकं भक्षयेद्यो मनुष्यो विनिहितगुदरोगश्चाग्निवृद्धिं करोति ५६
मरिचं नागरचित्रं सूरणभागोत्तरेण संकुट्य
सर्वसमो गुडयुक्तो मोदको बिल्वप्रमाणं सेवेत्
विनिहितपित्तविकारं क्षयति मनुजानां करोति तनुपुष्टिम् ५७
त्रिसमगतसूरणकन्दो लोहितवर्णेन यो भवेन्मतिमान्
षट्खण्डीकृतवानपि संशुष्कान्षोडशान्भागान् ५८
त्स्यार्द्धेन तुलितश्चित्रकशुण्ट्यौ च तत्र संयोज्या
मरिचस्य चैकभागो गुडेन बद्धस्तु मोदको मनुजैः ५९
भक्षित एव हि गुणवान्निहन्ति सकलान्गुदामयान्
त्वरितमग्नेर्दीपनमुक्तं गुल्मानां जठररुजाम् ६०
त्रिफलमगधजानां मूलतालीसपत्रं क्रिमिरिपुमगधानां पुष्करं चेत्समांशः
मरिचदहनभागश्चैकभागेन शुण्ठी सकलतुलिततुल्यः सूरणस्यैकभागः ६१
मदनचपलयुक्तं वृद्धदारैलभृङ्गं कृतमिह परिचूर्णं द्विगुणो शीर्णखण्डः
कृतवटकमुखस्तु प्राश्नुते यो मनुष्यो हरति जठररोगं तस्य चाशु प्रकर्षम् ६२
गुदजरुधिरपित्तं कासमन्दाग्निशूलान् क्षयतमकहलीमान् कामलांश्च क्रिमींश्च
विदधति बलपुष्टिं दापयेच्चाशु मार्गे प्रबलयति हुताशं योगराजः प्रसिद्धः ६३
योगराजेन युञ्जीत स्मरणेनाप्यगस्त्यतः
अस्य योगस्य योगेन भीमोऽपि बहुभक्षकः ६४
चव्यं पाठा त्रिकटु मगधा मूलकस्तुम्बुरूणां बिल्वाजाजीरजनिसुरसा
पथ्यया सैन्धवं च ।
पिष्ट्वा चैतत्समगविघृतं पाचयेत्सुप्रयुक्तं पानाभ्यङ्गे हरति गुदजान्वातरोगाश्मरीं च ६५
श्यामा कुष्ठं मधुकमदनं पुष्पकं चित्रकञ्च बिल्वं दारु प्रतिविषशताह्वाकलिङ्गाशठीनाम् ।
पिष्ट्वा तैलं द्विगुणपयसा पाचितं चानुवासे चाभ्यङ्गे वा हितमपि गुदव्याधिनिर्णाशहेतोः ६६
वातव्याधिश्रवणरुधिरे कर्णशूलेऽश्मरीणां जङ्घापृष्ठे कटिशिरःशिरावेक्षणे
वाततोदे ।
विष्ठाबन्धग्रहनिग्रहनिःसारके मूढगर्भे श्रेष्ठं तैलं सकलनिचयव्याधिसंधारणेन ६७
मुस्ता विश्वविडङ्गचव्यकशठी पथ्या च तेजोवती दन्तीन्द्रात्रिवृता समांशकपली मात्रा च प्रत्येकशः ।
तस्माच्चाष्टपलान् पुरुष्करमपि षड्वृद्धदारोपलान् युञ्ज्यात्षोडशसूरणाख्यसलिल द्रोणेऽखिलं फल्कितम् ६८
भूतं भूयः पचेद्गुडत्रिगुणितं युञ्ज्याद्भवेद्वादिनमुद्धृत्य पुनरेव चित्रकत्रिवृत्तेजोवती सूरणम् ।
एलापत्रकनागकेशरलवङ्गानां समं चूर्णितमेषां षोडशभागयोग्यविहितं सर्वञ्च तं चैकतः ६९
स्थाप्यं स्निग्धघटे प्रभातसमये भक्षेदक्षमात्रं वटं जीर्णे क्षीरमपि प्रभूतमतिमान् पाने तथा भोजने ।
अर्शोगुल्मभगन्दरान् ग्रहणीपाण्डुरोगं च कामलां शूलञ्चाथ विबन्धकासक्षतजराजयक्ष्मान्निहन्ति ७०
भल्लातकानां द्विसहस्रकाणां द्रोणे जले पाच्यपदावशेषम्
क्वाथे तु तस्मिन् विपचेद्गुडस्य तुलाप्रमाणं पुनरेव तत्र ७१
भल्लातकानां शतपञ्चकानि तत्रैव संयोज्य पलत्रिकं वा ।
व्योषं जवानीघनसैन्धवानामेलालवङ्गं दलनागकेशरम् ।
प्रत्येककर्षं तुलितं नियोज्यम् ७२
संकुट्य तैले घृतभाजने वा स्थाप्यं प्रभाते वटकप्रमाणम्
भक्षेद्गुडं स तु निहन्ति रोगान्भगन्दरार्शःक्रिमियक्ष्मपाण्डून् ७३
गुल्माश्मरी मेहहलीमकं वा सरक्तपित्तं ग्रहणीं निहन्ति
करोति पुष्टिं बलमातनोतिवर्णप्रकर्षं सुखमादधाति ७४
दशमूलकगुडूचिसठीक्षुरकं सहचित्रकभार्ङ्गीफलासहितम्
भल्लातकपञ्चशतं प्रदिशेद्विपचेज्जलद्रोणमितेन च तत् ७५
गुडजीर्णशतं प्रददेत्क्वथितमवतार्य सुशीतलमेलसमम्
दलकेसरभृङ्गलवङ्गयुतं कृतचूर्णमिदं सकलैकमिति ७६
घृतभावितमेकदिनं विदधीद्धृतभाजनके दिनसप्तमिदम्
स्निग्धघटे विदधीत मनुष्यो दत्तमिदं गुदजामयसङ्घे ७७
मोदकमेकमुषस्सु ग्रसेद्विनिहन्ति गुदामयमेहरुजः
हन्ति कासहलीमककामलकं हितमेव हुताशनदीप्तिकरम् ७८
यस्तु शीतजले क्षिप्तो जलेनैव विलीयते
लोहितो लोहितां याति चैकपाको गुडस्य च ७९
ग्रन्थिकं चित्रकं मुस्तं चविकं त्रिफलामृता
सहदेवी गजकर्णापामार्गश्च कुठेरकम् ८०
प्रत्येकं चतुष्पालिकं कल्के द्रोणाम्भसा सुधीः
द्वे सहस्रे समे पिष्टं भल्लातक्याः फलाति तु ८१
पादावशेषे कल्के च लोहचूर्णं तुलार्द्धकम्
क्षिपेत्कुडद्वयं सर्पिः सर्वं चैकत्र घट्टयेत् ८२
फलत्रिकं तथा व्योषं चित्रकं लवणाष्टकम्
विडङ्गानि समांशानि सर्वाणि पलमात्रया ८३
चतुष्पलं वृद्धदारोर्मूर्वाख्या तु चतुष्पला
संशुष्कसूरणं कन्दं चूर्णं चाष्टपलोन्मितम् ८४
संक्षिप्य स्वादयेच्चूर्णमवतार्य सुशीतले
स्थापितं मधु संयोज्यं कुडवद्वयमात्रया ८५
देयं गुदामये चादौ कल्कमप्रातराशने
अर्शांसि ग्रहणीरोगं कामलाराजयक्ष्मणः ८६
गुल्मक्रिमीनश्मरीं च मन्दाग्निमेहशोणितम्
नाशयत्याशु यक्ष्माणं करोति बलमाकृतेः ८७
आशु वृद्धिं प्रकुरुते वलीपलितनाशनम्
रसायनस्य योगेन नरो नागबलो भवेत् ८८
रक्तार्शसामुपचारं वक्ष्यामि वृणु पुत्रक
प्रातस्तिलान्भक्षयेच्च नवनीतविमिश्रितान् ८९
सितानागरकयुक्तं नवनीतं सशर्करम्
केशरं मातुलुङ्गस्य विडङ्गशर्करायुतम् ९०
भक्षेत्कूष्माण्डकालेहं नवनीतेन शर्कराम्
एतेन रक्तगुदजाञ्छमयन्ति विचक्षणाः ९१
समङ्गाशाल्मलीपुष्पं चन्दनं ककुभत्वचम्
नीलोत्पलमजाक्षीरं पिष्ट्वा पानमसृग्गदान् ९२
कुटजमूलसकेसरमुत्पलं खदिरधातुकिमूलशृतं पयः
पिबति म्रक्षणयोगमसृग्भवं गुदजनाशनकारिविकारणम् ९३
कुक्कुटस्य पुरीषञ्च तथा पारावतस्य च
ग्रहधूमं च सिद्धार्थं धत्तूरकदलानि च
काञ्जिकेन च संपिष्य वर्त्तिं सञ्चारयेद्गुदे ९४
सूरणं कन्दकवर्त्तिर्विधेया मल्लीरसेन घृतेन च लिप्त्वा
रोगगुदे गुदकीलकमाशु नाशयते गुदजांश्च क्रिमींश्च ९५
हरिद्रा मार्कवं कुष्ठं गृहधूमं सुवर्चलम्
सिद्धार्थकरसश्चैव काञ्जिकेन च पिष्यते ९६
मधुना सह वर्त्तिः स्याद्गुदे सञ्चारिता यदि
अर्शसां नाशनं चैव करोति सहसा नृणाम् ९७
देवदालीपलसम्मितञ्च हुतभुग्य्योषै रसानां गणान्षड्ग्रन्थापिचुमन्दवारिककणाभार्ङ्गीशिलातैलकम् ।
पिष्ट्वा श्लक्ष्णसमस्तकाञ्जिकयुतं दत्वा शिलालेपनं दुर्नामानि हन्ति तथैव गुदजान्सर्वातिसारामयान् ९८
युन्त्रं शस्त्राग्निकार्यञ्च कथितं तत्तु शल्यके
यथा यन्त्रेण छिद्यन्ते दाहस्तत्र विधेयकः ९९
चर्मकीलं तथा छित्त्वा दग्धं क्षारेण धीमता
पक्वजम्बूसमो वर्णो क्षारदग्धे प्रशस्यते १००
दग्धं वा सूरणक्षारं कदलीजीवमुद्गकैः
पलाशकोकिलाक्षारमपामार्गघृतान्वितम् १०१
क्षारदाहे प्रशस्येत नवनीतघृतेन वा
कुष्ठं पथ्या तथा निम्बपत्राणि च मनःशिला १०२
तस्मान्मधुघृतमिश्रं निर्धूमाङ्गारके क्षिपेत्
धूपयेद्गुदजान्तेन यथा सम्पद्यते सुखम् १०३
मनःशिलानागरकं सगुग्गुलं ससार्षपम्
देवदारु सपौष्करं विशल्यासर्जिकारसम् १०४
घृतेन धूपयेद्गुदजं गुदामयं भगन्दरम्
निहन्ति दुष्टपीनसं व्रणं सपूयगन्धिकम् १०५
निर्गुण्डीदलपत्रहरितालं तथा सार्षपचूर्णकं देवाह्वं घृतशर्करामधुयुतं धूपं
गुदजादिके ।
दुर्नामे सरुजे व्रणे च विषमे दुष्टे विसर्पेषु च पामापीनसकासनाशनकरो धूपो ग्रहोच्छेदनः १०६
एवं क्रियाविधिः प्रोक्तश्चातः पथ्यानि मे शृणु
शालिषष्टिकमुद्गाश्चकुलत्थाढक्यवास्तुकम् १०७
चिल्ली च शतपुष्पा च कूष्माण्डकपटोलकम्
कारवेल्लं च तुण्डीरं सूरणो राजिकार्जकम् १०८
गुडस्तक्रं घृतं चैतत्प्रशस्यन्तेऽर्शसां सदा
सूकरः शल्लकी गोधा मूषको वा सरीसृपः १०९
लावतित्तिरवार्त्ताकमांसानि कथितानि च ११०
वल्लूरमत्स्यदधि पिच्छलतैलबिल्ववार्त्ताकभोजनमतिप्रतिवर्जनीयम्
निप्राकृति निशि दिवा शयनञ्च शीतं शीतान्तमेव परिवर्जितमादरेण १११
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अर्शश्चिकित्सा नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अथ वक्ष्यामि कासानां निदानं सचिकित्सितम्
कासांश्चाष्टविधांश्चैव शृणु पुत्र महामते १
हास्यात्प्रहास्यरजसानिलसन्निरोधाद्विमार्गगत्वाच्च हि भोजनस्य
वेगावरोधात्क्षवथोस्तथैव सञ्जायतेऽपि मनुजां प्रतिधाम कासः २
संसेवनान्मधुरपिच्छलजागरेण स्वप्नैर्दिवातिदधिगौल्यहिमाशनेन
सञ्जायते मदनतैलमथाल्पकन्दो मद्येन वा भावि जनुः कफस्य ३
उदान ऊर्ध्वगतिवैपरीत्यात्कफेन प्राणानुगतेन दीर्घः
ह्रदं निरेत्य कफकासकण्ठे करोति तेनापि च कास संज्ञाम् ४
कासाश्चाष्टौ समुद्दिष्टाः क्षतजाऽन्यः प्रकीर्त्तितः
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ५
वातपित्तसमुद्भूतः श्लेष्मपित्तसमुद्भवः
सप्तमो लोहितेनात्र चाष्टमो जायते क्षयात् ६
न वातेन विनाश्वासः कासो न श्लेष्मणा विना
न रक्तेन विना पिक्षं न पित्तरहितः क्षयः ७
कथितः सम्भवश्वासश्चातो वक्ष्यामि लक्षणम्
येन संलक्ष्यते नॄणां कासश्चाष्टविधः परः ८
क्षीणेन्द्रियः पार्श्वरुजोऽतिवेगः शूलावृतो वा गलके च बद्धः
निद्राकृतिर्भिन्नरवो मनुष्यो वातेन कासस्य भवेत्प्रकाशः ९
कण्ठे विदाहो ज्वरशोषमूर्च्छातृष्णाभ्रमः पित्तभवे च कासे
आस्ये कटुत्वं च शिरोऽर्त्तिपित्तं निष्ठीवते पीतनखानि नेत्रे १०
जाड्यं वमिः पाण्डुभवं च कासं निष्ठीवते यः सघनं कफं वा
भक्तारुचिर्वा कफपूर्ण देहे घनः स्वरः श्लेष्मभवे च कासे ११
कण्डूदाहश्वासच्छर्दिशोषारोचकपीडिताः
शिरोऽर्त्तिशोफहृल्लासः कासे त्रिदोषसम्भवे १२
कासः कण्डूः पिपासा च कुक्षि शूलो विनिद्रता
शुष्ककासः पिपासा च वातपित्तोद्भवः कफः १३
धूमगन्धः पीतवर्णोऽक्षिप्रपाकी सरक्तकः
रक्तनेत्रेः पिपासाद्यः पित्तश्लेष्मान्वितः कफः १४
व्यवायातिप्रसङ्गेन वेगरुद्धाभिघातकः
भारोद्धरणयातेन जायते क्षतजः कफः १५
तेन हृदि व्यथा रूक्षं कासते च सशोणितम्
श्वासः संक्षीयते गात्रं दीनो मन्दज्वरातुरः १६
वेपते पर्वभेदश्च मोहभ्रमनिपीडितः
एवं क्षतजनिर्दिष्टो नृणां प्राणापहारकः १७
अल्पायासात्क्षतात्क्षीणात्सम्पातात्क्षणभोजनात्
पातनाघातयोगेन जायते रक्तजः कफः १८
विस्रगन्धास्य हृच्छूलदीनो वै विकलेन्द्रियः
रक्तनिष्ठीवनोपेत श्वासो वापि मदातुरः १९
क्षीयते सततं गात्रं मोहस्तृष्णा च जायते
इत्येतैर्लक्षणैर्युक्तं रक्तकासं विनिर्दिशेत् २०
अथ क्षयानुमानेन लक्ष्यते कासलक्षणम्
पाण्डुरोगे तथा यक्ष्मे गुल्मे वापि क्षतक्षये २१
शोफार्शसां प्रतिश्याये चावश्यं काससम्भवः
एतेषां चानुमानेन कासं संलक्षयेद्भृशम् २२
स्थविराणां रक्तकासः सोऽपि याप्यः प्रकीर्त्तितः
बालानां जायते कासो धात्रीवैकल्ययोगतः २३
एते कासाः समुद्दिष्टा दशभिर्भिषगुत्तमैः
तेषां क्रियाप्रतीकारः पथ्यभेषजमेव च २४
शतमूलिकाक्वथितः कषायः पीतः कणाचूर्णयुतः सुखोष्णः
नृणां निहन्यान्मरुतोद्भवं तु कासं सशूलं च विपाचनं स्यात् २५
भार्ङ्गी शठीगोस्तनीशृङ्गवेरशृंङ्गीकणाचूर्णयुतोऽवलेहः
गुडेन तैलेन हितो नराणां मरुद्भवकासविकारनाशनः २६
विश्वा दुःस्पर्शशृङ्गी शठी पुष्करं दारु भार्ङ्गी कणा मुस्तं रास्नायुतम्
शर्करायुक्तमनुदिनञ्च चूर्णं कासं निःश्वासवातोद्भवं हन्ति वै २७
कट्फलं कटुतृणं भार्ङ्गी मुस्ता वचा धान्यकम्
पर्पटं देवदारु स्तथादार्वी विश्वायुतकर्कटम् २८
कल्कयेत्पानमेतन्मधुसंयुतं मानवम्
कासिनां कासप्रतीकारकासीत्तथा श्लेष्मसम्भूताय २९
क्षयं पीनसं कण्ठग्रहं शोषवातात्मकम्
कफं नाशयत्याशुहिक्काज्वरं श्लेष्मकम् ३०
द्राक्षामलक्याः फलपिप्पलीनां कोलं सखर्जूरयुतोऽवलेहः
रक्तपित्तकासक्षयनाशकारी सकामलं पाण्डु हलीमकञ्च ३१
वालाबृहत्यौ मधुकं वृषं च तथैव कुष्ठं पिचुमन्दकञ्च
गवास्तनीसंयुतकल्कमेतत्पानं हितं पित्तकफात्मके च ३२
मुस्ताटरूषकफलत्रिकदारुभार्ङ्गी व्याघ्रीसपुष्पफलमूलदलैरुपेता रास्नाविषा
च मधुरसालानि चूर्णं निहन्ति क्वथितेन जलेन कासम् ३३
बद्धाथवा च गुटिका मधुना गुडेन सिन्धूद्भवेन मगधासमहौषधेन
आस्ये धृता निशि विशालगुणा भवन्ति श्वासं क्षयं क्षतजकासमिदं निहन्ति ३४
शर्करा चैव खर्जूरं द्राक्षा लाजा कणा मधु
सर्पिर्युतो हितो लेहः पित्तकासनिवारणः ३५
आटरूषकपत्राणि पिचुमन्ददलानि च
तुलसीस्वरसञ्चैव शठी शृङ्गी मरीचकम् ३६
शुण्ठीचूर्णं गुडे युक्तं लिह्यात्कासे कफात्मके
भार्ङ्ग्याश्च नागपिप्पल्याः पिबेत्क्वाथं सुखोष्णकम् ३७
आर्द्रकस्य रसं नीत्वा मधुना च पिबेत्सुधीः
कासे श्वासे प्रतिश्याये ज्वरे श्लेष्मसमुद्भवे ३८
कट्फलं भूतृणं भार्ङ्गी शुण्ठी पर्पटकं वचा
सुराह्वं च जलशृतमुक्तञ्च पण्डितैस्तथा ३९
मधुना संयुतं पानं कासे वातकफात्मके
श्वासे हिक्काज्वरे शोषे महाकासे च दारुणे ४०
तालीसपत्रं मरिचञ्च विश्वाश्यामायुतं चोत्तरभागवृद्ध्या
त्वक् पत्रकेणापि लवङ्गमेलां पिप्पल्याचाष्टौ गुणितां सिताञ्च ४१
लिह्यात्प्रभाते श्वसने च कासे प्लीहारुचौ पीनसच्छर्दिहिक्काम्
शोफातिसारं ग्रहणीं च पाण्डुं क्षयं निहन्यात्क्षतजञ्च यक्ष्मम् ४२
तालीसं त्रिफलाप्रियंगुमगधाभूलञ्च मुस्ता शठी
दार्व्यलादलनागकेसरलवङ्गानां तथा नागराः ।
कृष्णाकोलकबालकं सचविला मूर्वा विषा कर्कटं
द्राक्षा कुष्ठनिशाग्निवत्सकवृषं गोकण्टतिक्ता तथा ४३
वृक्षाम्लं च सदाडिमाम्लकरसं पक्वबदराणि च
एतेषां समभागचूर्णविहितं योज्या समा शर्करा ।
योज्यं चार्द्धपलं निहन्ति क्षतजं कासं तथा श्वासकं पाण्डूकामलमेदशोषगुदजे शस्तं सदा यक्ष्मिणाम् ४४
क्षयकासे मधुयष्टिकया त्रिदोषजाः
आमजे शूलरोगार्त्तिः पर्वभेदी भ्रमः क्लमः
शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति ४५
खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः
सापि स्निग्धा च रूक्षा च द्विविधा जायते वमिः ४६
गम्भीरनेत्रो वमते विड्बन्धो वाति सार्यते
गात्रे खल्लीकरं शूलं तथा शोथातिमूर्च्छना ४७
विकलाङ्गो भ्रमार्त्तञ्च भ्रमन्तं पश्यते जगत्
शिरोऽर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ ४८
एतैर्लिङ्गैस्तु संयुक्तां छर्दिं दूरे परित्यजेत्
असाध्या सर्वयोगैस्तु साप्यजीर्णा सुधीमता ४९
सपञ्चमूलीक्वथितः कषायः ससैन्धवं चामलकञ्च कल्कः
क्वाथं पिबेन्मिश्रितपिप्पलीकं सवातच्छर्दिविनिवारणं च ५०
दद्यात्क्षीरं शर्करया नरस्य पित्तोद्भूतां वातिशीघ्रं निहन्ति
द्राक्षा वापि क्षीरदार्व्या विचूर्णं लेहो हन्ति सारघाणां पिबन्ति ५१
फलत्रिकं पुष्करकं वचां च तथाभयासैन्धवकं गुडेन
चूर्णं विलिह्यात्कफवान्ति हन्ति नरस्य मूत्रेण युतस्य पानम् ५२
शठी दार्व्याभया शुण्ठी मागधी घृतसंयुता
चूर्णं तक्रेण संयुक्तं हन्ति छर्दि त्रिदोषजाम् ५३
रक्तशाल्युद्भवा लाजा मधुशर्करयान्विता
ज्वरार्त्तिं युवतेः शीघ्रं नाशयन्त्येव मे मतम् ५४
आमलक्या रसेनाथ घृष्टं चन्दनकं मधु
गुटिका पलमानेन लेहो हन्ति वमिं ध्रुवम् ५५
आर्द्रदाडिमनिर्यासश्चाजाजी शर्करान्विता
सतैलमाक्षिकं वापि चत्वारः कवलग्रहाः ५६
चतुररोचकान्हन्ति वाताद्यान्द्वन्द्वजांस्त्रिः ५७
त्रिकटुकरजनीद्वयं च फलत्रिकं मध्वा च यावशूकञ्च
समकृतमिति चूर्णमेतन्मधुना युतं वमिं निवारयति ५८
सगुडं दाडिमं द्राक्षा पथ्या वा नागरगुडयुक्ता
त्रिवृता नागरमथवा गुडेन युक्तं वमिं दधति ५९
पर्पटं सगुडं क्वाथं शीतलं पाययेन्नृणाम्
हन्ति वमिं महाघोरां सपित्तां भ्रमसंयुताम् ६०
काकोली काकमाची च क्वाथं शर्करया युतम्
लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम् ६१
मातुलुङ्गरसश्चैव पथ्या शर्करया युतः
हन्ति कांसं पित्तभवं वमिं शीघ्रं नियच्छति ६२
दृष्ट्वा पित्तवमिं घोरां सदाहभ्रम दायिनीम्
तस्यारग्वधपत्राणि मधुशर्करयान्वितम् ६३
क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ६४
जम्ब्वाम्रकप्रवालानि दाडिमामलकं तथा
मस्तुनोपोषितं पानं हन्याच्छ्लेष्मवमिं नृणाम् ६५
सर्जार्जुनधवकदम्बकलोलचूर्णं शुण्ठीधान्याकसहितं सगुडं प्रदद्यात्
श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसां शठीकणामधुविडङ्गयुतोऽपि लेहः ६६
एलालवङ्गगजकेसरकोलसर्जालाजाप्रियंगुघनचन्दनपिप्पलीनाम्
चूर्णानि मार्कवसितासहितानि लीढ्वा छर्दिं निहन्ति कफ मारुतपित्तजाञ्च ६७
एलादलानि गजकेसरकत्वगेलालामज्जकं च दहनं च घनं प्रियंगुम्
सचन्दनं मगधजासमचर्णितञ्च लीढ्वा सितासमत्रिदोषवमिं जघान ६८
ऊर्ध्वभागगते दोषे विरेचनं प्रशस्यते
तस्मिञ्जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम् ६९
अथवा द्विभागगते तदा देया भया मधु
क्रिमिजं वमनं ज्ञात्वा क्रिमीणां शमनक्रिया ७०
न चोष्णं नातिचाम्लं च न तीक्ष्णं न तथा लघु
तन्दुलीयकशाकं वा न मद्यं काञ्जिकं न तु ७१
वमिदोषे च कथितं पथ्यं चात्र शृणुष्व मे
अनूपं शालिभक्तं च शतपुष्पा च वास्तुकम् ७२
आढकी मुद्गयूषञ्च दधि गुडघृतान्वितम्
अङ्गारमण्डका चाथ वमौ पथ्यं प्रशस्यते ७३
यथाबलं यथाकालं यथारोगं यथानलम्
तथा दृष्ट्वा प्रकुर्वन्ति पथ्यानां समुपक्रमम् ७४
दिवा निद्रां प्रयुञ्जीयाद्वमौ श्वासेऽतिसारके
हिक्काशोषे तथाजीर्णे वमिक्लेदेऽथवा पुनः ७५
न चोष्णतोयपानञ्च नातिभोजनमेव च
न धावनं न कर्त्तव्यं वर्जयेद्वमनार्दिते ७६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने छर्दिचिकित्सा नाम द्वादशोऽध्यायः १२
त्रयोदशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
भयश्रमाद्बलहीनाद्विदलरूक्षसेवनात्
आतपे वा ज्वरे जीर्णे क्षयाच्च क्षतजात्तथा १
एतैः सङ्कुपिता दोषा वातपित्तकफास्त्रयः
चतुर्थीक्षतजा प्रोक्ता पञ्चमी क्षयजा स्मृता २
अजीर्णात्षष्ठी सम्प्रोक्ता सप्तमी रूक्षसेवनात्
अष्टमी स्याज्ज्वरोत्पन्ना लक्षणानि शृणुष्व मे ३
क्षामः श्यावास्यता चाथ वैरस्यं वेपथुस्तथा
वातेन सा भवेत्तृष्णा विज्ञेया भिषजां वरैः ४
शीततोयाभिलाषश्च भ्रमदाहप्रलापतः
मूर्च्छा च लोहिते नेत्रे तृष्णा पित्तोद्भवा मता ५
निद्रा श्यावास्यतालस्यं बलासोष्णाभिलाषता
घन श्यावाङ्गशैत्यं च श्लेष्मणो जायते तृषा ६
दृक्शूलं वमते दाहो भ्रमो वा शिरसो व्यथा
वेपथुश्चाङ्गशैत्यञ्च त्रिदोषप्रभवा तृषा ७
वक्त्रशोषो भवेज्जृम्भा शिरोऽर्त्तिर्गुरुतोदरे
अजीर्णेनाथ मनुजे तृष्णा संलक्ष्यते गदः ८
रसक्षये यदा तृष्णा तथाक्षमक्षुधातुरः
ग्लानिः शोषो भ्रमः श्वासो दैन्यमाशु प्रवर्त्तते ९
क्षतक्षयेषु या तृष्णा तस्यां नान्नाभिनन्दनम्
अन्या ज्वरातुरे प्रोक्ता तृष्णा सा ज्वरवेगजा १०
अन्यातिसारे शूले वा तृष्णा ज्ञेया भिषग्वरैः ११
तृष्णातिसारवमनदाहमूर्च्छाभ्रमशोषोद्भवा
तोयेन न यति तृप्तिमसाध्यां तां विजानीहि १२
तृष्णां वातोद्भवां दृष्ट्वा शस्यते सगुडं दधि
सगुडं वामृताक्वाथं पीतं वाततृषापहम् १३
शुण्ठी चाजाज्या सह शृङ्गवेरं जलेन सौवर्चलयुक्तकल्कः
पिबेत्कषायं च सुशीतलं वा वातोद्भवां चाशु निहन्ति तृष्णाम् १४
काश्मर्यं पद्मकोशीरं द्राक्षा मधुकचन्दनम्
वालकं शर्करायुक्तं क्वाथं पित्ततृषापहम् १५
वटद्रुमो रोध्रसिता च चन्दनं सदाडिमं तण्डुलधावनेन
पिष्टञ्च शीतेन जलेन वापि पीतं च पित्तोत्थतृषापहञ्च १६
कुष्ठमुत्पललाजां च न्यग्रोधस्य प्ररोहवान्
संचूर्ण्य शर्करायुक्ता गुटिका तृष्णावारणी १७
द्राक्षोत्पलं सयष्टीकं शस्तं चेक्षुरससेवनात्
पीतं पित्तोद्भवां तृष्णां हन्ति दाहञ्च पित्तजम् १८
आकण्ठं शर्करायुक्तं क्षीरं तथा पिबेन्नरः
वमनञ्च तदा कुर्याद्धन्ति तृष्णां सपैत्तिकीम् १९
लोष्टप्रतप्ततोयञ्च निर्याप्य शीतलं कृतम्
पिबेत्तृष्णाविनाशाय जलं वा चन्दनान्वितम् २०
जम्ब्वाम्रकप्रवालानि तथा लाजा च चन्दनम्
धातकीकुसुमानि स्युः पिष्टवासारसंयुतः २१
श्लेष्मतृष्णापहो लेहो दाहमूर्च्छाभ्रमापहः
पिबेच्चाढकीयूषञ्च लाजाशर्करयान्वितम् २२
क्षीरपानं समरिचं जलं वा मरिचान्वितम्
श्लेष्मतृष्णाविनाशाय पिबेद्वा कोलकं पयः २३
दुरालभा पर्पटकं प्रियंगु लोध्रद्रुमं त्र्यूषणकं सकुष्ठम्
क्वाथः सुशीतो मधुशर्करायास्तृष्णां त्रिदोषप्रभवां निहन्ति २४
कालदाडिमवृक्षाम्लाः सारिवा समशर्करा
पथ्या दाडिमचूर्णं वा मातुलुङ्गरसान्वितम् २५
काष्ठपात्रे शृतं सम्यक्छीतलं सलिलं तथा
मर्दितं बहुवेलां तु तत्पानीयं च पाययेत् २६
तालुशोषे घृतं तच्च दापयेच्च भिषग्वरः
तृष्णादाहभ्रमच्छर्दिशोषमूर्च्छां व्यपोहति २७
क्षतजां क्षयजां तृष्णां वारयत्याशु निश्चितम् २८
दाडिमं कोलचुक्रीका वृक्षाम्लं चाम्लवेतसम्
रसं चैव तथा पथ्यायुक्तं तालुप्रलेपनम् २९
वारयत्याशु शोषं च तृष्णां हन्ति च सज्वराम्
केसरं मातुलुङ्गस्य पिष्टं तण्डुलवारिणा ३०
प्रतप्तमधुना तालुलेपो मुखशोषापहः
मधुशर्करया तालुलेपो शोषनिवारणः ३१
पद्मकन्दशृतालेपः शीतः शीतलवारिणा
तालुशोषं निहन्त्याशु जम्ब्वाम्रपल्लवानि च ३२
निम्बान् वा मातुलुङ्गान् वा सौवीरं नागराणि च
तृषार्त्तः पुरतो भक्षेन्न देयं तस्य धीमता ३३
दर्शनात्तस्य चास्ये च लाला प्रस्रवते भृशम्
तेनास्य शोषं हरति तृष्णामपि नियच्छति ३४
रक्तशाल्योदनं शस्तं दधिशर्करयान्वितम्
भोजनञ्च प्रशस्तं च न क्षारं कटुकं पुनः ३५
शोषे च छर्दितृष्णायां श्रमे पानात्ययेऽपि च
अतीसारे च शोषे च दिवा निद्रा सुखावहा ३६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने तृष्णातालुशोषचिकित्सा नाम त्रयोदशोऽध्यायः १३
चतुर्दशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
वेगाभिघातातिनिरोधकेन क्षीणक्षताच्च तृषितेन वापि
विरुद्धयुक्तान्नविभक्षणेन दोषः प्रदुष्टः प्रकरोति मूर्च्छाम् १
पञ्चेन्द्रियाणां संलग्नाः प्रत्येके द्वादशादयः
पञ्चेन्द्रियाणां सहिता नाडिकाः षष्टिसंख्यया २
रुन्धन्ति नाडिकाद्वारं तेन चेतो विमूर्च्छति
संज्ञानाशाद्भवेच्छीघ्रं निश्चेताश्च सदा नरः ३
पतति काष्ठवतूर्णं मोहमूर्च्छा निगद्यते
सा षड्विधा समुद्दिष्टा वातपित्तकफात्तथा ४
शोणितादभिघातेन मद्येनाथ विषेण वा
एतेषां कोपयेत्पित्तं मरुद्रक्तं समीतितम् ५
संख्यादौर्बल्यकं तेन मूर्च्छा मोहः प्रकथ्यते
कथयामि समासेन लक्षणानि पृथक्पृथक् ६
नीलं कृष्णाऋणं पश्येत्तमः प्रविशति क्षणात्
कम्पो मार्दवमेतासां क्षणेन प्रतिबुध्यति ७
वातेन मूर्च्छा भवति कृशता विकृतास्यता
नेत्रप्लावश्च मृष्टिश्च आध्मानञ्च भवेत्क्षणम् ८
पीतञ्च नीलहरितं तमः प्रविशते भृशम्
सन्तापश्च पिपासा च रक्ते पीते च लोचने ९
सस्वेदं शरीरं चापि श्रमः सम्भिन्नवर्चसाम्
पित्ताद्भवति मूर्च्छात्वं जायते च शिरोव्यथा १०
धूमाकुलां दिशं पश्येत्तमः पश्यति यः पुरः
नेत्राकुलत्वं मन्दाग्निस्तमोऽङ्गेषु च शीतता ११
चिरात्प्रबुध्यतेऽत्यर्थं कण्ठश्च घुर्घुरायते
हृल्लासमूर्च्छा भवति कफजा च विलक्षणैः १२
सन्निपातादपस्मारो दृश्यते भिषजांवर
स प्राणिनां घातयति रक्तेन सहितो यदि १३
रक्तगन्धेन मूर्च्छन्ति तेन मूर्च्छा शिरोव्यथा
कम्पते नष्टचेष्टत्वं जल्पते वमते पुनः १४
विभ्रान्तचेता रक्ताक्षः स्वप्नशीलः सुरावशः १५
क्षतक्षयाद्भवेच्चान्या कोद्रवान्ननिषेवणात्
जायते मोहमूर्च्छा च तेन निद्राति दुर्मनाः १६
पित्तोत्तमाद्भवति वै मनुजस्य मूर्च्छा पित्तप्रभञ्जनभवं भ्रममेव पुंसाम्
वातात्कफात्तमयुता मनुजस्य तन्द्रा निद्रा कफानिलतमा भजते नरस्य १७
स्वेदाभिषङ्गविधिमर्दनवातशान्त्यै शीतान्नपानव्यजनानिलपित्तशान्त्यै
कषायपानमवितथैव सदा प्रशस्तं श्लेष्मोद्भवा विनिहिता भ्रममूर्च्छना वा १८
पाययेत्त्रिफलाक्वाथं शीतं शर्करया युतम्
दुरालभायाः क्वाथञ्च पाययेच्छर्करान्वितम् १९
कणां कोलस्य मज्जाञ्च केसरोशीरचन्दनम्
पिष्ट्वा शीताम्बुनाखण्डपानं हन्ति विमूर्च्छितम् २०
रक्तजां मूर्च्छनां दृष्ट्वा विधेयः शीतलोविधिः
क्षयजे दुर्बले क्षीणे मूर्च्छापोषणकारणम् २१
नष्टचेष्टत्वमापन्ने नरे सञ्चेतनक्रिया
संपीड्य च नवांगुष्ठं नासिकां च प्रपीडयेत् २२
दन्तैर्वा सन्दंशैर्वापि शनैर्गात्रं प्रपीडयेत्
दाहयेद्वा ललाटे तु पृष्ठदेशे च मालके २३
एवं न सिध्यते वापि तदा चान्दोलनं हितम् २४
मूर्च्छातुरं सकलशीतजलेन सिञ्चेत्संवीजयेच्च शिखिपिच्छकवोजनैस्तु
दोलायनं हि विहितं मनुजस्य मूर्च्छामोहं भ्रमञ्च हरते च मदात्ययं वा २५
करञ्जबीजं सह सैन्धवेन रसोनपत्रस्य रसं च यत्र
मार्कं च पथ्यञ्च वचां जलेन पिष्ट्वाञ्जनं हन्ति दिनस्य तन्द्राम् २६
घोटकलालामरिचं लवणयुतं नेत्रयोरञ्जनं शस्तम्
विनिहन्ति दिनशतं तन्द्रां निद्रां वा मानुषस्य २७
सुगन्धं सुकषायोपयुक्ता रसस्त्रिफला गुडार्द्रकं प्रातः
सप्ताहान्मधुरजलं हन्ति मदमूर्च्छाकरानुन्मादान् २८
रक्तकर्षणमिच्छन्ति मोहमूर्च्छाप्रशान्तये
तस्मादवहितः कुर्यात्तासु रक्तावसेचनम् २९
शीतसेकावगाहाद्यान् श्रीखण्डं व्यजनानिलान्
शीतानि चान्नपानानि सर्वमूर्च्छासु योजयेत् ३०
शर्करेक्षुरसद्राक्षा वातमूर्च्छाप्रपानकैः
काश्मर्यमधुकैरेव पित्तमूर्च्छां जयेन्नरः ३१
यष्ट्याः क्वाथं शृतं सर्पिः शृतं वामलकीरसम्
पिबेद्रसं सितालाजायुक्तं चोष्णं च शीतलम् ३२
मधुना हन्ति च मूर्च्छामालेपैश्च प्रबोधयेत् ३३
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूर्च्छाचिकित्सा नाम चतुर्दशोऽध्यायः ३४
पञ्चदशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
धुरिणां गीतैर्नृत्यैर्हास्यैस्तन्द्रां निद्रां दिवा हन्ति
यदा रात्रौ न निद्रा स्यात्तदा कुर्यादिमां क्रियाम् १
काकमाच्यास्तु मूलञ्च शिखां बद्ध्वा भिषग्वरः
अधोमुखीं शिखां बद्ध्वा निद्रां जनयति निशि २
मस्तुना पादतलकौ मर्दयेन्निद्रयार्थिनाम्
यस्य नो दिवसे निद्रा तस्य निद्रा निशासु च ३
भयचिन्तया लोभेन या निद्रा न भवेन्निशि
तां चिन्तां च परित्यज्य निद्रा सञ्जायते क्षणात् ४
सिंही व्याघ्री सिंहमुखी काकमाची पुनर्नवा
वार्त्ताकीनां च मूलानां क्वाथो निद्राकरो नृणाम् ५
काकजङ्घा चापामार्गः कोकिलाक्षः सुपर्णिका
क्वाथो निद्राकरः शीघ्रं मूलं वा बन्धयेच्छिखाम् ६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने निद्राचिकित्सा नाम पञ्चदशोऽध्यायः १५
षोडशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
हालाहलाहलसमं भजते वियोगात्सेव्यानां शिष्यानुजानां कथितं मुनीन्द्र
तृष्णा वमिः श्वसनमोहनदाहतृष्णा सञ्जायतेऽतिशरणं विकलेन्द्रियत्वम् १
ये नित्यं सेवनाद्दुष्टा मद्यस्य मनुजा भृशम्
विषमाहारसदृशी सुरा मोहनकारिणी २
यथा विषं प्राणहरं वियोगाद्योगेन तं चाप्यमृतं वदन्ति
तथा सुरा योगयुता हिता स्यादयोगतश्चारभतेऽतिकष्टम् ३
क्षुधातुरे तृषाक्रान्ते सुरा वा भोजनं विना
न च क्षीणैर्विना भक्ता विनाहारातिपानकम् ४
अत्यशनेऽप्यजीर्णेऽपि सुरा पीता रुजाकरी ५
यस्य प्रलपनं चापि वाचा वातमदात्ययः
दाहमूर्च्छातिसारश्च ज्वरः पित्तमदात्यये ६
छर्द्यरोचकहृलासतन्द्रास्तैमित्यगौरवम्
शीतता च प्रतिश्यायः कफजे च मदात्यये ७
त्रिषुदोषेषुसमतालिङ्गैर्येषामुपक्रमः
स त्रिदोषसमुद्भूतो मदात्ययो भिषग्वर ८
वमनं च प्रशस्तं च निद्रासंसेवनं पुनः
स्नानं हितं पयःपानं भोजने सगुडं दधि ९
मस्तुखण्डं सखर्जूरं मृद्वीका सारिवाम्लिका
आमला च परूषं च लेहो हन्ति मदात्ययम् १०
द्राक्षामलकखर्जूरपरूषकरसेन वा
कल्कयेत्पयसा तत्तु पानं सर्वमदातयये ११
पथ्याक्वाथेन संयुक्तं पयःपानं मदात्ये १२
पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः
प्रस्वेदो विधुरत्वं च लालास्रावश्च जायते १३
भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते
मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः १४
तस्य शीतं जलं पीतं बस्ति वास्तुहितं भवेत्
शर्कराभक्षणे देया मुस्ता वा शर्करान्विता १५
कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम्
धत्तूरकमदे देयं शर्करासहितं दधि १६
हलिनी करवीरं च मोहिनी मदयन्तिका
अन्येषामपि कन्दानां वमनं चाशु कारयेत् १७
पाययेच्छर्करायुक्तं क्षीरं दा दधि शर्कराम् १८
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मदात्ययचिकित्सा नाम षोडशोऽध्यायः १६
सप्तदशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
समानः संक्रुद्धो रुचिरमपि पित्तं त्वचि गतं नरस्याङ्गे दाह्यं भवति नितरां घोरमपि च ।
कदादन्तोद्घर्षो भवति मनुजां दाह्योदये भवेच्छीतस्यार्त्तिः श्वसनमपि वा
शोषमरतिः १
पित्तज्वरसमानानि लक्षणानि भिषग्वर
पित्तज्वरवदारभ्य क्रिया दोषोपशान्तये २
कुशकासेक्षुमूलानामुशीरं घनवालकौ
क्वाथः शर्करया युक्तः शीत दाहं नियच्छति ३
पर्पटः सघनोशीरः क्वथितः शर्करान्वितः
शीतपानं निहन्त्याशु दाह्यं पित्तज्वरं नृणाम् ४
लामज्जचन्दनोशीरैर्लेपनं दाहशान्तये
वीजयेत्तालवृन्तैश्चकदल्यम्भोजसंस्तरे ५
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्
शस्यते शीतलं वारि दाहतृष्णानिवारणम् ६
उत्तानस्य प्रसुप्तस्य नाभेरुपरि सन्दधेत्
कांस्यपात्रमये सौख्यं धाराभिः शीतवारिणा ७
पूरयेत्सुरतं यत्नात्तेन सौख्यं समाप्नुते
शतधौतं घृतमपितद्दाहोपरि धारयेत् ८
मतिर्धात्रीफलं वापि शीतलजे प्रलेपनम्
दाहशोषातुरस्यापि लेह्यं वा सुखकारकम् ९
जम्ब्वाम्रपल्लवा न्निम्बंबीजपूररसेन तु
पिष्ट्वाप्रलेपनं दाहे शीघ्रं सुखमभीप्सते १०
धारागारं तथा सुशीतलशशी ज्योत्स्ना तु पानानि च वातः शीतलचन्दनं च
कमलं प्रेमानुबन्धस्तथा ।
रामागूहनमर्दनं स्तनयुगे शुक्लार्द्रवस्त्राणि च क्षीरं शर्करशङ्खलोहरजतं
दाहप्रशान्त्यै हितम् ११
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने दाहचिकित्सा नाम सप्तदशोऽध्यायः १७
अष्टादशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
पित्तं मरुच्च श्लेष्मा च उदानं कुपितो भृशम्
प्राणः शिरसि सङ्कुप्य कुरुते नष्टचेष्टताम् १
प्राणान्नयत्यचैतन्यं नाडीं चेन्द्रियरोधनम्
पतते काष्ठवल्लोको मुखे लालां विमुञ्चति २
कण्ठञ्च घुर्घुरायेत फेनमुद्गिरतेऽथवा
कम्पेते हस्तपादौ च रक्तव्यावर्ति लोचनम् ३
उपस्मारे च लिङ्गानि जायन्ते भिषजां वर
व्यावृत्तं लोचनं क्षामं तमो दाहः शिरोव्यथा ४
हतप्रभेन्द्रियसंज्ञश्चापस्मारी विनश्यति ५
तस्य पानाञ्जनालेपमर्दनं पानमेव च
अपस्मारे चोपचार्य घृतं तैलं च धीमता ६
अगस्तिपत्रं मरिचं मूत्रेण परिपेषितम्
नस्ये शस्तमपस्मारं हन्ति शीघ्रं नरस्य तु ७
बन्ध्याकर्कोटिकामूलं घृतं शर्करयान्वितम्
नस्ये वापि प्रयोक्तव्यमपस्मारप्रशान्तये ८
कूष्माण्डखण्डाश्च पक्वरसाश्च सत्र्यूषणैलादलनागकेशरम्
कुमेधिका ग्रन्थकधान्यकानां समांशकेनापि सितप्रियाज्या ९
प्रत्यूषसे भक्षणकं विधेयं तस्योपरि क्षोरमितं प्रशस्तम्
विहन्त्यपस्मारविकारमाशु विनाशयेच्छीघ्रमसृग्विकारम् १०
कूष्माण्डब्राह्मी षड्ग्रन्था शङ्खपुष्पी पुनर्नवा
सुरसासहितं चूर्णं शर्करामधुसंयुतम् ११
अपस्मारविनाशाय भक्षणे हितमेव च
उन्मादे पित्तरक्ते तु वन्ध्याया गर्भदायकम् १२
रास्नामागधिकामूलं दशमूलं शतावरी
चणत्रिवृत्तथैरण्डो भागान्द्विपलिकान्क्षिपेत् १३
यष्टीमधुकमृद्वीका शङ्खपुष्पी शतावरी
रास्ना समङ्गा शृतकं त्रिसुगन्धञ्च भीरुम् १४
कुष्ठं वैतद्दीपकं च घृतं योज्यं भिषग्वरैः
हन्त्यपस्मारमुन्मादं रक्तपित्तं गुदामयम् १५
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च
पचेद्घृतं पुराणं च अपस्मारं नियच्छति १६
महाबलाद्यं तैलं च बस्तौ नस्ये प्रशस्यते
शतावर्यादिकं चापि स दैव च हितं भवेत् १७
चन्दनाद्यं घृतं चैव प्रयोज्यं चात्र चोत्तमैः
अपस्मारे वाप्युन्मादे वातरोगेऽथवा हितम् १८
त्र्यूषणं त्रिफला हिंगु सैन्धवं कटुका वचा
नक्तमालकबीजानि तथा च गौरसर्षपाः १९
बस्तमूत्रेण पिष्टैस्तु गुटिका छायाशोषिता
अञ्जनं हन्त्यपस्मारमुन्मादं चैव दारुणम् २०
स्मृतिभ्रंशभ्रमीदोषभूतदोषविनाशनम्
ऐकाहिकं द्व्याहिकञ्च चातुर्थिकं ज्वरं हरेत् २१
हन्तितिमिरपटलं रात्र्यान्ध्यं च शिरोरुजम्
सन्निपातविस्मरणं चेतयत्याशुमानवम् २२
चन्दनं तगरं कुष्ठं यष्टीत्रिसुगन्धवासकम्
मञ्जिष्ठाभीरुमृद्वीकापाठा श्यामाप्रियंगुभिः २३
स्वयंगुप्ता पीलुपर्णी विषा रास्ना गवादनी
काकोल्यौ जीरकं मेदे पुष्करं घनवालुकम् २४
विदारी वासुमन्ती च वृद्धदन्ती विडङ्गकम्
पद्मकं चैन्द्रवृक्षश्च तथारग्वधचित्रकम् २५
धान्यकं पञ्चजीरेण तथा तालीसपत्रकम्
खदिरं निर्यासतगरं कालीयकं च कैकतम् २६
नागकेसरं परूषञ्च खर्जूरं चैकत्र मर्दयेत्
भावितं पुनरेवं च मधुना सघृतेन च २७
लेहोऽयञ्च सदा शस्तश्चापस्मारेतिदारुणे
उन्मादे कामलारोगे पाण्डुरोगे हलीमके २८
राजयक्ष्मे रक्तपित्ते पित्तातिसारपीडिते
रक्तातिसारे शोषे च शिरोरोगे सदाज्वरे २९
तमकभ्रमके छर्दिदाहे च समदात्यये
अश्मर्याञ्च प्रमेहेषु कासे श्वासे च पीनसे ३०
एतेषां च प्रयोक्तव्यः सर्वरोगनिवारणः
वन्ध्यानां च प्रयोक्तव्यो वृद्धानां च विशेषतः ३१
बालानां च हितश्चैव शृणु चात्र प्रमाणकम्
एवं प्रयोजितो रोगे महाकल्को मतो बुधैः ३२
बलवान्गुणवांश्चैव भवतीह फलप्रदः
भिषग्भिः कथ्यते लेहः कृष्णात्रेयेणपूजितः ३३
द्राक्षा दारु तथा निशा च मधुकं कृष्णा कलिङ्गा त्रिवृद्यष्टीका त्रिफला विडङ्गकटुकासृक्चन्दनं दाडिमम् ।
चातुर्जातकनिम्बका च तुरगी तालीसपत्रं घना मेदे द्वे सुरदारु कुष्ठकमलं
रोध्रं समङ्गावरी ३४
भार्ङ्गीकोलकदाडिमाम्लसहितं काश्मर्यशृङ्गाटकं काम्बोजा शणघण्टिका
लघुतरा क्षुद्रा च रास्नायुतम् ।
चूर्णं शर्करया समं मधु घृतं खर्जूरके संयुतं लिह्यात्कर्षमिदं समस्तबलकृद्धन्त्याश्वपस्मारकम् ३५
उन्मादञ्च सुदारुणं क्षयमथो यक्ष्मा च पाण्डुश्वसन् कासासृग्रुधिरप्रमेहगुदजं
स्त्रीणां हितं शस्यते ३६
एतैर्यदि न सौख्यं स्याद्दहेल्लोहशलाकया
ललाटे च भ्रुवोर्मध्ये दहेद्वा मूर्ध्नि मानवम् ३७
वर्जयेत्कटुकं चाम्लं रक्तपित्तविकारिणाम्
विशेषेण वर्जनीयं सुरापूगकषायकम् ३८
न सेव्यानि ह्यपस्मारे मोहमूर्च्छाकराणि वा ३९
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अपस्मारचिकित्सा नाम अष्टादशोऽध्यायः १८
ऊनविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच अयं मानसको व्याधिरुन्माद इति कीर्त्तितः प्रमत्ता ऊर्ध्वगा दोषा ऊर्ध्वं गच्छन्त्यमार्गताम् १ उन्मादो नाम दोषोऽयं कष्टसाध्यो भिषग्वरैः सोऽपि पृथग्विधैर्दोषैर्द्वन्द्वजोऽन्यः प्रकीर्त्तितः तथान्यः सन्निपातेन विषाद्भवति चापरः २ अशुचिविपथशून्यागारकेऽरण्यमध्ये सभयगहनवीथीदेवतागारके च अथ कथमपि भीत्याशङ्कया खिन्नचेतः क्षुभितमनसमार्ग त्याज्यमुन्मार्गयेति ३ चिन्ताव्यथासुभयहर्षविमर्षलोभाद्देवातिथिद्विजनरेन्द्रगुरूपमानात् प्रेमाधिकाच्चयुवतौहित विप्रयोगादुन्मादजन्म च नृणां कथितं वरिष्टैः ४ तेन जायति वा रौति विरूपं पठते यदा लोलयेच्छर्दिते वापि कम्पते हसते तथा ५ धावते हनने चैव तथा जिह्वा विनश्यति जवे भास यतेऽत्यर्थं पश्येद्धनमथातुरः ६ तस्यापस्मारकं कर्म कर्त्तव्यं भिषजांवरैः विशेषेण भूतविद्यामध्ये वक्ष्यामि चाग्रतः ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने उन्मादनिदानं नामोनविंशोऽध्यायः १९ </poem>
विंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
चतुरशीतिर्विख्याता वाता नॄणां रुजाकराः
तेषां निदानं वक्ष्यामि समासेन पृथक्पृथक् १
विरुद्धचिन्ताशनजागराच्च व्यायामतश्चातितमोऽभिषङ्गात् ।
असृग्विरेकाद्विषमासनेन प्राणापानसमानसन्धारणात् ।
अध्वाश्रमे क्षीणबलेन्द्रियाणामासन्नो धातुगतोऽपि वायुः २
प्राणोऽपानः समानश्च उदानो व्यान एव च
एषां दोषाद्भवन्त्येते वातदोषाः । पृथक्पृथक् ३
शिरःशूलं कर्णशूलं शङ्खशूलमसृग्गदः
अर्द्धशीर्षविकारश्च दिनवृद्धिसमुद्भवः ४
नासिकोपद्रवो वापि मन्यास्तम्भो हनुग्रहः
जिह्वास्तम्भस्तालुशूलं तथा च तमकं भ्रमः ५
तन्द्राश्वासगलाद्याश्च षोडशैते शिरोगता
प्राण प्रकोपतो यान्ति पित्तेन सममीरिताः ६
हिक्का श्वासः परिश्वासः कासः शोषार्त्तिर्घण्टिका
हृल्लासो हृदि शूलञ्च यकृद्वातादिका वमिः ७
क्षवथुर्जृम्भणञ्चैव तथा वैस्वर्यपीनसः
उरुचिश्च प्रतिश्याय एते प्रोक्ता उदानतः ८
उदानः श्लेष्मसंयुक्तो दोषाद्धृदि प्रकुप्यति ९
वक्ष्यामो व्यानको नाम मरुतस्य प्रकोपनम्
वातः सर्वाङ्गको धातुविकारं कुरुते भृशम् १०
स च धातुगतो ज्ञेयस्तथा प्रोक्तः पृथक्पृथक्
त्वग्वाते रोमहर्षश्च मन्या चांसाभूरेव च ११
मांसगे शोथतोदश्च मेदःस्वस्थे च कम्पता
भङ्गतास्थिगते वाते पतनं मज्जगे भवेत् १२
शुक्रगे सन्धिशोथश्च तस्मात्त्वग्वातलक्षणम्
एतैर्धातुगतान्वातान्साध्यासाध्यान्निरोधयेत् १३
सन्त्यक्तमांसमेदःस्थो वायुः सिध्यति भेषजैः
अन्ये कष्टेन सिध्यन्ति न सिध्यन्त्यथवा पुनः १४
लोमहर्षी भवेत्तोदो निद्रानाशोऽरुचिस्तमः
गात्रं सूची च विध्येत भ्रमन्त्येव पिपीलिकाः १५
रूक्षत्वं त्वग्रसे नेत्रे कृशत्वं जायते पुनः
गर्भरजसः शुक्रस्य नाशो भवति वेपथुः १६
मन्दाग्नित्वं च भवति स्वप्नानि च स पश्यति
निद्रानाशः क्षोभयति सामान्यं वातलक्षणम् १७
मुहुराक्षेपयेद्गात्रं भेदस्तोदो बहुज्वरः
स चैवाक्षेपको नाम जातो व्यानप्रकोपतः १८
धनुर्वन्नाम्यते गात्रमाक्षिपेच्च मुहुर्मुहुः
प्रक्लिन्ननेत्रस्तब्धाक्षः कपोत इव कूजति
तमाहुर्भिषजां श्रेष्ठा अपतन्त्रकनामतः १९
मतान्तरे वदन्त्यन्ये प्रह्वप्रतानको मतः
गृहीतार्द्धं ततो वायुरप्रतानकः संस्मृतः २०
सोऽपि कफाश्रितो वायुः सम्पीडयति दण्डवत्
स्तम्भयत्याशु गात्राणि सोऽपि दण्डाप्रतानकः २१
हृद्वक्षोजकरांगुलौगुल्फसन्धौ समाश्रितः
स्नायुं प्रतानयेद्यस्तु सोऽपि स्नायुप्रतानकः २२
बाह्यानामथ नाडीनां प्रतानयति मारुतः
कट्याश्रितो वा भवति सशल्यमिव कुर्वते २३
तमसाध्यं बुधाः प्राहुस्तञ्च वातं प्रतानकम्
अन्यं चतुर्थमाक्षेपमभिघातसमुद्भवम् २४
अभिघातेन यो जातो न स साध्य प्रतानकः
ऊर्ध्वं तानयते यस्तु विशोषयति गात्रकम् २५
मोहतमः कृते वास्थिसन्धिसंशुष्कको मतः
कृच्छ्रार्द्धकर्षं भवति शुष्कतां च प्रकुञ्चति २६
पृष्ठं प्रतानार्द्धं यो वै स तथैकाङ्गिको मतः २७
एकाङ्गपक्षघातश्च भवत्यन्यतमो यदि
वातघ्नैरौषधैः सर्वैर्वायुः कष्टेन सिध्यति २८
तोदमूर्च्छा वेपनं स्याद्वेष्टदा स्पर्शनाज्ञता
यस्तु नश्यति गात्राणि वायुस्तूनीतिशब्दितः २९
वेपनं तोदवेष्टत्वं स्पर्शनं वेत्ति यः पुनः
प्रतूनयति गात्राणि प्रतितूनीति गद्यते ३०
हृदिस्तम्भः पृष्ठस्तम्भ उरुस्तम्भश्च गृध्रसी
पृथक्त्वेन च कथितमग्रे शृणुष्व कोविद ३१
एते व्यानप्रकोपेन द्विषोडश प्रकीर्त्तिताः ३२
शूलं गुल्म उदावर्त्त आध्मानोदावर्त्तमेव च
परिणामो विषमाग्निरजीर्णं वाति गुल्मकः ३३
परिक्लेदी रसशेषो रसश्च मलवालकः
बन्धी भेदी विलासी च षोडशैते समानतः ३४
भगन्दरो बस्तिशूलो मेहार्शश्चातिकोठकः
लिङ्गदोषौ गुदभ्रंशस्तथान्योगुदशूलकः ३५
मूत्ररोधो विड्रोधश्च षोडशैते विजानता
अपानस्य प्रकोपेन विज्ञेयास्तु प्रधानतः ३६
एते विकाराः कथिताः विस्ताराश्च प्रकीर्त्तिताः
दाहः सन्तापः शोषश्च मूर्च्छा पित्तान्वितो मरुत् ३७
शैत्यं शोफारुचिर्जाड्यं वातश्लेष्मसमन्वितम्
यो द्वन्द्वजाश्रितो धीर तं साध्यं मारुतं विदुः ३८
केवलोऽपि समीरोऽपि सोऽपि साध्यतमः स्मृतः ३९
वक्रं भवति वक्त्रार्द्धं ग्रीवाचाप्युपवर्त्त ते
वैकृत्यं नयनानाञ्च विसङ्गो वेदनातुरः
ग्रीवायां गण्डयोर्दन्तपार्श्वे यस्यातिवेदना ४०
तमर्दितमिति प्राहुर्वातव्याधिविचक्षणाः ४१
लालास्रावोऽथ शोषश्च हनग्रहो विरस्यता
दन्तशूलं भवेद्यस्य वातेनार्दितमेव च ४२
पीताङ्गं सज्वरं तृष्णा पित्तजो मोह एव च
शोफस्तम्भोऽस्य भवति कफोद्भूतेऽथवार्दिते ४३
भाविनो लक्षणं यस्य वेपथुर्नेत्रमाविलम्
क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ४४
सिध्यत्यर्दितं गाढं विषमं चापि तस्य च
कण्ठो घोरो भक्षणार्थं जृम्भा प्रस्तारिते मुखे ४५
हनुस्तम्भो भवत्येते कृच्छ्रसाध्या भवन्ति हि
विषमे वा दिवास्वप्ने विवर्तितनिरीक्षणे ४६
मन्यास्तम्भं जनयति कृच्छ्रात्पार्श्वं विलोकते
वाग्वादिनीं शिरां रुद्ध्वा स्तम्भयेद्वसनानिलः ४७
रक्ताश्रितोऽपि पवनः शिरोनाड्यां समाश्रितः
शिरोऽर्त्ति कुरुते यस्तु सोऽप्यसाध्यः शिरोग्रहः ४८
अतः प्रतिक्रियां वक्ष्ये यथा सिध्यति मारुतः
स्नेहनं रूक्षणं कार्यं पाचनं शमनानि च ४९
स्वेदनं मर्दनाभ्यङ्गो बस्तिस्नेहो निरूहणम्
स्नायुसन्ध्यस्थिसम्प्राप्ते भेदनं कारयेत्सुधीः ५०
माणिमन्थेन यन्त्रेण ततः सम्भूषयानिलम्
अताध्यं शुक्रगे व्याने बोजवत्समुपाचरेत् ५१
मुण्डी गुडूची बृहतीद्वयं च रास्ना समङ्गा क्वथितः कषायः
समुच्चितेनापि विमिश्रितं च दुग्धं दधि स्यान्नवनीतकञ्च ५२
पचेत्सुधीमान्मृदुवह्निना च सिद्धं घृतं स्नेहनमेव पुंसाम्
कर्षप्रमाणं विहितं च पाने चाभ्यञ्जके भोजनके तथैव ५३
बस्तौ हितं स्नेहनमेव पुंसां सप्ताहकं वातविकारिणाञ्च ५४
रास्नाविडङ्गरजनी सह नागरेण सौवीरकेण सुरसा सह सैन्धवेन
सौष्णञ्च पानमिदमेव विरूक्षणञ्च स्यान्नृणाञ्चपञ्चदिनकर्षमात्रमेव ५५
अतः स्यात्पाचनं सम्यक् दिनसप्तकमेव तत्
पाचिते चैव दोषे च तस्मात्संशमनं ददेत् ५६
वक्ष्यामि ते पुष्टिगते धमन्या समाश्रिते च बहुधाशनेन
संस्वेदश्च नाशयते समीरं सप्ताहकं चोष्णजलेन सेकः ५७
रास्नात्रिकण्टकैरण्डशतपर्वा पुनर्नवा
क्वाथो वातामयं हन्ति सर्वाङ्गगतमाशु च ५८
रास्नागुडूचिकादारुनागरैरण्डसंयुतः
क्वाथः सर्वाङ्गवातेऽपि समधातुगते हितः ५९
रास्नाश्वगन्धाकाशीशं वचा च कपिकच्छुकम्
क्वाथस्त्वेरण्डतैलेन पीतो हन्ति समीरणम् ६०
रास्नाधान्यकशुण्ठी च यवानो दशमूलकम्
क्वाथः पाचनके प्रोक्तो नरै वातविकारिणि ६१
रास्नाद्यानि पावनानि हितानि कथितानि च ६२
अर्द्धपलं रसोनञ्च हिंगुसैन्धवजीरकैः
सौवर्चलेन संयुक्तं तथैव कटुकत्रिक्तम् ६३
घृतेन संयुतं भक्षेन्मासमेकं दिने दिने
निहन्ति वातरोगञ्च अर्दितं च प्रतानकम् ६४
एकाङ्गरोगिणाञ्चापि तथा सर्वाङ्गरोगिणाम्
ऊरुस्तम्भं क्रिमेर्दोषं गृध्रसीर्वापि कर्षति ६५
पलार्द्धञ्च पलं चापि रसोनञ्च सुकुट्टितम्
हिंगुजीरकसिन्धूत्थं सौवर्चलकटुत्रयम् ६६
एभिः सञ्चूर्णितैः सर्वैस्तुल्लं तैलेन संयुतम्
यथाग्नि भक्षयेत्प्रातः रुवुक्वाथानुपानवत् ६७
मासमेकं प्रयोगेण सर्ववातामयाञ्जयेत्
एकाङ्गं चैव सर्वाङ्गमूरुस्तम्भं च गृध्रसीः ६८
कटिपृष्ठास्थिसन्धिस्थमर्दितं चापतन्त्रकम्
ज्वरं धातुगतं जीर्णं नित्यञ्च सैकराह्वयम् ६९
नागरा च हरिद्रा च कणाजाज्यजमोदिका
वचा सैन्धवरास्ना च मधुकं समभागिकम् ७०
श्लक्ष्णचूर्णं पिबेच्चैव सर्पिषा प्रत्यहं नरः
एकविंशतिदिनैर्वा रोगान् हन्ति न संशयः ७१
भवेच्छ्रुतिधरः श्रीमान् मेघदुन्दुभिनिस्वनः
हन्ति वातामयेन् सर्वान् लेहो यश्च सुखावहः ७२
शतावरी वचा शुण्ठी रास्ना कदरशल्लकी
दशमूली बलाकिण्वस्तुम्बुरू च गुडूचिका ७३
एष कल्को घृतैर्युक्तो हन्ति वातं शरोरगम् ७४
शल्लकीचिक्कणीत्वचो क्वाथस्तैलेन संयुतः कुर्याद्वातार्दितं स्वस्थमेकविंशतिदिनैर्नरम् ७५
अतोऽभ्यङ्गश्च कर्त्तव्यस्तैलैरपि घृतैरपि
गुग्गुलञ्च रसोनञ्च कारयेद्विधिपूर्वकम् ७६
भागाश्चाष्टौ बलामूलं चत्वारो दशमूलकम्
क्वाथश्चतुर्गुणे तोयेऽथवा द्रोणस्य संख्यया ७७
तत्राढकं क्षिपेत्क्षीरमाढकं मिश्रयेद्दधि
कुलत्थाढकयूषं वै चाशु पर्युषितं क्षिपेत् ७८
तैलं तिलानां द्रोणं तु कटाहे पाचयेच्छनैः
जीवन्ती जीवनीया च काकल्यौ जीवकर्षभौ ७९
मेदे द्वे सरलं दारु शल्लकश्च कुचन्दनम्
कालीयकं सर्जरसं मञ्जिष्ठा त्रिसुगन्धिकम् ८०
मांसी शैलेयकं कुष्ठं वचा कालाष्टशारिवा
शतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ८१
किण्वकं च सुरा मुस्ता तथा तालीसपत्रकम्
कटुत्रयं वालुकौ च सर्वं तत्रैव मिश्रयेत् ८२
सिद्धं सर्वगुणं श्रेष्ठं कृत्वा मङ्गलवाचनम्
सौवर्णे राजते कुम्भे वाथवा मृण्मयायसे ८३
प्रतप्तं धारयित्वा तु पानाभ्यङ्गे निरूहके
बस्तौ वापि प्रयोक्तव्यं मनुष्यस्य यथाबलम् ८४
वातार्दितेऽथवा भग्ने भिन्ने वापि प्रदापयेत्
या वन्ध्या च भवेन्नारी पुरुषाश्चाल्परेतसः ८५
क्षीणो वा दुर्बलो वापि तथा जीर्णज्वरातुरः
आमवातातुराणाञ्च तथा प्रक्षिप्य कञ्चटम् ८६
प्रभाते च प्रयोक्तव्यं तथा शुष्के हनुग्रहे
कर्णशूले चाक्षिशूले मन्यास्तम्भे च पार्श्वगे ८७
सर्ववातविकाराणां हितं तैलं यथामृतम्
हन्ति श्वासं च कासं च गुल्मार्शोग्रहणीगदम् ८८
अष्टादशानि कुष्ठानि शीघ्रं वापि नियच्छति
ग्रहभूतपिशाचाश्च डाकिनी शाकिनी तथा ८९
दूरदेशे पलायन्ते बलातैलस्य दर्शनात्
अपस्मारादिदोषांश्च तच्च दूरे नियच्छति ९०
वृद्धा युवानो भवन्ति वन्ध्या च लभते सुतम्
तैलं महाबलाद्यं च महावातहरं स्मृतम् ९१
बलाक्वाथाढकं क्षिप्त्वा क्षिपेत्तत्राढकं दधि
कुलत्थाढकयूषं तु सौवीरस्याढकं तथा ९२
एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत्
शतपुष्पा देवदारु पिप्पली गजपिप्पली ९३
त्रिसुगन्धि सुरामांसी कुष्ठञ्च दशमूलकम्
चूर्णकं निक्षिपेत्तत्र सिद्धं तदवतारयेत् ९४
योज्यं पाने तथाभ्यङ्गे निरूहे नस्यकर्मणि
हन्ति वातामयाशीतिं श्रेष्ठं गुणगुणात्मकम् ९५
यथा महाबलं तैलं तथेदं गुणवर्द्धनम् ९६
भृङ्गराजरसञ्चैव कटुतुम्बीरसं तथा
सौवीरकरसं चैव क्वाथं वै दशमूलकम् ९७
माषकुल्माषयूषं च वाजं दधि समाश्रयेत्
समांशकानि सर्वाणि तैलं चार्द्धं प्रयोजयेत् ९८
मृद्वग्निना पाचनीयं सिद्धं चैवावतारयेत्
अभ्यङ्गे च प्रयोक्तव्यं न पाने बस्तिकर्मणि ९९
पूरणं कर्णरोगेषु शिरःशूले च दारुणे
अर्द्धशीर्षविकारेषु भ्रुवः शङ्खाक्षिशूलके १००
तस्य योगेन मनुजः सुखमापद्यते द्रुतम्
हन्ति कुष्ठं च पामानं त्वग्रोगोऽभ्यञ्जनेन तु १०१
शीघ्रं विनाशमायाति हन्त्यपस्मारमुत्कटम्
न बस्तिशूलो भवति वामवाते श्रमः क्लमः १०२
आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम्
विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् १०३
कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलता
गुल्मवज्जठरं गर्जेत्तथान्ते शोफमेव च १०४
शिरोगुरुत्वं भवति वामे च पतति भृशम्
सर्वाङ्गगो भवेत्सोऽपि विज्ञेयः सुविजानता १०५
तस्य च पाचनं कुर्याद्विरेचनं ततः परम्
विष्टम्भी गुल्मपाकी च सर्वाङ्गगोऽन्यः प्रकीर्त्तितः १०६
विज्ञेयस्तत्र यः साध्यश्चान्यौ द्वौ कष्टसाध्यकौ
स्नेही वामश्च कथितः कृत्वापस्मारनिग्रहम् १०७
श्योनाकः पाटला बिल्वं तर्कारो पारिभद्रकम्
अश्वगन्धा कण्टकारी प्रसारिणी पुनर्नवा १०८
श्वदंष्ट्रातिबला चैव बला च समभागिको
पादशेषं जलद्रोणे क्वथितं परिस्नावयेत् १०९
वाच्यमानानि योज्यानि भेषजानि भिषग्वरैः ११०
शतपुष्पा वचा मांसी दारु शैलेयकं वरा
पतङ्गं चन्दनं कुष्ठं तथान्यं रक्तचन्दनम् १११
करञ्जबीजांशुमती त्रिसुगन्धि पुनर्नवा
रास्ना तुरङ्गगन्धा च सैन्धवं च दुरालभा ११२
मिष्टासुरसा चैतत्तु प्रत्येकं तु पलद्वयम्
चूर्णं कृत्वा क्षिपेत्तत्र क्षिपेल्लाक्षारसाढकम् ११३
शतावरीरसं चैव अजाक्षीरं चतुर्गुणम्
दधि तत्राढकं गव्यं तिलतैलं प्रयोजयेत् ११४
सिद्धं तत्र प्रदृश्येत ततो मङ्गलवाचनम्
प्रतिह्येनं प्रतिष्ठाप्य नारायणमिदं स्मृतम् ११५
हन्ति वातविकारांश्च अपस्मारग्रहांस्तथा
शिरोरोगान् कर्णरोगान् कुष्ठान्यष्टादशान्यपि ११६
वन्ध्या च लभते पुत्रं षण्ढोऽपि पुरुषायते
कृशो युवायते मूर्खो विद्याराधनतत्परः ११७
नारायणमिदं तैलं कृष्णात्रेयेण भाषितम् ११८
अन्यानि घृततैलानि तानि चात्र प्रयोजयेत्
एतेन जायते सौख्यं वातरोगं नियच्छति ११९
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वातव्याधिचिकित्सा नाम विंशोऽध्यायः २०
एकविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
लक्षणं शृणु पुत्र त्वं समासेन वदाम्यहम्
गुर्वन्नाहारपुष्टेन मन्दाग्निना व्यवायिनः १
तर्पितैः कन्दशाकैस्तु आमो वायुसमीरितः
श्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः २
आमातिसारो वर्तेत सन्धौ शोफः प्रजायते
जरत्वञ्चैव गात्राणां बलासपतनं मुखे ३
पृष्ठमन्यात्रिके जाते वेदनार्त्तेऽपि सीदति
अङ्गं वैकल्यमायाति आमवाते भिषग्वर ४
तस्य नो स्नेहनं कार्यं पाचनञ्च विधीयते
आमं संक्षयते प्राज्ञश्चतुर्धा भेदलक्षणैः ५
विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव च
सर्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणम् ६
विष्टम्भी गुरुचाध्मानं बस्तिशूलं च जायते
तस्यापि पाचनं कार्यं स्नेहनं चैव कारयेत् ७
जठरं गर्जते यस्य गुल्मवत्परिपीड्यते
कटिदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ८
तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलम्
पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ९
पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम् १०
यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको बली
स्नेहामो विजलो यस्य स्नेहो वामः प्रकीर्त्तितः ११
तस्य नो स्नेहनं कार्यं चोपवासञ्च कारयेत्
पाचनं चैव कर्त्तव्यमामं चैवातिसारयेत् १२
यस्य शोफाननं जाड्यं तथा चैव घनोदरम्
अरुच्यामातिसारश्च सचासाध्यो विजानता १३
प्रत्याख्येया क्रिया कार्या जीवितस्यापि संशये
पाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत् १४
सपीतो विजलः श्यामाः पक्वामः पतते त्वधः
न बस्तिशूलो भवति आमवाते श्रमः क्लमः १५
आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम्
विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् १६
कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलवान्
गुल्मतो जठरं गर्जेत्तथातः शोफ एव च १७
शिरोगुरुत्वं भवति आमश्च पतते भृशम्
सर्वाङ्गगो भवेत्सोऽपि विज्ञेयोऽसौ विजानता १८
तस्य च पाचनं कुर्याद्विरेचनमनन्तरम्
विष्टम्भी गुल्मपाकी च अन्यः सर्वाङ्गगो मतः १९
विज्ञेयाश्चात्र ये साध्याश्चान्यौ द्वौ कष्टसाध्यकौ
स्नेही आमश्च कथितः कृच्छ्रसाध्यं द्वयं मतम् २०
पक्वामः सुखसाध्यस्तु ज्ञात्वा कर्म समाचरेत् २१
रास्ना त्रिकण्टमेरण्डं शतपुष्पा पुनर्नवा
पानं पाचनके शस्तं वामे वाते भिषग्वर २२
रास्ना श्योनाककाश्मीरं चिक्कणीकं च पुष्करम्
क्वाथं शृतं सुखोष्णं च पाचनं पाययेन्नरः
एतत्पाचनकं विद्धि प्रोक्तं चामे सवातिके २३
आमवाते कणायुक्तं दशमूलीजलं पिबेत्
गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितम् २४
धान्यनागरराजाम्लदेवदारुवचाभयाः
पाचनं चामवाते च श्रेष्ठमेतत्सुखावहम् २५
तथा कोलकचूर्णं वा पिबेदुष्णेन वारिणा
आमवातञ्च मन्दाग्निं शूलं गुल्मञ्च नाशयेत् २६
बलाक्वाथाढकं क्षिप्त्वा दधितक्राढकं क्षिपेत्
कुलत्थाढकयूषं तु सौवीरस्याढकं तथा २७
एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत्
शतपुष्पा देवदारु पिप्पली गजपिप्पली २८
त्रिसुगन्धि मुरामांसी कुष्ठं द्विपञ्चमूलकम्
चूर्णं विनिक्षिपेत्तत्र सिद्धं तदवतारयेत् २९
पाने चाभ्यन्तरे योज्यं निरूहे बस्तिकर्मणि
हन्ति वातामयं सर्वं श्रेष्ठं गुणगणप्रदम् ३०
पिबेदेरण्डजं तैलं गुडक्षीरेण संयुतम्
सर्वाङ्गे चामवाते हि श्रेष्ठमेतद्विरेचनम् ३१
नागरस्य भागमेकं द्वौ भागौ क्रिमिजस्य तु
त्रिवृद्भागत्रयं क्षिप्त्वा चूर्णं गुडसमं वटम् ३२
भक्षेत्तथोष्णतोयेन पुनश्चोष्णं पयः पिबेत्
एतेन जायते वामे विरेकः सुखकारकः ३३
विडङ्गशुण्ठी रास्ना च पथ्या त्रिकटुकान्विता
क्वाथमष्टावशेषं च कारयेद्भिषजांवरः ३४
दुग्धं क्वाथार्द्धकं तैलं तथैवैरण्डजं क्षिपेत्
कर्षमात्रं सुपातव्यो विरेकश्चानुपानतः ३५
गुडूची त्रिफला पथ्या गुडेन सह भक्षयेत्
विरेको ह्यामवातेषु श्रेष्ठमेतत्सुखावहम् ३६
अभया मस्तुना पिष्टा मधुशर्करयान्विता
आमातिसारं स्तम्भेत्तु गुडामलकमेव च ३७
वत्सकं जीरके द्वे च दध्ना पिष्टं तु दापयेत्
आमातिसारशमनं बस्तिशूलं नियच्छति ३८
गुग्गुलं च रसोनं च हिंगु नागरसंयुतम्
क्वाथं वामविनाशाय शमनं मारुतस्य च ३९
अजमोदोग्रगन्धा च कुष्ठं त्रिकटुकं शठी
फलत्रिकं च भार्ङ्गी च पुष्करं लवणाष्टकम् ४०
जीरके द्वे विडङ्गानि तुम्बुरू द्वे च दारु च
तथा बिल्वा शिला भेदो रोध्रं वत्सकवासकम् ४१
धातकीकृसुमं चैव शाल्मली त्वक् च दाडिमम्
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ४२
घृतेन संयुतं वातं नाशयत्याशु निश्चितम्
सहिंगु चारनालेन पीतं शूलार्त्तिनाशनम् ४३
तथा चोष्णजलेनापि वामवातं नियच्छति
गृध्रसीकटिशूले च दशमूल जलेन तु ४४
विबन्धैरण्डतैलेन शोफे वापि सुदारुणे
गुल्मगोमूत्रसंयुक्तं गुडेन पाण्डुरोगजित् ४५
प्रमेहे मधुसंयुक्तं यक्ष्मणि शर्करायुतम्
हन्ति सर्वामयान् घोरान् यथायोगेन योजितम् ४६
वर्जयेद्द्विदलं गौल्यं तैलं पिच्छलमेव च
शीतोदकेन न स्नानमामवाते भिषग्वर ४७
पाचिते चामदोषे च आमवातं न सेवयेत्
न सेवनीयं चोष्णं च द्रवं द्रावं विशेषतः ४८
ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत् ४९
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने आमवातचिकित्सा नामैकविंशोऽध्यायः २१
द्वाविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
रक्तवातसमुद्भूतान्दोषाञ्छृणु महामते
कट्यूरुजानुमध्ये तु जायते बहुवेदना १
गृध्रसीति विजानीयात्तेन नोक्तञ्च लक्षणम् २
जानुमध्ये भवेच्छोफो जायते तीव्रवेदना
वातरक्तसमुद्भूता विज्ञेया कोष्ठशीर्षिका ३
कण्डरा बाहुपृष्ठे च अंगुल्यभ्यन्तरेषु च
करक्रमक्षयकरी सा विज्ञेया विपश्चिता ४
पादहर्षो भवेच्चात्र पादयोर्लोमहर्षणम्
कफवातप्रकोपान्ते प्रस्वेदः करपादयोः ५
पित्तवातान्वितं चान्ते उष्णत्वं करपादयोः
अमीषां रुधिरस्रावं ततः स्वेदं च कारयेत् ६
अभ्यङ्गे वातहृत्तैलं पानं रास्नायाः पञ्चकम्
शतावरी बले द्वे च पिप्पली पुष्कराह्वयम् ७
चूर्णमेरण्डतैलेन गृध्रसीमपकर्षति
अजमोदादिकं चूर्णमामवाते प्रकीर्त्तितम् ८
तदत्र योजनीयं च गृध्रसीनां निवारणम्
एतैर्नजायते सौख्यं दहेल्लोहशलाकया ९
पादरोगेषु सर्वेषु गुल्फे द्वे चतुरङ्गुले
तिर्यग्दाहं प्रकुर्वीत दृष्ट्वा पादे शिरां दहेत् १०
वातरोगेषु प्रोक्तानि पथ्यानि चात्र योजयेत् ११
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गृध्रसीचिकित्सा नाम द्वाविंशोऽध्यायः २२
त्रयोऽविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
कटुक्षाराम्ललवणै रक्तं देहे प्रकुप्यति
रोधात्संधारणाद्वापि दिवास्वप्नादिसेवनैः १
समीरकोपः प्रत्यङ्गे युगपद्दृश्यते नृणाम्
वातरक्तमिति प्रोक्तं नृणां देहे प्रवर्त्तते २
जायते सुकुमाराणां तथा स्त्रीणां भिषग्वर
स्थूलानाञ्च विशेषेण कुप्यते वातशोणितम् ३
आलस्यं च तथा कण्डूर्मण्डलानाञ्च दर्शनम्
वैवर्ण्यं स्फुरणं शोफशोषौ दाहश्च मार्दवम् ४
वातरक्तं विजानीयाच्छ्यावतां दन्तरक्तयोः
एतद्विलक्षणं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया ५
विरेकं रक्तमोक्षं च पानलेपनलेहकान्
धान्यनागरसंयुक्तं क्षीरं चास्य प्रदापयेत् ६
पटोलीनिम्बपत्राणि क्वथित्वा मधुसयुतम्
पाचनं वातरक्तानां तथा च शमनानि च ७
काञ्जिकेन च सम्पिष्य पिचुमन्ददलानि च
लेपनं शस्यते तस्य वातरक्तप्रशान्तये ८
दुर्वा मूर्वा शठी शुण्ठी धान्यकं मधुयष्टिका
वर्त्तनं शीततोयेन वातरक्तप्रलेपनम् ९
धन्यकर्षञ्च जीरे द्वे गुडेन परिपाचितम्
भक्षणे वातरक्तानां दापयेद्दोषशान्तये १०
एतैर्यदि न सौख्यं स्यात्तदा रक्तावसेचनम्
ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत् ११
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तवातचिकित्सा नाम त्रयोविंशोऽध्याः २३
चतुर्विंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
गुडनिषेवणाच्चाम्ले विरुद्धाहारसूचिते
कुपितञ्चाम्ल पित्तञ्च कण्ठस्तेन विदह्यते १
दाहो वा हृदये तस्य शिरोऽर्तिश्चैव जायते
उद्गारानम्लकान् कण्ठे हिक्काम्लोऽपि प्रधावति २
शृणु तस्य प्रतीकारं वमनं कारयेद्द्रुतम्
अधोगते चाम्लपित्ते विरेकश्च प्रदीयते ३
पारिभद्रदलानीति आमलक्याः फलानि च
क्वाथपानं प्रयोक्तव्यमम्लपित्तं व्यपोहति ४
पटोलपाटलाक्वाथो धान्यनागरकान्वितः
जलेन हितकः प्रोक्तश्चाम्लपित्तनिवारणे ५
पटोलविश्वामृतवल्लितिक्तापत्राणि निम्बस्य च वत्सकानाम्
क्वाथो विसर्पकृतमम्लपित्तं विनाशयेन्मण्डलकानिदद्रून् ६
रात्रौ सम्पाचनं देयं धान्यनागरकल्कितम् ७
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अम्लपित्तचिकित्सा नाम चतुर्विंशोऽध्यायः २४
पञ्चविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
शोफो भवेच्च विकलेन्द्रियरोममार्गः क्षीणे बले वपुषि चाम्लकटूष्णसेवया
शैत्यात्तथा विशदपिच्छलसेवनेन रूक्षाभिघातपतनेन च धारणाद्वा १
आमाशये गतवातोऽपि नरस्य यस्य अन्ते प्रधावति ततोऽपि च दोष एषः
करोति पाणिचरणे च पृथक् प्रसूतो द्वन्द्वेन वा भवति शोफविकारचारः २
नरस्य चान्तःप्रभवाश्च शोफाः साध्या भवेयुर्विनता मुखेषु
असाध्याये सर्वशरीरगाश्च पादे स्त्रियो वा वदने नरस्य ३
क्षये वाते वापि च गुल्मदेशे स्याद्राजयक्ष्मणि तथोदरेषु
रक्तेन जातोऽप्ययमेव शोफो गात्रेभवेच्छोफविकारचारः ४
अन्याश्चोर्ध्वगशोफाश्च श्लेष्मपित्तसमुद्भवाः
कष्टसाध्याश्च विज्ञेया बहूपद्रवसंयुताः ५
श्लेष्मणि शिरसि प्राप्ते ऊर्ध्वशोफः प्रजायते
मध्यः पक्वाशयस्थेऽपि मलमप्यागते त्वधः ६
रसे सर्वानुगाः शोफाः सर्वदेहानुगा रसाः ७
सर्वाङ्गशोफा अथ मध्यशोफाः सर्वाङ्गशोफाः परिवर्जनीयाः
वृद्धे च बाले क्षतजाः क्षयोत्थाश्छर्द्यातिसारश्वसनेन युक्ताः ८
भ्रमज्वरक्षीणशरीरजाता शोफाद्भवा या च भवेन्नरस्य
साध्या न वैद्यस्य चानन्यदोषा सा नैव साध्या भिषजांवरिष्ठ ९
तोदश्च रूक्षं श्वसनञ्च वातात्पित्ताच्छ्रमः शोफविदाहकश्च
शीता घना श्लैष्मणि बाधकण्डूः स्याद्द्वन्द्वजा द्वन्द्वजलक्षणेन १०
अतो वदामीत्युपचारमस्यां संस्वेदनं पाचनशोधनं वा
विरेचनं रक्तविमोक्षणं च कषायशोफेषु विधिः प्रदिष्टः ११
न चास्य स्नेहनं कार्यं नैव कार्यं विरूक्षणम् १२
पुनर्नवा मगधजा च कटुत्रयं चनिम्बाभया च कटुका च पटोलदार्वी
क्वाथः सुखोष्णक्वथितस्तु विपाचनेन शोफो जहाति जठरं च नरस्य शीघ्रम् १३
पुनर्नवा गुडूची च गुग्गुलं समकल्कितम्
शोफदोषांश्च गुल्मञ्च हन्त्युदरं कफानयम् १४
गजमहिष्या वृषभस्य मूत्रं तथैव लाजं सकणं प्रयोज्यम्
पानेन शोफो विजहाति शीघ्रमेरण्डतैलेन युतं पयो वा १५
संस्वेदनक्रिया तत्र कार्या चैव पुनः पुनः
एरण्डपत्रकैर्वापि अथवा तिन्तिडीच्छदैः १६
लोमशा कटुतुम्बी च काञ्जिकेन जलेन वा
निष्क्वाथ्य चापि संस्वेदस्तथैवोष्णेन तेन च १७
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने शोफचिकित्सा नाम पञ्चविंशोऽध्यायः २५
षड्विंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
श्वयथूत्थैरुपचारैस्तैश्च संकुप्यतेऽनिलः
मन्दाग्निना विषमेण गुल्मं जठरे जायते १
उदरं गर्जते यस्य विषमाग्निश्च दृश्यते
तोदो वपुषि शूलं च वातगुल्मं विनिर्दिशेत् २
शोषोऽरतिः सपीतत्वं मन्दज्वरनिपीडिनम्
तमोभ्रमपिपासार्त्तिर्गुल्मं तत्पित्तसम्भवम् ३
शोषो जाड्यञ्च हृल्लासस्तन्द्रालस्यं सशीतकम्
मन्दाग्निर्विड्विबन्धश्च गुल्मं तच्छ्लेष्मसम्भवम् ४
मोहो विभ्रमता जाड्यमरतिः क्षुत्पिपासकम्
आलस्यं निद्रतावेश्यं गुल्मं तत्कफपैत्तिकम् ५
निद्रालस्यञ्च दाहश्च शोफाच्छूलं च सज्वरम्
वैवर्ण्यमरतिर्जाड्यं विड्बन्धो विकलाङ्गता ६
तथातिसारो मूर्च्छा च तृढृल्लासश्च वेपथुः
श्वासोऽरुचिरजीर्णत्वं गुल्मं तत्सान्निपातिकम् ७
साध्यं केवलदोषोत्थं द्वन्द्व कष्टेन सिध्यति
असाध्यं सन्निपातोत्थं वक्ष्यामस्तत्प्रतिक्रियाम् ८
यकृद्ग्रहणीचिकित्सैव कथितं चोपवारणम्
तद्वत्प्लीहा समाख्यातो न चात्र कथितः पुनः ९
चिकित्सोदरगुल्मस्य वक्ष्यते शृणु साम्प्रतम्
स्नेहनं रूक्षणञ्चैव पाचनं शोधनानि च १०
संशमनं विरेकश्च बस्तिस्नेहनिरूक्षणम्
क्षारपानञ्च चूर्णानि गुल्मोपचरणक्रिया ११
शुण्ठी दारु सुरसा च मूर्वा पञ्चमूलं लघुः
क्वाथोऽस्याष्टावशेषः स्यात्तन्समं क्षीरमेव च १२
दधि तत्सममाज्यं तु पाचयेत्तत्समाग्निना
घृतं यावत्प्रदृश्येत सिद्धमुच्चार्यते ततः १३
तत्कृतं पानकेऽभ्यङ्गे भाजने च प्रदापयेत्
स्नेहः सप्तविधो यावत्तस्माच्च रूक्षणं हितम् १४
दिनत्रयञ्च कर्त्तव्यं कथयाम्यत्र कोविद
शुण्ठी सौवर्चलं जीरे द्वे वा हिंगु समन्वितम् १५
काञ्जिकं पानमेतेषां रूक्षणं गुल्मशान्तये
गुल्मचिकित्सते क्षारपाकोऽत्र प्रतियुज्यते १६
क्षारं पलाशार्जुनसूरणस्य तथैव क्षारं सहयावशूकम्
सौवर्चलं सिन्धुभवोद्भिदञ्च सामुद्रजं वापि विमिश्रयेच्च १७
तोयं परिस्राव्य विधानतोऽपि युक्तं तथैतानि सदौषधानि
पथ्याग्निशुण्ठीरजनीसुराह्वं कुष्ठं विशाला च जवानिका च १८
तथाजमोदा सह जीरके द्वे षड्ग्रन्थिका हिंगुयुतं च चूर्णम्
क्षारोदकापानविमिश्रिपानं निहन्ति सर्वाण्यपि कोष्ठजानि १९
गुल्मानि सर्वाणि विषूचिकानां मन्दाग्निशूलानि भगन्दराणाम्
प्लीहोदरानाहं च विड्विबन्धं विनाशयेद्रोगत्रयं नराणाम् २०
पथ्या समङ्गा कलसी वृषञ्च महौषधं वातिविषा सुराह्वम्
जले च निष्क्वाथ्य त्विदं हि पानं गुल्मामयानां प्रतिपाचनञ्च २१
वचायवानीत्रिकटुदशमूलीजलं स्मृतम्
क्वाथश्चोष्णो हितः पाने धान्यनागरयथवा २२
वातगुल्मेषु सर्वेषु ज्वरेषु विषमेषु च
रास्नाद्यं पञ्चकं वापि वातगुल्मप्रपाचनम् २३
शठी सौवर्चलं शुण्ठी पाचनं वाथ गुल्मिते २४
विदुला द्राक्षा कटुका निम्बपत्राणि चैव तु
सगुडं पाचनं देयं पैत्तिके गुल्मरोगिणि २५
धात्रीकल्कं सितोपेतं पाचनं पित्तगुल्मिते
यवानी चोग्रगन्धा च तथा च कटुकत्रयम्
पाचनं श्लैष्मिके गुल्मे पीतं चोष्णं निशासु च २६
नागरा क्रिमिजित्पथ्या त्रिवृतात्रिगुणायुता
चूर्णं गुडान्वितं देयं वातगुल्मविरेचनम् २७
दन्ती च भागमेकं च द्वौ भागौ च हरीतकी
त्रिवृताभागत्रयं स्याच्छुण्ठ्याश्चत्वार एव च २८
प्रक्षिप्य सर्वमेकत्र सर्वतुल्यगुडेन तु
वटकं भक्षयेत्प्रातस्तस्योपरि जलं पिबेत् २९
क्वथितं च विरेकाय वातगुल्मोपशान्तये ३०
पिबेदेरण्डतैलं च शर्कराक्षीरसंयुतम्
पित्तगुल्मविरेकाय श्रेष्ठेमेतत्सुखावहम् ३१
आरग्वधप्रवालानि तथैवारग्वधानि च
विभाव्यैरण्डतैलेनैरण्डपत्रैस्तु वेष्टयेत् ३२
कर्दमेन प्रलिप्याथ अङ्गारेषु च स्थापयेत्
सुस्विन्नभर्जिकां ताञ्च भक्षयेच्छर्करान्विताम् ३३
विरेकः पैत्तिके गुल्मे हितं शुद्धविरेचनम् ३४
त्रिफलासुरसाशुण्ठीचूर्णं कृत्वा विभावयेत्
स्नुहीक्षीरेण वारैकं गुडेन सह मिश्रितम् ३५
विरेकः श्लेष्मके गुल्मे सर्वोदरविनाशनः ३६
शुण्ठी सौवर्चलं पथ्या विडङ्गञ्च पुनर्नवा
चूर्णेऽपामार्गबीजानां स्नुहीक्षीरेण भावितम् ३७
गुडेन संयुतं खादेत्पश्चादुष्णं जलं पिबेत्
विरेकः सर्वगुल्मेषु प्रशस्तो हितकारकः ३८
शुक्तिक्षारनिशाविशालकदली स्यात्सूरणं कोकिला
पालाशं दहनार्जुनं शठिजयापामार्गकूष्माण्डकम् ।
दग्ध्वा क्षारविपाचितं परिस्नुतं हिंगु त्रिकट्वान्वितं गुल्मानाहविबन्धशूलहरणं सर्वोदराणां हितम् ३९
अजमोदा शठी दन्ती विडङ्गं कुष्ठतुम्बुरू
त्रिफला चित्रकं चैव शुण्ठी कर्कटशृङ्गिका ४०
त्रिवृता च सुराह्वा च पुष्करं वृद्धदारुकम्
तथाम्लवेतसं चैव तिन्तिडीकञ्च चिञ्चिनी ४१
समं तु मातुलुङ्गेन विभाव्यमेकतः कृतम्
त्रिभागहिंगुसंयुक्तं घृतेन चूर्णितं हितम्
निहन्ति वातगुल्मञ्च सशूलमुदरं तथा ४२
हिंगुफलत्रिकजीरकयुग्मं चित्रकभार्ङ्गी कुष्ठविडङ्गम्
तुम्बुरुपुष्करविश्वसुराह्वं क्षारयुतं लवणानि च पञ्च ४३
वातिकगुल्मविनाशनहेतोः शूलरुजश्च निहन्ति नराणाम् ४४
हिंगुसौवर्चलाजाजी विश्वा कुष्ठं विडङ्गकम्
आरनालेन पीतं च हन्ति गुल्मं सवातिकम् ४५
जीरे द्वे त्रिकटु शठी तुम्बुरु चित्रकं मधु
लेहः पित्तात्मके गुल्मे हितः शोफनिवारणः ४६
यष्टिकं निम्बपत्राणि तथा धात्रीफलं सिता
चूर्णं मध्वावलीढं च पित्तगुल्मनिवारणम् ४७
त्रिकटुत्रिफलाचित्रवटकफलसंयुतम्
चूर्णं मद्येन वा पीतं फलक्वाथेन वा हितम् ४८
श्लेष्मगुल्मविनाशाय हितं चैतत्सुखावहम् ४९
रोध्रं च कमलं विश्वा कुष्ठं चित्रकमेव च
नागरहिंगुसंयुक्तं चूर्णं मूत्रेण संयुतम् ५०
श्लेष्मगुल्मविनाशाय शूलोदरविनाशनम्
उग्रगन्धा च मरिचं क्षारचूर्णसमन्वितम् ५१
पिबेन्मूत्रेण संयुक्तं श्लेष्मगुल्मविनाशनम् ५२
शुण्ठी सौवर्चलं भार्ङ्गी वत्सकं यावशूककम्
जीरे द्वे चाटरूषं च यवानी हिंगु सैन्धवम् ५३
आरग्वधेन संयुक्तं चूर्णं सघृतमेव च
वातश्लेष्मोद्भवे गुल्मे सुखमाशु प्रपद्यते ५४
उग्रगन्धा फलत्रिकं देवदारु पुनर्नवा
त्रिवृत्सौवर्चलोपेतं क्षारोदकसमन्वितम्
पीतं वातकफे गुल्मे सुखकारि परं मतम् ५५
ग्रहणीगुल्मक्रिया या सा चात्र प्रभवेद्यदि
शोफोदरेषु सर्वेषु कार्यञ्चात्र विरेचनम् ५६
शोफातिसारसंयुक्तो हन्तिगुल्मोदरो नरम्
तस्य क्षारोदकपानं बृहद्धिंग्वादिचूर्णकम् ५७
अजमोदादिकं वापि शोफातिसारशान्तये
वमिश्चैवातिसारश्च गुल्मरोगेषु यद्यपि ५८
तेन साध्यं विजानीयात्प्रत्याख्येया क्रिया हिता
गुडदाडिमपथ्यां च मधुना सहितां पिबेत् ५९
वमिञ्च वातिसारं च वारं वारं प्रयोजयेत्
सर्वलक्षणसंयुक्तं गुल्मं तत्सान्निपातिकम् ६०
तोदोऽरतिर्विवर्णत्वं मूर्च्छातीसारसंयुतम्
वमिः क्लेदश्च तन्द्रा च तदसाध्यं त्रिदोषजम् ६१
शृणु पुत्र महाप्राज्ञ एकाग्रमनसाधुना
शोफोद्धारक्रियां नृणां वक्ष्यते च विजानता ६२
त्रिवृत् तथाचेक्षृगुडेन युक्ता अनन्तरं कोष्णजलेन पीता
तस्मान्निहन्त्योदरकं सशोफं पित्तात्मकं वा विजहाति पुंसाम् ६३
हरीतकी च त्रिवृता च शुण्ठी गुडेन युक्ता त्वथ हन्ति शोफम्
द्विपञ्चमूलं क्वथितं सुखोष्णमेरण्डतैलेन जहाति शोफम् ६४
गोमूत्रयुक्तं वरुणस्य तैलं पाने हितं नाशयते च शोफम् ६५
ग्राम्यानूपं पिशितलवणञ्च शुष्कशाकं नवान्नं गौडं पिष्टान्नं सदधिकृशरञ्च
विजलं मद्यमन्नम्
धान्यं वल्लूरं शोफकरणमथ गुर्वसात्म्यं विदाहिस्वप्नं वापि रात्रौ श्वयथुगदवान् वर्जयेन्मैथुनञ्च ६६
लेपोऽरुष्करस्यशोफं हन्ति तिलदुग्धमधुकनवनीतैः
तत्तरुतलमृद्भिर्वा सकदलैर्वापिसविरणैः ६७
शोषे विषनिमित्ते तु विषोक्ता शमनक्रिया
लङ्घनं दीपनं स्निग्धमुष्ण वातानुलालनम् ६८
बृंहणं तु भवेदन्नं तद्विषं सर्वगुल्मिनाम्
वल्लूरं मूलकं मत्स्याञ्छुष्कशाकादि वैदलम् ६९
न खादेद्वालुकं गुल्मी मधुराणि समानि च ७०
सरक्तगुल्मे न तु पाचनं तु न हिंगुपानं कटिचालनं च
चैव संस्वेदनमर्दनञ्च न चक्रमं नोत्प्लुवनं हितं च ७१
रोध्रार्जुनं खदिरमागधिकासमङ्गक्वाथोऽम्लवेतसमधुघृतसम्प्रयुक्तः
गुल्मं सरक्तमपि चाथ निहन्ति चाशु हृत्क्लेदनं च विनिहन्ति च क्रुद्धरक्तम् ७२
क्षीरपानं प्रदातव्यं घृतसौवर्चलान्वितम्
रक्तगुल्मविनाशाय यकृद्विक्षतजेऽपिवा ७३
न च हिंगुयुतं पथ्यं न चोष्णं न विदाहि च
रक्तजे क्षतजे गुल्मे मांसानि जाङ्गलानि च ७४
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गुल्मचिकित्सा नाम षड्विंशोऽध्यायः २६
सप्तविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
विषमासनोपवेशात्पीततोयादथापिवा
श्रमाध्वश्वासनिष्क्रान्ते अतिव्यायामितेऽपि या
पीतं तूदरमेवं च तस्माज्जातं जलोदरम् १
उदरं सजलं यस्य सघोषमतिवर्द्धितः श्वयथुः पादयोः शोफो जलोदरस्य
लक्षणम् २
विरेकं वमनं कुर्यात्पाचनानि च कारयेत्
क्षारयोगश्च वटकस्तेन तदुपशाम्यति ३
तस्मान्नाभेर्वलीभागे वर्जित्वांगुलमात्रकम्
जलनाडी चानुमान्य कुशमात्रेण वेष्टयेत् ४
एरण्डजलनालं च तत्र सञ्चारयेद्बुधः
अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् ५
यदा न धरते तच्च तदा दाहः प्रशस्यते
कणकल्कं परिस्राव्य घृतं देयं चतुर्गुणम् ६
शुण्ठीविषासमं पाच्य पानमालेपनं हितम्
शस्त्रकर्म भिषक्छ्रेष्ठो विज्ञातेनैव कारयेत् ७
दुष्करं शस्त्रकर्मैव न कुर्याद्यत्र तत्र तु
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ८
तस्मादवश्यं कर्त्तव्यमीश्वरं साक्षिकारिणा ९
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने जलोदरचिकित्सा नाम सप्तविंशोऽध्यायः २७
अष्टाविंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
विंशत्येवं प्रमेहास्तु नराणामिह लक्षणम् १
श्रमाद्व्यवायाच्च तथैव घर्मविरुद्धतीक्ष्णोष्णविभोजनेन
मद्येन वा क्षीरकटुप्रसेवनान्मेहप्रसूतिः कथिता मुनीन्द्रैः २
जलप्रमेहो रुधिरप्रमेहः पूयप्रमेहो लवणप्रमेहः
तक्रप्रमेहः खटिकाप्रमेहः शुक्रप्रमेहः कथितःपुरस्तात् ३
स्याच्छर्करामेहोवसाप्रमेहो रसप्रमेहोऽन्यघृतप्रमेहः
पित्तप्रमेही कफमेहिनश्च मधुप्रमेहीति विभावयेच्च ४
यथा च नामानि तथैव लक्षणं बलक्षयं वापि नरस्य देहे
कुर्वन्ति शीघ्रं भिषजां वरिष्ठः कुर्यात्क्रियाञ्च शमनाय हेतुम् ५
धवार्जुनं चन्दनशालछल्लीक्वाथो हितः स्याच्च जलप्रमेहे
रक्तप्रमेहे शिशिरं पयश्च द्राक्षान्वितं यष्टिकचन्दनेन ६
स्त्रीसेवनं चाल्पतरञ्च पूयमेहे हितः क्वाथो धवार्जुनस्य
दूर्वाकसेरुकदलीनलिन्या लवणस्य मेहे कषाय उक्तः ७
कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्लकीनाम्
सर्वे तथैते मधुना कषायाः कफप्रमेहेषु निषेवनीयाः ८
रोध्रार्जुनः क्षीरमरिष्टपत्रात्तत्रैव धात्रोफलचन्दनानि
तक्र प्रमेहे खटिकाप्रमेहे देयो हितः क्वाथगुडावटश्च ९
दूर्वा च मूर्वा कुशकाशमूलं दन्ती समङ्गा सह शाल्मली च
शुक्रप्रमेहे क्वथितं जलेन पानं हितं वा रुधिरप्रमेहे १०
फलत्रिकारग्वधमूलमूर्वाशोभाञ्जनारिष्टदलानि मोचा
द्राक्षायुतो वा क्वथितः कषायः सर्पिःप्रमेहस्य निवारणाय ११
कुष्ठं तथा पर्पटकं च तिक्ता सिता प्रगाढं क्वथितः कषायः
मूर्वारिकापाटलिकानियुक्तो दुरालभाकिंशुकटुण्टुकानाम्
रसप्रमेहे च सदा हितः स्यात् १२
नीलोत्पलार्जुन कलिङ्गधवाम्लिकानां धात्रीफलानि पिचुमन्ददलानि तोये
निष्क्वाथ्य शर्करयुते मनुजस्य पाने पित्तप्रमेहशमनाय वदन्ति धीराः १३
विडङ्गसर्जार्जुन कफलानां कदम्बरोध्राशनवृक्षकाणाम्
जलेन क्वाथश्च हितो नराणां कफप्रमेहं विनिहन्ति तेषाम् १४
मुस्ता फलत्रिकनिशा सुरदारु मूर्वा इन्द्रा च रोध्रसलिलेन कृतः कषायः
पाने हितः सकलमेहभवे गदे चमूत्रग्रहेषु सकलेषु वियोजनीयः १५
यच्चाभयालोहरजोनिकुम्भचूर्णं हितं शर्करया समेतम्
फलत्रिकाया मधुना च लेहं सर्वप्रमेहेषु हितं वदन्ति १६
मधुमेहे प्रयोक्तव्यं घृतपानं सुधीमता
क्षीरं वा शर्करायुक्तं क्वाथो वा गुटिकानि च १७
न्यग्रोधोदुम्बराश्वत्थ प्लक्षारग्वधटुण्टुकम्
पियालं कुकुभं जम्बूकपित्थाम्रातकानि च १८
मधुकं यष्टिमधुकं रोध्रं वै पारिभद्रकम्
पटोलं चारिणी चैव दन्ती मेषविषाणिका १९
चित्रकं च करञ्जञ्च शक्राह्वं त्रिफलायुतम्
भल्लातकानाञ्च समं त्रिगन्धं कटुकत्रयम् २०
सूक्ष्मचूर्णं प्रदातव्यं न्यग्रोधाद्यं गुणाधिकम्
मधुना संयुतं लेही हन्याच्च मधुमेहकम् २१
क्वाथो वा तैलपाको वा घृतपाकोऽथवापि च
पानाभ्यङ्गे प्रशस्तः स्याद्धन्ति वै मूत्रजं गदम् २२
न्यग्रोधाद्यमिदं चूर्णं पेयं वा क्षीरसंयुतम्
मधुमेहेतु नान्योऽस्ति यथालाभेन योजितः २३
माक्षीकं धातुमाक्षीकं शिलोद्भेदं शिलाजतु
चन्दनं रक्तधातुञ्च तथा कपूरकं कणाः २४
वंशरोचनकं चैव क्षीरेण सहितं पिबेत्
मधुप्रमेहं हरति मूत्ररोगाद्विमुच्यते २५
प्रमेहपिटिकानाञ्च वक्ष्यामोऽथ चिकित्सितम्
धवार्जुनकदम्बानां बदरी खदिरशिंशपे
पारिभद्रकमेतेषां मेहनस्य प्रधावनम् २६
अर्जुनस्य कदम्बस्य टिण्टुकी वान्तरत्वचा
पाके पूयविशोधार्थं मेहनस्य प्रशस्यते २७
भृङ्गराजरसं गृह्य तथाच सुरसादलम्
निष्पावकपटोलानां पत्राणि काञ्जिकेन तु २८
पिष्ट्वा वातपिटिकानां लेपनं मेहनस्य च २९
यष्टीमधु तथा कुष्ठं चन्दनं रक्तचन्दनम्
उशीरं कत्तृणं चैव रक्तधातुमृणालकम् ३०
क्षीरमण्डकसंयुक्तं यथालाभं भिषग्वर
लेपनं पित्तरक्तानां मेहदाहः प्रशाम्यति ३१
धावनं शीतपयसा नवनीतेन मर्दनम्
कणं कदम्बार्जुनपिण्याकपत्राणि दाडिमस्य च ३२
खदिरस्य दलानां तु तथा चामलकीदलान्
उष्णेन वारिणा पिष्ट्वा सोमपाके च मेहने ३३
त्रिफलायाश्च वा चूर्णं शुष्कपूयनिवारणम्
धावनं काञ्जिकेनाथ तक्रेणाथ तुषाम्बुना ३४
अतिशीतेन तोयेन मेहपाके च धावनम्
रक्तशालिश्च षाष्टीकश्चाढकी वा कुलत्थकः ३५
घृतं च मधुरं किञ्चिद्भोजनार्थे विधीयते
क्षाराम्लकटुकं वापि दिवा स्वप्नं विशेषतः ३६
स्त्रीदर्शनं व्यवायञ्च तथाचात्यशनं तथा
चलनं धावनं चेति तथा मूत्रविरोधनम् ३७
वस्त्रवातं रक्तवस्त्रं वर्जयेद्भिषजां वरः
एकान्ते गृहमध्ये च गानस्त्रीबालकं रमः ३८
न चाभरणताम्बूलं कोपशोषं जहाति च
दूरे चैतानि वर्जेत्तु यदीच्छेत्सुखसम्पदः ३९
हरिद्राद्वितयं शुण्ठी विडङ्गानि हरीतकी
कफप्रमेहे विहितः क्वाथोऽयं मधुना सह ४०
नीलोत्पलमुशीरञ्च पथ्यामलकमुस्तकम्
पिबेत्पीतप्रमेहार्त्तः क्वाथं मधुविमिश्रितम् ४१
कमलञ्च तथा रोध्रमुशीरमर्जुनान्वितम्
पित्तप्रमेहेविहितः क्वाथोऽयं मधुना सह ४२
आमलकस्य स्वरसं मधुना च विमिश्रितम्
हरीतक्याश्च चूर्णं वा सर्वमेहनिवारणम् ४३
खदिरं शर्करा दारु हरिद्रा मुस्तमेव च
चूर्णितं तु पिबेत् सर्वप्रमेहगदशान्तये ४४
कुष्ठं हरिद्राद्वयदेवदारु पाठा गुडूची त्रिफला च मुस्तम्
एषां हि चूर्णं मधुना विमिश्रं मूत्रप्रमेहं हरते व्यथाञ्च ४५
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने प्रमेहचिकित्सा नाम अष्टाविंशोऽध्यायः २८
एकोनत्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
एलाशिलाजतुयुतं मागधिकापाषाणभेदसञ्चूर्णम्
तण्डुलजलेन पीतं प्रमेहरोगं हरत्येव १
एरण्डमूलपाषाणभेदगोक्षुरकास्तथा
एलाटरूषपिप्पल्यो यष्टीमधुसमन्विताः २
एषां क्वाथं पिबेज्जन्तुः शिलादित्येन योजितम्
अश्मरीशर्करायाञ्च शर्करायाः पलद्वयम् ३
सुशीतलं जलं कर्षमात्रं स्यान्मूत्रकृच्छ्रहृत्
दध्यम्बुना च सम्मिश्रमयश्चूर्णं सुखप्रदम् ४
मूत्रकृच्छ्रेयवक्षार चूर्णं हिंगुप्रयोजितम्
कूष्माण्डं च समादाय शर्करासहितं पिबेत् ५
यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः
पिबेच्छतावरीमूलं शीतपानीयचूर्णितम् ६
अतः शर्करारोगार्त्ते शर्करां सम्प्रयोजयेत्
आरग्वधफलं मूलं दुरालभा धान्यकशतावर्यः ७
पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात् ८
पाषाणभेदस्त्रिवृता च पथ्या दुरालभा गोक्षुरपुष्करं वा
एला सकुरुण्टककर्कटीजं बीजं कषायः सुनिरुद्धमूत्रे ९
कुलत्थयुक्तः पटोलीमूलकषायः प्रतिपाकः
पुष्करमूलमिश्रः प्रमेहपाषाणरोगघ्नः स्यात् १०
यो मातुलुङ्गिकामूलं पिबेत् पर्युषिताम्बुना
तस्यान्तः शर्करोद्भूतं दुःखं सद्यो विलीयते ११
गवां तक्रेण सम्पिष्टं क्षिप्रनामकमौषधम्
पिबेच्चिरेण तक्रञ्च शर्करादोषदूषितः १२
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्रकृच्छ्रचिकित्सा नामैकोनत्रिंशोऽध्यायः २९
त्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
पिबेत्कर्कटिक्काबीजं त्रिफलासैन्धवान्वितम्
उष्णाम्बुचूर्णितं पीतं मूत्ररोधं शमं नयेत् १
यस्तिलकाण्डक्षारं दधिमधुसंमिश्रितं पिबेत्
स नरश्च मूत्ररोधं हत्वा सद्यः सुखमाप्नोति २
अजाक्षीरेण संमिश्रं जातीमूलं प्रपेषितम्
पिबेत्सदाहमूत्रोष्णवेदनाशमनं यतः ३
तैलेन पद्मिनीकन्दं पक्वगोमूत्रमिश्रितम्
पिबेन्मूत्रनिरोधे तु सतीव्रवेदनान्विते ४
पित्तप्रकोपनैर्द्रव्यैः कट्वम्लवर्णैस्तथा
गौरास्त्रीसेवनेनापि रक्तं वापि प्रवर्त्तते ५
मद्यपानेन चोष्णेन श्रमव्यायामपीडितैः
पित्तं प्रकोपयेच्छीघ्रं करोति मूत्रकृच्छ्रकम् ६
तेन मूत्रयते कृच्छ्रं चोष्णधारा प्रवर्त्तते
मूत्रस्रोतश्च हरति रक्तं चापि प्रवर्त्तते
तस्य वक्ष्यामि भैषज्यं येन संपद्यते सुखम् ७
यष्टीमधुकमृद्वीकाचन्दनं रक्तचन्दनम्
रक्ततण्डुलतोयेन मूत्रकृच्छ्ररुजापहम् ८
वटप्ररोहमालासु द्राक्षाशर्करयान्वितः
लेहोऽयं मूत्रकृच्छ्रस्य नाशनो भिषजां वर ९
देहोपशमनः प्रोक्तः शीतगाहनकोपतः
मूत्रकृच्छ्रे तु तत् प्रोक्तं भोजनं मधुरं हितम् १०
उत्तानस्य रतौ भङ्गाद्दाहव्यायामजातके
मूत्ररोघे वचा वर्या दद्यात्तत्रा निरोधकान् ११
अव्यायामे शुभं भोज्ये शीतावगाहिता नरे
एतैस्तु कुपितो वायुर्मूत्रद्वारं प्ररुन्धति १२
श्लेष्मसहितः पापिष्ठ उक्तः कष्टतमो गदः
शृणु तस्य प्रतीकारं कषायं वानुवासनम् १३
बस्तिनिरूहक्वाथं च मूत्ररोघे हितो विधिः
सर्वसंस्वेदनं चैव स्थानं वक्रमणाविव १४
तुरङ्गशकटारोहधावनं च हितं मतम्
फलत्रिकं समगुडं क्वाथः क्षीररसेन तु १५
पानं मूत्रनिरोधेषु पित्ताद्वा लवणाम्लिकम्
पाटला टुण्टुका चैव निम्बगोक्षुरकं तथा १६
एलात्वक् च तथा पत्रं क्वाथस्त्रिफलयान्वितः
गुडेन संयुतं पीतं हन्ति मूत्रनिरोधकम् १७
दाडिमाम्लयुतं चैव हितं मूत्ररुजां नृणाम्
त्रिफलेक्षु सिताक्वाथगुडेन सह सैन्धवम् १८
मूत्ररोधं वारयति पथ्या वा गुड संयुता
अथवा तोदनन्नारीमैथुनं च विधेयकम् १९
तेन सौख्यं भवेच्छीघ्रं स्त्रीणाञ्च योनिमर्दनम् २०
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्ररोधचिकित्सा नाम त्रिंशोऽध्यायः ३०
एकत्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
पितृमातृकदोषेण अथवा मूत्ररोधनात्
अपथ्यसेवनाचारैर्जायते चाश्मरीगदः १
मूत्राविष्टौ च पितरौ सुरतं कुरुतो यदि
मूत्रेण सहितं युक्तं च्यवते गर्भसम्भवम् २
पञ्च यस्य सदेहस्य स च तत्र प्रजायते
मूत्रं मूत्रस्य संस्थाने करोति बन्धनं त्रिषु ३
सोऽप्यसाध्यो मूत्रगदश्चाल्पाद्भवति मानुषे
तारुण्ये चापि साध्यश्च जायते मूत्रशर्करा ४
विपरीतेन चोत्ताने स्त्रिया च पुरुषेण वा
शुक्रञ्च प्रबलेत्तस्य स्त्री शुक्रं विचिनोति च ५
पुनश्च मेहने वासः वातेन शोणितं च तत्
द्वयं दत्तं प्रपद्येत मूत्रद्वारं प्ररुध्यति ६
तेन मूत्रप्ररोधश्च जायते तीव्रवेदना
अण्डसन्धिस्थिता याति शर्करा शस्त्र साध्यका ७
अतो वक्ष्यामि भैषज्यं शृणु पुत्र महामते
शुण्ठी गोक्षुरकं चैव वरुणस्य त्वचस्तथा ८
क्वाथो गुडयवक्षारयुक्तश्चाश्मरि नाशनः
कुशकाशनलं वेणु अग्निमन्थाक्षनृत्तकम् ९
श्वदंष्ट्रा मोरटा वापि तथा पाषाणभेदकम्
पलाशस्त्रिफलाक्वाथो गुडेन परिमिश्रितः १०
पाने मूत्राश्मरीं हन्ति शूलबस्तौ व्यपोहति ११
एलाकणावृषत्रिकण्टकरेणुकाचपाषाणभेदमधुकं च फलत्रिकञ्च
एरण्डतैलकशिलाजतुशर्कराद्यं क्वाथोऽमरीञ्च हनते तथा सोष्णपानम् १२
गोक्षुरकस्य बीजानां धातुमाक्षिकसंयुतम्
चूर्णं महिषीदुग्धेन पानं चाश्मरीपातनम् १३
शस्त्रविधिरुत्तरीये सूत्रस्थाने प्रोक्तं घृताध्याये च स्मृतम् १४
पुराणषष्टिका शालिरक्ततण्डुलकास्तथा
श्यामाकः कोद्रवो दालो मर्कटी तृणधान्यकम् १५
यवगोधूमकुलत्थास्तथाचैवाढकी भिषक्
वातहराः प्रयोक्तव्या भोजने वातरोगिणाम् १६
क्रौञ्चाद्यानि च मांसानि पथ्यान्यश्मरीनाशने १७
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अश्मरीचिकित्सानामैकत्रिंशोऽध्यायः ३१
द्वात्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अत ऊर्ध्वमण्डवृद्धिर्दृश्यते भिषजां वर
बाल्ये मातुः पितुर्दोषाज्जयते वृषणानुगा १
दुष्टदाराविहाराच्च वातो बस्तिगतो भृशम्
अण्डस्थानं च सम्प्राप्य तस्य वृद्धिं करोति वै २
एकैकसन्निपातश्च चतुर्थः सन्निपातिकः
पित्तदोषात्सन्निपातात्तथाऽसाध्या इमे स्मृताः ३
दोषान् वक्ष्याम्यौषधानि शृणु तानि भिषग्वर
स्वेदनान्यभ्यञ्जनानि क्वाथ्य पानं विधीयते ४
शिरःस्रावो भिषक्श्रेष्ठ तेषां वक्ष्यामि लक्षणम्
कम्पश्च मृदुवातेन पित्तेन दाहकज्वरः ५
कफाद्घनश्च शोषश्च कठिनोवृषणो भवेत्
रसालशल्लकीक्वाथः तर्कारी कटुतुम्बिका ६
क्वाथसंसेवनार्था च मुष्कवृद्धिः सवातिके
शीततोयावगाहो वा शीतसंसेवनं तथा
शीतशीतैश्चलेपश्च पित्तमुष्के प्रशस्यते ७
वचालवणतोयेन कदम्बार्जुनसर्षपैः
कषायसेवनैः प्रोक्तं कफमुष्केऽहितापहम् ८
अरुणवरुणकोलं च शालिपर्णी शतावरी
क्वाथः पित्तसन्निपातमुष्कवृद्धौ विदां वर ९
वरुणवृक्षादनी चैव दशमूली शतावरी
क्वाथपानं वातिके च मुष्कवृद्धौ हितावहम् १०
एतेन भवते सौख्यं तदा कर्मावकारयेत्
कर्णकोषस्य मध्ये तु रक्तान्निर्हारयेच्छिराम् ११
वामकोष्ठस्य वृद्ध्या तु दक्षिणां हारयेच्छिराम्
उभाभ्यां द्वे शिरे वेध्ये तेन वा तत्सुखं भवेत् १२
इति चाण्डक्रिया प्रोक्ता सा चैवोन्नीतरोगिणे १३
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वृषणवृद्धिचिकित्सा नाम द्वात्रिंशोऽध्यायः ३२
त्रयस्त्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
लवणाम्लक्षारकटुकैरुष्णस्वेदातिदोषतः
रक्तपित्तं प्रकुप्येत स विसर्पी भिषग्वर १
स सप्तधा परिज्ञेयः पृथग्दोषैश्च द्वन्द्वजैः
केवलो रक्तजस्त्वन्यः सन्निपातेन सप्तमः २
तथापरे प्रवक्ष्यन्ते नामानि च पृथक्पृथक्
आज्ञेयो ग्रन्थिको घोरः कर्दमश्च तथापरः ३
आज्ञेयो वातपित्तेन ग्रन्थिकः पित्तश्लेष्मणा
कर्दमो वातश्लेष्मोत्थो घोरः स्यात्सान्निपातिकः ४
रक्तंलसीकात्वग्मांसं दूष्यं दोषास्त्रयो मलाः
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्तधातवः ५
न्यग्रोधबिल्वखदिरकषायो धावने हितः
काञ्जिकाम्लैः पिच्छिलया सौवीरकरसेन वा ६
मातुलुङ्गरसेनापि धावनं वातसर्पिषु
क्षीरेण शीततोयेन धावनं पित्तसर्पिणि ७
श्लेष्मविसर्पिणे वाथ धवार्जुनकदम्बकम्
धावनं सर्पिणे शस्तं सुरासौवीरकेण वा ८
धावनञ्च हितं तस्य सन्निपाते विसर्पिणे
यवाग्निमन्थैश्च शठीन्यग्रोधैश्च ससर्षपैः ९
क्वाथः स्यात्सन्निपातोत्थविसर्पधावने हितः
पञ्चजीरकपित्थांश्च काञ्जिकेन तु पेषयेत्
मातुलुङ्गरसेनापि लेपनं वातसर्पिणे १०
धवा रोध्रतिलाश्चैलविदारीकण्टकं तथा
लेपः पित्तविसर्पे वा गुञ्जापत्रैस्तु लेपनम् ११
सैन्धवारिष्टतुम्बीकापटोलपत्रकैर्घृतम्
पाचितं लेपने शस्तं विसर्पाणां निवारणम् १२
रक्तजेषु विसर्पेषु कुर्याद्रक्तावसेचनम्
पश्चाद्धवकदम्बानां सर्वदा गृहधूमकम् १३
लेपने हितकृत्प्रोक्तं धावनं काञ्जिकेन तु
कुठेरकाश्च सुरसा चक्रमर्दो निशायुगम् १४
सर्षपाः काञ्जिकेनापि पिष्ट्वा च लेपनं हितम् १५
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विसर्पचिकित्सा नाम त्रयस्त्रिंशोऽध्यायः ३३
चतुस्त्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
चतुर्विधो भवेद्दोषो वातरक्तसमुद्भवः
गन्धदोषेण जायन्ते नामान्येषां पृथक् पृथक् १
क्षुद्रतश्चान्तको घोरः अथवान्यमसूरिका
वसन्तः सर्षपाकारा पिटका यस्य दृश्यते २
सोऽपि क्षुद्रतरः प्रोक्तः पित्तरक्तप्रदोषतः
अग्निदग्धवत्स दाह्यः पिटिका यस्य दृश्यते ३
सोऽप्यतीव विसर्पी स्यादसुखी च निरन्तरम् ४
सघनाः पीडका यस्य पाकयति समः कफः
दाहोऽरतिर्विवर्णत्वं तस्य सद्यः प्रजायते ५
वर्त्तुलमसूरिकावत् पिटका यस्य दृश्यते
शाम्यति शीघ्रं पाकेन सा विज्ञेया मसूरिका
तस्य वक्ष्यामि भैषज्यं यथाविधि महामते ६
गुप्ताकारं सुरक्षेच्च रक्षायोगविधानतः
न स्त्रीणां नाधमानाञ्च संसर्गं वा प्रसङ्गकम् ७
सुशीतं शीतलं स्थानं कारयेत्सुप्रयत्नतः
क्षुद्रकस्योपसर्गस्य लेपनं चात्र कारयेत् ८
कुष्ठं सोशीरन्यग्रोधस्तथोदुम्बरिकत्वचः
प्रलेपनं प्रशस्तं स्यात्क्षुद्रोपसर्गवारणम् ९
क्षीरञ्च मधुशर्करायुक्तं पानं सुखावहम्
जम्ब्वाम्रपल्लवानाञ्च विष्ठं दधिमधुयुतम् १०
पाययेत् क्षुद्रकस्यास्य अतिसाराग्निनाशनम्
गोक्षुरश्चातिविषा च कर्कटाद्यं सपर्पटम् ११
कल्कमेतत्प्रयोक्तव्यं मधु शर्करासंयुतम्
हरीतकीमातुलुङ्गस्वरसं शर्करायुतम् १२
क्षुद्रकस्योपसर्गस्य वमिशोषनिवारणम्
अग्निकोऽप्युपसर्गं च योज्यं चैतत्प्रलेपनम् १३
रक्तचन्दनमञ्जिष्ठा निम्बपत्राणि चार्जुनम्
क्षीरेण नवनीतेन हितं स्याल्लेपनं तथा १४
घोरं चोपद्रवं दृष्ट्वा न स्वेदं न च मर्दनम्
प्रलेपनं न कुर्वन्ति यथायोगेन पण्डिताः १५
अरण्यगोमयक्षारतैलेन चालनं हितम्
न तैलेनापि चाभ्यङ्गं लेपेनैव च कारयेत् १६
चन्दनं मधुकं रोध्रं न्यग्रोधोत्पलसारिवा
मधुना संयुतः कल्कः पानेन चोपसर्गहृत् १७
उपसर्गे ज्वरस्तीव्रो रक्तमूत्रं प्रजायते
तस्य वक्ष्याम्युपचारं येन सम्पद्यते सुखम् १८
पटोलं पर्पटं शुण्ठी मुस्ता च खदिरं समम्
कल्को मधुयुतः पाने हितः स्याज्ज्वरनाशनः १९
चन्दनोशीरमञ्जिष्ठा पुष्करं दन्तधावनम्
क्वायपानं मधुयुतमुपसर्गज्वरापहम् २०
वमने चातिसारे च दाडिमं कुटजस्तथा
मधुदध्नान्वित पानमतिसारनिवारणम् २१
शेषाश्च क्षुद्रिकाः प्रोक्ताः क्रिया चात्र विधेयका
एका क्रिया मसूरिके कर्त्तव्या सुविधानतः २२
वातलानि च सर्वाणि तथा रूक्षाणि कोविदः
स्त्रीसङ्गं रूक्षशोकञ्च दूरतः परिवर्जयेत् २३
ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत्
एवं त्रिसप्तरात्रेण सुखं सम्पद्यते नरः २४
ततोऽभिषेकः कर्त्तव्यः कृत्वा मङ्गलवाचनम्
नूतनानि च सूक्ष्माणि वस्त्राणि च सितानि च २५
परिधाप्य होमकार्यमिष्टभोज्यं विधेयकम् २६
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने उपसर्गचिकित्सानाम चतुस्त्रिंशोऽध्यायः ३४
पञ्चत्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि व्रणानां तु चिकित्सितम्
व्रणाश्चानेकधा प्रोक्ता नानाधातुविकारिणः १
दुष्टाम्बुपानाशनसेवनाञ्च क्रोधातिभाराद्व्यसनेन वापि
सञ्जायते दुष्टव्रणोऽपि घोरश्चान्येन रक्तस्य हि दूषणेन २
वातेन पित्तेन कफेन वापि द्वन्द्वेन वा दोषसमुच्चयेन
मांसं प्रहृष्य रुधिरं विकीर्य सञ्जायते दुष्टव्रणोऽपि घोरः ३
त्वग्रक्तानि समेदांसि प्रदूष्यास्थिसमाश्रिताः
दोषाः शोफं शनैर्घोरं जनयन्त्युद्धता भृशम् ४
सरक्तञ्च सशूलञ्च रुजावच्च सवेपथु
रूक्षं वा वातसम्भूतं विज्ञेयं सरुजं व्रणम् ५
सप्तदाहस्वरः सृष्टः स्पर्शनं सहते तु यः
शीतः सौख्यं लघुपाकी पित्तात् सञ्जायते व्रणः ६
कठिनो वर्तुलाकारो घोरः पीतोल्पवेदनः
उष्णसहः स्निग्धतरश्चिरपाकी कफव्रणः ७
सर्वैर्लिङ्गैर्विजानीयात्सन्निपातसमुद्भवम्
द्वन्द्वजे द्वयदोषस्तु दोषे चापि प्रदृश्यते ८
अभिघातसमुद्भूता विज्ञेयास्ते चतुर्विधाः
अन्ये नाडीव्रणा ये स्युः सवाताश्च सवेदनाः ९
अन्ये तु स्रोतसां मध्ये तेषां शृणु चिकित्सितम्
प्रथमं मण्डविस्रावो द्वितीयं स्वेदनं स्मृतम् १०
तृतीयं पाचनं प्रोक्तं पाचिते पाटनं तथा
शोधनञ्च प्रयोक्तव्यं तथा रोहणमेव च ११
पश्चात्क्रमस्तथैव स्याद्व्रणानां हितकारकः
रास्ना वचा तथा शुण्ठीमातुलुङ्गरसस्तथा १२
काञ्जिकेन सममेकधावनं वातिके व्रणे
यष्टीमधुकमञ्जिष्ठापटोलनिम्बपत्रकैः १३
दुग्धे न क्वथितं शीतं धावनं पैत्तिके व्रणे १४
त्रिफला च कदम्बञ्च तथा जम्बु कपित्थकम्
क्वाथः सोष्णकफोद्भूते व्रणे धावनमुत्तमम् १५
मातुलुङ्गाग्निमन्यौ च मूलं वा काञ्जिकेन च
सुरदारु तथा शुण्ठी लेपो वातव्रणे हितः १६
नलमूर्वा च मधुकं चन्दनं रक्तचन्दनम्
पिष्टं तण्डुलतोयेन पित्तव्रणविनाशनम् १७
अङ्कोलकञ्च रोध्रञ्च कदम्बार्जुनवेतसाः
पारिभद्रदलानां तु पिष्ट्वा व्रणविलेपनम् १८
पाकं गते व्रणे वापि गम्भीरे सरुजेऽथवा
सरन्ध्रे शोधनं कार्यं धावनं तु भिषग्वरैः १९
करञ्जधवनिम्बानां कदम्बार्जुनवेतसैः
पादावशेषे क्वाथेन गम्भीरव्रणधावनम् २०
मञ्जिष्ठा च तथा लाक्षारसश्चैव मनःशिला
निशायुगे समायुक्तं पिष्ट्वा वस्त्रपरिस्रुतम् २१
मधुयुक्तं शोधनञ्च व्रणानां हितकारकम्
निम्बपत्राणि संक्षिप्य मधुना व्रणशोधनम् २२
निम्बपत्रतिलक्षौद्रं दार्वीमधुकसंयुतम्
तथा तिलानां कल्कञ्च शोधनञ्च व्रणेषु च २३
तिलका निम्बसीतस्य पत्राणि सुमनासु च
कषायश्च हितश्चैव व्रणानां शोधनेषु च २४
विशुद्धञ्च व्रणं ज्ञात्वा म्रक्षयेच्च व्रणं च तत्
नवनीतेन वा श्रेष्ठं तेन नदहते व्रणः २५
जातीकरञ्जपिचुमन्दपटोलमत्र यष्टीमधुश्च रजनी कटुरोहिणी च
मञ्जिष्ठकोत्पलमुशीरकरञ्जबीजं स्यात्सारिवा त्रिवृन्मागधिका समांशा २६
पक्वं घृतं वै हितमेव व्रणे प्रशस्तं नाडी गते च सरुजे च सशोणिते च
लूताविसर्पमपि हन्ति गभीरयेच्च व्रणाः सदाहकठिना अपिरोहयन्ति २७
इति जात्यादि घृतम्
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने व्रणचिकित्सा नाम पञ्चत्रिंशोऽध्यायः
षट्त्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
व्रणोक्तैरुपचारैश्च जायते श्लीपदं तथा
वातेन स्फुटितं रूक्षं श्यामञ्चापि प्रदृश्यते १
सदाहपाकं पित्तेन सज्वरञ्चैव दृश्यते
श्लेष्मणा जायते स्निग्धं घनं शोफसमन्वितम् २
सन्निपातेन सर्वाणि जायन्ते भिषजांवर
मेदाश्रितं तु वाल्मीकं वल्मीकवत् प्रदृश्यते ३
सदृशानि च चिह्नानि वातिकोत्थानि लक्षयेत्
तस्य व्रणोक्ताः क्रियाश्च कारयेद्विधिपूर्विकाः ४
जात्यादि च घृतं शस्तं तथैवालेपनानि च
पुनः प्रलेपनं कार्यं धवार्जुनकदम्बकैः अ ५
गिरिकर्णिकामूलञ्च तथा वृक्षादनीमपि
पिष्ट्वा प्रलेपनं कार्यं वाल्मीकश्लीपदस्य च ६
सूरणकन्दकं पिष्ट्वा मधुना च घृतेन च
लेपनं च हितं तस्य वाल्मीकश्लीपदापहम् ७
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने श्लीपदचिकित्सा नाम षट्त्रिंशोऽध्यायः ३६
सप्तत्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
वाताभिघातपवनाद्व्रणाद्वापि तथा पुनः
रक्तनाड्यः प्ररोहन्ति रुन्धन्ति च तथा पुनः १
तेन रक्तस्य मार्गस्तु रुध्यते तेन जायते
अर्बुदञ्चमहास्थूलं मार्गरोधाच्च जायते २
वातान्मृदुच परुषं कफाच्च घनशीतलम्
पित्तेन दाहपाकाद्यं विजानीयं विचक्षणैः ३
सन्निपातेन काठिनं घनं पाषाणसन्निभम्
वृद्धिमच्च गडुकं स्यादसाध्यं तद्भिषग्वर ४
तस्यादौ पाटनं कार्यं मर्मस्थानञ्च वर्जयेत्
सैन्धवेन घृतेनापि कुर्यात्तस्यानुलेपनम् ५
सूरणं कन्दकं दग्ध्वा घृतेन च गुडेन च
लेपनं चार्बुदानाञ्च नाशनञ्च भिषग्वर ६
शेषा व्रणक्रिया प्रोक्ता शस्ता वार्बुदशान्तये
वातघ्नानि च पथ्यानि हितानि मधुराणि च ७
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अर्बुदचिकित्सा नाम सप्तत्रिंशोऽध्यायः ३७
अष्टत्रिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
इति व्रणक्रिया प्रोक्ता समासेन भिषग्वर
यथायोगं चोपचारं ज्ञात्वा सम्यगुपानरेत् १
दुष्टाम्बुपानाञ्च कदन्ननिषेवणाच्च सञ्जायते च क्रिमिसम्भवगण्डमाला
समारुते च कफपित्तभवे विकारे संसर्पते क्रिमिजदोषगणश्च गण्डात् २
वातेन वातसदृशानि च लक्षणानि पित्तेन दाहसरुजव्रणशोषतापाः
संश्लेष्मणा च शीतलघना सम्प्रयोगात्स्यात्सन्निपातविहिता च समस्तलिङ्गैः ३
तस्य चेमं प्रतीकारं वक्ष्यामि शृणु पुत्रक
रोहिणी विशदा चैव विजया च विभेदिनी ४
कान्तारी वज्रपुष्पा च तथा चेन्द्रायुधापरा
इति सप्तविधा लूताः शृणु पश्चात्पृथक्पृथक् ५
रक्तमुण्डाभवेद्रक्ता रक्तस्थाने च रोहिणी
विशदा मांसलस्थाने श्वेतवर्णा च दीर्घिका ६
विजया च शिरोमध्ये पीतवर्णा यवप्रभा ७
भेदिनी मेदसंस्थाने श्वेता च नीलरेखिका ८
कान्तारी बस्तिमध्ये च श्वेताङ्गा रक्तमुण्डिका
वज्रपुष्पा चास्थिमध्ये श्वेता कृष्णा शिरा मता ९
इन्द्रायुधा शिरान्ते च धूम्रा कृष्णा शिरा मता १०
रोहिण्यंगुलिमात्रेण मूत्रेण विशदा समा
विजया च यवाकारा वर्त्तुला विजया तथा ११
अन्या नृणां च विज्ञेया तण्डुलीकण्टकानिभा
रोहिणी विजया विंशा मांसस्थाने समाश्रिता १२
गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरे
कुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्रक १३
वज्रपुष्पा शिरसि च शिरान्ते चेन्द्रायुधा मता
अतो वक्ष्यापि भैषज्यं शृणु पुत्र प्रयत्नतः १४
सान्द्रपूय विस्रावञ्च गम्भीरञ्च व्रणं विदुः
अन्यञ्च सरुजं चैव पक्वजम्बूसमप्रभम् १५
लूताव्रणानां चैतानि अपक्वं यावद्दृश्यते
त्यक्त्वा सन्धिस्थमर्मस्थां लूतां चैवहि तद्व्रणम्
तदा तप्तेन तैलेन दाहश्चाशु विधीयते १६
अङ्कोलश्चैव मद्यानि पारिभद्रदलानि च
गृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम्
लेपनं च प्रशस्तं च लूतानां मारणे परम् १७
पिण्डीतकं विडङ्गानि तथा चेंगुदिमूलकम्
बीजपूरकमूलानि पेषितानि विलेपयेत्
गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकान् १८
स्नुहीक्षीरं चार्कक्षीरं लूतारन्ध्रे नियोजयेत्
तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः १९
आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम्
पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् २०
करवीरं चार्कदुग्धं तथा च कटुतुम्बिकाम्
निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् २१
लूतामभ्यञ्जने हन्ति गण्डमालाश्च दारुणाम्
घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् २२
अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि २३
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने लूतागण्डमालाचिकित्सा नामाष्टत्रिंशोऽध्यायः ३८
एकोनचत्वारिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
विरुद्धपानानि गुरूणि चाम्लपापोदकं सेवनकेन वापि
निद्रा दिवासुप्रतिजागराच्च पित्तं प्रकुप्येद्रुधिराश्रितं तत् १
त्वचागतः सर्पति रोगदोषः कुष्ठेति संज्ञा प्रवदन्ति धीराः
पापोद्भवास्ते प्रभवन्ति देहे नृणां भृशं कोपयतां विधिज्ञ २
कुष्ठानि चाष्टादशधा वदन्ति तेषां पृथक्त्वेन वदामि लक्षणम्
असाध्यसाध्यानि च कर्मजानि दोषोद्भवानि च सहजानि तानि ३
कारुण्यपारुष्यमथैव कण्डूरोमप्रहर्षः स्तिमितं तथैषाम्
तोदस्तथा संव्यथनं च देहे त्वचि स्थिते कुष्ठभवेति चिह्नम् ४
कपालकं चैवमुदुम्बरञ्च तथैव दद्रूणि च मण्डलानि
विसर्पकं हस्तिबलं किणञ्च गोजिह्वकं लोहितमण्डला वा ५
वैपादिकं चर्मदलं तथान्यं विस्फोटकान्यथ बहुव्रणञ्च
कण्डूर्विचर्ची कथितं तथान्यद्धातुप्रभेदास्त्वचि रोगसिद्धाः ६
कपालकाभं सितवर्णकञ्च कपाल्यकं तद्गदितं विधिज्ञैः
स्निग्धञ्च सर्वाङ्गगतं च कण्डूमुदुम्बरं तं प्रवदन्ति सन्तः ७
दद्रूपमं यद्भवते च दद्रूर्दद्रूपमं मण्डलकं तमाहुः
विसर्पकं सर्पति तद्विसर्पे तथान्यमान्तं गजचर्मतुल्यम् ८
यद्द्रुष्यपारुष्यसकर्कशञ्च गोजिह्वकं स्यात्खलु भेदयोग्यम्
यवासरक्तानि च मण्डलानि सकण्डुकानि व्रणसंयुतानि ९
ज्ञेयं तु तल्लोहितमण्डलञ्च रक्तोद्भवं तद्रुधिराश्रितञ्च
सवेदनार्त्तस्य परिस्फुटञ्च विपादिका सा कथिता विधेया १०
सरक्तवातकुपितेन जाता तथैव विस्फोटकसन्निभा वा
तथापरं नाम बहुव्रणं च सूक्ष्मा च सा सुविदिता नरस्य ११
कण्डूर्विचर्चीभुवने प्रतीता श्वेतानि सूक्ष्माणि च पाटलानि
विसर्पते यस्य नरस्य रक्तं युवा न केनापि भवेच्च सिद्धः १२
शिरीषपुष्पाणि शिरीषकाणिं सन्त्यक्तभावः पुरुषश्च सूक्ष्मः
तोदस्तथा वेपथुवातलिङ्गं पित्तेनशोषभ्रमदाहतृष्णाः १३
श्लेष्मोद्भवे कठिनशीतलपाण्डुरञ्च नेत्रे नखेषु च वपुष्यभिलाषता च
मिश्रेण संशृतभवानि भवन्ति यस्य स्यात्सान्निपातिकभवं बहुभिश्च लिङ्गैः १४
रूक्षं तथा सकण्डू त्वक्स्थितञ्च मृदु शीतलम्
आस्रावदाहरक्ताभं रक्तस्थं रक्तगं विदुः १५
सुस्निग्धं तोदगम्भीरं मांसगञ्च विनिर्दिशेत्
मेदःस्थन्तोदवेष्टत्वं सुस्निग्धं रक्तलोचनम्
अस्थिसंस्थञ्च गम्भीरं विसर्पे नासिकामुखे १६
मज्जसंस्थश्च विकलो मज्जास्रावश्च जायते
विशीर्यते च सर्वाङ्गे तथैव शुक्रगं विदुः १७
अतो वक्ष्ये समासेन प्रतिकर्म भिषग्वर १८
त्वक्स्थे स्वेदस्तथालेपो रक्तस्रावश्च रक्तगे
विरेकं मांसगे प्रोक्तं मेदोगे क्वाथपाचनम् १९
अथ तानि च त्रीण्येवमस्थिमज्जागतानि च
वातिके स्वेदनं पथ्यं पित्ते शीतोपचारणम् २०
कष्टसाध्यमिदं प्रोक्तमसाध्यं सान्निपातिकम्
रोगकारणमालोच्य तदा कर्म समारभेत् २१
पक्षान्पक्षाञ्छोधनं पाचनञ्च मासान्मासान्कारयेद्रेचनञ्च
मासान्कुष्ठे शोधनाय प्रकर्षात्षष्ठे षष्ठे मास्यसृग्मोक्षणञ्च २२
वासापटोलफलिनीलवणं वचाञ्च निम्बत्वचं क्वथितमाशु पिबेत्कषायम्
कुष्ठे करोति वमनं मदनान्विते च पथ्याकषाय वमने मदनान्वितेषु २३
फलत्रिकं त्रिवृद्दन्ती विरेचकं भिषग्वर
क्वाथो वचोष्णतोयेन पानेस्याद्भिषगुत्तम २४
श्वासप्रश्वासयोर्वेध्या शिरा शिरसि चेद्बहिः
ततः प्रयोजनीयञ्च क्वाथस्नेहस्य भोजनम् २५
शुण्ठीकणाखदिरपाटलिकापटोलीमञ्जिष्ठाक्षुरविषबिल्वयवानिकानाम्
वासाफलत्रिकजलेन कषायसिद्धः पानान्निहन्ति मनुजस्य च कुष्ठदोषम् २६
वासाविडङ्गपिचुमन्दपटोलपाठाशुण्ठीसुरेन्द्रतरुपञ्चतरुमूलपथ्याः
क्वाथो निहन्ति मरुत्प्रभवं च कुष्ठं त्रिःसप्तकेऽहनि महौषधमेव योज्यम् २७
नित्यं छिन्नोद्भवाचूर्णं तस्याः क्वाथसमन्वितम्
पीतं जीर्णे सघृतञ्च पीतञ्च षाष्टिकं पयः २८
हन्ति कुष्ठानि सर्वाणि सप्तधातुगतानि च २९
काश्मर्यदरदघनञ्च कुष्ठं निशाद्वयं काञ्जिककुष्ठमेतत्
लेपे प्रशस्तं विनिहन्ति कुष्ठं विचर्चिकां तथा विसर्पदोषम् ३०
पिष्टानि तत्र मधुकाञ्जिकमूत्रपिष्टलेपेन कुष्ठमपि दुष्टविचर्चिकाञ्च ३१
विसर्पदोषे प्रोक्तानि धावनानि च कारयेत्
सौवीरकरसेनापि धावनं त्रिफलाम्बुना ३२
वातिके चैव कुष्ठे च प्रशस्तं कथितं बुधैः
निम्बपत्रकषाये च यष्टी मधुककल्कितम् ३३
दुग्धेन शीतलेनापि विदार्याः क्वाथकेन वा
हन्ति कुष्ठं महाघोरं धावनं न प्रशस्यते ३४
अग्निमन्थपटोलानि मातुलुङ्गदलानि च
सठीपर्पटकः क्वाथो धावनं श्लेष्मरोगिणाम् ३५
विपादिकां नवनीतेन क्षालयित्वा विदांवर
स्वेदयित्वार्कदुग्धैश्च मधुतैलेन लेपनम् ३६
खदिरनिम्बकदम्बकं तथा ककुभः पाटलिका शिरीषकम्
कुटजकिंशुकवासुसमोरटः वटकुटं नटपिप्पलिपीलुकम् ३७
धवमुदुरम्बवेतसमेकतः क्वथितपानविधानघृतेन तु
सकलकुष्ठ विनाशनकारकं भवति चेन्दुसमानवपुर्नरः ३८
आरग्वधधातकीकर्णिकारधवार्जुनैः सज्जककिंशुकानाम्
कदम्बनिम्बकुटजाटरूषाः खदिरेण युक्ताश्च तथैव मूर्वा ३९
मूलानि चैषामुपहृत्य सम्यगष्टावशेषे क्वथितः कषायः
घृतेन तुल्यं प्रतिमानवस्य निहन्ति सर्वाणि शरीरजानि ४०
कुष्ठानिसर्वाणि विसर्पदद्रुविचर्चिका हन्ति नरस्य शीघ्रम् ४१
खदिरकदरमूर्वावालकं कर्णिकारः कुटजसपरिभद्रारग्वधाश्चेति पिष्टाः
क्वथितमिततमांशं वैघृतपानमस्य विनिहन्ति सकलान् वै कुष्ठवैसर्पदर्पान् ४२
भल्लात्कत्र्यूषणमक्षचूर्णं कुष्ठञ्च गुञ्जालवणानि पञ्च
फलत्रिकं तैलविपाचितानि चाभ्यञ्जनं हन्ति च दद्रुकुष्ठम् ४३
अश्वघ्नमूलं मलिनं समङ्गा निशाद्वयं सर्षपचित्रकञ्च
सभृङ्गराजं कुहतुम्बिका च कुष्ठं विडङ्गं मगधा च चूर्णम् ४४
स्नुह्यर्कदुग्धेन विपाचितं तु तैलं तिलानां परिपक्वमेतत्
अभ्यञ्जनं चैव नरस्य नूनं दद्रूणिकण्डूनि विनाशयेच्च ४५
हरिद्रा समङ्गा सुराह्वं सचित्रविडङ्गानि कृष्णा विशालाम्बु कुष्ठम्
तथा लाङ्गली चक्रमर्द्दं च गुञ्जा विशाला तथारिष्टपत्राणि चैतत् ४६
चूर्णं कृतं भावितं वै तथैतद्गुडेन घर्मे विपाच्यम्
हितं लेपने कुष्ठपामाविचर्चीर्नरस्यातिशीघ्रं निहन्ति ४७
निम्बं पटोलं च किरातकञ्च जाती विशाला सपुनर्नवा च
पयोदलाक्षारसमेव वासा त्रायन्तिका बिल्वककुष्ठयष्टिः ४८
संचूर्णितं क्षीरदधिसमेतं घृतं विपक्वं परिषेचने च
हितञ्च कुष्ठक्षत दद्रुरक्तं पामविचर्चीर्विनिहन्ति कण्डूम् ४९
पित्तञ्चैव गदं भूत्वा वातेनैव समीरितम्
सरक्तञ्च प्रकुपितं कुरुते पाण्डुरच्छविम् ५०
स्तब्धचित्तं विरूपञ्च तस्य च लक्षणम्
असाध्यं कुष्ठं साध्यं वा विज्ञेयं तद्भिषग्वरैः ५१
ईषद्रक्तं भवेत् पाण्डु सन्निपातोत्थं च जायते
असाध्यं तच्च सर्वाङ्गचित्रं स्निग्धं तदेव तु ५२
पीतच्छवि पाण्डुररूक्षमेव उपागतं साध्यतमं प्रतीतम्
सम्पाचनं शोधनमेव शस्तं विरेचनं रक्तविमोक्षणञ्च ५३
वासागुडूचीत्रिफलाकरञ्जपटोलनिम्बार्जुनवेतसानाम्
कृष्णासमङ्गासहितं च कल्कं पाने हितं चित्रकमण्डले च ५४
खदिरवासकनिम्बपटोलकैर्धवयवासकमेव फलत्रिकैः
सकलकुष्ठविसर्पकमण्डलं विजयते मनुजस्य च पाण्डुरम् ५५
पाठाविडङ्गमगधासुरदारुचित्रं दद्रुघ्नरात्रि युगलं च तथा समङ्गा
कुष्ठं वचामधुकसैन्धवकाञ्जिकेन पिष्टं तु मूत्रकरुधिररसेन वापि ५६
प्रलेपने चित्रमथैव सिद्धं विनाशमायाति च कण्डुकुष्ठम्
विचर्चिकां नाशयते च कण्डूं विस्फोटमाशु प्रति सर्पणानि ५७
भृङ्गराजो हरिद्रा च दूर्वा जाती विडङ्गकाः
कृष्णास्तिलाश्चित्रकाणि तथैव हरिचन्दनम् ५८
मूत्रेण पेषितं तत्तु लेप्लनं चित्रकुष्ठिनि
हन्ति दद्रूणि सर्वाणि कुष्ठं दद्रूविचर्चिकाः ५९
न विदाहीनि चाम्लानि वातलानि तथैव च
ज्वरे च प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत्
व्रणेषु कुष्ठराजीषु हितमेवोपचारिणाम् ६०
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कुष्ठचिकित्सा नामैकोनचत्वारिंशोऽध्यायः ३९
चत्वारिंशोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
अतिभारातियोगेन अतितीक्ष्णोष्णभावतः
विनाभ्यङ्गेन वा शैत्यात्पित्तेनातिविशेषतः १
क्रिमिदोषेण वा पुंसा जायते च शिरोगदः
वातरक्तकफात्पित्तात्पित्तेनापि विशेषतः २
सन्निपातेन विज्ञेयाः क्रिमिजाश्च तथापरे
अर्द्धशीर्षविकारश्च दिनवृद्धिकरस्तथा ३
वातेन रात्रौ भवते व्यथा च अथातुरस्य व्यथते शिरश्च
सौख्यं लभेत्स्वेदनमर्दनेन वातेन सा विड्वृषणे रुजा वा ४
यस्योष्णमङ्गं भवते शिरस्यं घर्मे सतापे च दिने च रात्रौ
स धूमतो वा कटुको बलाशे शीतात्सुखं वा निशि स्वास्थ्यमेति ५
शीतात्सुखं वा प्रथमश्च तृष्णा सतीव्रपित्ताद्भवते रुजा च
सूर्योदये वा भवते दिनान्ते भ्रमश्च तृष्णा भवते सुतीव्रा ६
सजाड्यमुण्डं भवते च शीतं स्वेदेन युक्तं युगलञ्च नूनम्
सदृश्यनेत्रं नयते च तद्वा कफे यदीष्टः शिरसो विकारः ७
रक्तेन नासापुटकेऽपि जालं निरेति शेषा वदने च तृष्णा
रक्ताक्षमन्या जठरे च यस्य तमाहू रक्तोद्भवशीर्षरोगम् ८
मध्यं प्रदूष्य प्रतनोति पीता नाशापरिस्रावि सविड्जलञ्च
सजाड्यमोहश्वसनं च यस्य त्रिदोषरोधाद्भवते शिरोऽर्त्तिः ९
यस्यातिमात्रं शिरसि प्रतोदो विभज्यमानेऽपि च मस्तकान्ते
घ्राणे परिस्रावि सरक्तपूयं क्रिमिप्रसूता च शिरोव्यथा च १०
क्रोधाच्छोकाद्भवेच्चान्या व्यायामेऽतिश्रमेषु च
सा वातेन शिरः पीडा सरुजे च नृणामपि ११
अतिलेखनपाठेन तथा सूक्ष्मान्निरीक्षणात्
दूरदृष्टेक्षणेनापि वेदना वातरक्तजा १२
नासिकार्द्धे व्यथा तस्य व्यथा भ्रूयुगले भवेत्
नीलं कृष्णञ्च पश्येत वेदना मस्तके भवेत् १३
न रक्तेन विना पित्तं रक्तं पित्तेन चाल्यते
न पीत्तेन शिरोऽर्त्तिः स्यात्पित्तं वातेन चाल्यते १४
तस्माद्वक्ष्याम्युपचारं शृणु भेषजलक्षणम्
स्वेदः प्रलेपनं नस्यं पानाभ्यङ्गञ्च मर्दनम् १५
स्वेदनं वातकफजे चाभिघाते तथा पुनः
पित्तजे रक्तजे वापि न कुर्यात्स्वेदनं तयोः १६
रक्तजे च शिरा वेध्या पित्तजे वापि कुत्रचित्
कोकिलाख्या च तर्कारि कटुका निम्बपत्रकैः १७
शोभाञ्जनकपुत्रैस्तु क्वाथं वा तेन स्वेदयेत्
अमीषाञ्च प्रलेपेन सौख्यं चास्य प्रजायते १८
संशीतपरिषेकैश्च यष्टीमधुकचन्दनैः
केसरैर्मातुलुङ्गैश्च पित्तजे शीतलेपनम् १९
कदम्बार्जुनसिन्धुश्च लेपनार्थे भिषग्वर
गुडेन नागरा वापि पथ्यां वापि गुडेन वा २०
गुडशोभाञ्जनरसैर्नस्ययोगात्पृथक्पृथक्
नस्येन बस्तमूत्रेण शिरोऽर्त्तिश्चोपशाम्यति २१
मरिचं पथ्या कट्फलं मूत्रेणोष्णोदकेन वा
नस्यं कफोद्भवे घोरे शिरोरोगे भिषग्वर २२
वचामधुकसारं वा मूलं वा गिरिकर्णिका
नस्यप्रयोगे विहितं सन्निपाते शिरोगदे २३
वन्ध्याकर्कटकीमूलं पिष्टमूष्णेन वारिणा
मितं नस्ये प्रयुञ्जीत क्रिमिजे च शिरोगदे २४
मृङ्गराजरसं चैकं द्विभागं काञ्जिकेन च
शोभाञ्जनं भागत्रयं सर्वं तत्र विनिक्षिपेत् २५
सौवीरकरसं पञ्च षड्भागं तुम्बिकारसम्
शुण्ठी सैन्धवमम्लीका पटोलं वासकं शिवा २६
अभया सुरसा चैव तैलञ्च चतुरंशकम्
पाचितं तत्तु नस्येन योजयेच्च षड्बिन्दुकम् २७
तथैव मस्तकाभ्यङ्गे हितं स्यात्कर्णपूरके
हितं वातादिजेरोगे शिरोऽर्त्तौ क्रिमिजे तथा २८
करञ्जबीजस्य विभीतकानां पुटेन तैलं परिस्रुत्य धीमन्
बिन्दुत्रयं नस्यविधौ प्रयोज्यं जघान कुष्ठं क्रिमिजं विकारम् २९
कुष्ठं च यष्टीमधुकं च नीत्वा पटोलजातीसुरसारसञ्च
विपाचितं तन्नवनीतकञ्च घृतेन नूनं च सरक्तपित्ते ३०
सशर्करायुक्तमिदं दिवा च गव्यं प्रवृद्धप्रभवे च दोषे ३१
लाक्षारसं चन्दनयष्टिकानां पटोलधात्रीफलशर्कराणाम्
दधि सदुग्धं नवनीतकञ्च विपाचिते नस्यविधौ प्रयुज्यते ३२
भ्रूदोषशङ्खक्षतज क्षये वा दिनादिवृद्ध्या प्रभवेऽपि दोषे ३३
कुंकुमं यष्टिमधुकं कुष्ठं च शर्करासमम्
पक्वञ्च नवनीतेन घृतं नस्ये प्रयोजयेत् ३४
नश्यन्ति पित्तजा रोगा दिनवृद्ध्योपवर्जनात्
अर्द्धशीर्षविकारश्च प्रशमं याति सत्वरम् ३५
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने शिरोरोगचिकित्सा नाम चत्वारिंशोऽध्यायः ४०
एकचत्वारिंशोऽध्यायः आत्रेय उवाच अतिपठनशीलस्यसूक्ष्मवस्त्रेक्षणेनवा दूरालोकेन चोष्णेन भ्रूदोषश्चोपजायते १ रक्तवाताश्रितो दोषः पित्तेन सह मूर्च्छितः भ्रूव्यथा च प्रभवति नासावंशोद्भवा शिरा २ व्यथते चोष्णवेलासु शीतेन स्याद्विशेषतः नेत्रमध्येनीलपीतमण्डलानि च पश्यति ३ तस्यादौ च क्रियां कुर्याच्छिरा वेध्या प्रयत्नतः पूर्वोक्तं स्वेदनं कार्यं नस्ये षड्बिन्दुकादिकम् ४ देवदारु रजनी घनं सठी पुष्करं कुटजबीजमागधी कुष्ठरोध्रचविकायवासकं क्वाथितं च पुनरेव विस्रुतम् ५ तत्र गुग्गुलं विनिक्षिपेत्पुनः शुण्ठिसैन्धवफलात्रिकं हितम् चूर्णितं दधिपयोविमिश्रितं पाचितं च नवनीतकं च तत् ६ सिद्धमेव विदधीत शीतलं शर्करायुतमिदं हितनस्यम् नस्यकर्म शिरसो रुजापहं भ्रूललाटभुजशङ्खमूलकम् ७ शीर्षरोगमपि चार्द्धशीर्षकं तोदने च विहितेन केवलम् कर्मरोगमपि वारयत्यपि तैलञ्च शिरोरोगहरं परम् ८ ताम्बूलपत्रस्य रसं बिडङ्गं सिन्धूद्भवं हिंगुगुडेन युक्तम् जलेन पिष्टं विहितं च नस्यं भ्रूशङ्खदोषांश्च क्रिमीन्निहन्ति ९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भ्रूदोषचिकित्सा नामैकचत्वारिंशोऽध्यायः ४१
द्विचत्वारिंशोऽध्यायः आत्रेय उवाच नासारोगो भवेद्धीमन् क्रिमिजो दोषजः पुनः रक्तजश्च भिषक्छ्रेष्ठ लक्षणञ्च शृणुष्व मे १ वाताच्छिरोऽर्त्तिः शोफश्च सदोषे वातपैत्तिकम् कफजे सघनं शीतं क्रिमिजेऽसृगुपवाहनम् २ नासापाके गुडशुण्ठ्या वातिके नस्यमेव च शर्कराघृतयष्ट्या च पैत्तिके नस्यमेव च ३ श्लैष्मिके सुरसावासारसेन विहितञ्च तत् विडङ्गहिंगुमगधाः क्रिमिदोषे हिता मताः ४ रक्तजेऽसृग्विरेकश्च शिरोरोगस्योपक्रमे ५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने नासारोगचिकित्सा नाम द्विचत्वारिंशोऽध्यायः ४२
त्रिचत्वारिंशोऽध्यायः आत्रेय उवाच केशघ्नस्य चिकित्सां तु शृणु हारीत साम्प्रतम् रूक्षं सपाण्डुरं वातात्पित्ताद्रक्तं सदाहकम् १ कफान्वितं भवेत् स्निग्धं रक्तात् पाकं व्रजन्ति तत् सन्निपातेन सदृशं जायते सर्वलक्षणम् २ गुडेन सुरसाशुण्ठीमातुलुङ्गरसेन तु केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते ३ त्रिफलावचारोहीतं गुडेनापि प्रपेषितम् धावनं कफसम्भूते चैन्द्रलुप्ते प्रशस्यते ४ पैत्तिके च हितं दुग्धं नवनीतान्वितं तथा शिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ५ भृङ्गराजरसं ग्राह्यं शृङ्गवेररसं तथा सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम् पश्चात्कार्यं पूरुषेण स्नानमुष्णेन वारिणा ६ धवार्जुनकदम्बस्य शिरीषमपि रोहितम् क्वाथमेषां शिरोदद्रूं शमयेदिन्द्रलुप्तकम् ७ कुरबकस्य पुष्पेण जपायाः कुसुमेन च घृष्टस्य चेन्द्रलुप्तस्य कृतमेव निवारणम् ८ पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् शीतलानि प्रदेयानि पैत्तिकेन विधीयते ९ धत्तूरपत्राणि च मागधीनां निशाविशालागृहधूमकुष्ठम् घृतेन युक्तञ्च जलेन पिष्टं शिरःप्रलेपे क्षतवारणं स्यात् १० पित्तकृते दोषयुते च रोगे पटोलपत्रं पिचुमन्दकं वा तथा मलक्याः फलमेव पिष्ट्वा घृतेन खण्डेन प्रलेपनञ्च ११ निवार्यते मस्तकजं क्षतञ्च शिरोऽर्त्तिसङ्घान्विनिहन्ति चैतत् गजेन्द्रदन्तस्य मषीं गृहीत्वा प्रलेपनं वा नवनीतकेन १२ तिलार्क भल्लातकदग्धमाषक्षारस्य लेपो नवनीतकेन सर्पस्य क्षारस्य तथा प्रयोगः खल्लाटके केशचयं करोति १३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने इन्द्रलुप्तचिकित्सा नाम त्रिचत्वारिंशोऽध्यायः ४३
चतुश्चत्वारिंशोऽध्यायः आत्रेय उवाच शेषेण वा तोयभृतेन वापि मलेन वा चाति भवेद्रुजा च उच्छासरोधाद्भवते तथापि वातादिकैर्वा कुपितैरथापि १ संसर्गदोषैरपि सर्वदोषैः क्रिमिव्रणेनापि तथैव चान्या सञ्जायते कर्ण रुजा नरस्य शृणोति तेनापि बहुस्वनांश्च २ निःस्वानमेघध्वनिदन्तशब्दान् शूलं सदाहं च शिरो व्यथा च वेणुस्वनं वत्स शृणोति सर्वं पित्तेन तं विद्धि भिषग्वरिष्ठ ३ तथा च मूर्च्छां प्रतनोति शब्दं मेघस्वनं वा कफजे शृणोति ४ क्रिमिदोषे स्रवेत्पूयं सरक्तं वाति सत्तम तथाचैवाभिघातेन जायते तीव्रवेदना ५ क्षतेन पूयं स्रवते बाल्याद्भवति चापरः तञ्चापि लूतिदोषेण जायते कर्णजा रुजा ६ न कर्णरोगे जलपूरणञ्च न चूर्णमेतत्कथितं विधिज्ञः तैलं हितं स्वेदनमेव कर्णे सवाष्पबिन्दुश्च हितो मतश्च ७ सैन्धवं समुद्रफेनश्च सूक्ष्मचूर्णं च कारयेत् सौवीरकरसेनापि वातिके कर्णपूरणम् ८ अर्द्रसौवीरस्य रसं शुण्ठीसैन्धवगुग्गुलम् माषकुल्माषरसेन तैलं पक्वातिचोष्णकम् ९ कटुतुम्बेन धार्येत कर्णरोगे प्रशस्यते १० यष्टीमधुकुष्ठमरिष्टपत्रं निशा विशालासुमनःप्रवालाः विपाचितं कर्णभवे च शूले सपैत्तिके वा घृतमेव शस्तम् ११ ब्राह्मीरसं सैन्धवकं विडङ्गं सभृङ्गराजस्य घृतेन युक्तम् तथैव सौवीररसञ्च पथ्या स्रुतञ्च वस्त्रं परिपूर्णमेतत् १२ हितं भवेत्तच्छ्रुतिपूरणाय पूयं सरक्तं क्रिमिजं निहन्ति १३ सर्वे प्रोक्ताः शिरोरोगास्तैलानि च घृतानि च जात्यादिकान्वा युञ्जीत शिरोरोगविदांवरः १४ वातहारीणि पथ्यानि विदाहीनि गुरूणि च १५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कर्णरोगचिकित्सा नाम चतुश्चत्वारिंशोऽध्यायः ४४
पञ्चचत्वारिंशोऽध्यायः आत्रेय उवाच उष्णातिक्षारकटुकैरभिघातेन वा पुनः सूक्ष्म वस्त्रेक्षणेनापि दोषाः कुप्यन्ति नेत्रजाः १ सहजा ये पराजेया वक्ष्यामि शृणु लक्षणम् रूक्षः कण्डुश्च तोदश्च शुष्कशीतास्रसन्ततिः २ वातिकं तं विजानीयात्पैत्तिकं शृण्वतः परम् ३ सरक्ते सदाहे नेत्रे उष्णस्रावश्च पैत्तिके शोफकण्डू सन्निपाते शीतजाड्ये कफात्मके ४ द्वन्द्वजो मिश्रलिङ्गैश्च सर्वैस्तैः सान्निपातिके एतद्धि लक्षणं ज्ञात्वा चोपचारं शृणुष्व मे ५ शुण्ठीसुराह्वसुरसाः सह काञ्जिकेन चोष्णेन धावनमिदं सह पैत्तिके च श्लेष्मोद्भवे त्रिफलकल्कमिदं समूत्रं प्रशस्तमन्यैः कथितं भिषग्वरैस्तथा ६ शुण्ठी सठी च रजनी त्रिफला सनिम्बा पत्राणि सैन्धवयुतानि तुषाम्लकेन शस्तं वदन्ति नयनेषु ससन्निपाते रक्तोद्भवे च सरुजे च तथाच शस्तम् ७ फलत्रिकं चारुनिशासु धूमो वचासु वर्षाभवसैन्धवेन प्रलेपनं श्लेष्मभवे विकारे सवातिके वा हितमेव शस्तम् ८ शुण्ठीसैन्धवतक्रेण ताम्रभाण्डे विघर्षितम् अपामार्गस्य मूलं वा मूलं धत्तूरकस्य वा ९ अञ्जनञ्च हितं तेषां वातनेत्रामयापहम् १० दुग्धोत्पन्नं नवनीतं यष्टी निम्बस्तिलाश्च संयोज्याः त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ११ शुण्ठी सैन्धवतुत्थं मागधिका ताम्रभोजने घृष्टम् दध्ना घृतेनाञ्जनकं निहन्ति सर्वांश्च नेत्रगदान् १२ वातपित्तकफदोषसम्भवान्नेत्रयोर्बहुव्यथां हरते क्षणात् एक एव हरति प्रयोजितः शिग्रुपल्लवरसः स माक्षिकः १३ मिथ्याहारविहारैस्तु नेत्रे पुष्पञ्च जायते प्रथमं सुखसाध्यं स्याद्द्वितीयं कष्टसाध्यकम् १४ तृतीयं शस्त्रसाध्यं तु चतुर्थं तदसाध्यकम् १५ शङ्खपुष्पं तथा रोध्रं शङ्खनाभिर्मनःशिला काञ्जिकेन तु सम्पिष्टा छायाशुष्का भिषग्वर १६ वातिके काञ्जिकेनापि पैत्तिके पयसा हिता श्लेष्मले मूत्रसंयुक्ता पुष्पस्याञ्जनके हिता १७ भृङ्गराजरसेनापि त्रिदोषशमने हिता हरीतकी वचा कुष्ठं पिप्पली मरिचानि च १८ विभीतकस्य मज्जा वा शङ्खनाभिर्मनःशिला एतानि समभागानि अजाक्षीरेण पेषयेत् १९ नाशयेत्तिमिरं कण्डूपाटलान्यर्बुदानि च हन्ति पुष्पं सपटलं रात्र्यान्ध्यञ्च नियच्छति २० क्षताभिघाति शोकेन अग्निदग्धं च वा पुनः काचञ्च नीलिका चैव सिद्धिमिच्छन्ति नेत्रयोः २१ बाल्याद्दोषबलादेवदुष्टाहाराभिषेवणात् वार्द्धक्याच्च पटलं स्यात्तस्य वक्ष्यामि लक्षणम् २२ वातात्सकश्मलं रूक्षं पित्तान्नीलं च पीतकम् कफेन शुभ्रं सघनं रक्तेनारक्तकं विदुः २३ सन्निपातादिलिङ्गैश्च अतो वक्ष्यामि भेषजम् २४ शुण्ठीवचारजनितुत्थमनःशिला च शोभाञ्जनाञ्जनविशालजटा च शङ्खम् वास्तूकमूलमधुसैन्धवकट्फलानां सौवीरकेण परिमर्दनवर्तिरेषा २५ छायाविशुष्कनयनाञ्जनके प्रशस्तं नाशं नयेत्पटलनेत्रजरोगसङ्घान् २६ साञ्जना सकट्फलका हरीतकी मनःशिला गुडेन कट्फलञ्चापि निहन्ति नेत्रप्रच्छदम् २७ महाविभीतकफलस्य च शङ्खनाभि घृष्टं ससैन्धवयुतं पयसाम्लकेन वर्तिर्गुडेन नयनाञ्जनके हिता च पित्तप्रसूतपटलस्य निवारणञ्च २८ स धूमञ्च सवातञ्च रूक्षमुष्णादिकं तथा कटुकाम्लं व्यवायञ्च वर्जयेन्नेत्ररोगिणाम् २९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने नेत्ररोगचिकित्सा नाम पञ्चचत्वारिंशोऽध्यायः ४५
षट्चत्वारिंशोऽध्यायः आत्रेय उवाच ओष्ठौ च स्फुटितौ यस्य वातिवाहेन वातिकात् तस्य सर्पिर्भक्षणञ्च ओष्ठदारणवारणे १ सदाहञ्च भवेत्सौष्यं पैत्तिकं तं विनिर्दिशेत् २ मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् लेपनं चोष्ठरोगेषु शर्करासहितं दधि ३ सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम् धवार्जुनकदम्बानां प्रलेपः स्यात्सुखावहः ४ कृष्णा दन्तावलिर्यस्य दन्तमूलं च वातिकात् चलनं वा प्रदृश्येत वातिकञ्च विनिर्दिशेत् ५ पैत्तिकात्पित्तवाहञ्च दन्तमांसं विनिर्दिशेत् श्लैष्मिके दन्तपाके च शोफः स्याच्छ्वेतता भृशम् ६ रक्तजे जायते कण्डूरक्तस्रावश्च दृश्यते सूयते दन्तमांसञ्च सरक्ते दत्पुटे तथा ७ सच्छिद्रं दन्तमूलञ्च सबलं शूलमेव च दन्तमांसं विशीर्येत क्रिमिजा दन्तरुग्भवेत् ८ वचावयानीसहचित्रकेण सिन्धूत्थविश्वासहसिन्धुवारम् कल्कं तथोष्णञ्च सदन्तरोगे मुखे च गण्डूषशतानि पञ्च ९ सर्वेषु मुखरोगेषु हितमेतत्प्रशस्यते वचासैन्धवशुण्ठ्या च घर्षणं दन्तमूलके १० यवानीं च वचां रात्रौ दन्तमूले च धारयेत् पित्तजदत्तरोगेषु नवनीतं सशर्करम् ११ धात्रीफलेन संघृष्टं दन्तरोगनिवारणम् श्लेष्मिकदन्तरोगेषु हरीतक्या गुडेन वा १२ घर्षणं च प्रशस्तं च त्रिफलाक्वाथसंयुतम् अहिमारकमूलस्य क्वाथो गण्डूषधारणात् १३ खदिरस्य तथा क्वाथो यवानीक्वाथ एव च क्वाथश्च निम्बमूलस्य दन्तरोग निवारणः १४ रक्तजे च विकारे च घर्षो लवणसर्षपैः रक्तञ्च स्रावयेत्तस्य इष्टमोष्ठपुटे च तत् १५ विडङ्गं हिंगु सिन्धुञ्च वचाचूर्णेन घर्षयेत् क्रिमिजदन्तरोगेषु हितमेतत्प्रशस्यते १६ जिह्वायां पिटिका यस्य जिह्वापाकं विनिर्दिशेत् वातिके सरुजा कृष्णा पित्तेन दाहसंयुता १७ श्लेष्मणा सघना श्वेता सर्वे वै सान्निपातिके १८ वचा भया विडङ्गानि शुण्ठी सौवर्चलं कणा घृतेन युक्तं जिह्वायां घर्षणं वातिके गदे १९ काञ्जिकेन तु तक्रेण सोष्णगण्डूषधारणम् यष्टीकं चन्दनं मुस्ता मागधी मधुसयुतम् २० लेपनं पैत्तिके दोषे जिह्वास्फोटकवारणम् दुग्धेन च शीतेनापि हन्ति गण्डूषधारणम् २१ दन्तरोगे तथा जिह्वापाके तच्च हितं विदुः रोध्रार्जुनकदम्बानां क्वाथश्चोष्णः सुखावहः २२ श्लेष्मोद्भवे मुखपाके हितं गण्डूषधारणम् रक्तजेषु विकारेषु रक्तस्रावं च कारयेत् २३ कण्टकेनापि जिह्वायाश्चीरयित्वा च लेपनम् मूर्वामुस्ताभयाशुण्ठीमागधीरजनीद्वयम् २४ गुडेन मधुना युक्तं लेपनं रक्तजिह्वके मरिचञ्चवचा कुष्ठं हरीतक्याश्च चूर्णितम् घर्षणं श्लेष्मणि जाते जिह्वापाके हितं विदुः २५ तिलपिच्छिलगौल्यादिसेवनातिद्रवादपि नवोदकेन कफजो जायते घण्टिकागदः २६ जिह्वामूले कण्ठसन्धौ श्लेष्मरक्तसमुद्भवः तेनास्यशोषो जडता ज्वरो मन्दश्च जायते २७ शिरोव्यथारुचिस्तन्द्रा तथास्य जडता भवेत् तर्जन्यां कण्ठमध्ये तु सम्पीड्य रक्तपन्थिका २८ परिस्रुतं तथा रक्तं तदा विम्लापनं हितम् वचाञ्च मरिचं कृष्णाचूर्णं तत्र निधापयेत् २९ मर्दनं स्यात्कण्ठदेशे तेन ग्रन्थिविलीयते धान्यनागरजीमूतवचाः ह्येताः समांशकाः ३० क्वाथः स्वेदो घण्टिकाया मुखे गण्डूषधारणम् दिवारात्रौ वचाग्रन्थिं मुखे सन्धारयेद्भिषक् ३१ तेन सौख्यं भवेत्तस्य मुखरोगाद्विमुच्यते ३२ गले घण्टिकामार्गे च रक्तश्लेष्मविकारजा लम्बिका वर्धते नृणां विज्ञेया गलशुण्डिका ३३ रुन्धते चास्यमार्गञ्च नेत्रस्रावः प्रदृश्यते शिरोऽर्त्तिः श्वासकासञ्च ज्वरेणैव प्रपच्यते ३४ आशुकारी महाप्राज्ञः शीघ्रं कुर्यात्प्रतिक्रियाम् शस्त्रेण शुण्डिकां छित्त्वा कुर्याद्विम्लापनं हितम् ३५ मागधी मरिचं पथ्या वचाधान्ययवानिकाः क्वाथः सोष्णः स्वेदमायाद्गलशुण्डोपशान्तये ३६ दिवा रात्रौ यवान्याश्च मुखे सन्धारणं हितम् मर्दनं कण्ठदेशे तु तेन सम्पद्यते सुखम् ३७ सिद्धार्थकं वचा कुष्ठं रजनी पारिभद्रकम् ग्रहधूमं सलवणं कण्ठे वा लेपनं हितम् ३८ ज्वरे प्रोक्तानि पथ्यानि यानि तानि महामते न गौल्यं पिच्छिलं सेव्यं तैलं नैव गलामये ३९ इति गलशुण्डिकाचिकित्सा इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मुखरोगचिकित्सा नाम षट्चत्वारिंशोऽध्यायः ४६
सप्तचत्वारिंशोऽध्यायः आत्रेय उवाच क्लैब्यं पञ्चविधं प्रोक्तं समासेन शृणुष्व मे १ निरोधातिव्यवायेन वयःश्रान्तेऽपि मानवे जायते रेतसो हानिः क्लीबत्वञ्चापि जायते २ त्रिविधं जायते क्लैब्यं मानसं रेतसः क्षयात् सहजं शुष्कसंस्वेदाज्जायते क्लीबता नरे ३ यस्य वै ममता चित्ते दृष्ट्वा स्त्रीणां विरागिताम् स्पर्शने स्वेदकं पञ्च तत्साध्यं मानसं स्मृतम् ४ यस्य विद्वेषतः स्त्रीणां व्यवायेन मनःक्षितिः ध्वजभङ्गो भवेच्छीघ्रं तत्क्लैब्यं रेतसः क्षयात् ५ समप्रकृतिर्यस्यान्यः सोऽप्यसाध्यतमः स्मृतः मनःक्षये मनोद्रेको मुग्धस्त्रीसहसङ्गमः ६ सरागविभ्रमकथालापैः संवर्द्धते मनः शुक्रक्षये शुक्रवृद्धिं कथयिष्यामि साम्प्रतम् ७ विदारिकागोक्षुरमूषकानां धात्रीफलं स्यात्सहसैन्धवानाम् समानि चैतानि च मागधीनां युक्तं सिताढ्यं पयसा पिबेच्च ८ विषं बृहत्यौ मगधात्रिकण्टास्तथात्मगुप्ता सशतावरी च सशर्करं गोपयसो घृतेन पानं नराणां प्रकरोति बीजम् ९ यवगोधूममाषाणां निस्तुषाणाञ्च चूर्णकम् दुग्धेनेक्षुरसेनापि संस्कृत्य तु घृतेन तु १० पाचितं वटकश्रेष्ठं भक्षयेत्प्रातरुत्थितः तस्योपरि पयःपानं पिप्पलीशर्करान्वितम् ११ यवक्षारविदारीञ्च माषचूर्णं तथा यवान् मरिचानां सिताढ्यञ्च घृतानाञ्च प्रपोलिकाम् १२ पाचयेद्भक्षयेत्प्रातः पयःपानं तथोपरि वीर्यञ्च कुरुते पुंसां वनिता रमते भृशम् १३ गुडूची शतमूली च स्वयंगुप्ता बला तथा १४ शाल्मली मुसलीमूलं चूर्णं गोपयसान्वितम् पानं नराणां श्रेष्ठं तु बीजमिन्द्रियकारकम् १५ विदारिकन्दांशुमती बृहत्यौ काकोलिका भीरु पुनर्नवे द्वे शृङ्गाटकं मागधिका बला च चूर्णं सिताढ्यं सितया प्रयोज्यम् १६ जीर्णे पयः पायसमेव योज्यं करोति पुंसां बलमेवमोजः स्त्रीणां सहस्रं भजतेऽपि षण्ढो मासद्वयेप्रस्तुतमेव शस्तम् १७ वर्जयेत्कटुकं चाम्लं तीक्ष्णं चोष्णं विदाहि च रूक्षं वापि च सौवीरं प्रोक्तानि चेन्द्रियक्षतौ १८ पलाण्डुयवनं कन्दांस्तिलान्माषान्यथाबलम् तथौदनं विशालीनां दुग्धं चेक्षुरसं तथा १९ वास्तुकं चिल्लकानाञ्च पथ्ये शुक्रक्षयादपि वर्जित्वा सूरणं शुण्ठी योगयुक्तो न योजयेत् २० इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वाजीकरणं नाम सप्तचत्वारिंशोऽध्यायः ४७
अष्टचत्वारिंशोऽध्यायः आत्रेय उवाच वन्ध्या स्यात्षट्प्रकारेण बाल्येनाप्यथवा पुनः गर्भकोशस्य भङ्गाद्वा तथा धातुक्षयादपि १ जायते न च गर्भस्य सम्भूतिश्च कदाचन काकवन्ध्या भवेच्चैका अनपत्या द्वितीयका २ गर्भस्रावी तृतीयाऽथ कथिता मुनिसत्तमैः मृतवत्सा चतुर्थी स्यात्पञ्चमी च बलक्षयात् ३ तस्योपक्रमणं वक्ष्ये येन सा लभते सुतम् ४ अजातरजसां स्त्रीणां क्रियते यदि मैथुनम् तेनैव गर्भसङ्कोचं भगत्वमुपगच्छति ५ तेन स्त्री भवते वन्ध्या गर्भं गृह्णाति नो भृशम् सा च कष्टेन भवति रामा गर्भवती भिषक् ६ औषधैश्चोपचारैश्च सिद्धिश्चापि न संशयः अनपत्यबलेनापि जायते भिषजां वर ७ न भवेत्काकवन्ध्या च अनपत्यापि सिध्यति सिध्यन्ती क्षीणधातुत्वाज्जायते सा भिषग्वर ८ चन्दनोशीरमञ्जिष्ठापटोलं धनवालकम् मधुकं मधुयष्टी च तथा लोहितचन्दनम् ९ सारिवा जीरकं मुस्तं पद्मकञ्च पुनर्नवा क्षीरेण शर्करायुक्तं पानं पित्तोद्भवे गदे १० ज्ञात्वा योनिविशुद्धिञ्च तत्र दद्यान्महौषधम् चन्दनोशीरमञ्जिष्ठा गिरिकर्णी सिता तथा ११ क्षीरेणालोडिता पित्ते पुष्पसिद्धिं करिष्यति १२ रजोरक्तं परीक्षेत वातपित्तकफात्मकम् सरुजञ्च सकृष्णञ्च पक्वजम्बूनिभं च यत् वातेन बाधितं पुष्पं तच्च संलक्षयेद्बुधः १३ तस्य नागरपिप्पल्यौ मुस्ताधन्वयवासकम् बृहत्यौ पाटला चैव क्वाथः सगुडको दधि १४ सप्ताहं पाययेद्धीमान्यावत्स्रवति शोणितम् विशुद्धे च तथा रक्ते पाययेत्पयसान्वितम् १५ श्वेता च गिरिकर्णी च श्वेता गुञ्जा पुनर्नवा तेन सा लभते गर्भं मासमेकं प्रयोगतः १६ जपाकुसुमसङ्काशं कुसुम्भरससन्निभम् दाहशोषमूत्रकृच्छ्रयुक्तं तत् पित्तदूषितम् १७ चन्दनोशीरमञ्जिष्ठापटोलं घनवालकम् मधुकं यष्टिमधुकं तथा लोहितचन्दनम् १८ पद्मकं पुनर्नवे द्वे शारिवा जीरकं घनम् क्षीरेण शर्करायुक्तं पानं पित्तकृते गदे १९ ज्ञात्वा योनिविशुद्धिञ्च तत्र दद्यान्महौषधम् श्वेतार्कमूलं पयसा श्वेता च गिरिकर्णिका २० श्वेताद्रिकर्णीमूलञ्च पानं गोक्षीरसंयुतम् वन्ध्यानां गर्भजननं भवते लक्षणान्वितम् २१ सघनं पिच्छलं चापि जाड्यं स्यान्मूत्ररोधनम् आलस्यतन्द्रा निद्रा च कफदुष्टं रजो विदुः २२ त्रिफला गिरिकर्णी च तथारग्वधवत्सकौ पयसा पयसा पानं स्त्रीणाञ्च गर्भकारणम् २३ बलाद्यं चन्दनाद्यञ्च द्राक्षाद्यं चूर्णमेव च दापयेद् गर्भजननं नारीणां भिषगुत्तमः २४ खण्डकाद्यञ्च चूर्णञ्च नारीणां भिषगुत्तमः पुनर्नवाद्यं देयं वा स्त्रीणां गर्भप्रदायकम् २५ अथ पथ्यं प्रवक्ष्यामि स्त्रीणां च शृणु पुत्रक कञ्चरं सूरणं चैव तथा चाम्लं च काञ्जिकाम् २६ विदाहिकं च तीव्रं च स्त्रीणां दूरे परित्यजेत् वन्ध्याकर्कटकीमूलं लाङ्गली कटुतुम्बिका २७ देवदाली द्विबृहती सूर्यवल्ली च भीरुका निर्माल्यं माल्यवस्त्रञ्च तथा स्यादृतुसङ्गमः २८ अन्यस्त्रीस्नातमुदकं स्त्रीणां पथ्यमुपक्रमः २९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वन्ध्योपक्रमो नामाष्टचत्वारिंशोऽध्यायः ४८
एकोनपञ्चाशत्तमोऽध्यायः आत्रेय उवाच प्रथमे मासि यष्टीमधुपरुषकं मधुपुष्पाणि यथा लाभम् नवनीतेन पयो मधु मधुरं पाययेच्च १ द्वितीये मासि काकोली मधुरं पाययेत्तथा तृतीये कृशरा श्रेष्ठा चतुर्थे च कृतौदनम् २ पञ्चमे पायसं दद्यात् षष्ठे च मधुरं दधि सप्तमे घृतखण्डेन चाष्टमे घृतपूरकम् ३ नवमे विविधान्नानि दशमे दोहदं तथा मासे तृतीये सम्प्राप्ते दोहदं भवति स्त्रियः ४ यद्यत् कामयते सा च तत्तद्दद्याद्भिषग्वरः ५ वर्जयेद्द्विदलान्नानि विदाहीनि गुरूणि च अम्लानि सोष्णक्षीराणि गुर्विणीनां विवर्जयेत् ६ मृत्तिका भक्षणीया न न च सूरणकन्दकाः रसोनश्च पलाण्डुश्च सन्त्याज्यो गुर्विणीस्त्रिया ७ सूरणानि प्रदेयानि गौल्यानि सरसानि च पथ्ये हितानि चैतानि गुर्विणीनां सदा भिषक् ८ व्यायामं मैथुनं रोषं शोषं चंक्रमणं तथा वर्जयेद्गुर्विणीनाञ्च जायन्ते सुखसम्पदः ९ अथोपपन्नं विहितमपि स्वकीयाचारेण पञ्चमासिकमटमासिकं वा ब्राह्मणमङ्गलादिभिर्गोत्रभोजनमपि कर्त्तव्यम् दोहदादिषु परिपूर्णेषु रूपवान् शूरः पण्डितः शीलवान्पुत्रो जायते १० इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपचारो नाम एकोनपञ्चाशत्तमोऽध्यायः ४९
पञ्चाशत्तमोऽध्यायः आत्रेय उवाच प्रथमे मासि गर्भस्य चलनं दृश्यते यदि तदा मधुकमृद्वीकाचन्दनं रक्तचन्दनम् १ पयसालोडितं पीतं तेन गर्भः स्थिरो भवेत् २ द्वितीये मासि चलिते मृणाले नागकेशरम् तृतीये मासि गर्भस्य चलनं दृश्यते यदा ३ तदा मूषककिट्टं तु शर्करापयसा पिबेत् चतुर्थे मासि दाहश्च पिपासा शूलमेव च ४ ज्वरेण स्त्रीणां यदि गर्भश्चलते तदोशीरचन्दननागकेशरधातकीकुसुमशर्कराघृतमधुदधिपाययेत् । पञ्चमेमासे चलिते गर्भे दाडिमीपत्राणि चन्दनं दधि मधु च पाययेत् । षष्ठे मासि गैरिकं कृष्णमृत्तिकागोमयभस्म उदकं परिस्रुतं शीतलं चन्दनं शर्करया सह पिबेत् । सप्तमे मासि गोक्षुरसमङ्गापद्मकघनमुशीरनागकेशरं मधुरं पाययेत् । अष्टमे मासि रोध्रं मधु मागधिकाञ्च सह दुग्धेन पीतवतीनां चलिते गर्भे स्त्रीणां सुखं सम्पद्यते ५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने चलितगर्भचिकित्सानाम पञ्चाशत्तमोऽध्यायः ५०
एकपञ्चाशत्तमोऽध्यायः आत्रेय उवाच शोषो हृल्लासच्छर्दिश्च शोफो ज्वरस्तथारुचिः अतीसारो विवर्णत्वमष्टौ गर्भस्योपद्रवाः १ वक्ष्यामि भेषजं तस्य यथायोगेन साम्प्रतम् वटप्ररोहं मगधामुशीरं घनमेव च २ युता खण्डगुटिकास्ये विहिता शोषवारिणी ३ वत्सकं मगधा शुण्ठी तथा चामलकीफलम् युक्तं कोमलबिल्वेन दध्ना पिष्टं तु दापयेत् ४ शर्करासंयुतं पानं स्त्रीणां गर्भे हितं सदा ५ पीतो भूनिम्बकल्कश्च शर्करासमभावितः छर्दिं हरेच्च हृत्क्लेदं मधुना वा समन्वितः ६ शृङ्गवेरं सकटुकं मातुलुङ्गस्य केशरम् मार्जनं दन्तजिह्वासु गन्डूषश्चोष्णवारिणा ७ गुर्विणीनाञ्च सर्वासामरुचिं च नियच्छति वत्सकं दाडिमं पाठा बिलबिल्वबलास्तथा ८ जम्ब्वाम्रपल्लवाश्चैव यथा लाभेन सत्तम शर्करादधिसंयुक्तं स्त्रीणाञ्चैवातिसारके ९ हरीतकी नागरकं गुडेन वा त्रिफलाकषायः शीतः स्त्रीणां विनिहन्ति पाने विबन्धविद्रधींश्च १० मूत्रविबन्धनस्य त्रपुसैर्वारिबीजानि मागधी च शिलाभेदं सिताढ्यञ्च पिबेत्तण्डुलवारिणा । मूत्ररोधं गुर्विणीनां वारयत्याशु निश्चितम् ११ मधुकविषमृणालं पद्मकिञ्जल्ककल्कं घनमतिविषमैन्द्रं बीजमौशीरनीरम् । समकृतमथ कल्कं देयमाशु प्रपाने हितमपि युवतीनां गर्भचाले सिताढ्यम् १२ गर्भस्योपद्रवाः शोफाः स्वेदयेदुष्णवारिणा न दातव्यो मतिमता विरेको दारुणो महान् १३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपद्रवचिकित्सा नामैकपञ्चाशत्तमोऽध्यायः ५१
द्विपञ्चाशत्तमोऽध्यायः आत्रेय उवाच विरुद्धाहारसेवाभिस्तथा गर्भव्यथासु च अतिमूर्द्धनपीडायाः पीडां प्राप्नोति चार्भकः १ तिर्यग्वापि च गर्भञ्च त्यक्त्वा द्वारं भगस्य च अन्यद्वा म्रियतेऽपत्यं तेन कष्टं प्रपद्यते २ अथवा लज्जया स्त्रीणां सङ्कोचात्सङ्कुचिते भगे मूढगर्भञ्च जानीयात्तस्य वक्ष्यामि लक्षणम् ३ बस्तिशूलञ्च भवति योनिद्वारं निरुन्धति गर्जते जठरं यस्या आध्मानञ्चैव जायते ४ तोदनं चाङ्गभङ्गश्च निद्राभङ्गश्च जायते वाताद्भवति गर्भस्य संरोधो भिषगुत्तम ५ शूलं ज्वरस्त्रिदोषश्च तृष्णादोषो भ्रमस्तथा मूत्रकृच्छ्रं शिरोऽर्त्तिः स्यात्पित्ताद्रोधो भ्रूणस्य च ६ आलस्यतन्द्रानिद्रा च जाड्याध्मानं च वेपथुः कासो विरसता चास्ये श्लेष्मणा मूढगर्भके ७ द्वन्द्वैश्च द्वन्द्वजं विद्यात्सर्वं स्यात्सान्निपातिकम् ८ भ्रममूर्च्छातृषाध्मानं वातरोधञ्च विह्वलम् मूर्च्छावमिं सपारुष्यं दीनत्वमुपगच्छति ९ मृतगर्भं विजानीयादाशुकारी स्त्रियामपि अतोवक्ष्यामि भैषज्यं महामोहे विशारद १० वातिके मर्दनाभ्यङ्गं स्वेदनं वाल्पमेव च यवागूं पञ्चकोलञ्च पाययेद्भिषगुत्तमः ११ पैत्तिके शीतलं पानं शीतान्नसहितानि च व्यञ्जनानि तथा तस्य यष्टिकं पयसा पिबेत् १२ त्रिकटु त्रिफला कुष्ठं रोध्रं वत्सकधातुकी सगुडं क्वथितं पाने श्लेष्मणा मूढगर्भके १३ मूर्वाचिञ्चावास्तुकर्णीमञ्जिष्ठारोध्रनीलिकाः कर्कन्धुमूलं सौराष्ट्री क्वाथश्च सगुडो हितः १४ रक्तपित्तविकारेषु कुक्षिशुद्धिश्च जायते मृतगर्भस्य वक्ष्यामि भेषजं भिषजां वर १५ मर्दयित्वा मानुषीञ्च ततश्चापि प्रयत्नतः निराहाराच्च म्रियते यदिगर्भोऽन्तरे स्त्रियः १६ तदा शस्त्रप्रतीकारं भेषजानि शृणुष्व मे नाभिबिलशयाच्च सुकुण्डलिकां कृत्वा तु तस्योपरि मूढगर्भामुपवेश्य जानुनी प्रसार्य किञ्चित्पृष्ठभागे साधारणमवष्टभ्य उदरादधोऽवतारयेत् । योनिद्वारे प्रगलति तिलतैलेन वारिणा परिभ्यज्य हस्तो याति योनिद्वारञ्च तस्मात्तर्जन्यांगुष्ठेन गलप्रदेशे धृत्वा निःसारयेत् । अथवार्द्धचन्द्रेण शस्त्रेणैव मृतगर्भस्य बाहुयुगलं संच्छिद्य बाहू निःसारयेत् १७ लाङ्गल्या मूलेन उष्णेन वारिणा योषितां नाभिलेपेन शीघ्रं गर्भो जायते प्रसूयते च । बलामूलं सूर्यकान्तिसोमवल्लीकानि कज्जलेन पिष्ट्वा लेपनं करोतु १८ भीरुभूनिम्बवार्त्ताकीमूलञ्च पिप्पलीयकम् यवान्यग्रवचाः पिष्ट्वा तथा चोष्णेन वारिणा १९ नादिदेशादधस्ताच्च प्रलेपेन प्रसूयते मूलञ्च लाङ्गलिक्याश्च देवदाल्याश्च तुम्बिका २० कोशातक्यादिकं सर्वं लेपने परिकल्पितम् सूतिलेपाः स्त्रियो ह्येते सुखेन सा प्रसूयते २१ हिमवदुत्तरे कूले सुरसा नाम राक्षसी तस्या नूपुरशब्देन विशल्या गुर्विणी भवेत् २२ ऐं ह्रीं भगवति भगमालिनि चल चल भ्रामय पुष्पं विकाशय विकाशय स्वाहा । ॐ नमो भगवते मकरकेतवे पुष्पधन्विने प्रतिचालितसकलसुरासुरचित्ताय युवतिभगवासिने ह्रीं गर्भं चालय चालय स्वाहा । अभिर्मन्त्रितं पयः पाययेत्तेन सुखप्रसवः २३ ऐं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रौं ह्रः २४ इदं यन्त्रं भूर्जपत्रस्योर्ध्व भागे लिखित्वा मूढगर्भायै दर्शयेच्छयातले च स्थापयेत्तेन सुखेन प्रसवः २५ गङ्गातीरे वसेत्काकी चरते च हिमालये तस्याः पक्षच्युतं तोयं पाययेच्च ततः क्षणात् २६ ततःप्रसूयते नारी काकरुद्रवचो यथा अनेन दूतो व्याकुलो भवेत्तावच्च पाययेत् २७ तेन प्रसूयते नारी गृहे काकसुखेन च २८ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूढगर्भचिकित्सानाम द्विपञ्चाशत्तमोऽध्यायः ५२
त्रिपञ्चाशत्तमोऽध्यायः आत्रेय उवाच प्रसूत्यनन्तरं रोध्रार्जुनकदम्बदेवदारुबीजकाह्वं कर्कन्धूञ्च यथालाभं लोहितविशुद्धे दापयेत् । प्रसूतिजाता योनिः संशोध्यते तैलेनापूर्याभ्यज्य चोष्णेन वन्रिणा स्वेदयेत् उपवासमेवं कृत्वा द्वितीये दिवसे गुडनागरहरीतकीश्च दापयेत् । द्वययामोर्ध्वं कुलत्थयूषं वा सोष्णं पाययेत् । तृतीयदिवसे पञ्चकोलयवागूर्दापयेत् । चतुर्जातक मिश्रा यवागूर्दापयेत् । पञ्चमेऽहनि शालिषष्टिकौदनं भोजयेत् । अनेन क्रमेण दशपञ्चदशाहं चोपचारयेत् १ पिप्पली पिप्पलीमूलं नागरं घनवालुकम् कुस्तुम्बुरूणि मञ्जिष्ठां सह क्षीरेण कल्कयेत् २ पानं क्षीरविशुद्ध्यर्थं कल्कमश्नात्यनन्तरम् मरीचं पिप्पलीमूलं क्षीरं क्षीरविवृद्धये ३ मागधी नागरी पथ्या गुडेन सघृतं पयः पानं जनयते क्षीरं स्त्रीणाञ्च क्षीरपादपि ४ एवं कृत्वा च नारीणां द्वादशाहे भिषग्वरः माङ्गल्यं वाचनं कृत्वा योषार्थञ्च प्रदर्शयेत् ५ जातके सुतमोक्षञ्च द्वादशाहं तथा पुनः नामकर्मकृतौ सत्यां कर्णवेधनमेव च ६ वस्त्रबन्धं विवाहञ्च कारयेद्बालकस्य च ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने सूतिकोपचारीनाम त्रिपञ्चाशत्तमोऽध्यायः ५३
चतुःपञ्चाशत्तमोऽध्यायः आत्रेय उवाच पञ्चैव क्षीरदोषाश्च स्त्रीणाञ्च कथिताबुधैः घनक्षीरोष्णक्षीराम्लक्षीरा चैव तथा परा १ अल्पक्षीरा क्षारक्षीरा मृदुक्षीरा तथा परा मृदुक्षीरा भवेत्सौख्या पञ्चान्या दोषकारकाः २ घनाध्माननिरोधत्वं श्वासकासादिसम्भवः उत्फुल्लकुक्षितैवं हि घनक्षीरस्य सेवनात् ३ अल्पसत्वः कृशो दीनः श्वासातीसारपीडितः अल्पक्षीरस्य दोषेण सम्भवेद्घतवाक्सुतः ४ ज्वरः शोषस्तथाल्पत्वमुष्णक्षीरेण बालके तथैव चोष्णक्षीरेण ज्वरातीसार एव च ५ सुसत्वं बलमाप्नोति चारोग्यं लभते शिशुः मृदुक्षीरेण नियतं जायते रूपवानपि ६ चक्षूरोगश्च कण्डूश्च क्षतश्लेष्मावस्राविता संक्लेदयुक्तं नासास्यं जायते क्षारदुग्धके ७ अतो वक्ष्यामि भैषज्यं शृणु हारीत मे मतम् ८ आध्मानात्फुल्लकुक्षिश्च श्वासदोषादिपीडितः उत्फुल्लिका च विज्ञेया बालानां दुःखकारिणी ९ उदरे च जलौकादिरक्तं चादौ विमोक्षयेत् उत्फुल्लिदोषे दातव्य क्षीरदोषनिवारणम् १० अग्निना प्रबलः स्वेदो दहेद्वापि शलाकया जठरे बिन्दुकाकारा जायन्ते भिषगुत्तम ११ बिल्वमूलफलं पाठा त्रिकटु बृहतीद्वयम् क्वाथश्च गुडयुक्तश्च बालानाञ्च ज्वरे हितः १२ स्त्रीणां स्यात्पानमेतेषां बालानां ज्वरनाशनम् १३ हितः पर्पटकक्वाथः शर्करामधुयोजितः बालानां ज्वरनाशाय कैरातं मधुसंयुतम् १४ भार्ङ्गीरास्नाकर्कटकचूर्णं वा मधुसंयुतम् लेहो वा बालकस्यापि श्वासकासनिवारणः १५ पथ्यावचानागरकं घनं कर्कटमेव च चूर्णं सगुडमेवं हि बालानां कासनाशनम् १६ पलाशभेदं त्रिफलात्रपुसीवरीमागधीः पिष्ट्वा तण्डुलतोयेन सिताढ्यं मूत्ररोधजित् १७ नागरीमभयादन्तीगुडचूर्णं प्रदापयेत् बालानां विद्रधिञ्चैव नाशयेच्च न संशयः १८ पाठाबिल्वशिलादीनि वत्सकं शाल्मलीत्वचम् दुग्धेन पानं बालानामतिसारनिवारणम् १९ अर्जुनञ्च कदम्बञ्च कुष्ठं गैरिकमेव च लेपनं त्वचो दोषाणां वारणं बालकस्य च २० रोध्रं रसाञ्जनं धात्री गैरिकं मधुना युतम् अञ्जनञ्चैव बालानां नेत्ररोगनिवारणम् २१ वचा ब्राह्मी च मण्डूकी घनकुष्ठं सनागरम् घृतेन प्रातर्देयञ्च बालानां पुष्टिकारकम् २२ गुडूचिकापामार्गश्च विडङ्गं शङ्खपुष्पिका विष्णुक्रान्ता वचा पथ्या नागरञ्च शतावरी २३ चूर्णं घृतेन संमिश्रं लिहतो धीः प्रवर्त्तते त्रिभिर्दिनैः सहस्रकं श्लोकानामवधारयेत् २४ त्रिकटु त्रिफला धन्या यवानी सालमूलिका वचा ब्राह्मी तथा भार्ङ्गी चूर्णञ्च मधुना हितम् वाक्पटुत्वञ्च बालानां नादो वीणासमस्वरः २५ यस्य श्वासो विचैतन्यं तन्द्रा चातीववेपथुः शिरोऽर्तिः संज्वरश्चैव सचासाध्यो भिषग्वर २६ लालाकृतिर्विचैतन्यं तृप्त विभ्रान्तलोचनम् स्तब्धाङ्गविकृतिर्यस्य चापस्मारी स उच्यते २७ अपस्मारे तु बालस्य शीतलानि प्रयोजयेत् वचा सैन्धवपिप्पल्यो नस्यं हि गुडनागरः २८ रसं चागस्ति पत्रस्य मरिचैः प्रतियोजितम् एतेन प्रतिसौख्यं स्यात्तदा चान्दोलनं हितम् २९ मस्तकान्ते ललाटे च दहेल्लोहशलाकया ३० शून्यागारे देवकुले श्मशाने देवमध्यगे चत्वरे सङ्गमे नद्योर्भय क्षुभितबालके ३१ संक्रामन्ति भिषक्छ्रेष्ठ बालकस्यापि पूतनाः ३२ लोहिता रेवती ध्वांक्षी कुमारी शाकुनी शिवा ऊर्ध्व केशी तथा सेना ह्यष्टौ चैताः प्रकीर्त्तिताः ३३ तथान्यासाञ्च मत्तस्त्वं नामानि शृणु साम्प्रतम् रोहिणी विजया काली कृत्तिका डाकिनी निशा ३४ भूतकेशी कृशाङ्गी च अष्टौ चैताः प्रकीर्त्तिताः लक्षणञ्च प्रवक्ष्यामि शृणु पूजाबलिक्रमम् ३५ जातमात्रस्य बालस्य लोहिता नाम पूतना विस्रगन्धा लोहितञ्च रोदिति स मुहुर्मुहुः ३६ बलिं तस्याः प्रवक्ष्यामि येन सौख्यं प्रजायते द्वितीये दिवसे बालं रेवती नाम पूतना ३७ गृह्णाति लक्षणं तस्य रोदति कम्पते भृशम् कृष्णमृन्मयीं प्रतिमां कृत्वा गन्धानुलेपनैः ३८ कृशरारालचूर्णञ्च दीपधूपैस्तथाक्षतैः ताम्बूलैः कृष्णसूत्रैश्च रात्रौ नैऋर्तिके क्षिपेत् ३९ तृतीये दिवसे प्राप्ते वायसी नाम पूतना तया गृहीत मात्रेण रोदिति न पिबेत्स्तनम् ४० ज्वरश्चैवातिसारश्च काक वद्वदति भृशम् तस्या दध्योदनं पात्रे यवकृशरपोलिकाः ४१ ध्वजानिः सगुणश्चैव कृष्णगन्धानुलेपनम् धूपदीपाक्षतैश्चैव मध्याह्ने बलिमाहरेत् ४२ चतुर्थे दिवसे बालं कुमारी नाम पूतना गृह्णाति वालकस्ते न ज्वरेण परितप्यते ४३ शून्यं विगाहते बालस्तन्मुखं परिशुष्यति भृशं स रोदिति तस्याः शृणु पूजाबलिक्रमम् ४४ पायसं घृतं खण्डं घृतस्य दीपकत्रयम् ४५ मृन्मयीं प्रतिमां कृत्वा पुष्प धूपाक्षतैरपि कृतान्तदिशि मध्याह्ने बलिं दत्वा सुखी भवेत् ४६ पञ्चमे दिवसे बालं शाकुनी नाम पूतना गृह्णाति स तयाक्रान्तः स्तन्यं नाकर्षते शिशुः ४७ सज्वरो वमति रौति कासमानोऽथ वेपते ४८ तस्याः शोभनिका पूजा क्रियते तिललड्डुकैः श्वेतगन्धाक्षतैर्धूपैः पूजयेन्मृण्मयाकृतिम् ४९ उत्तराशां समाश्रित्य पूर्वाह्णे बलिमाहरेत् षष्ठे च दिवसे प्राप्ते शिवा नाम कुमारिका ५० रौति निःश्वसिति तेन वमति कम्पते तथा स्तन्यञ्च नाहरेद्बालो ज्वरातिसारपीडितः ५१ तस्यै बलिः प्रदेयश्च सप्तव्रीहिमयश्चरुः पायसैर्दधिदीपैश्च पूज्या सा तिलचूर्णकैः ५२ गन्धपुष्पाक्षतैर्धूपैः पूजयेन्मृण्मयाकृतिम् ऐशानीं दिशमाश्रित्यापराह्णे बलिमाहरेत् ५३ सप्तमेऽह्नि पूतनाया उर्ध्वकेश्याः शिशौ तथा पूर्ववद्दृश्यते चिह्नं तथैव बलिमाहरेत् ५४ अष्टमे दिवसे प्राप्ते सेना नाम च पूतना तथा गृहीतः श्वसिति हस्तौ कम्पयते भृशम् ५५ तस्यै दध्योदनं दद्यात्तिलचूर्णञ्च पोलिकाम् धूपदीपगन्धपुष्पताम्बूलान्यक्षतानि च ५६ आग्नेयीं दिशमाश्रित्य प्रदोषे बलिमाहरेत् एवं क्रमेण मासस्य वर्षस्य बलिकर्म च ५७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने बालचिकित्सानाम चतुःपञ्चाशत्तमोऽध्यायः ५४
पञ्चपञ्चाशत्तमोऽध्यायः आत्रेय उवाच शून्ये देवकुले श्मशानभूमौ वीथीप्रतोलीतले रथ्या कारविहारशून्यनगरे चारामक चत्वरे १ जायन्ते क्षुभिते बलानि हृदये क्षुद्रग्रहाणां नरे ते चापि प्रथिता ग्रहा दशविधा वक्ष्याम्यतः साम्प्रतम् २ दश प्रोक्ता महाचार्यैः कैश्चिदप्येकविंशतिः दशग्रहाणां वक्ष्यामि चिकित्सां शृणु पुत्रक ३ ऐन्द्राग्नेयौ यमश्चान्यो नैऋर्तो वरुणो ग्रहः मरुतोऽपि कुबेरश्च ऐशान्यो ग्रहको ग्रहः ४ पैशाचिको ग्रहश्चान्यो दशैते ग्रहनायकाः आरामे च विहारे च देवस्थाने च यो भवेत् ५ ऐन्द्रग्रहं विजानीयात्तेन हर्षति गायति सदर्पश्चासदर्पश्च उन्मादग्रस्त एव च ६ श्मशाने चत्वरे चैव गृह्णात्याग्नेयकुग्रहः तेनैव रोदित्यत्यर्थं पश्यति सर्वतो भयम् ७ युद्धभूमौ श्मशाने च यमश्चापि उदीर्यते तेन विह्वलो दीनश्च प्रेतवच्चेष्टते नरः ८ वल्मीकचत्वरे चैत्ये गृह्णाति नैऋर्तो ग्रहः तेनासौ वर्त्तते द्वेष्टि धावति मारयत्यपि ९ गृप्तनेत्रो विवर्णास्यो बलिष्ठो दुष्टचेतनः नदीतडागतीरे च चलति वारुणग्रहः १० तेनास्यात्स्रवति लाला भृशं मूत्रयति नरः नेत्रप्लावश्च दृश्येत मूकवत्प्रविलोक्यते ११ वातमण्डलीमध्ये च गृह्णाति मारुतग्रहः तेनास्य शोषयेद्दीनः कभ्यते रोदित्यथवा १२ विह्वलः श्रान्तनेत्रश्च निषीदति क्षुधातुरः हर्षगर्वाभिमाने च गृह्णाति यक्षराड् ग्रहः १३ तेन गर्वोद्धतश्चैव तथालङ्कारसुप्रियः १४ देवस्थाने च रम्ये च शिवग्रहश्छलप्रदः भस्माङ्गरागं कुरुते भ्रमते च दिगम्बरः १५ शिवध्यानरतो नित्यं गीतवाद्यप्रियस्तु सः १६ शून्यागारे शून्यकूपे ग्रहको ग्रहनामकः क्षुधार्त्तो न तृषार्त्तश्च कथति न शृणोति च १७ उच्छिष्टे वा शुचौ यस्य छलति पिशाचग्रहः तेन नृत्यति रौति वा गायति जल्पति तथा १८ मत्तवद्भ्रमते नग्नो लालास्रावः क्षुधादिकः एवं दशग्रहाणाञ्च लक्षणं कथितं मया १९ वक्ष्याम्यतः प्रतीकारं शृणु पुत्र समासतः जलस्नानं सातिशयं तथा च बलिकर्म च पूजां यथा वाच्यमानां तेन सम्लभते सुखम् २० एलाजातिफलंमधूकयुगलं रास्ना तथा खादिरः कर्पूरामलकीजटाबहुसुताघोण्टाम्लसारास्तथा । सीसं पारदसारदाडिमफलं मद्यैश्च सम्मीलितं प्रत्येकं दधिदुग्धलाङ्गलरसैर्युक्तं समं कल्कितम् २१ रसेन भावितं तस्य गुटिका च प्रकल्पिता जयेच्चन्द्रप्रभा नाम तीव्रान्मोहादिकान्गदान् २२ शुण्ठी मधुकसारश्च चवी किंशुकमेव च वचाहिंगुसमायुक्तं बस्तमूत्रेण संयुतम् देयं ग्रहविकारघ्नं ग्रहाणां नाशनं परम् २३ बिडालविष्ठाहिममोचनिम्बमयूरपिच्छं समराजिका च निर्मोकपिण्डीतकसर्जमोचधूपं घृताक्तं ग्रहदोषशान्त्यै २४ चेतना नाम गुटिका तथा ब्राह्मीघृतं स्मृतम् अपस्मारे प्रयुक्तानि तानि चात्र प्रयोजयेत् २५ गुग्गुलुं समधुघृतं तेन धूपेन धूपयेत् मन्त्रेण तेन हारीत तर्जयेद्ग्रह पीडितम् २६ ओं नमो भगवते भूतेश्वराय कलिकलिनखाय रौद्र दंष्ट्राकरालवत्क्राय त्रिनयनधगधगितपिशङ्गललाटनेत्राय तीव्रकोपानलामिततेजसे पाशशूलखट्वाङ्गडमरुकधनुर्बाणमुद्गराभयदण्डत्राससमुद्राव्ययदसंयदार्द्रदण्डमण्डिताय कपिलजटाजूटार्द्धचन्द्रधारिणे भस्मरागरञ्जिताविग्रहाय उग्रफणिकालकूटाटोपमण्डितकण्ठदेशाय जय जय भूतनाथामरात्मने रूपं दर्शय दर्शय नृत्य नृत्य चल चल पाशेन बन्ध बन्ध हुङ्कारेण त्रासय त्रासय वज्रदण्डेन हन हन निशितखङ्गेन छिन्नछिन्न शूलाग्रेण भिन्न भिन्न मुद्गरेण चूर्णय चूर्णय सर्वग्रहाणामावेशयवेशय स्वाहा २७ ग्रहाविष्टेन चेत्तस्मै दीयते बलिरुत्तमः मुक्तो भवति तस्माच्च संशयो नास्ति तत्र च २८ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भूतविद्यानाम पञ्चपञ्चाशत्तमोऽध्यायः ५५
षट्पञ्चाशत्तमोऽध्यायः आत्रेय उवाच द्विविधं विषमुद्दिष्टं स्थावरं जङ्गमं भिषक् शृङ्गिको वत्सनाभश्च तथा च शार्ङ्गवैरिकः १ दारकः कालकूटश्च शङ्खस्ययात्सत्सुकन्दुकः हालाहलश्चाष्टभिश्च तथाष्टौ विषजातयः २ शृङ्गिकः कृष्णवर्णश्च वत्सनाभश्च पीतकः शुण्ठीसमानवर्णश्च शार्ङ्गवेरः स उच्यते ३ दारको हरिवर्णश्च कालकूटो मधुप्रभः शङ्खश्चातिविषाभाषः पीताभः सत्सुकन्दुकः ४ हालाहलः कृष्णवर्णचाष्टौ च जातयस्तथा पीतं विषं नरं दृष्ट्वा सद्यो वमनमुत्तमम् ५ यावत्पीतातिविषञ्च तावत्तु वमयेत्सदा सिञ्चच्छीताम्भषा वक्रं मन्त्र पूतेन सत्वरम् ६ ॐ हर हर नीलकण्ठ अमृतं प्लावय हूङ्कारेण विषं ग्रस ग्रस क्लीङ्कारेण हर हर ह्रौकारेण अमृतं प्लावय प्लावय हर हर नास्ति विष उच्छिरे उच्छिरे ७ ॐ नमो हर हर नीलग्रीवश्वेताङ्गसङ्गजटाग्रमण्डितखण्डेन्दुस्फूर्त्तमन्त्ररूपाय विषमुपसंहर हर हर हर नास्ति विष विष विष उच्छिरे उच्छिरे उच्छिरे इति कर्णेजपमन्त्रेण वारंवारं तालुमुखं सिञ्चेछीतवारिणा ८ ताण्डुलीयकमूलानि पिष्ट्वा चोष्णेन वारिणा पीतं पीतविषं हन्ति वमने लाघवं भवेत् ९ काकजङ्घा सहचरीमूलं चैडगजस्य च कदरं कार्मुकञ्चापि त्वचं पीतोष्णवारिणा पीतं तच्च विषं घोरं नाशयत्याश्वसंशयः १० खदिरस्य च मूलञ्च तथा निम्बफलानि च उष्णोदकेन पीतानि विषं जयेयुस्तत्क्षणात् ११ वत्साह्वञ्चाश्वगन्धाञ्च पीत्वा चोष्णेन वारिणा प्रपीतञ्च विषं पाति चाशु नरस्य वेदवाक् १२ अथ प्रधान रक्तस्य क्षते रक्तं विषस्य च तस्य वक्ष्यामि भैषज्यं येन सम्पद्यते सुखम् १३ मर्मस्थाने मर्मगतं तदसाध्यं भवेन्मतम् साध्यञ्च तत्त्वग्रक्तस्थं मांसस्थं कष्टसाध्यकम् १४ असाध्यं धातुसम्प्राप्तं सखे वक्ष्यामि भेषजम् विषलिप्तं नरं ज्ञात्वा ततः कुर्यात्प्रतिक्रियाम् १५ रजनीयुग्माम्लकेन काञ्जिकेन तु पेषितम् लेपेन च विषं हन्ति प्रलिप्तं नात्र संशयः १६ मातुलुङ्गरसेनापि धावनं काञ्जिकेन वा अतिशीतेन तोयेन प्रलिप्तं नात्र संशयः १७ विषं जङ्गममित्युक्तमष्टधा भिषगुत्तम दर्वीकरा मण्डलिनो राजिमन्तश्च गुण्डसाः १८ वृश्चिको गोरकश्चापि तथा च खण्डबिन्दुकः अलर्कमूषमार्जारविषं प्रोक्तमनेकधा १९ दार्वीकराणां सर्वेषामुक्तं वातात्मकं विषम् मण्डलिनाञ्च सर्वेषां पैत्तिकं विषमुच्यते २० राजिमन्तश्च ये प्रोक्तास्तेऽपि कफात्मका विषाः विचित्रगमनं मूर्ध्नः पीडनं चातिदुर्भरम् २१ हृदये व्यथनं यस्य तमसाध्यं वदन्ति च नासारक्तस्रुतिर्यस्य नेत्रे प्लावश्च दृश्यते २२ जडा च जायते जिह्वा तमसाध्यं विदुर्बुधाः यस्य लोमानि शीर्यन्ते पीताभं शरीरं भवेत् २३ न स्थिरं मस्तकं यस्य तमसाध्यं भिषग्वर एभिर्विरहितं दृष्ट्वा कुर्यात्तस्य प्रतिक्रियाम् २४ ॐ नमो भगवते सुग्रीवाय सकलविषोपद्रवशमनाय उग्रकालकूटविषकवलिने विषं बन्ध बन्ध हर हर भगवतो नीलकण्ठस्याज्ञा । ॐ नमो हर हर विषं संहर संहर अमृतं प्लावय प्लावय नासि अरेरे विष नील पर्वतं गच्छ गच्छ नास्ति विषम् ॐ हाहा ऊचिरे ऊचिरे ऊचिरे । अनेन मन्त्रेण मुखमुदकेन त्रासयेत् । ॐ नमोऽरेरे हंस अमृतं पश्य पश्य २५ जयकूटं वचाकुष्ठं सैन्धवं मगधा निशा लेपो दष्टव्रणे प्रोक्तो विषं हन्ति सुदारुणम् २६ सुरसा रजनी व्योषं यवानी पारिभद्रकम् सर्पदष्टव्रणे प्रोक्तं लेपनं विषशान्तये २७ कुष्ठं मुस्ता अजाजी च विडङ्गं मधुयष्टिका गुञ्जामूलं शीततोयैर्लेपो मण्डलिना हितः २८ राजिमन्तो विषा यस्य गृहधूमं वचा घनम् सर्षपाश्च यवानी च पिचुमन्दफलत्रयम् लेपनं राजिमताञ्चैव व्रणतैलेन संयुतम् २९ सठीकिरातं सकटुत्रयं च वचाविशालापिचुमन्दकञ्च पथ्यायवानीरजनीद्वयञ्च दष्टव्रणे लेपनमेव शस्तम् ३० स्थावरं जङ्गमं वापि विषं जग्धं भिषग्वर शीघ्रं दद्याद्व्यथां गुर्वीं प्रोक्तञ्च नरसत्तमैः ३१ ॐ नमो भगवते शिरसिशिखराय अमृतधाराधौतसकलविग्रहाय अमृतकुम्भपरितोऽमृतं प्लावय प्लावय स्वाहा ३२ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विषतन्त्रं नाम षट्पञ्चाशत्तमोऽध्यायः ५६
सप्तपञ्चाशत्तमोऽध्यायः आत्रेय उवाच छिन्नं भिन्नं तथा भग्नं घृष्टं पिष्टं तथैव च आस्फालितं सम्प्रहारः सङ्घातः कथ्यते बुधैः १ शस्त्रभिन्नं नरं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया २ अस्थिस्थं विद्यते मांसमस्थि संच्छिद्यते यदि शाखाप्रशाखयोर्वापि छिन्नं तच्च निगद्यते ३ असन्धौ परिसंच्छिन्नं तदसाध्यं विनिर्दिशेत् खङ्गार्द्धचन्द्रपरशुच्छिन्नं तु कथितं सदा ४ तस्यादौ चारणालेप धावनं परिकीर्त्तितम् पिचुना तिलतैलेन शीघ्रं संस्वेदनान्वितम् ५ यावद्वै स्रवती रक्तं तावत्तैलेन चाभ्यजेत् रक्ते वै विकृतिं प्राप्ते तैलेनाभ्यञ्जनं मतम् ६ शोफाद्याश्च प्रजायन्ते बहुलोपद्रवा व्रणे सन्धौ छिन्नं नरं दृष्ट्वा सेचयेत्तप्तवारिणा ७ सञ्चितस्य व्रणस्यापि प्रशस्तं पिचुतैलकम् पूये वापि विनिर्याति निम्बारग्वधपत्रकम् ८ गुडेन पथ्यां पिष्ट्वा च लेपनं पूयशोधनम् दिनत्रये विशुद्धेऽपि तत्रैवलेपनं हितम् ९ धवार्जुनकदम्बस्य वृक्षोदुम्बरयोस्त्वचम् जलेन पिष्ट्वा लेपश्च तेन संरोहते व्रणः १० शक्तिशूलैश्च बाणैश्च भल्लारखड्गतोमरैः क्षुरिकामुखधाराभिर्भिन्नं तत्कथ्यते भिषक् ११ साध्यममर्मजं प्रोक्तं मर्मस्थं तन्न सिध्यति अपामार्गरसेनापि तथा कूष्माण्डकस्य च १२ धावनं काञ्जिकेनापि प्रशस्तं कथ्यते बुधैः तिलतैलेन चाभ्यङ्गो हितः स्यात्स्वस्थभिन्नके लेपनश्च प्रयोक्तव्यं पूर्वोक्तञ्च हितावहम् १३ उरसि शिरसि शङ्खे कक्षयोः पादयोर्वा त्रिकजठरमुखाग्रे नेत्रयोः कर्णयोर्वा भवति हि यदि शल्यं कष्टसाध्यञ्च शस्त्रैर्भवति यदि न गूढं भेषजैस्तैर्विधिज्ञ १४ शाखाप्रशाखयोर्यच्च मर्मस्थं तन्न सिध्यति यन्त्रशस्त्रप्रतीकारैः शल्यं प्राज्ञः समुद्धरेत् १५ द्वादशैव तु यन्त्राणि शस्त्राणि द्वादशैव तु चत्वारि च प्रबन्धानां शल्योद्धारे विनिर्दिशेत् १६ गोधामुखं वज्रमुखं च नाम संदंशचक्राकृतिकङ्कपादम् अयानकं शृङ्गककुण्डलञ्च श्रीवत्ससौवत्सिकपञ्चवक्त्रम् १७ द्वादशैतानि यन्त्राणि कथितानि भिषग्वरैः अथ शस्त्राणि प्रोक्तानि नामानि च पृथक्पृथक् १८ अर्द्धचन्द्रं व्रीहिमुखं कङ्कपत्र कुठारिका करवीरकपत्रञ्च शलाकाकारपत्रकम् १९ बडिशं गृध्रपादञ्च शूली च घनमुद्गरम् शस्त्राण्येतानि प्रोक्तानि शल्योद्घारे पृथक्पृथक् २० अतिगुप्तं च शल्यञ्च संदंशेन समुद्धरेत् भिन्नेन तत्प्रतीकारः कर्त्तव्यश्च सुधीमता २१ गम्भीरशल्यं ज्ञात्वा च प्रतीकारञ्च कारयेत् पाटनं कुशपत्रेण चोद्धरेत्कुंकुमेन च २२ भिन्नवत्प्रतीकारश्च कर्त्तव्यश्च सुधीमता २३ यत्र शोफो भवेत्तीव्रस्तत्र शल्यं विनश्यति सशल्यं सघनं चैव रुजावन्तं निरूप्य च २४ तत्र योग्यं च यन्त्रं च यन्त्रशस्त्रञ्च योग्यकम् तत्तत्र योजनीयञ्च ऊहापोहविशारदैः २५ या वेदना शल्यनिपातजाता तीव्रा शरीरे प्रतनोति जन्तोः घृतेन संशान्तिमुपैति तिक्ता कोष्णेन यष्टीमधुनान्वितेन २६ सर्जार्जुनोदुम्बरमर्कटीनां रोध्रं समङ्गासुरसासमेतम् जलेन पिष्ट्वा प्रतिलेपनाय शल्योद्धृतौ सौख्यमिदं करोति २७ शेषा क्रिया च पूर्वोक्ता छिन्ने भिन्ने हिता तु या कर्त्तव्यो वालुकास्वेदो घटीस्वेदश्च तत्र च २८ भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेषजम् मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा २९ पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ग्रीवादेशे चेन्द्रबस्तौ रोहिण्यां कूर्परादधः ३० स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः उरसि चैव क्रोडे च विभग्नं तदसाध्यकम् ३१ विभग्नं च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् मृक्षयेन्नवनीते नैरण्डपत्रैश्च वेष्टयेत् ३२ उष्णाम्बसा सेचयेच्च वस्त्रेण मृदु बन्धयेत् ३३ धवार्जुनकदम्बानां वल्कलं काञ्जिकेन तु पिष्ट्वा हितः प्रलेपश्च तेन सौख्यं प्रजायते ३४ स्वेदयेत्तानि चोष्णेन आवासं कारयेत्पुनः एवं क्रियासमापत्तौ ततो बन्धं विमोचयेत् ३५ एकाहान्तरितेनापि पूर्ववत्तत्प्रबन्धयेत् यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ३६ घृष्टञ्चैव नरं दृष्ट्वा धावनं काञ्जिकेन च मूत्रेण शीततोयेन धावनञ्च हितं मतम् ३७ यावद्वै स्रवति रक्तं तावत्तैलेन सेचयेत् अल्पानि चौषधान्यत्र कारयेद्विविधानि च ३८ विपाके रक्तस्रावञ्च स्वेदनञ्च विधीयते भग्नवत्प्रतीकारञ्च कारयेद्विधिपूर्वकम् ३९ आस्फालिते प्रतीकारे ज्ञातव्यश्च भिषग्वर ऊहापोहैश्च कर्त्तव्यस्तेन सम्पद्यते सुखम् ४० शिरोऽभिघातजो दोषः शिरोरोगः प्रकीर्त्तितः उरसा चाभिघातेन यकृद्गुल्मश्च जायते ४१ इत्येवञ्च प्रतीकारं कुर्याद्रक्तावसेचनम् स्वेदनञ्च प्रयोक्तव्यं भिषजा कर्मसिद्धये ४२ न च तैलञ्च भोक्तव्यं नात्युष्णकटुकं तथा मत्स्यानि न च मांसानि घनानि च गुरूणि च ४३ श्वेतशालिसमुद्भूतं यूषं चैवाढकीषु च शशलावकवार्त्ताककक्कोलं तण्डुलीयकम् ४४ शतपुष्पाद्यमन्यच्च न च हिंगुसमन्वितम् लवणं नातिभोक्तव्यं यदीच्छेदात्मनः सुखम् ४५ व्यायामञ्च व्यवायञ्च दिवानिद्रां तथा क्रमम् वर्जयेत्सुखसम्पत्तिर्नरश्च प्रतिपद्यते ४६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भग्नचिकित्सा नाम सप्तपञ्चाशत्तमोऽध्यायः ५७
अष्टपञ्चाशत्तमोऽध्यायः आत्रेय उवाच अग्निदग्धं नरं दृष्ट्वा तच्च दग्धं चतुर्विधम् ईषद्दग्धं मध्यदग्धमतिदग्धञ्च वेदभाक् १ सम्यग्दग्धं भिषक्छ्रेष्ठ लक्षणं शृणु पुत्रक २ अतिदग्धं मांसगं स्याद्वातपित्तकफाश्रितम् सम्यग्दग्धञ्च निर्दोषं विज्ञेयं च चतुर्विधम् ३ त्वचा विशीर्यते येन स दाहः पित्तजो भवेत् सरक्तश्च सपित्तश्च पित्तकोपात्प्रदृश्यते ४ कृष्णवर्णञ्च तत्पित्तं मांसगं तीव्रवेदनम् तस्य वक्ष्यामि संसिद्ध्यै भेषजं भिषजां वर ५ ईषद्दग्धे काञ्जिकस्य लेपनं सुखहेतवे निम्बपत्राणि सुरसा कुष्ठं धात्रीफलानि च ६ ईषद्दग्धे यथालाभे लेपनं भिषगुत्तम मध्यदग्धे पयस्या या लेपनी सुखकारिणी ७ मधुकुष्ठकमञ्जिष्ठाघृतं पक्वं हितं मतम् कुष्ठञ्च यष्टीमधुकं चन्दनैरण्डपत्रकम् ८ मध्यदग्धे हितो लेपो दुग्धेन परिपेषितः ९ घृतकर्पूरचूर्णञ्च गैरिकं रोध्रमेव च शुष्कचूर्णं पूयहरं दग्धं संरोहयत्यपि १० आमलक्या तिलं कुष्ठं लेपनं वाग्निदग्धके रोध्रोशीरं समङ्गा च लेपनं शीतवारिणा ११ अतसी स्नेहमभ्यङ्गमधुयष्टीघृतेन तु लेपाभ्यङ्गे हितं दग्धरोहणं दाहवारणम् १२ धूमोपघाते वमनं क्षीरपानं तथोपरि जले च तरणं श्रेष्ठं धूमदाहोपशान्तये १३ इत्यात्रेयभाषिते हारीतोत्तरे चिकित्सास्थानं नामाष्टपञ्चाशत्तमोऽध्यायः ५८ तृतीयस्थानं समाप्तम् ३
Maharishi Mahesh Yogi
“Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit.” Maharishi University of Management Vedic Literature Collection Menu of 40 Branches Menu of Hārīta Saṁhitā Reading Vedic Literature The Vedic Alphabet Consciousness-Based Education हारीत Hārīta Saṁhitā तृतीयस्थानम् Chikitsāsthānam
Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58
तृतीयस्थानम्
अथ तृतीयस्थानम् प्रथमोऽध्यायः आत्रेय उवाच अथातः सम्प्रवक्ष्यामि रोगसङ्करकारणम् श्रमाद्व्यायामरोधाद्वा चिन्ताशोकभयादपि १ क्रोधादौषधगन्धेन क्षयाद्घातोर्विशेषतः उदीर्य कोष्टादग्निञ्च रक्तपित्तं तथा बहिः त्वचाश्रितञ्च सम्भूय ज्वरं तस्मात्करोति हि २ उक्तहेतुर्ज्वरो वापि ज्वरान्मन्दज्वरो भवेत् ३ मन्दान्मन्दतमो ज्ञेयस्तस्मादम्लातिसेवनात् जायते कामलस्तस्मात्प्ररूढे स्याद्धलीमकम् ४ हलीमकाद्भवेत्पाण्डुस्तस्माद्यस्मात्प्रकीर्त्तिताः यक्ष्मणो जायते शोफः शोफादुदरमेव च ५ तस्माद्गुल्मञ्च वाताद्यं गुल्माच्छ्वासोऽथशूलिता मन्दाग्नित्वं भवेत्तस्मात्स्वरभेदोऽथ रोधनः ६ एतेषां सर्वरोगाणामुत्पत्तिः स्याज्ज्वरेण तु ज्वरेण मृत्युर्विज्ञेयो न मृत्युः स्याज्ज्वरं विना ७ शृणु भेषजरोगज्ञ द्वितीयं रोगसङ्करम् मन्दज्वरो भवेन्नॄणामतीसारस्ततो ज्वरः ८ तेन चापि भवेद्धिक्का शोषो मोहो भ्रमोऽरुचिः एतेषां शोफतो मृत्युस्तृतीयः कथ्यतेऽधुना ९ दिवास्वप्नादिदोषैर्वा प्रतिश्यायश्च जायते तस्मात्कासः समुद्दिष्टः कासात्पीनस एव च १० तस्मात्क्षयः क्षयाच्छोफो शोफेनाऽपि मृतिं व्रजेत् ज्वरः क्षयश्च यक्ष्मा च कुष्ठगुल्मार्शसंग्रहाः ११ शर्करा मेह उन्माद अपस्मारो भगन्दरः एते महाघोरतरा याप्यं कुर्वन्ति मानवम् १२ वातपित्तादयो दोषास्तथा श्लैष्मसमुद्भवाः जायन्ते व्याधयः सर्वे तेषां वक्ष्याम्युपक्रमम् १३ वातः पचति सप्ताहात्त्रिरात्रात्पित्तमेव च श्लेष्मा सार्द्धदिनेनापि विपचेद्भिषजां वर १४ द्वन्द्वजं वातपित्तञ्च नवरात्रेण पच्यते श्लेष्मवातौ दशाहेन पञ्चाहात्पित्तश्लैष्मिकम् १५ शमनाय च द्वन्द्वानां तुर्याहात्पाचनं तथा त्रिदोषस्य च घोरस्य पाचनं द्वादशे दिने १६ सन्निपातश्च पचति चतुर्दशदिनैरपि ज्ञात्वा दोषबलं पक्वं तस्माद्देयन्तु पाचनम् १७ युक्तं निदानलक्षैस्तु तस्मात्संशमनक्रिया सप्ताहेनापि पच्यन्ते सप्तधातुगता मलाः १८ चिरादपि हि पच्यन्ते सन्निपातज्वरे मलाः विरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि न भवेत्सप्तमेऽहनि विरामज्वरकारणम् १९ विचार्य भेषजं दद्मादजीर्णे मतिमान्भिषक् मन्दो हि सुतरामग्निर्भेषजं न विपाचयेत् २० सर्वेषु दोषशामेषु पाचनं लङ्घनं स्मृतम् लङ्घितं मध्यलङ्घितं स्यादतिलङ्घितमेव च २१ लक्षणं वक्ष्यते चैषां मनुष्याणां शृणुष्व हि २२ गतक्लमोऽरुचिम्लानिरिन्द्रियाणां प्रसन्नता लङ्घने दोषपाकस्तु शुद्धलङ्घितलक्षणम् २३ किञ्चित्क्लमोऽरुचिग्लानिरिन्द्रियाणां विवर्णता बहुतृष्णाल्पक्षुच्चापि श्रमश्चैव भिषग्वर २४ किञ्चित्संस्निग्धता गात्रे रुचिबाधातिबन्धता मध्यपाकी च दोषः स्यान्मध्यलङ्घितलक्षणम् २५ वैकल्यं जायते तन्द्रा विड्भेदश्च विनिद्रता वेपथुश्च शिरोऽर्त्तिश्च क्षुत्क्षामं शूलमेव च २६ श्यामास्यं प्लावनं नेत्रे मूर्च्छामोहश्रमातुरम् अतिलङ्घितमेतैस्तु लक्षणं संविभावयेत् २७ वेलाज्वरे भूतज्वरे तथा पित्तज्वरेऽपि च आयासे क्रोधजे वापि भयकामज्वरेऽपि च २८ एतेषां लङ्घनं नैव कारयेद्भिषगुत्तमः २९ बालं वृद्धं कृशं क्षीणमतीसारव्रणातुरम् गुर्विणीं सुकुमारञ्च लङ्घयेन्न कदाचन ३० सामे मन्दज्वरे तीव्रे रुचिविड्बन्धकेऽपि च अजीर्णे तु प्रशस्तञ्च लङ्घनं मात्रयान्वितम् ३१ स्निग्धत्वञ्चातिगात्राणामुदरं गर्जयेद्भृशम् शिरोऽर्त्तिर्जठराध्मानः प्रतप्तं कण्ठकूजनम् ३२ अरुचिः पीतता मूत्रे निद्रातन्द्रातुरं नरम् आमज्वरञ्च विज्ञाय लङ्घयेद्भिषगुत्तमः ३३ अनशनवमनविरेचनरक्तस्रुतितप्ततोयपानैः स्वेदनकर्मसहितैः षड्विधं लङ्घनं गदितम् ३४ क्षुत्क्षामं श्रमशैथिल्यं भ्रमवेगज्वरातुरम् अन्तर्दाहं रक्तमूत्रं विरामज्वरलक्षणम् ३५ वातिको लङ्घनैः षड्भिः पैत्तिकस्तु दिनत्रयम् सप्तभिः पचते श्लेष्मा दृष्ट्वा लङ्घनमाचरेत् ३६ त्रिदोषो दशरात्राणि पचते लङ्घनैस्तु सः दिने पञ्चदशे प्राप्ते पचते सान्निपातिकः ३७ मुञ्चेद्वा आतुरं हन्ति भवेद्वा विषमज्वरः बाल्ये रक्तमया दोषाः कफपित्तादनन्तरम् ३८ षोडशे तु समे प्राप्ते त्रिदोषप्रभवा गदाः पञ्चविंशतिमे प्राप्ते ज्वरो वै सान्निपातिकः ३९ वातपित्तकफैरेव रसरक्तसमुच्चयात् जायते यो ज्वरः सम्यक् पक्के क्वाथं तु दापयेत् ४० क्वाथः सप्तविधः प्रोक्तः पाचनः शमनस्तथा दीपनः क्लेदनः शोषी सन्तर्पणो विशेषतः ४१ पाचनञ्च नरे देयं निशासु प्रविजानता पूर्वाह्णे शमनो देयोऽपराह्णे दीपनः स्मृतः ४२ सन्तर्पणो भेदनश्च कल्ये पानाय दापयेत् शोषणोपि प्रभाते च क्वाथः पाने प्रकीर्त्तितः ४३ रात्रौ यः प्रथमो यामो भूतवेला प्रकीर्त्तिता द्वितीयं निशि इत्याहुर्निशीथञ्च ततः परम् ४४ गणरात्रं ततो ज्ञेयं कालमप्राप्तराशिनम् पूर्वापराह्णमध्याह्नाः परार्द्धदिनशेषकाः ४५ पूर्वे दिनावसाने च भेषजानामुपक्रमः ४६ पाचनो दीपनीयश्च शोधनः शमनस्तथा तर्पणः क्लेदनः शोषी क्वाथः सप्तविधः स्मृतः ४७ पाचनोऽर्द्धावशेषी स्याच्छोधनो द्वादशांशकः क्लेदनश्चतुरङ्गश्च शमनोऽष्टावशेषितः ४८ दीपनीयो दशांशस्तु तर्पणश्च समांशकः विशोषी षोडशांशश्च क्वाथभेदाः प्रकीर्त्तिताः ४९ पाचनः पचते दोषान्दीपनो दीप्यतेऽनलम् शोधनो मलशोधी स्याच्छमनः शमते गदान् ५० तर्पणस्तर्पते धातून्क्लेदी हृत्क्लेदकारकः विशोषी शोषमाधत्ते तस्मात्क्वाथं परीक्षयेत् ५१ क्लेदी विशोषी विज्ञाय वामनं कारयेन्नरम् न लङ्घयेत्क्वाथकृतं नान्तराणि च चालयेत् ५२ न शोषयेत्पुनः स्थाप्यो नाशुचौ च चकासते स च क्वाथो न शस्तः स्याद्रोगसङ्करकारणम् ५३ न शोषयेत्पुनः क्वाथं न च भूमिगतं पुनः दोषसंशमनेनैते प्रशस्ता गदकर्मणि ५४ विदीर्यते पततेऽपि स्फुटते क्वाथतो जनः एतेऽनिष्टकराः क्वाथा न दोषशमनाय च ५५ एतैर्हिलक्षणैर्हीनं क्वाथं दृष्ट्वा परीक्षयेत् ५६ कृष्णं नीलं घनं रक्तं पिच्छिलं शिथिलञ्च यत् दग्धं कुणपगन्धञ्च विस्रगन्धं विवर्जयेत् ५७ एतैरसाध्यं जानीयाद्रोगिणं नात्र संशयः द्रव्यगुणानुवर्णेन द्रव्यगन्धं विनिर्दिशेत् ५८ तद्वद्विशुद्धं सच्छायं कषायममृतोपमम् वातज्वरे लङ्घनान्ते दत्त्वा चान्नं तथोपरि निशासु पाचनं देयं ज्ञात्वा दोषबलाबलम् ५९ त्रिरात्रे पैत्तिके देयं श्लैष्मिके प्रथमेऽहनि अविज्ञाते च दोषे च पाचनं न प्रदापयेत् ६० सप्तरात्राद्धि मर्यादा ज्वरेणैवोपलक्ष्यते तस्मान्नवज्वरे पीतं दोषकृन्न च दोषहृत् ६१ तस्मादादौ प्रदेयन्तु पाचनञ्च दिनत्रयम् शमनीयं प्रदेयन्तु पञ्चरात्रं ततः परम् ६२ शोधनं दीपनीयन्तु एकरात्रं प्रदापयेत् ६३ क्वाथपाने क्लमो मूर्च्छा वैक्लव्यञ्च प्रदृश्यते वमनञ्च यदा प्रोक्तं शमनं पथ्यकेऽपि वा ६४ सदा पथ्यं प्रयोक्तव्यं नापथ्येन स सिध्यति औषधेन विना पथ्यैः सिध्यते भिषगुत्तमैः ६५ विना पथ्यं न साध्यः स्यादौषधानां शतैरपि ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ६६ अन्नकालेष्वभुञ्जानो हीयते म्रियतेऽपि वा स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ६७ तस्माद्रक्षेद्बलं पुंसां बलशान्तिर्हिजीवितम् लङ्घिते चैव दोषे च यवागूपानमाचरेत् ६८ शालिषष्टिकमुद्गञ्च यूषं शस्तं वदन्ति हि ६९ पञ्चकोलकसंसिद्धा यवागूर्मध्यलङ्घिते भवेत्प्रशस्ता सततं तस्य सन्तर्पणं हितम् ७० आजं दुग्धं गुडोपेतं पानाय ज्वरशान्तये तेन क्लमविनाशः स्यात्सुखमाशु प्रपद्यते ७१ उदीच्यां वा पूर्वस्यां वाऽभिमुखञ्चोपवेशयेत् पाययेत्क्वाथपानञ्च कृत्वा ब्राह्मणवाचनम् ७२ पानपात्रमधः कृत्वा शयीता ज्ञानमेव च पीत्वा चैव तृषार्त्तोऽपि न जलं पाययेत्क्षणम् ७३ गतक्लमं नरं दृष्ट्वा तदा सम्पद्यते सुखम् ७४ इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भेषजपरिज्ञानविधिर्नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः आत्रेय उवाच अनभिज्ञश्चिकित्सायां शास्त्राणां पठनेन किम् यथा पलालं बीजैस्तु रहितं निष्प्रयोजकम् १ वरमाशीविषविषं क्वथितं ताम्रमेव च पीतमत्यग्निसन्तप्ता भक्षिता वाप्ययोगुडाः २ न तु श्रुतवतां वेशं बिभ्रतां शरणागतात् ग्रहीतुमन्नपानं वा वित्तं वा रोगपीडितात् ३ तदेव युक्तं भैषज्यं यदारोग्याय जायते स चैव भिषजां श्रेष्ठो रोगेभ्यो यो विमोक्षयेत् ४ तस्मात्सर्वप्रयत्नेन रोगवारणहेतुना युक्ता निदानलक्षैस्तु संहितोपायसंयुता ५ पठितव्या समासेन संहिताज्ञानहेतवे ज्ञात्वा रोगप्रतीकारं ततः कुर्यात्प्रतिक्रियाम् ६ अविज्ञाय रुजं सम्यङ्मोहादारभते क्रियाः विधानज्ञोऽथ शास्त्रज्ञो न तत्सिद्धिः प्रजायते ७ निदानं रोगविज्ञानं भेषजानां गुणागुणम् विज्ञाय कुरुते यस्तु तस्य सिद्धिर्न दूरतः ८ आदावेव रुजां ज्ञानं साध्यासाध्यं विचक्षणः याप्यं सर्वरुजाञ्चैव ततः कुर्यात्प्रतिक्रियाम् ९ देशं कालं वयो वह्निसात्म्यं प्रकृतिभेषजम् एवं विज्ञाय सद्वैद्यस्ततः कुर्यात्प्रतिक्रियाम् १० नास्ति रोगो विना दोषैर्दोषा वातादयः स्मृताः ज्वरादयः स्मृता रोगास्तान्सम्यक्परिलक्षयेत् ११ आप्तानाञ्चोपदेशेन प्रत्यक्षीकरणेन च आतुरादिदृशा स्पर्शाच्छीतादिप्रश्नतः परम् १२ दर्शनस्पर्शनप्रश्नै रोगज्ञानां त्रिधामतम् मुखाक्षिदर्शनात्स्पर्शाच्छीतादिप्रश्नतः परम् १३ कृच्छ्रयाप्यसुखोपायो द्विविधः साध्य उच्यते असाध्यो द्विविधो ज्ञेयः कृच्छ्रः कृच्छ्रतमोऽपरः १४ याप्याः केचित्प्रकृत्यैव याप्याः साध्या उपेक्षया स्वभावाद्व्याधयः साध्याः केचित्साध्या उपेक्षिताः १५ साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा घ्नन्ति प्राणांश्च साध्यास्तु नराणामक्रियावताम् १६ व्याधेरुपरि यो व्याधिः सोपद्रव उदाहृतः सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः १७ ज्ञात्वाल्पकोऽपि भिषजाः परिचिन्तनीयो नोपेक्षणीय इति रोगगणो ह्यसाध्यः । स्वल्पोऽप्यरिर्गरल वह्निसमानरूप आप्तोबलं न शमतामुपयाति काले १८ शत्रुः स्थानबलं प्राप्य विक्रमं कुरुते बली तथा धात्वन्तरं प्राप्य विक्रमं कुरुते गदः १९ बहुविधपरिकार्येणापि नीतं शमं यत् कृशमपि हि न धार्यं रोगमूलं विधिज्ञ । कथमपि बहुपथ्यैर्व्यावृतो वा बलिष्ठो न शमयति हि रोगं बाल्यमात्रेण सम्यक् २० यथा स्वल्पं विषं तीव्रं यथा स्वल्पो भुजङ्गमः यथा स्वल्पतरश्चाग्निस्तथा सूक्ष्मोऽपि रुग्रिपुः २१ यावत्स्थानं समाश्रित्य विकारं कुरुते गदः तावत्तस्य प्रतीकारः स्थानत्यागाद्बलीयसः २२ कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे सहजाः कथिताश्चान्ये व्याधयस्त्रिविधा मताः २३ बहुभिरुपचारैस्तु ये न यान्ति शमं ततः ते कर्मजाः समुद्दिष्टा व्याधयो दारुणाः पुनः २४ दोषजा वातपित्ताद्याः सहजाः क्षुत्तृषादयः २५ तस्माद्वक्ष्यामि चादौ ज्वरमतुलगदं वाजिनां कुञ्जराणां मानुष्याणां पशूनां मृगमहिषखरोष्ट्रादिवानस्पतीनाम् । वल्लीनामोषधीनां क्षितिधरफणिनां पत्रिणां मूषिकाणामेष प्राणापहारी ज्वर इति गदितो दुर्निवारो हि लोके २६ असाध्योऽयं ज्वरो व्याधिर्गोमहिष्यश्वकुञ्जरे किञ्चित्कृच्छ्रतमो नॄणामन्येषां जीवघातकः २७ यथा मृगाणां मृगयुर्बलिष्ठस्तथा गदानां प्रबलो ज्वरोऽयम् नान्योऽपि शक्तो मनुजं विहाय सोढुं भुवि प्राणभृतः सुराद्याः २८ कर्मणा लभते यस्माद्देवत्वं मानुषो दिवि ततश्चैवच्युतः स्वर्गान्मानुष्यमपि वर्त्तते २९ तस्मात्स देवभावात्तु सहते मानुषो ज्वरम् शेषाः सर्वे विपद्यन्ते पशुवर्गा ज्वरार्दिताः ३० रोगाणां रोगराजोऽयं यथा मृगपतिर्मृगे दाहात्मसु यथा वह्निस्तथा रोगो ज्वरोऽधिकः रुद्रक्रोधाग्निसम्भूतः सर्वभूतप्रतापनः ३१ पातकः स तु नागानामभितापस्तु वाजिनाम् गवामीश्वरसंज्ञस्तु मानवानां ज्वरो मतः ३२ दारिद्रो महिषीणान्तु मृगरोगो मृगेषु च अजावीनां प्रलापाख्यः करभेष्वलसो भवेत् ३३ शुनोऽलर्कः समाख्यातो मत्स्येष्विन्द्रमतो मतः पक्षिणामभिघातस्तु व्यालेष्वैक्षितसंज्ञितः ३४ जलस्य नीलिका प्रायो भूमिषूषरनामतः वृक्षस्य कोटराक्षस्तु ज्वरः सर्वत्र दृश्यते ३५ त्रिपाद्भस्मप्रहरणस्त्रिशिराः सुमहोदरः वैयाघ्रचर्मवसनः कपिलोज्ज्वलविग्रहः ३६ पिङ्गेक्षणो ह्यस्वजङ्घो विमत्स्यो बलवानयम् पुरुषो लोकनाशाय चासौ ज्वर इतिस्मृतः ३७ दग्धेन्धनो यथा वह्निर्धातून्हत्वा यथा विषम् कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः ३८ तस्मात्तस्य समुत्पत्तिं वक्ष्यामि शृणु पुत्रक चतुर्विधो महाघोरो जातो येन तु चाष्टधा ३९ दक्षादूर्ध्वरप्रशमनः कुपितो हि महेश्वरः श्वासं मुमोच दयिताविधुरश्च तीव्रं तेन ज्वरोऽष्टविधसम्भवतोऽष्टधा स्यात् ४० वातादिपित्तकफशोणित सन्निधानात्स्वेच्छान्नपाननिरतादृतुवैपरीत्यात् दोषा मलाशयगता जठराग्निबाह्याः सम्प्रेरयन्ति रुधिरा श्रितवह्निपातम् ४१ तेषां ततो हि दधते ज्वरनाम सिद्धंव्यायामक्रोधभुक्त्यादिजननाच्छीतसम्भवत्वात् ४२ विरुद्धान्न विशेषेण पाननिर्झरवारिणा कूपोदकेन सन्तुष्टस्तिग्मतीव्रांशुरश्मिभिः ४३ गन्धवातेन दोषाणामभिघाताभिशापतः ज्वरोनाम महाघोरो जायते मनुजे भृशम् ४४ श्रमो जडत्वं नयनप्लवः स्याद्रोमोद्गमो घुर्घुरकञ्च जृम्भा वैवर्णता द्वेषसशोषतास्ये ज्वरस्य च व्यक्तकलक्षणानि ४५ समीरणे च वै जृम्भा कफाद्दैन्यं निषीदति पित्तान्नयनसन्तापः सर्वं वै सान्निपातिके तस्माद्वक्ष्ये प्रतीकारं येन सम्पद्यते सुखम् ४६ वचा यवानी धनिका सविश्वा पिबेत्कषायं निशि सोष्णमेवम् स वातिके वातरुजे ज्वराणां सम्पाचके स्यान्मनुजे सुखाय ४७ निशा सनिम्बा मृतवल्लिका च धान्यं च विश्वा सगुडः कषायः निशासु च क्षीरसकोलमिश्रं पानं सपित्तज्वरपाचनाय ४८ वचा यवानी त्रिफला सविश्वा क्वाथो निशायां कफजे ज्वरे वा सपाचनं स्यान्मनुजस्य दोषे शूले प्रतिश्यायकपीनसेषु ४९ शठीवचानागरकाफलानां वत्सादनीधन्वयवासकानाम् क्वाथोहितः सर्वभवे ज्वरे च सम्पाचनं स्यान्मनुजत्रिदोषे ५० रात्रौ सुखोष्णतोयेन प्रचुरेण च धीमताम् अङ्गसम्मर्दनं पथ्यं निद्राव्यायामवर्जितम् ५१ वैपथुर्विषमवेगशोषणं कण्ठतालुवदने विरस्यता रूक्षता वपुषि बन्धकुक्षयोर्जृम्भणं शिरसि रुग्विनिद्रता ५२ कृष्णताकररुहां प्रलापको गात्रभङ्गबलवान् बिभत्स्यति भीतवत्स्वपिति जाग्रतो नरो लक्षणैर्भवति वातकृज्ज्वरः ५३ नागरं सुरतरुश्च धान्यकं कुण्डली बृहतिका युगन्निशम् सप्तमे निशि प्रशस्यते ज्वरे चाष्टमांशगतको हि अष्टवान् ५४ वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव तद्बालवृद्धयुवती मृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च ५५ इन्द्रियाणां लघुत्वञ्च नेत्रास्यस्य प्रसादता सोद्गारमुष्णता कोष्ठे जीर्णभेषजलक्षणम् ५६ क्लमहृल्लाससदनं शिरोरुग्भ्रंशमेव च उत्क्लेदो जायते यस्य विद्यादुत्क्राममौषधम् ५७ दाहाङ्गसदनं मूर्च्छा शिरोरुक्क्लमदीनता भ्रमो रतिविशेषेण सविशेषौषधाकृतिः ५८ तस्मादौषधशेषे तु न दोषशमनं क्वचित् कोपन्त्यनेकधा दोषा न देयं पाचनं विना ५९ शीघ्रं विपाकमुपयाति बलं न हन्यादन्नावृतं न च मुहुर्वदनान्निरेति प्राग्भुक्तसेवितमहौषधमेतदेव दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः ६० बिल्वाग्निमन्थशुकनासकपाटलीनां कुम्भारिकाप्रयुतकं क्वथितं कषायम् दन्तान्विशोधयति वारयते समीरं नाशं करोति मरुतज्वरमाशु पुंसाम् ६१ किरातमुस्तमृतवल्लिक्रणासवित्र्यो गोकण्टको बृहतियुग्ममुदीच्यतिक्ताः । स्याच्छालिपर्णिकलशीक्वथितः समन्तात्क्वाथः समीरण भवं ज्वरमाशु हन्ति ६२ गुडूची शतपुष्पा च प्लक्षी रास्ना पुनर्नवा त्रायमाणकक्वाथश्च गुडैर्वातज्वरापहः ६३ मूर्च्छा दाहो भ्रममदतृषावेगतीक्ष्णोऽतिसारस्तन्द्रालस्यं प्रलयन वमीपाकतापश्च वक्त्रे । स्वेदः श्वासो भवति कटुकं विह्वलत्वं क्षुधा वा एतैर्लिङ्गैर्भवति मनुजे पैत्तिको वै ज्वरस्तु ६४ रोध्रोत्पलामृतलताकमलं सिताड्यं तत्सारिवासहितमेव हि पाचनेषु । निष्क्वाथ्य क्वाथमति चाशु निहन्ति पित्तं पित्तज्वरप्रशमनं प्रकरोति पुंसाम् ६५ क्वथितं तण्डुलपयसा शक्राह्वं कटुरोहिणीसहितम् क्वाथं यष्टीमधुना विनाशनं पित्तज्ज्वराणान्तु ६६ दुरालभावासकपर्पटानां प्रियंगुनिम्बकटुरोहिणीनाम् किराततिक्तं क्वथितं कषायं सशर्कराढ्यं कथितञ्च पाचनम् ६७ सदाहपित्तज्वरंमाशु हन्ति तृष्णाभ्रमं शोषविकारयुक्तम् ६८ एकोऽपि वै पर्पटको वरिष्ठः पित्तज्वराणां शमनाय योग्यः तस्मात्पुनर्नागरवालकाढ्यः सिंहो यथा कङ्कटकप्रवृत्तः ६९ नागरोशीरमुस्ता च चन्दनं कटुरोहिणी धान्यकानां तु क्वाथश्च पित्तज्वरविनाशनः ७० अमृतं पर्पटो धात्री क्वाथः पित्तज्वरं हरेत् ७१ द्राक्षापर्पटकतिक्तापथ्यारग्वधमुस्तकैः क्वाथस्तृषाभ्रमदाहयुक्तपित्तज्वरापहः ७२ विदारिकारोध्रदधित्थकानां स्यान्मातुलुङ्गस्य च दाडिमानाम् यथानुलाभेन च तालुलेपो निहन्ति दाहं तृषामूर्च्छनञ्च ७३ उत्तानस्य प्रसुप्तस्य कांस्ये वा ताम्रभाजने नाभौ निधाय धारां नु शीतान्दाहं निवारयेत् ७४ रम्यारामाकुचभरनतालिङ्गनं चेष्टसङ्गाद्द्राक्षापानं निगदितमथो शीतलं सेवनं स्यात् । शुभ्राम्भोजञ्च मलयजलासिक्तसंशीतवासो मुक्ताहारो विशदतुहिनं कौमुदीयामुखाय ७५ एभिर्हन्ति द्रुततरनिभं मानुषाणां तु पित्तं दाहं शोषं क्लममपि तथा तृड्भ्रमं मूर्च्छनाञ्च । एतैर्योगैर्भवति नितरां पित्तदाहस्य शान्तिर्योग्या चैवं भवति सततन्तत्क्रियाश्रीमताञ्च ७६ यदि जिह्वागलतालुशोषश्चेन्मनुजस्य च केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् पेष्यमाणं तालुलेपे सद्यः पित्तज्वरापहम् ७७ स्तैमित्यं मधुरास्यता च जडता तन्द्रा भृशञ्च तथा गात्राणां गुरुतारुचिर्विस्मता रोमोद्गमः शीतता प्रस्वेदाः श्रुतिरोधनञ्च कुरुते नेत्रे च पाण्डुच्छवी विष्टब्ध मलवृत्तिकासवमनं श्लेष्मज्वरे ते विदुः ७८ पिप्पलादिककल्कं तु कफजे पाचनं हितम् ७९ तद्वद्व्याघ्री च सिंही च रोध्रं कुष्ठपटोलकम् ज्वरे कफात्मजे चैतत्पाचनं स्यात्तदुत्तमम् ८० वासा गुडूची त्रिफला पटोली शठी च तिक्ता मधुनीकषायम् श्लेष्मप्रभूतेषु रुजेषु सम्यग् ज्वरं निहन्यात्कफजञ्च शीघ्रम् ८१ आमलक्यभया कृष्णा षड्ग्रन्था त्रित्रिकन्तथा मलभेदी कफान्तको ज्वरनाशनदीपनः ८२ पिप्पली शृङ्गवेरञ्च षड्ग्रन्था वत्सकं फलम् क्वाथो मधुप्रगाढः स्याच्छ्लेष्मज्वरविनाशनः ८३ क्षोद्रेण पिप्पलीचूर्णं लिह्येच्छ्लेष्मज्वरापहम् प्लीहानाहविषं हन्ति कासश्वासाममर्दनम् ८४ तृष्णा मूर्च्छा वमिरथ कटुता चानने रूक्षता स्यादन्तर्दाहो वपुषि नयने रक्तता कण्ठशोषः । निद्रानाशः श्वसनशिरसो रुक्प्रभेदोऽङ्गभङ्गोरोमोद्घर्षस्तमकमिति चेद्वातपित्तज्वरः स्यात् ८५ संसृष्टदोषैर्विहितञ्च सम्यग्विपाचनं पित्तमरुज्ज्वरे च फलत्रिकं शाल्मलिसम्प्रयुक्तं रास्नाकिरातस्य पिबेत्कषायम् ८६ द्विपञ्चमूली सह नागरेण गुडूचिभूनिम्बघनैः समेता कल्कः प्रशस्तः सगुडो मरुत्सु स पित्तवातज्वरनाशहेतुः ८७ किराततिक्तामलकीशठीनां द्राक्षोषणानागरकामृतानाम् क्वाथः सुशीतो गुडसंयुतः स्यात्स पित्तवातज्वरनाशहेतुः ८८ अमृतमुस्तकवासापर्पटविश्वाजलेन क्वाथः पानं पित्तमरुत्सु ज्वरं निहन्याच्च भद्रमुञ्जः ८९ निद्रागौरवकात्ससन्धिशिररुक्चार्त्तिस्तथा पर्वणां भेदो मध्यमवेगमत्र नयने वातान्विते श्लेष्मणि । सन्तापः श्वसनं रुचिः श्रुतिपथे कण्ठे च शुष्कावृतिस्तन्द्रामोहमरोचकभ्रममथ श्लेष्मज्वरे पित्तले ९० नागरं भद्रमुस्ता वा गुडूच्यामलकाह्वयम् पाठामृणालोदीच्याश्च क्वाथः पित्तज्वरे कफे ९१ पाचनो दीपनीयः स्याद्रक्तशोषनिवारणः ९२ द्राक्षामृतावासकरिष्टकाश्च भूनिम्बतिक्तेन्द्रयवाः पटोलम् मुस्तासभार्गा क्वथितः कषायः पित्तकफस्य ज्वरनाशनाय ९३ गुडूचिका निम्बदलानि शुण्ठी मुस्तञ्च कुस्तुम्बुरुचन्दनानि क्वाथं विदध्यात्कफपित्तवातज्वरं निहन्याच्च गुडूचिकाद्यः ९४ एष सर्वज्वरान्हन्ति हृल्लासाद्यानरोचकान् प्रतिश्यायपिपासाघ्नः शोषदाहनिवारणः ९५ गुडूचीनिम्बचक्रवासकञ्च शठी किरातं मगधाष्टहल्यौ दार्वीपटोलं क्वथितं कषायं पिबेन्नरः पित्तकफे ज्वरे च ९६ पटोली चन्दनं तिक्ता मूर्वा पाठामृतागणः पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूनिवारणः ९७ पटोलवासापिचुमन्दकस्य मूलानि यष्टीमधुकं घना च कषायमेतत्प्रतिसाधितन्तु ज्वरे कफे पित्तभवे प्रशस्तः ९८ सन्दीपनो पित्तकफात्मके च तथैव पित्तासृजसम्भवे च ज्वरे मलानां प्रतिभेदनः स्यात्पटोलधान्याश्रितकः प्रशस्तः ९९ शीतं वेपथुपर्वभङ्गवमथुर्गात्रे जडत्वं रुजां मन्दोष्मारुचिबन्धनं परुषता कासस्तमः शूलवान् । तन्द्रा कूजनमात्मलौल्यमथवास्तैमित्यजृम्भारुचिः प्रस्वेदोमलमूत्ररोधसहितः स्याच्छ्लेष्मवातज्वरः १०० आरग्वधस्तिक्तकरोहिणी च हरीतकी पिप्पलिमूलमुस्ता निष्क्वाथ्य कल्कः कफवातयुक्ते ज्वरे सशूले हितपाचनोऽयम् १०१ क्षुद्रा गुडूची सह नागरेण वासाजलं पर्पटकञ्च पथ्याः मुस्ता च दुःस्पर्शयुतः कषायः पानो हितो वातकफज्वरस्य १०२ पर्पटनागाख्यवचातन्तुककट्फलैलाभयाविश्वभूतिके क्वाथो हिंगुमधुयुतः कफवाते सहिक्कारोगे सगलग्रहे च १०३ द्विपञ्चमूलकः क्वाथः कणाचूर्णेन भावितः देयो वातकफे शूले ज्वरे श्वासे च पीनसे १०४ तन्द्रालस्यं मुखमधुरता ष्ठीवनं कण्ठशोषो निद्रानाशः श्वसनविकलो मूर्च्छना शोचना च । जिह्वाजाड्यं परुषमथ वा पृष्ठशीर्षे व्यथा स्यादन्तर्दाहो भवति यदि वा विद्धि दोषं त्रिदोषम् १०५ दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम् तस्मादादौ कफस्यास्य शोषणं परिकीर्त्तितम् १०६ न कुर्यात्पित्तशमनं यदीच्छेदात्मनो यशः कफवातैर्बलवतः सद्यो हन्ति रुजातुरम् १०७ लङ्घनं दमनं वापि ष्ठीवनं स्यात्त्रिदोषजे त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा १०८ लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम् कफं विशोषितं ज्ञात्वा ततो वातनिवारणम् १०९ पित्तसंशमनं कार्यं ज्ञात्वा पित्तस्य कोपनम् शोषणीयौ वातकफौ न तु पित्तं विनाशयेत् ११० तृष्णा च शूलशोषः श्वसनमथ निशाजागरो वासरैस्तु तन्द्रा मोहश्च शोषो भवति च वदने घ्राणजिह्वाधराणाम् पाकं निष्ठीवते यः कृशतनुश्च भवेन्मण्डलानाञ्च देहे सम्भूतिः श्यावनेत्राधरवदनमदस्वेद आध्मानशोषः १११ क्षुन्नाशो वा भ्रमणमपि तथा शिरसो लोडनं वा शिरोऽर्त्तिः स्रोतोरोधो वमिर्वा गलकघुरघुराशूलकैर्वा वृतस्तु । एतैर्लिङ्गैः प्रयुक्तः प्रभवति च नृणां सन्निपातेतिसंज्ञा रोगाणामाशुकारी ज्वर अतिदुःखदो वाजिनां वा द्विपानाम् ११२ सन्निपातज्वरे पूर्वं कुर्याद्वातकफापहम् पश्चाच्छ्लेष्मणि संक्षीणे निरामे पित्तमारुतौ ११३ सन्निपातज्वरे यत्नं कृत्वा तन्द्रां जयेत्पराम् उपद्रवः कष्टतमो ज्वराणाञ्च विशेषतः ११४ पथ्ये कारयते यस्तु रोगिणां कफपूरितम् स एवास्य शत्रुः स्यान्न पथ्यं न च भेषजम् ११५ शठी द्विपञ्चमूलकं दुरालभा च कोटजम् पटोलं पौष्करं वाथ युक्ता भार्गवी पिप्पली ११६ निहन्ति सान्निपातिकज्वराग्निमाद्यन्दशाङ्गः ११७ भूनिम्ब दारुदशमूलमहौषधाब्दतिक्तेन्द्रबीज धनिकभद्रकण्टकणाकषायः तन्द्राप्रलापभ्रमतृषारुचिदाहमोहश्वासाग्निमान्द्ययुक्तमथज्वरमाशु हन्ति ११८ शण्ठीघनागजकणासुरदारुधान्यातिक्ताकलिङ्गदशमूलसमोऽपि कल्कः श्रेष्ठस्त्रिदोषजनितज्वरनाशनाय श्वासभ्रमारुचिविबन्धहृदामयघ्नः ११९ मुस्तोशीरनिशाविशालमधुकं पाठा बला रोहिणी नीली धन्वयवास कटृवरशठी शुण्ठी समङ्गा विवृत् । यष्टीपिप्पलिमूलपर्पटफला पिप्पल्यकं दारु च श्यामाहेमगुडूचिकासमपयः क्वाथो ज्वरान्तः स्मृतः १२० द्वे बृहत्यौ शठी शृङ्गी किरातं कटुरोहिणी पटोलं पौष्करं भार्ङ्गी वत्सकञ्च दुरालभा १२१ एतद्बृहत्यादिकपाचनं स्यात्कासादिकोपद्रवनाशनञ्च शीघ्रं निहन्ति ज्वरसन्निपातं शूलार्त्तितन्द्राशमने प्रशस्तम् १२२ शठी किरातं कटुका विशाला गुडूचिभृङ्गी बृहतीद्वयञ्च महौषधं पौष्करधन्वयासरास्नासुराह्वा गजपिप्पली च १२३ पीतन्तु निष्क्वाथ्य हितं नराणां शठ्यादिचातुर्दशकं प्रशस्तम् जघान तन्द्राश्वसनं शिरोऽर्त्तिजाड्यं सशूलं ज्वरमाशु हन्ति १२४ भूनिम्बसुरदारुनागरघनातिक्ताकलिङ्गानि च तद्वद्धस्तिकणा द्विपञ्चकगणैर्युक्तः कषायो हितः । पीतः सर्वरुजां विनाशनकरः स्यात्सन्निपातज्वरं हन्ति श्वासविशोषवक्षसिरुजं तन्द्रां जघान द्रुतम् १२५ रास्ना गुडूचिघनपर्पटकं पटोली भूनिम्बवत्सकशठीयुतनागराणाम् तिक्तासुराह्वगजमागधिकायवासावासाबलागजबलाक्वथितः समांशः १२६ क्वाथो निहन्ति मरुतप्रभवामयानां सश्वास कासजठरार्तिविषूचिकानाम् श्रेष्ठो नृणां भुवि च पाचनसन्निपाते रोगेऽथवा कफसमीरणके प्रदेयः १२७ रास्नात्रिकण्टशतमौषधीनान्तथा च भार्ङ्गी सपुष्करघना सुरदारुधान्याः क्वाथो हितः सकलमारुतजिज्ज्वरेषु स्यात्सन्निपातप्रभवेष्वतिदारुणेषु १२८ त्रिवृद्विशाला च तथा सुराह्वमारग्वधस्तिक्तकरोहिणी च क्वाथो भवेद्भेदनको मलानां स्याद्वातशूले नयतो भयघ्नः १२९ वचा यवानी च महौषधञ्च शुष्कञ्च चूर्णं तनुलेपनाय शस्तं वदन्ति ज्वरघर्मशान्तिं करोति नूनं परिमर्दनञ्च १३० मागधी च सुरदारु तथा च विश्वकं तिक्ता च दीप्यकयुतं तनुलेपनाय चूर्णं प्रशस्तमपि वारयते शरीरे स्वेदञ्च शीतलतनुर्भवेदाशु नूनम् १३१ मधूकसारं समहौषधेन वचोषणा सैन्धवसंयुता च मूत्रेण वा चोष्ण जलेन पिष्टं प्रनष्टज्ञानप्रतिबोधनाय १३२ शोभाञ्जनकमूलस्य रसं समरिचान्वितम् विसङ्गितानां नस्यं स्याद्बोधनं चाशु रोगिणाम् १३३ एकं बृहत्याः फलपिप्पलीकं शुण्ठीयुतं चूर्णमिदं प्रशस्तम् प्रधामयेद्घ्राणपुटे तु संज्ञाचेष्टां करोति क्षवथुप्रबोधः १३४ शिरीषबीजं मरिचोपकुल्या मूत्रेण घृष्टं सह सैन्धवेन नेत्राञ्जनं स्यान्नयने नराणां प्रनष्टसंज्ञां प्रकरोति बोधः १३५ त्रिकटु तथा च करञ्जबीजं त्रिफला सुरदारु सैन्धवम् तुलसी वर्त्ति दयनाञ्जनकं तन्द्रा नाशं करोति नयनानाम् १३६ केसरं मातुलुङ्गस्य शृङ्गवेरं ससैन्धवम् त्रिकटुसंयुतं कृत्वा आकण्ठाद्धारयेन्मुखे १३७ दन्तजिह्वामुखं तालुघर्षणं कारयेद्बुधः कुर्यान्निष्ठीवनं सर्वं वारंवारं विधानतः १३८ तेन कण्ठविशुद्धिः स्याच्छ्लेष्माणं चापकर्षति जिह्वापटुत्वरुचिकृत्वासः श्वासश्च शाम्यति १३९ त्रकटुचव्यकापथ्या चूर्णं सैन्धवसंयुतम् तेन दन्तांस्तथा जिह्वां घर्षयेत्तालुकामलम् १४० निष्ठीवनं गलशुद्धिरुचिकृत्कफसूदनम् हृल्लासो नाशमाप्नोति पटुत्वं कुरुते भृशम् १४१ यदि वा शीतगात्रे च तदा स्वेदो विधीयते स्वेदास्त्रयोदश ज्ञेयाः स्वेदवारणकारणाः १४२ सङ्करः प्रस्तुतो नाडीपरिषेकोऽपगाहनः आतङ्कोऽस्मयनः कर्षः कूटी भूकुम्भिरेव च १४३ कूपो होलाक इत्येते स्वेदयन्ति त्रयोदशः १४४ कालस्वेदं घटीस्वेदं वालुकास्वेदमेव च कारयेद्धस्तपादाभ्यां तथा शिरसि चातुरे एवं नो शान्तिर्यदि वा दहेल्लोहशलाकया १४५ पादौ दग्धे न चेच्छैत्यं दहेद्वाङ्गुष्ठमूलके तथा च मणिबन्धे च हृदि मूर्ध्नि तथापि वा १४६ स्वेदो ललाटे हिमो वा नरस्य शीतार्दितस्यापि सपिच्छलस्य कण्ठस्थितो यस्य न याति वक्षो नूनं समभ्येति गृहं हि मृत्योः १४७ सप्ताहे वा दशाहे वा द्वादशाहेऽथवा पुनः त्रयोदशे पञ्चदशे प्रशमं याति हन्ति वा १४८ अथ पञ्चादशाहे वा हन्ति रक्षति मानवम् सन्निपातो महाघोरो ज्वरः कालाग्निसन्निभः १४९ एषा त्रिदोषमर्यादा मोक्षाय च वधाय च सन्निपातस्य दोषस्य नरस्यास्य भिषग्वर १५० सन्निपातेऽन्तर्दाहे मनुजं यः शीतवारिणा सिञ्चेत् आतुरः कथमपि जीवेद्वैद्यश्चासौ कथं पूज्यः १५१ यः सन्निपातजलधौ पतितं मनुष्यं वैद्यः समुद्धरति किन्न कृतं नु तेन । धर्मेण वाथ यशसा विनयेन युक्तः पूजां च कां भुवितले न लभेत्तु वैद्यः १५२ वातपित्तकफैस्त्रिभिर्युक्तस्तथा त्रिदोषजः स च रक्तेन संयुक्तो ज्वरः स्यात्सान्निपातिकः १५३ न रक्तेन विना विद्धि ज्वरं वै सान्निपातिकम् क्वाथैः पाचनकैर्दोषाः प्रशमं यान्ति मानवे १५४ तस्मात्प्रशमिते दोषे रक्तं नैव विलीयते तेनैव जायते शोफः कर्णमूले तु दारुणः १५५ तस्मात्तस्य प्रतीकार कुर्याद्रक्तविरेचनम् जलौकालाबुभृङ्गैस्तु ततश्च लेपनं हितम् १५६ बीजपूरकमूलानि अग्निमन्थस्तथैव च आलेपनमिदं चास्य कर्णमूलस्य नाशनम् १५७ आगारधूपरजनीसुमहौषधेन सिद्धार्थसैन्धववचापयसा विमर्द्य लेपोहितोरक्तविनाशकारी शोफव्रणस्य शमनो मनुजस्य कर्णे १५८ यदा पाको भवेत्तस्य कार्या तत्र प्रतिक्रिया धवार्जुनकदम्बत्वग्लेप्लनं व्रणरोहणम् १५९ निम्बारग्वधमूलानां निशायुक्तं प्रलेपनम् स्रावणं पूयगन्धानां रोहणं स्याद्व्रणेषु च १६० वर्जयेच्च दिवास्वप्नं योषित्सङ्गं बहूदकम् शीताम्बु जागृतिं रात्रौ व्यायामं शोचनं तथा १६१ माषांश्च यवगोधूमतिलपर्णीकमेव च मसूरत्रिपुटांश्चैतांस्तैलञ्च दूरतस्त्यजेत् १६२ मासमेकं व्यवायं च पक्षैकं चातिभोजनम् वर्जयेत्कर्णमूलञ्च सुखं तेनोपपद्यते १६३ षष्टिकान्नं पुराणं वा बाल्य सूपस्तथाढकी कुलत्थामुद्गयूषं वा भोजने च प्रशस्यते १६४ वार्त्ताकञ्च पलाण्डुं च कन्दशाकान्परित्यजेत् एतेन सुखमाप्नोति शीघ्रं रोगाद्विमुच्यते १६५ अन्ते पित्तं यदा तिष्ठेद्बाह्ये श्लेष्मसमीरणो तदान्तर्दाहशोषः स्याद्बाह्ये सस्वेदशीतता १६६ तस्यामृतापयः क्वाथं मधुपिप्पलिसंयुतम् पाययेदाशु मुच्येत ज्वराद्वै सान्निपातिकात् १६७ अथवातिविषा वालं नागरं घनपर्पटम् क्वाथो वा शर्करायुक्त अन्तर्दाहोपशान्तये १६८ बाह्ये पित्तं यदा तिष्ठेदन्ते वा कफमारुतौ तेनोष्णत्वं शरीरस्य अन्ते शैत्यं च जायते १६९ तस्य शठ्यादिकं क्वाथं प्रयुञ्जीयात्कफापहम् १७० यस्योर्ध्वाङ्गे वातकफावधोगं पित्तमेव च तेनार्द्धं शीतलं गात्रमर्द्धे चोष्णं च जायते १७१ तस्य रास्नादिकं क्वाथं प्रयुञ्जीयात्तथोष्णकम् १७२ यस्योर्ध्वं रक्तपित्तञ्च मध्ये वातकफावुभौ तेनोर्ध्वं जायते चोष्णमधः शीतं प्रजायते १७३ तस्य नागरादिक्वाथं युञ्जीयाद्भिषगुत्तमः १७४ यस्योष्मा दृश्यते चापि मन्दस्रष्टा च जायते बाह्यवेगं विजानीयाज्ज्वरः साध्यो विजानता १७५ यस्यान्ते जायते चोष्मा तृष्णा दाहः शिरोव्यथा गम्भीरवेगं जानीयात्कृच्छ्रसाध्यो नृणामपि १७६ तस्य कुर्यात्प्रतीकारं योगोऽष्टादशको नृणाम् १७७ अन्ते पित्तं यदा तिष्ठेद्देहे वातकफावुभौ तेन शैत्यं शरीरस्य उष्णत्वं करपादयोः १७८ तस्य रास्नादिकः क्वाथः प्रदेयः पिप्पलीयुतः १७९ देहे पित्तं यदा तिष्ठेदन्ते वातकफावुभौ तस्योष्मा जायते देहे शीतत्वं करपादयोः १८० तस्य द्राक्षादिकः क्वाथः प्रदेयो गुडकान्वितः १८१ यत्र यत्र भवेच्छैत्यं तत्र स्वेदो विधीयते नात्युष्णे स्वेदनं कार्यं ज्वरस्यास्य विजानता १८२ कफपित्तेन निश्चेष्टो भवत्येवानिलः सदा तस्मादेवानिलाद्रोगाः सम्भवन्ति ज्वरादयः १८३ भ्रमः शैत्यं विह्वलता कम्पो विड्भेदनं क्लमः श्रमः स्वेदो जल्पनञ्च ज्वरमोक्षे भवन्ति च १८४ प्रस्वेदकण्डू च शिरा च पुष्टा तथा मुखेषु क्षवथुर्लघुत्वम् अन्नाभिलाषो विपुलेन्द्रियञ्च गतक्लमो गतरुजो मनुष्यः १८५ विमुक्तस्यापि हि शिरोगुरुत्वं नैव मुञ्चति अविमुक्तं विजानीयाज्ज्वरः पुनरुपैति तम् १८६ यदि धातुगतश्चैव ज्वरो देहे प्रपद्यते विषमज्वरं जानीयात्स च ज्ञेयश्चतुर्विधः १८७ एकाहिको द्व्याहिकश्च त्र्याहिकश्च तथापरः वेलाज्वरश्चतुर्थोऽपि विजानीयाद्विचक्षणः १८८ शीतश्च पूर्वं भवति पश्चादुष्णश्च जायते स साध्यो मनुजे प्रोक्तः शीघ्रं सिध्यति भेषजैः १८९ पश्चाच्च दाहमाप्नोति ज्वरो भवति दारुणः सोऽपि न मुच्यते शीघ्रं ज्वरो धातुक्षयङ्करः १९० त्रिकोरुकट्यां रुजवातपित्तं स्याच्च पित्तं मस्तके सुग्भ्रमश्च पृष्ठे तनुश्लेष्मरुजाकरं स्यात्त्रिधा तृतीयज्वरलक्षणं तत् १९१ कफपित्तात्त्रिकग्राहीपृष्ठाद्वातकफात्मकः वातपित्तशिरोग्राही त्रिविधः स्यात्तृतीयकः १९२ चतुर्थो द्विविधो ज्ञेयो वातश्लेष्मात्मको ज्वरः जङ्घाभ्यां श्लेष्मकोज्ञेयः शिरसोऽनिलसम्भवः १९३ एवं विज्ञाय सद्वैद्यः कुर्यात्तत्र प्रतिक्रियाम् १९४ वेलाज्वरो रसगते रक्ते चैकाहिकस्तथा मांसगोऽपि तृतीयः स्याच्चतुर्थोऽस्थिसमाश्रितः सर्वधातुगतो ज्ञेयो जीर्णो धातुक्षयङ्करः १९५ भूतजे भूतविद्या स्याद्दधाति शमताडनम् अभिशापाज्ज्वरो यस्य तस्य शान्तिः प्रतिक्रिया १९६ कामजे कामला पित्तैर्नयेच्च श्वसनं हितम् १९७ क्रोधजे पित्तजे वापि सद्वाक्यैरुपशामयेत् ओषधी गन्धजैर्मूर्च्छा कारयेत्सेवनं हितम् १९८ निदिग्धिकानागरिकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् जीर्णज्वरारोचनकासशूलश्वासाग्निमान्द्यार्दितपीनसेषु १९९ कासाजीर्णे श्वासहृत्पाण्डुरोगे मन्दे वाग्नौ कामलारोचके च तेषां शस्ता पिप्पली स्याद्गुडेन हन्ति नॄणां जीर्णमाशु ज्वरञ्च २०० लघुपञ्चमूलीक्वथितः कषायश्छिन्नोद्भवायाः सह पिप्पलीभिः जीर्णज्वरे श्वासकफामयघ्नो मन्दाग्निशूलारुचिपीनसानाम् २०१ पटोलपाठाकटुरोहिणीनां फलत्रयं वत्सकनिम्बमोक्षाः द्राक्षामृताचन्दननागराणां क्वाथः पुराणज्वरनाशनाय २०२ सजीरकं गुडं भक्षेत्सगुडां वा हरीतकीम् सगुडान्वा तिलान्भक्षेज्ज्वरे च विषमानुगे २०३ गुडार्द्रकं वा सम्भक्षेत्सगुडं त्रिफलाक्वाथम् क्वाथोऽपि विषमाणान्तु ज्वराणां नाशकारकः २०४ वासाधात्रीफलदारुपथ्यानागरसाधितः मधुना संयुतः क्वाथश्चातुर्थिकनिवारणः २०५ अगस्तिपत्रं स्वरसैर्निहन्ति नस्ये च चातुर्थिकरोगमुग्रम् कासं भ्रमं चापि शिरोरुजाञ्च नाशञ्च नस्यं च हितं नराणाम् २०६ रसोनकल्कं तिलतैलमिश्रं योऽश्नाति नित्यं विषमज्वरार्त्तः विमुच्यतेऽसौ विषमज्वरेभ्यो वातामयैश्चाप्यतिघोररूपैः २०७ पलञ्च निम्बस्य दलानि कुष्ठं वचा गुडं गुग्गुलुसर्षपानाम् हरीतकी सर्पिर्युतं च धूपं विनाशनं वै विषमज्वराणाम् २०८ सुरसा मूलमावृत्य हस्ते बद्धः शुभे दिने वेलाज्वरादिकान् हन्ति भूतज्वरनिवारणः २०९ मुस्तामृतामलक्यश्च नागरं कण्टकारिका कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः २१० एकाहिकं वा वेलाद्यं ज्वरं जातं व्यपोहति २११ रसोनबीजं विहाय खण्डं कृत्वा निशासु च तक्रमध्ये विनिक्षिप्य प्रभाते घृतसंयुतम् २१२ सेवितञ्च ज्वरान्हन्ति वेलाद्यान्देहधातुगान् २१३ पिप्पलीवर्द्धमानञ्च पिबेत्क्षीरं रसायनम् महौषधं नागरञ्च धान्यं चन्दनवालुकम् २१४ गुडूचिकापयः पिबेत्तृतीयकज्वरापहम् अपामार्गस्य मूलञ्च नीलीमूलमथापि वा २१५ लोहितेन तु सूत्रेण आमस्तकप्रमाणतः वामकर्णे कटीं बद्ध्वा ज्वरं हन्ति तृतीयकम् २१६ वानरेन्द्रमुखं दिव्यं तरुणादित्यतेजसम् ज्वरमेकाहिकं घोरं तत्क्षणादेव नश्यति २१७ वानराकृतिमालिख्य खटिकायाः पुनः शृणु गन्धपुष्पाक्षतैर्धूपैरर्चयन्ति भिषग्वराः २१८ ॐ ह्रां ह्रीं क्लीं सुग्रीवाय महाबलपराक्रमाय सूर्यपुत्रायामिततेजसे एकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमहाज्वरभूतज्वरभय ज्वरक्रोधज्वरवेलाज्वरप्रभृतिज्वराणां दह दह पच पच अवत अवत वानरराज ज्वराणां बन्ध बन्ध ह्रां ह्रीं ह्रूं फट् स्वाहा । नास्ति ज्वरः । ज्वरापगमनसमर्थज्वरस्त्रास्यते २१९ पुनश्चात्र प्रवक्ष्यामि ज्वराणां रूपलक्षणम् २२० सन्तप्तकाञ्चनाभासो हुताशनसमप्रभः उड्डीनयज्ञोपवीती च रौद्रो ब्राह्मणरूपकः २२१ जपाकुसुमसङ्काशो रौद्रदंष्ट्रान्वितस्तया खङ्गहस्तो महारौद्रो माह्रेन्द्रः क्षत्त्रियो मतः २२२ पञ्चकप्रसवाभासतप्तकाञ्चनभूषितः दण्डहस्तो मध्यवेगी वैश्यो ज्वरेश्वरो मतः २२३ कृष्णमेघाञ्जनाकारस्तीक्ष्णदंष्ट्रोज्ज्वलाननः त्रिनेत्रो ज्वलनप्रभः कालः शूद्रो मतस्तथा २२४ तीक्ष्णवेगः क्षुधायुक्तः शुचिर्द्वेष्टा व्रतप्रियः मूत्रञ्च किंशुकाभासं पाठशीलोऽतिजल्पकः २२५ बहुश्वासी तृषाक्रान्तो रौद्रब्राह्मणपीडितः तस्य स्नानं जपं होमं कृत्वा शान्तिः प्रपद्यते २२६ तीक्ष्णज्वरोऽतितृष्णश्च रक्तमूत्रञ्च मूत्र्यते कुरुते युद्धवार्त्ताञ्च उत्तिष्ठति बलातुरः २२७ तप्तनेत्रो महाश्वासः क्षुधया पीडितस्तथा मधुगन्धो मुखे स्वेदो माहेन्द्रक्षत्त्रियार्दितः २२८ तस्यादौ ग्रहहोमं तु देवतास्तवनं शुचिः दानजपादिभिः कार्यैः प्राप्यते सिद्धिसङ्गमः २२९ मध्यवेगः पीतगात्रः स्वप्नशीलोऽरुचिस्तथा शीतपवनहृदुष्णः कण्ठस्वेदोऽतिविह्वलः २३० बहुमूत्री भक्तियुक्तो मौनी पीतान्तलोचनः नातितृष्णातुरः स्निग्धः स विज्ञेयो ज्वरेश्वरः २३१ तत्र स्वस्त्ययनातिथ्यं द्विजदैवतपूजनम् जपहोमादिकं सर्वं कर्त्तव्यं शान्तिहेतुना २३२ हृच्छूलश्चातिसारी वा मत्स्यगन्धाङ्गलेपनः उन्मादी चातितृप्ताक्षो रतेषु विकलेन्द्रियः २३३ प्रणयी त्वध्वनो भीरुर्ग्रासं नैवाभिकांक्षया कालभृङ्गारकेणापि शूद्रे सिद्धिर्न जायते २३४ स्नानं दानजपं सुरार्चनविधिर्होमादयः प्रीतता भूतानाञ्च विशेषणेन बहुधा तृप्तिं च कुर्यात्ततः । गोभूमिं कनकान्नपानविधिना दानेन शान्तिर्भवेत् सर्वेषां च रुजां विनाशनमिदं शंसन्ति सत्यव्रताः २३५ वेगं कृत्वा विषं यद्वदाशये लीयते बलम् कुप्यते प्रबलं भूयः काले दोषो बिषं तथा २३६ शालिषष्टिकभक्तानां यूषं मुद्गाढकीषु च पूर्वोक्तानि च शाकानि वातघ्नानि भवन्ति हि २३७ शतपुष्पा च जीवन्ती तण्डुलीयकवास्तुकम् घृतेन भाजिका सिद्धा शाकपत्राणीमानि च २३८ लावतित्तिरमांसादिवार्त्ताकानां तथातुरे मृगछिक्करिकाद्यानि जाङ्गलानि प्रयोजयेत् २३९ कोशातकी पटोलं च शुण्ठीकं च हितं भवेत् वर्जयेद्विदलान्नानि विदाहीनि गुरूणि च २४० न पिच्छलानि तैलानि तथाम्लानि च वर्जयेत् दधिमस्तुविशालानि क्षुद्रान्नानि भिषग्वरः २४१ बहूदकञ्च ताम्बूलं घृतं वापि सुरामपि २४२ क्रोधं शोकञ्च त्यक्त्वा वै सदा सौख्यं विभुञ्जते न कुर्याज्जागरं रात्रौ दिवास्वप्नञ्च वर्जयेत् २४३ शकटवाजिकरिद्विपिवाहनं प्रबलं परिवर्जयेत्तु सततम् ज्वरिणमाशु सुखं बुभुजे सुधीः शुभविधाननिधान उपस्तितः २४४ व्यायामं च व्यवायं च अशनं रात्रिजागरम् ज्वरमुक्तो न सेवेत तदा सम्पद्यते सुखम् २४५ इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने ज्वरचिकित्सानाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः आत्रेय उवाच अथातीसार विज्ञानं भेषजं शृणु पुत्रक ज्वरजो वातिसारश्व भेषजं चोपदिश्यते १ दोषसंशमनं किञ्चित् किञ्चिच्च धातुदूषणम् स्वस्थवृत्तौ मतं किञ्चिद्द्रव्यं त्रिविधमुच्यते २ तच्च दैवपथाश्रयं युक्तिपथाश्रयं सत्त्वावजयञ्च मन्त्रौषधमणिमङ्गगलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्यनप्रणिधाना दीति दैवपथाश्रयम् । आहारव्यवहारौषधद्रव्याणां योजनेति युक्तिपथाश्रयम् । अहितेभ्योऽर्थेभ्यो मनोनिग्रह इति सत्त्वावजयञ्च ३ स्निग्धातिशीतगुरुशीतलपिच्छलान्नं दुष्टाशनातिविषमाशनपान भक्ष्यम् अद्यादजीर्णमथ शोकविषैर्भयैर्वा शोकार्त्तिदुष्टपयसा तु विपर्ययेषु ४ दौर्बल्यतां विषमभोजनकेन चाप्सु सम्भिद्यते मलमजीर्णं निहन्ति चाग्निः सञ्जायते हि मनुजस्य तदातिसारो हत्वोदराग्निं मनुजस्य तदातिसारः ५ सञ्जायते स तु पुनर्बहलो मलेन स्यात्पञ्चधा निगदितो मुनिभिर्विधिज्ञैः रक्ष्ये समासत उदीर्णरुजस्य नाशः क्वाथादिकैर्भवति पाचनकैश्च पूर्वम् ६ युगपज्जायते यस्य ज्वरश्चैवातिसारकैः ज्वरातिसारो घोरोऽसौ कष्टसाध्यो मनीषिणाम् ७ न पित्तेन विना सोपि जायते शृणु पुत्रक तस्य नो लङ्घनं प्रोक्तं ज्वरे चैवातिसारके ८ सुवर्चलमतिविषाहिंगुपथ्याकलिङ्गकैः शुण्ठी वामातिसारघ्नी शूलघ्नी ग्राहिपाचनी ९ पथ्यादारुवचामुस्तानागरातिविषायुतैः आमातिसारनाशाय क्वाथमेभिः पिबेन्नरः १० उत्पलं धान्यकं शुण्ठी पृश्निपर्णी बलायुतम् बालबिल्वं गवां तक्रेणात्युष्णेन च पेशयेत् ११ तेन लाजाकृतं मण्डं देयमानीय शीतलम् ज्वरातिसारशमनं हुताशनबलप्रदम् १२ शुण्ठीविषातलधरामृतवत्सकानां तिक्ताह्वयं कनकशीतलकः कषायः पाने विधेयमधुना प्रतिसाधितस्तु ज्वरातिसारशमनाय सदा प्रदेयः १३ पाठेन्द्रभूनिम्बघनामृतानां सपर्प्पटः क्वाथ इह प्रशस्तः आमातिसारञ्च जयेद्रुतं वा ज्वरेण युक्तं सहजञ्च तीव्रम् १४ शुण्ठी बालकमुस्ता बिल्वं पाठा विषा च धान्यानि पाचनमरुचौ छर्द्दिज्वरातिसारं विनाशयति १५ वत्सकश्च सुरदारुरोहिणी धान्यबिल्वमगधात्रिकण्टकम् निम्बबीजगजपिप्पलीवृकीक्वाथ एवमतिसारस्यौषधम् १६ पञ्चमूलीबलाबिल्वगुडूचीमुस्तनागरैः पाठाभूनिम्बह्रीबेरकुटजत्वक्फलैर्भृतः १७ इति सर्वानतीसारान्वमिश्वासज्वरार्दितान् सशूलोपद्रवांश्चासौ हन्याच्चासुरदारुणम् १८ पञ्च मूल्यतिसामान्या योज्या पित्ते कनीयसी महती पञ्चमूली तु वातश्लेष्मज्वरे हिता १९ उत्पलं दाडिमत्वक्च केशरं तथा मधु पद्मकम् धात्री पिष्टा तण्डुलतोयैः पाचनं ज्वरातिसारघ्नम् २० उशीरं धान्यकं मुस्तं सबिल्वं बालकं बला तथा च धातकी पुष्पं कषायस्य प्रशस्यते २१ ज्वरातिसारशमनं सहशोणितपैत्तिकम् निहन्ति शोफं सकलं रुचिप्रदविपाचनम् २२ विगतामातिसारं चिरोत्थितं रक्तसहितमतिवृद्धम् मधुना सहितः शमयत्यरलुः पुटपाकनिर्यासितः २३ जम्बूवटोदुम्बरप्लक्षको हि नागश्च प्रपौण्डरिकं शमी च गुन्द्रः सचूतोऽम्बुदजीविकाया आसां हि पुञ्जञ्च सदा विदध्यात् २४ प्रस्थद्वयेनप्रपिबेद्धि तावद्यावद्विशेषांशमिदं प्रजायते पुनः कटाहे विपचेच्च सम्यग्दार्वीप्रलेपः स्वरसश्च यावत् २५ उत्तार्य नूनं भिषगुत्तमेन क्षौद्रेण मिश्रं हरतेऽतिसारम् २६ हारीतेन तथा प्रोक्ता काकमाची सुपूजिता आलोक्यानेकशास्त्राणि आत्रेयेणापि पूजिता २७ जम्बूत्वचं वत्सकवल्कलं च निष्क्वाथ्य नूनं सलिले समीरणम् चतुर्विभागेष्वपि शेषितेषु उत्तार्य वस्त्रेष्वथगालयेच्च २८ पुनः कटाहे विपचेच्च सम्यग्दार्वीप्रलेपः स्वरसस्तु यावत् उत्तार्य शीते मधुना विमिश्रं लीढं हरेदप्यतिसारमुग्रम् २९ कुक्षो दरे वक्षसि नाभिदेशे प्रायुप्रदेशे सततं निरुद्धे वातस्य रोधश्च शकृद्विभङ्गो भवन्ति सर्वेष्वतिसारकेषु ३० सफेनिलं पिच्छलमेव रूक्षमल्पं सकृदामसशब्दशूलम् कृष्णं भवेद्गात्रविचेष्टनञ्च वातातिसारे प्रवदन्ति तज्ज्ञाः ३१ तस्यादौ लङ्घनं चैकमल्पे वा नैव लङ्घनम् तस्माद्देयं कषायं तु पानभोजनमेव च ३२ उदीच्यधान्यस्य जलेन कल्कं पाने हितं पाचयतेऽतिसारम् तृष्णापहं दाहविनाशनञ्च सशूलहिक्कासुविनाशनं स्यात् ३३ बालकद्वयमोचहरीतकीपर्पटेन सहितं जलेन च क्वाथपानमिदमेवातिसारे नाशमाशु कुरुते च विट्छान्तिम् ३४ शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका बालाश्वदंष्ट्रा बिल्वानि पाठा नागरधान्यकम् ३५ एतदाहारसंयोगे हितं सर्वातिसारिणाम् तिन्दुकत्वचमाहृत्य काश्मरीपत्रवेष्टितम् ३६ मृदा विलिप्य विधिवद्दहेन्मृद्वग्निना भिषक् रसं गृहीत्वा मधुसंयुतं पानं सर्वातिसारघ्नञ्च ३७ तुलामथार्द्रागिरिमल्लिकायाः सङ्कुट्य कर्षञ्च समादधीत तस्मिन्सपूते पलसंसितञ्च देयञ्च पिष्ट्वा सह शाल्मलेन ३८ पाठा समङ्गातिविषा समुस्ता बिल्वञ्च पुष्पाणि च धातकीनाम् प्रक्षिप्य भूयो विपचेच्च तावद्दार्वीप्रलेपः स्वरसस्तु यावत् ३९ पीतस्त्वसौ कालविदा जलेन मण्डेन वाजापयसाऽथवापि निहन्ति सर्वमतिसारमुग्रं कृष्णं सितं लोहितपीतकञ्च ४० दोषं ग्रहण्यां विविधं च रक्तपित्तं तथार्शांसि सशोणितानि असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ४१ घर्मेण चोष्णान्नविभोजनेन घर्मेण तप्तोदकसेवनेन शोकेन तापेन रुषा कटुत्वे क्षारेण पित्तासृक्सारकः स्यात् ४२ तेनारुणं पीतमथातिनीलं दुर्गन्धशोषज्वरपाण्डुयुक्तम् भ्रमार्त्तिमूर्च्छा च तृषाङ्गदाहः पित्तातिसारस्य च लक्षणानि ४३ शालिपर्णीपृश्निपर्णीबलाबिल्वैस्तु साधितः दाडिमाम्लो हितः पेयः पित्तातीसारशान्तये ४४ कुशकाशेक्षुमूलानां शालीनलभवैर्जलैः मूलानां क्वाथमाहृत्य शस्तं पित्तातिसारिणाम् ४५ धान्यपञ्चकमूलानां क्वाथः पित्तातिसारिणाम् ४६ शाल्मलीमूलत्वग्गुडदुग्धपेषितं च पानं पित्तातिशमनं सरक्तदाहशोषहरम् ४७ दुःस्वप्नादिश्रमाद्वै सहजजडतया शीतसंसेवनेन स्निग्धाहारातिभोज्यात्सतिलपलगुडैश्वेक्षुखण्डैर्गुरूणाम् । शीतातिस्नानलौल्यात्पयसि दधियुताहारसंसेवनाच्च जातः श्लेष्मातिसारो जठरहुतभुजहन्तिपुंसामपाकः ४८ तेन श्लेष्मा शुष्कभेदारुचिः स्यात्सान्द्रं विस्रं जाड्यता रोमहर्षः मन्दाग्नित्वं मन्दवेगो विशिष्टः सालस्योऽपि विद्धि सारः कफोत्थः ४९ तस्यादौ लङ्घनं प्रोक्तं ज्ञात्वा देहबलाबलम् पाचनं च विधातव्यं त्र्यूषणाद्यं भिषग्वर ५० त्र्यूषणमभया हिंगु चातिविषा रुचकं वचायुक्तम् मधुसहितं लेहनं नृणां गङ्गामपि वाहिनीं रुन्ध्यात् ५१ कालिङ्गपाठातिविषा बला च सोदीच्यमुस्तामरिचानि शुण्ठी गुडेन क्षौद्रेण प्रशस्तकल्को रक्तातिसारे कफजे शमाय ५२ वत्सकातिविषबिल्वमुस्तकं वालकेन सहितं जले न तु क्वाथपानमतिशूलरक्तपूयनाशं ज्वरयुतेऽतिसारके ५३ यस्तु रक्तं च शुद्धं विरेचने शोषदाहमतिरिञ्चेत् रक्तातिसार इति ज्ञेयो वैद्यैर्महामतिभिः ५४ धान्यनागरमुस्ता च वालकं बालबिल्वकम् बला नागबला चेति क्वाथो रक्तातिसारिणाम् ५५ दाडिमं च कपित्थं च पथ्याजंब्वाम्रपल्लवान् पिष्ट्वा देया मस्तुयुक्ता रक्तातीसारवारणाः ५६ गुडेन पक्वं दातव्यं बिल्वं रक्तातिसारिणे मनुजे पथ्या वा मधुयुक्ता वा दध्ना रक्तातिसारघ्ना ५७ वत्सकातिविषानागराभया पिषितं च मस्तुसंयुतम् लेहस्तु शस्तो मधुनापि मानुजे रक्तवाहमतिवारयत्यपि ५८ कुटजत्वक्च पाठा च विश्वं बिल्वं च धातकी मधुना सहितं चूर्णं देयं रक्तातिसारघ्नम् ५९ वराहवासासदृशं तिलाभं मांसधावनाभासम् पक्वजम्बूफलसदृशं सन्निपातः प्रवहताम् ६० तुलामथार्द्रागिरिमल्लिकायाः सङ्कुट्य पक्त्वा रसयाददीत तस्मिन्सुपूते पलसम्मिते च देयं च पिष्ट्वा सह शाल्मलेन ६१ पाठा समङ्गातिविषासमुस्ता बिल्वं च पुष्पाणि च धातकीनाम् प्रक्षिप्य भूयो विपचेच्च तावद्दार्वीप्रलेपः सरसस्तु यावत् ६२ पीतस्ततः कालविदा जलेन मण्डेन च क्षौद्रयुतेन वापि निहन्ति सर्वमतिसारमुग्रं कृष्णं सितं लोहितपीतकं च ६३ दोषं ग्रहण्यां विविधं च रक्तं पित्तस्य चार्शांसि सशोणितानि असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ६४ पथ्यापञ्चमूलक्वाथश्चतुर्भागावशेषतः तत्र क्वाथे पुनश्चूर्णमिमानि वौषधानि तु ६५ शृङ्गवेरं तथा लाक्षा पिप्पली कटु रोहिणी दाडिमफलत्वक्चूर्णं दार्वी सवत्सकं विषम् ६६ आटरूषकचूर्णानि संक्षिप्यात्र निघट्टयेत् आजं दुग्धं तदर्द्धेन घृतं चाष्टांशकं क्षिपेत् ६७ दार्व्या विलेपितं ज्ञात्वा गुडस्य षोडशानि तु पलानि मिश्रितं तत्र देयमप्रातराशने ६८ त्रिदोषसन्निपातोत्थ अतिसारश्च दारुणः शूलमूर्च्छाभ्रमानाहकामलानां विपाचनः ६९ क्षतक्षीणक्षयाणां तु हितोऽयममृतो वटः ७० एकबिल्वागुरुरोध्रचूर्णं मध्वादियोजितम् रक्तातिसारशमनं बालानां क्षीणधातुकम् ७१ यदा गुह्यं निरस्येत्तु तदा कुर्यात्क्रियामिमाम् सहचर्या बलानां च रसो ग्राह्यो घृतं पुनः ७२ पक्वघृतेन लेपः स्यात्तस्य चेदं प्रशस्यते अरणीपल्लवक्वाथो वाप्यं लोष्टं सचन्दनम् ७३ प्रतप्तमथवाग्निनिभं तथा नरस्य निर्वाप्य काञ्जिकमथ विदधीत तद्वत् सौख्यं च सम्यग्गुदसेचनकं प्रशस्तं संवेश्य मध्यतो गुदं दृढबन्धनं स्यात् ७४ लशुनकुणपगन्धं पूयगन्धं घनं वा पललजलसमानं पक्वजम्बू निभं वा घृतमधुपयसाभं तैलशैवालनीलं सघनदधिसवर्णं वर्जयित्वातिसारम् ७५ भ्रममदनमकार्शं शूलमूर्च्छाविदाहं श्वसनमतिविवर्णं छर्द्दिमूर्च्छातृडार्त्तम् विकलमतिशयेन सौख्यशोफज्वरार्त्तिः स परिहरतु दूरं सद्विधाता न दृष्टः ७६ शोफं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम् छर्दिमूर्च्छां च हिक्कां च दृष्ट्वातीसारिणं त्यजेत् ७७ दृष्ट्वा शोफं तथाध्मानं हिक्कां छर्दिमरोचकम् तथा च पाण्डुरोगार्त्तमतिसारयुतं त्यजेत् ७८ यदल्पमल्पं क्रमशो निषेवितं मलं भगाधारगतं च नित्यम् हित्वान्तराग्निं कुरुते नरस्य विकारमाहुर्ग्रहणीति संज्ञाम् ७९ निर्वृत्ते चातिसारे शमयति दहनं भूयसा दोषितोऽपि भुक्त्वा नाश्यमलांशं बहुदिनमनिशं सञ्चयित्वा निसर्त्ति । वारं वारं विगृह्य सहजमसरलं पक्वमानं घनं वा दुर्व्याधिर्घोररूपो मनुज रुजकरः स्यात्तथा ग्रहणीति ८० लक्षयेच्चातिसारे च विज्ञेयं ग्रहणीगदम् वातिकं पैत्तिकं चैव श्लेष्मिकं सान्निपातिकम् ८१ नैव चैकेन दोषेण जायते ग्रहणीगदः तेन संक्षीयते देहमन्तर्दाहो विपाकता ८२ तिक्तः कषायः कटुकाम्लविदाहिरूक्षः शीताल्पभोजनपरैः श्रम मैथुनैश्च भाराध्वहस्तिरथवाहनधावनेन संक्रुद्धवायुहननेऽनल वेगमेनम् ८३ तस्मात्तदग्रमनिलेन च छिद्यमानं रक्तेन युक्तमनिले परिपाकमेति सञ्जायतेऽपि मनुजस्य तथा तृतीयं गुल्मेति नाम स च पञ्चविधो बभूव ८४ प्लीहा यकृज्जठरकण्डुमलस्य बन्धोऽष्ठीला क्रिमिर्जठररोगभवोऽथ षष्ठः एते भवन्ति ग्रहणीपरिवर्त्तमाना घोरास्तथा दुःखदाश्च मनुजस्य चित्ते ८५ कण्ठस्य शोषस्तिमिरं तथा पार्श्वशूलं नाभौ तथातिकृशतातिविषूचिका च कर्णे स्वनोऽतिवमनं क्लमशूलमोहः श्वासेन गुल्ममिति लक्षणमेव विद्धि ८६ यस्यैतानि च लिङ्गानि गुल्मिनं तं विदुर्बुधाः ग्रहणी नाम साध्यो यस्तस्य वक्ष्यामि लक्षणम् ८७ चित्रं सशब्दं सृजतेऽत्र वर्चः शोफोऽनिलो वर्चमतीव रूक्षम् श्वासार्त्तियुक्तं तनुशैथिलं च स्रावो ग्रहण्यानिलकोपतः स्यात् ८८ विदाहि शीर्णं सरुजं तृषार्त्तं दुर्गन्धपीतारुणनीलकालम् संसृज्यते यस्य मलो विमिश्रः पित्तोद्भवा सा ग्रहणीति संज्ञा ८९ हृल्लासश्छर्दिः श्वसनं शोफः कासो जडत्वं च सशीतता च वैरस्यमास्ये गुरुगात्रता स्यादरोचकं शङ्खशकृद्ग्रहस्तु ९० त्रिभिः समेतं गदितं च चिह्नमेतस्य कोपो मधुरास्यता वा दाहोऽथ मूर्च्छा श्वसनं जडत्वं स सन्निपातग्रहणीगदः स्यात् ९१ दारुनागरनिशा सवासका कुण्डली मगधजा शठी घनम् रास्ना सभार्ङ्गी सरलाह्वपुष्करं पाचनं भवति वातिकग्रहे ९२ नलवेणुकुशानां च काशेक्षूणां च मूलकम् क्वाथपानं हितं वास्य पाचनं पैत्तिके ग्रहे ९३ व्याघ्रीग्रन्थिकचव्यसुरसा शुण्ठी दाडिमम् रजनी घनचित्रकमेवं हिक्कामथकफग्रहणीं हन्ति ९४ शुण्ठी कणा द्विरजनी च घनं तथा च योज्यः पुनः प्रतिविषं त्रिफला विडङ्ग सिन्धूत्थवह्नित्रिकटुं त्रिसुगन्धियुक्तं चूर्णं पुनर्गुडयुतं घृतमिश्रितं च ९५ कृत्वा बिडालपदमात्रकमोदकाश्च भक्षेद्यथा जलमपि ग्रहणीगदे च अर्शोभगन्दरमरोचकगुल्ममेहाञ्छूलाश्मरीकृमिजरोगहरं च पाण्डु ९६ श्रेष्ठं रसायनमिदं बलिनाशनं स्याद्वृष्यं बलं विदधतेऽतिकृशत्वदोषम् वर्णेन्द्रियसकलदीप्तिकरं रुजोघ्नं कुष्ठभ्रमापहरणं कुरुतेसदैव ९७ हरीतकीपञ्चशतानि धीमान् द्रोणेन गोमूत्रशतेन पाच्यम् मृद्वग्निना यावदशेषमेव मूत्रं विजीर्णे विधिवद्विधिज्ञः ९८ निर्वाप्य चूर्णे प्रतिशोष्य शीतं छायाविशुष्कान् प्रविदार्य चाष्टीः चूर्णं च शुण्ठीमगधाविषाश्च सुगन्धिमूर्वाचविक्रान्विताश्च ९९ निष्क्वाथ्य कल्कः कुटजस्य तावद्दर्व्योपलेपी भवतीति यावत् तस्यार्द्धभागेन गुडं विमथ्यात्क्षीरं तदर्द्धेन गवाजकं वा १०० निर्वापितं तं घृतभाजते च संस्थापितं प्राङ्मुदितेन तेन सिन्धूत्थवह्नित्रिकटुं त्रिसुगन्धियुक्तं चूर्णं पुनर्गुडयुतं घृतमिश्रितं च १०१ चूर्णेन तेन सकलग्रहणीयपाण्डुशोषाश्मरीं कृमिजगुल्ममथातिसारान् प्लीहायकृच्छ्वासिषु मानवेषु विषूचिका पीनसमस्तकार्त्तिम् १०२ विनाशनः सद्यस्तथा ज्वराणामध्वश्रमक्षीणबलोदराणाम् एकाहिकादिज्वरनाशनःस्याल्लेहोऽभयाद्योऽमृतवन्नराणाम् १०३ इत्यभयाद्योऽवलेहः द्राक्षाक्षीरेण पक्त्वा यावद्घनं दर्व्युपलेपि च दृष्ट्वा पश्चात्तैः समालोड्य चेमान्यौषधानि मतिमान् १०४ पर्पटातिविषा मूर्वा पटोलं घनवालकम् तथाभयानां चूर्णं तु समशर्करयायुतम् १०५ तेन क्षीरेण संयोज्य विदार्याः कन्दमेव च घृतेन नवनीतेन पिण्डं कृत्वाऽथ भक्षयेत् १०६ सपित्तग्रहणीपाण्डुकामलार्त्तितृषापहम् भ्रम मूर्च्छां तथा हिक्कां तमकोन्मादमश्मरीम् १०७ मेहपित्तासृजं कुष्ठं नाशयत्याशु निश्चितम् १०८ इति द्राक्षादिक्षीरम् इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अतीसारचिकित्सानाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः आत्रेय उवाच शृणु पुत्र प्रवक्ष्यामि गुल्मानां चैवलक्षणम् तस्मात्तेषां प्रतीकारमौषधानि विशेषतः १ पञ्चधा सम्भवंत्येते गुल्मा जठरसंसृताः हृत्कुक्षौ नाभिबस्तौ च मध्ये च पञ्चमः स्मृतः २ हृदयस्थो यकृन्नाम कुक्षौ साष्ठीलकोच्यते मध्ये प्लीहा समाख्यातो बस्तौ चण्डविवृद्धकः ३ नाभौ संलक्ष्यते ग्रन्थी नामान्येषां पृथक् पृथक् अतः प्रकोपं वक्ष्यामि येन कुर्वन्ति बाधकम् ४ स्वभावात्पित्तरक्तोत्थे सेविताम्लविदाहिनम् उष्णं च क्षारमद्यं वा चोष्णपानातिसेवनात् ५ तथा शोकः श्रमोऽध्वानां शोषात्संक्षोभनादपि उच्चभाषण गानेन धनुर्ज्याकरणेन च ६ पृष्टं मुष्ट्यभिघातेन हृदयात्ताडनेन वा भारणोद्धारणाद्वापि रक्तं शोषयते हृदि ७ तेन गुल्मेति नाम तु जायते रक्तपित्तकम् कदाचित्रिषु दोषेषु सम्भवश्चास्य दृश्यते ८ वातेनोदीरितञ्चैव कफेन च घनीकृतम् पित्तेन पाकतां प्राप्तं त्रिदोषसंसृतं यकृत् ९ लक्षणं तस्य वक्ष्यामि येन तच्चापि लक्ष्यते क्षीयते येन मनुजो मृत्युमाशु प्रपद्यते १० वमिः क्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः दाहोऽरुचिस्तृषा मूर्च्छा कण्ठे दाहः शिरोव्यथा ११ हृच्छूलं च प्रतिश्यायष्ठीवनं कटुकैः सह सशल्यं हृदि शूलं च निद्रानाशः प्रलापतः १२ हृदये मन्यते दार्ढ्यमुदरं गर्जति भृशम् एतैर्लिङ्गैर्विजानीयाद्यकृत्कोष्ठान्तवक्षसि १३ यदि साक्षात्त्रिकटुकं कुष्ठं तथा पञ्चमकं यवानीम् षष्ठं च सिन्धूत्थविमिश्रितं च सूक्ष्मं च चूर्णं सह रामठेन भक्षेच्च तस्योपरि तक्रपानं निष्क्वाथ्य तोयं च पिबेच्च वाम्लम् १४ सौवीरकं वा विनिहन्ति शीघ्रं यकृद्विधानुदरशूलकासान् विषूचिकाजीर्णकफामयघ्नं पाड्वामयार्त्तिग्रहणीं सगुल्माम् १५ शुण्ठ्यादिचूर्णं त्वरितं निहन्ति क्षारं मुष्कककिंशुकार्जुनधवापामार्गरम्भातिला जीवन्तीकनकाह्वयञ्चरजनी कूष्माण्डवल्ली तथा । वासासूरणमेव तीव्रदहनं प्रज्वाल्य भस्मीकृतं तोयेन प्रतिसेव्य निभृतपयः पानं विधेयं यकृत् १६ तथाशूलानाहविबन्धकफजान्रोगाञ्जयेत्कामलान्विद्रधीन् हृदिशूलपाण्डुग्रहणीशोफार्शसां पीनसान् । मन्दाग्नीनामजीर्णकृम्यलसगुदभ्रंशमोहांस्तथा क्षतजवृद्धिस्तेन सदाहशूलकास्युद्गारता वमिः १७ पूयाभः पततेश्लेष्मा पूतिगन्धोऽतिविस्रकः रक्ताभस्तत्र सङ्काशष्ठीवते स मुहुर्मुहुः तथातिसार्यते रक्तं श्रमः संक्षीयते वपुः १८ क्षतजाः संसृता गात्रे यकृद्वक्षसि संसृतः १९ श्वासस्तृषा वमिर्मोहः शोफः स्यात्करपादयोः रुचिबन्धोऽतिसारश्च यकृद्दुरे परित्यजेत् २० अतो वक्ष्यामि भैषज्यं येन सम्पद्यते सुखम् तस्यादौ लङ्घनं चैकं पाचनं तदनन्तरम् २१ शुण्ठ्योपकुल्या तिमिरं शठीनां यवानिकाभीरुहरीतकीनाम् क्वाथोथकल्क पाचनके प्रशस्त आनाहगुल्मार्त्तिविषूचिकानाम् २२ भद्रोपकुल्याभयशृङ्गवेरं पथ्या त्रिभागा च कणाचतुर्था २३ क्षतक्षयं यकृत्पूर्वं वोपवासं च पाचनम् न देयं हिंगुसंयुक्तं चूर्णं हितं तद्रातुरे २४ निम्बनीपधरवेतसं निशा काश्मरी च तुलसी च सिंहिका क्वाथ एव हृदयामयापहः शूलमाशु यकृदास्यनाशकृत् २५ सौराष्ट्रिकासीसमहौषधानि दुरालभाजातिप्रवालकं च दार्वी यवानी ककुभं समङ्गा क्वाथः ससर्पिर्यकृदाशु हन्ति २६ धवार्जुनकदम्बानां शिरीषबदरीषु च निष्क्वाथ्य पानमामघ्नं विषूच्या शूलवारणम् २७ कदलीक्षारमादाय शङ्खक्षारमथापि वा प्रस्राव्य जलपानं तु हिंगुसौवर्चलान्वितम् २८ आमं हरति विसृष्टं शूलं चाशु नियच्छति विषूचिकानां शमनमजीर्णं जरयत्यपि २९ मातुलुङ्गरसं ग्राह्यं द्विगुणं तत्र काञ्जिकम् हिंगुसौवर्चलयुतं पानं हन्ति विषूचिकाम् ३० क्षारं तोयं च पानाय दाहस्योपरि पाचयेत् शूलाध्मानं निहन्त्याशु कुरुते चाग्निदीपनम् ३१ आमेषु वमनं कुर्याद्विपक्वे चैव लङ्घनम् विशिष्टस्वेदनं निद्रा रसशेषे विरेचनम् ३२ उन्मत्ते चातिसारे च वमिक्रोधातुरेषु च अजीर्णे तु विषूच्यां च दिवास्वप्नं हितं भवेत् ३३ न हितं श्लेष्मणि चैव हृद्रोगे तु शिरोरुजि हृल्लासे च प्रतिश्याये दिवास्वप्नं च वर्जयेत् ३४ फलत्रयं त्र्यूषकरञ्जबीजं रसं तथा दाडिममातुलुंग्यः निशायुतं पेष्यकृता च वर्त्तिस्तदञ्जने हन्ति विषूचिकाञ्च ३५ रास्ना विशाला च सुरब्दकुष्ठं शिग्रु वचा नागरकं शताह्वम् आग्नेय पिष्टाहपुषाविदार्यः खल्लीं विषूचीषु निवारयन्ति ३६ स्वेदो विधेयो घटकस्य बाष्पमेकैर्घटाभिर्वसनेन चोष्णः तथोष्णपाणिं प्रतिसेक एवं जयेद्विषूचीं जठरामयानाम् ३७ गन्धकं सैन्धवं त्र्यूषं निम्बूरसविमर्दितम् आतुरो भक्षयेच्छीघ्रं विषूचीनां निवारणम् ३८ इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गुल्मचिकित्सानाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः आत्रेय उवाच क्रिमयो द्विविधाः प्रोक्ता बाह्याभ्यन्तरसम्भवाः बाह्यायूकाः प्रसिद्धाः स्युराभ्यन्तराश्च किञ्चकाः १ सप्त विधो भवेद्बाह्यः षड्विधोऽन्तःसमुद्भवः तेषां वक्ष्यामि सम्भूतिं बाह्यानाभ्यन्तरे नृणाम् २ रौक्ष्यादतिमलात्स्वेदाच्चिन्तया शोचनादपि कफाधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ३ यूकाः कृष्णाः पराः श्वेतास्तृतीया चर्मणि स्थिता सूक्ष्मातिविकटा रूक्षा चर्मभा चर्म यूकिका ४ चतुर्थी बिन्दुकी नाम वर्त्तुला मूत्रसम्भवा मत्कुणा स्याच्च पञ्चमी बाह्योपद्रवकारिणी ५ यूका मस्तकसंस्थाने श्वेता शिरोनिवासिनी चर्मयूका नेत्रचर्मे सूक्ष्मे रोमणि यष्टिका ६ रूक्षान्नयवान्नगोधूमपिष्टैर्गुडेन वा क्षीरविपर्ययेण दिवाशयानेन सपिच्छलेन घर्मेण तापोदकसेवनेन ७ सञ्जायते तेन मलाशयेषु क्रिमिव्रजं कोष्ठविकारकारि ८ षड्विधास्ते समुद्दिष्टास्तेषां वक्ष्यामि लक्षणम् कफकोष्ठं मलाधारं कोष्ठे सर्पन्ति सर्पवत् ९ पृथुमुण्डा भवन्त्येके केचित्किञ्चुकसन्निभाः धान्याङ्कुरनिभाः केचित्केचित्सूक्ष्मास्तथाणवः १० सूचीमुखाः परिज्ञेयाश्चान्त्राणि सीदयन्ति ते वक्ष्यामि लक्षणं तेषां चिकित्साञ्च शृणष्व मे ११ ज्वरो हृद्रोगशूलं वा वमिहृत्क्लेदनं भ्रमः रुचिबन्धो विवर्णत्वमतीसारः सफेनिलः १२ गर्जनं जठरे चैव मन्दाग्नित्वं च जायते पिपासा पीतता नेत्रे किञ्चुकैः पीडितस्य च १३ सूचीवतुद्यतेऽन्त्राणि रक्तं चेवातिसार्यते यकृद्वा भक्ष्यन्त्यन्ये रक्तं वा वमते भृशम् १४ क्लेदो मुखेऽरुचिर्जाड्यं मन्दाग्नित्वं च वेपथुः क्षुत्तृष्णा च ज्वरो ज्ञेयाः सूचीमुखक्रिमीरुजः १५ ये च धान्याङ्कुरास्तेषां वक्ष्याम्यथ च लक्षणम् मलाशयस्थाः क्रिमयो मलं जग्धन्ति ते भृशम् १६ तैस्तु सम्पीड्यते देहे कृशत्वविद्रधिभेदपरुषताः तेन गात्रे रुजत्वञ्च हृत्क्लेदो यवक्रिमयो मताः १७ हारीतः संशयापन्नः पादौ संगृह्य पृच्छति कथं देहे मनुष्यस्य मलसृत्ररसाशये १८ सम्भवन्ति कथं चादौ वर्द्धयन्ति कथं पुनः कथं च शीर्णेऽन्नरसे नानाहारविभक्षणे १९ जायन्ते केन क्रिमयः सूक्ष्मा वाप्यधोगामिनः नानामपक्वभक्ष्यान्नं दहते वा हुताशनः २० कथं ते क्रिमयश्चान्ते न दह्यन्तेंऽन्तराग्निना एवं पृष्टो महाचार्यः प्रोवाच मुनिपुङ्गवः २१ आत्रेय उवाच शृणु पुत्र महाबाहो क्रिमिसम्भवकारणम् विरुद्धान्नरसैः पुत्र रक्तं चैवास्य कुप्यति २२ कफेनैकदिनं याति शुक्रेण कारणं व्रजेत् पञ्चभूतात्मके काये ते तु जाताः सचेतनाः २३ कोष्ठाग्निना न दह्यन्तेन जीर्यन्ते रसानिति विषे जातो यथा कीटो न विषेण मृतिं व्रजेत् २४ तथा हुताशनोद्भूतं न हुताशेन जीर्यते २५ भेषजं सम्प्रवक्ष्यामि येन तेऽपि तरन्ति वै पतन्ति वा शमं यान्ति भेषजानि शृणुष्व मे २६ वचाजमोदा क्रिमिजित्पलाशबीजं शठी रामठकं त्रिविश्याः उष्णोदके तत्परिपिष्य पेयं पतन्ति शीघ्रं शतधार्त्तमलम् २७ शटीयवानीपिचुमन्दपुत्रान् विडङ्गकृष्णाति विषारसानाम् सम्पिष्य मूत्रेण त्रिवृत्प्रयुक्तं विनाशनं सर्वकृमीरुजानाम् २८ मरिचं पिप्पलिमूलं विडङ्गशिग्रुजवानिकात्रिवृतः गोमूत्रेण तु पेष्यं पानं शीघ्रं क्रिमीन् हन्ति २९ मुस्ताविशालात्रिफलासुपर्णिशिग्रूसुराह्वं सलिलेन कल्कः पानं सकृष्णाक्रिमिशत्रुचूर्णं विनाशनं सर्वकृमीरुजां च ३० सुरसा च सुरदारु मागधी विडङ्गकम्पिल्लविडङ्गदन्तिनी त्रिवृत्ताडकरसोनकं क्रिमिहृद्रोगहृत्सलिलेन सेवितम् ३१ मातुलुङ्गस्य मूलानि रसोनः क्रिमिजित्त्रिवृत् अजमोदानिम्बपत्रं गोमूत्रेण तु पेषयेत् ३२ पानमेतत्प्रशंसन्ति क्रिमिदोषनिवारणम् ज्वरप्रोक्तानि पथ्यानि क्रिमिदोषे प्रदापयेत् ३३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने क्रिमिचिकित्सा नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः आत्रेय उवाच अग्निश्चतुर्विधः प्रोक्तः समो विषमतीक्ष्णकः मन्दस्तदापरः प्रोक्तः शृणु चिह्नानि साम्प्रतम् १ वातपित्तकफसाम्यात्समः सञ्जायतेऽनलः तैरेवं विषमं प्राप्ते विषमो जायतेऽनलः २ तीक्ष्णपित्ताधिकत्वेन जायते जठराग्निकः वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ३ यद्भुक्तं प्रकृतिस्थं तु पाचयत्यन्नसञ्चम् स समो नाम निर्दोषः सर्वधातुविवर्द्धनः४ किञ्चित्पाचयते भक्ष्यं कदाचिदविपक्वकः वतेन वा न विषमं करोत्यपि विषूचिकाम् ५ प्रकृत्या चाधिकं स्नाति तृप्तिं न लभतेऽपि च सदाहपीतता नेत्रे तीक्ष्णो वै क्षयकृद्बले ६ यद्भोक्तुन्नैव शक्नोति यत्तु श्लेष्मबलाधिकात् सोऽपि मन्दानलो नाम गुल्मोदरपरो मतः ७ समेन समता देहे देहधातुबलेन्द्रियैः हृष्टः सम्पूर्णगात्रस्तु सचेष्टो वर्त्तते नरः ८ विषमे वानिलाद्याश्च ग्रहणी चातिसारकाः प्लीहा गुल्मो विषूची च शूलोदावर्त्तसंज्ञकः ९ आनाहो मन्दचेष्टत्वं जायते विषमाग्निना वातकफावुभौ क्षीणौ तीव्रो भवति पित्तकः १० भोजने लभते प्रीतिं भुक्त्वा चैव च जीर्यते तेन भस्मकसंज्ञस्तु जायते जठरानलः ११ पाण्डुः पित्तातिसारस्तु राजयक्ष्मा हलीमकः भ्रमः क्लमोऽतिवैकल्यं यकृद्वापि प्रमेहकाः १२ शूलमूर्च्छा रक्तपित्तं पित्ताम्लं मूत्रकृच्छ्रकम् तेन संक्षीयते गात्रं जायतेऽन्नस्य लौल्यता १३ भक्षिताः काष्ठपाषाणाः जीर्यन्ते तस्य देहिनः इति प्रोक्तं निदानं च नरस्याग्निप्रकोपनम् १४ बहुधापि न वोक्तं तु ग्रन्थविस्तारशङ्कया १५ अतो वक्ष्ये समासेन भेषजानि पृथक्पृथक् पाचनं शमनं चैव दीपनञ्च तथोपरि १६ रास्ना शठी प्रतिविषा सुरसा च शुण्ठी सिन्धूत्थहिङ्गु मगधा च सुवर्चलं च चूर्णं कृतं सगुडमोदकभक्ष्यमाणं वातात्मकन्तु विषमाग्निं समीकरोति १७ शूलानजीर्णविषमाग्निविषूचिकासु वातादयः सकलगुल्मविनाशनं स्यात् भुक्तोपरि क्वथितमेव पिबेत्सुखोष्णं श्रेष्ठं तथोपरि समस्तरसानुभोज्यम् १८ द्राक्षाभया तिक्तकरोहिणी च विदारिका चन्दनवासकं च मुस्ता पटोलं च किरातकानां कृष्णा बला च विकचाविषाणा १९ पलालवङ्गालसपद्मकं च योज्या च भृङ्गी धनिका समांशा चूर्णं सखर्जूरसितासमेतं घृतेन तद्वार्द्धबलप्रमाणम् २० भक्षेत्प्रभाते पयसा मनुष्यो निष्क्वाथ्य पानं सघृतं विधेयम् करोति तीव्राग्निसमं प्रकृष्टं कृशस्य पुष्टिं तनुतेऽपि नूनम् २१ क्लमभ्रमशोषविनाशनं स्यात्तृष्णातिलौल्यशमनं करोति सरक्तपित्तं क्षयपाण्डुरोगं हलीमकं कामलमाशु नश्येत् २२ तण्डुलारक्तशालीनां भागद्वयेन धीमताम् भृष्ट्वा तिलांश्च संकुट्य तदर्द्धेन विमिश्रितान् २३ भृष्ट्वा तत्सममुद्गांश्च चैकोकृत्य तु साधयेत् सिद्धां च कृशरां सम्यग्घृतेन सह भोजयेत् २४ एकाहान्तरितो यस्तु तीव्राग्निस्तस्य नश्यति २५ हरीतकी हरिहरतुल्यषड्गुणा चतुर्गुणा चतुर्विशालपिप्पली हुताशनं हिंगुसैन्धवसंयुतं रसायनं कुरुनृपवह्निदीपनम् २६ दीप्यकाग्निर्हरीतकी विडङ्गो भागवृद्धि विनियोज्य चूर्णितम् अत्यम्ल वेतञ्च तथा च कोलं दाडिमं तथा च तिन्तिडीकम् २७ समानि चेमानि च कर्षमात्रं कर्षाद्विभागेष्वितरे बलानि जाजी वराङ्गं च सुवर्चलं च कणाशतैकं मरिचं तदर्द्धे २८ पलानि चत्वार्यपि शर्करायाः समं विचूर्ण्याथोदरान् प्रमार्ष्टिं भक्षेद्यदेदं रुचिकृद्विबन्धं स प्लीहशूलं जयते सकासम् २९ श्वासं विनश्येद्धृदयामयघ्नं जिह्वाकण्ठामयशोधनं भवेत् ग्राहग्रहण्यार्शविकारमन्दानलस्य सन्दीपनमेव चूर्णम् ३० यवानिकाखण्डविकाभिधानमरोचकानां शमनं प्रशस्तम् ३१ यवागूः पञ्चकोलस्य कुलत्थाढक्यपूषकम् मुद्गयूषेण वा सम्यग्भक्तानां भोजनं हितम् ३२ सहिंगु त्र्यूषणाढ्यं च व्यञ्जनं सम्प्रशस्यते अगस्तिघृतवच्छ्रेष्ठं भोजनारोचकेष्वपि ३३ कारवेल्लं पटोलञ्च पलाण्डुः सूरणं शठी लवणं धान्यकं श्रेष्ठं प्रलेहश्च कटुत्रिकम् ३४ शठी सर्षपवास्तुकं शतपुष्पा काञ्चनमाचिका तुण्डीरकस्य मूलानां शाकं श्रेष्ठं प्रशस्यते ३५ गोधूमपोलिकाः श्रेष्टा भृष्टाङ्गारैररोचके जाङ्गलानि च मांसानि भोजयेद्भिषगुत्तमः ३६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मन्दाग्निचिकित्सा नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः आत्रेय उवाच व्यायामपाननिशिजागरणव्यवायशोकातिभारगतिधावनकश्रमेण वैषम्यपानशयनेन च भोजनेन शीतेन वायुः कुपितः प्रकरोति बलम् १ विष्टम्भिरूक्षयवमाषकलायमुद्गनिष्पावकास्त्रिपुटकोद्रवका मसूरः गोधूमक्षुद्रकफरूक्षविभोजनेन चैतच्च पानमलरोधनमूत्ररोधैः २ वायुस्त्वधोगतपथं प्रविरुह्य मूलं वातात्मको भवति चान्तरवह्निमांश्च तस्मादिति प्रबलताकुपितः प्रकोष्ठे शूलं करोति गुद मार्गनिरोधितेऽपि ३ गात्रेऽपि तोदविरतिर्मलिनातिदीना वातार्त्तिपीडितनरस्य महामते स्यात् ४ क्रोधातपादनलसेवनहेतुना च शोकाद्भयार्त्तिगतिधावनधर्मयोगाम् क्षाराम्लमद्यकटुकोष्णविदाहिरूक्षसौवीरशुष्कपललेखन राजिकाभिः ५ सङ्कुप्यतेऽनिलसमीरितं तत्तु पित्तं शूलं करोति जठरे मनुजस्य तीव्रम् तेनाङ्गदाहारतिधर्मतृषार्त्तिमूर्च्छा नाभ्यन्तरे दहति दोषः सपीततास्ये ६ अव्यायामेऽस्निग्धसंसेवतेन लौल्याहारे चेक्षुतैलपयोभिः अल्पाहारे निद्रया सेवनैस्तु योगैरेतैः कोपयेच्छ्लेष्मकस्तु ७ माषातिशीतलपयोदधिभिःसुशीतैर्मत्स्यैस्त्वनूपपललैरतिसेवितैस्तु श्लेष्मा भृशं शमयतेऽनलमाशु शूलं कोष्ठे करोति मनुजस्य विकारमुग्रम् ८ हृल्लासकासवमिजाड्यशिरोगुरुत्वं स्तैमित्य शीतलतनूरुचिबन्धनं च भुक्तप्रसेकमधुरास्यं तथाभिरामं स्निग्धं मुखं भवति यस्य कफात्मकोऽसौ ९ श्लेष्मा भवत्येव भवन्ति यस्य चिह्नानि स भवति च सशूलः सपैत्तिकानीव भवन्ति यस्य तमाहुरजीर्णेऽपि नराः सशूलम् १० हृत्कण्ठपार्श्वे कफः पैत्तिकस्तु हृन्नाभिमध्ये कफपित्तशूलः बस्तौ च नाभौ दधतःप्रदेशे विलोलमानः स तु वातपित्तात् ११ एकोऽपि सुखसाध्योऽसौ द्वन्द्वः कष्टेन सिध्यति त्रिदोषजस्त्वसाध्यस्तु बहूपद्रवसंयुतः १२ निदानैः कुपितो वायुर्वर्त्तते जठरान्तरे तेनेति संज्ञा दश स्युः शूलस्य परिगीयते १३ त्रयो वातादिका ज्ञेया द्वन्द्वजास्तु पुनस्त्रयः सामनिरामकौ द्वौ च शूलाश्चाष्टाविमे स्मृताः १४ अजीर्णान्नवमः प्रोक्तो दशमः परिणामजः एवं दशप्रकारेण शूलं सम्भवते नृणाम् १५ भुक्तोपरि भवेद्यस्तु सोऽपि ज्ञेयः कफात्मकः जीर्णेऽन्ने च भवेद्यस्तु स ज्ञेयः परिणामजः १६ आध्मानमूर्ध्वं च विबन्धनं च जृम्भा तथा वेपथुमार्जनं च उद्गीरणं स्निग्धमुखातिजिह्वा वातेन शूलं भजते विधिज्ञः १७ दाहो रतिर्मोहस्तथैव तृष्णा कृच्छ्रेण मूत्रं कटुकास्थता च स्वेदाति शोषो वदनं च पीतं पित्तात्मकोऽसौ प्रवदन्ति धीराः १८ छर्दिस्तथा कासबलासमोह आलस्यतन्द्रा जडतातिशैत्यम् कफात्मकं तद्भिषजां वरिष्ठ शूलं भवेद्द्वन्द्वजरोगसंज्ञम् १९ त्रिभिस्तु दोषैस्तु त्रिदोषजः स्याद्रक्तेन चैकादश एवमुक्तः पित्तात्मकानि प्रभवन्ति यस्य चिह्नानि यस्यासृगछर्दनं च २० शोषस्तृषा दाहस्तथैव कासः श्वासेन रक्तप्रभवोऽतिशूलः २१ विना वातेन नो शूलं विना पित्तेन नो भ्रमः न कफेन विना छर्दिर्न रक्तेन विना तमः २२ इति शुलपरिज्ञानमतो वक्ष्यामि भेषजम् येन शूलार्त्तिशमनं शूली संपद्यते सुखम् २३ दृष्ट्वा शूलं लङ्घनं पाचनं च विरेचनं वान्तिसंस्वेदनं वा क्षारं चूर्णं चार्पयेच्छूलशान्त्यै पानाभ्यङ्गाल्कासमाने मनुष्ये २४ हिंगु नागरशठीसुवर्चलं दारुपौष्करघनापुनर्नवाः क्वाथपानमिति शूलिनां हितं पाचनं जठरगुल्मिनामपि २५ हिंगु पौष्करशठीसुवर्चलं क्वाथमेवमपि शूलिनां हितम् वातशूलशमनाय शस्यते पाचनं निगदितं च वर्त्तते २६ सिन्धूत्थहिंगु रुचकं च शठी यवानी पथ्यायवक्षारसमं विचूर्णम् देयं सुखोष्णेन निहन्ति शूलं वातात्मकं वाप्यचिरेण शूलम् २७ हिंगु सौवर्चलं पथ्या यवानी सपुनर्नवा बलैरण्डो बृहत्यौ द्वे तुवरं त्र्यूषणान्वितम् २८ क्षारसौवर्चलोपेतं क्वाथो वा चूर्णितस्तथा सद्यो वातात्मकं शूलं हन्ति सद्यो विषूचिकाम् २९ तुम्बुरुपौष्करहिंगु यवानी त्र्यूषञ्च वा त्रिबृहतीगुणेन युक्तमिदं लवणाष्टकचूर्णं भवति शूलनिवारणक्षमम् ३० क्वाथो निहन्ति मरुतोद्भवशूलसङ्घानेरण्डनागरसुवर्चलरामठेन पथ्यावचेन्द्रयवनागरतोययुक्तं हिंगु सुवर्चलयुतं च निहन्ति शूलम् ३१ हिंगु नागरषड्ग्रन्था यवानी उभया त्रिवृत् विडङ्गं दारु चव्यञ्च तुम्बुरुकुष्ठमुस्तकाः ३२ हपुषा कलशी रास्ना वत्सका सदुरालभा सितारवी बृहत्यौ च लाङ्गली पञ्चजीरकम् ३३ पुष्करं तिन्तिडीकं च वृक्षाम्लं चाम्लवेतसम् द्वौ क्षारौ पञ्चलवणं समं चैकत्र मिश्रयेत् ३४ मूत्रेण भावनाञ्चैकां दत्वा छायाविशोषिताम् बीजपूरक तोयेन भावयेच्च दिनत्रयम् ३५ बिडालपदिकां मात्रां युञ्जीत शूलशान्तये वातेनोष्णोदकेनापि सितशर्करयान्वितः ३६ त्रिफला क्वाथो मद्येन श्लेष्मरोगे प्रशस्यते शूलानाहविबन्धानां मन्दाग्नौ गुल्मविद्रधीन् ३७ प्लीहोदराणाञ्च पाण्डुज्वरिणां च विशेषतः निहन्ति देहसङ्घातं मेघवृन्दं मरुद्यथा ३८ धात्रीफलं लोहरजश्च पथ्या त्र्यूषं समांशेन विभाव्य तं तु रसेन वा दाडिममातुलुङ्ग्याश्चूर्णं सिताढ्यं च सपित्तशूले ३९ बिडालकं दाडिमपूतनां च धात्रीसमेतं विदधीत चूर्णम् तन्मातुलुङ्गस्य रसेन भावितं सपित्तशूलशमनाय भक्षेत् ४० जीवन्त्याद्यं घृतं पाने क्षीरं वापि सितान्वितम् कर्त्तव्यं रेचनं नित्यं पित्तशूलनिवारणम् ४१ शिशिरसरसतोयागाहनं चन्दनानि विशदपुटितमध्ये स्वापनं वै निशासु कनकरजतकांस्याम्भोजहैमं तुषारं कृतमिति विधिना वै पैत्तिके मूलहेतोः ४२ सितशाल्योद्भवा लाजाः सितामधुयुतं पयः दाहं पित्तज्वरं छर्दि सद्यः शूलं निहन्ति च ४३ जाङ्गलानि च मांसानि भोजनार्थे प्रशस्यते घृतं क्षीरं समधुरं प्रशस्तं पित्तशूलिनाम् ४४ लङ्घनं वमनं चैव पाचनं श्लेष्मशूलिनाम् न घनातिमधुराणि शयनं च विधेयकम् ४५ बिल्वाग्निमन्थवृषचित्रकनागराश्च एरण्डहिंगु सहसैन्धवकं समाशम् क्वाथो निहन्ति कफजोद्भवसद्यः शूलं सद्यो निहन्ति जठरानलवर्द्धनं च ४६ मातुलुङ्गरसं धात्रीरसं सैन्धवसंयुतम् शोभाञ्जनकमूलस्य रसं च मरिचान्वितम् ४७ सक्षारमधुनोपेतं श्लेष्मशूलनिवारणम् कृतक्षयोद्भवं कासं नाशयत्याश्वसंशयम् ४८ तुवरं ग्रन्थिकैरण्डा व्योषं पथ्याजमोदकम् सक्षारलवणोपेतं चूर्णं शूले कफात्मके ४९ एरण्डबिल्वबृहतीद्वयमातुलुङ्गं पाषाणभित्त्रिकटुमूलकृतः कषायः सक्षारहिंगुलवणोपेततैलमिश्रं श्रोण्यंसमेढ्रहृदयस्तनकुक्षिदेयम् ५० पटोलारिष्टपत्राणि त्रिफलासंयुतानि च क्वाथमधुयुतं पानं शूले पैत्ते समीरणे ५१ पित्तज्वरतृषादाहरक्तपित्तनिवारणम् ५२ दुरालभा पर्पटकं च विश्वा पटोलनिम्बाम्बुदतिन्तिडीकम् सशर्करं कल्कमिदं प्रयोज्यं सपित्तवातोद्भवशूलशान्त्यै ५३ सौवर्चलं समशठी सहनागरा च शुण्ठीयुतेन क्वथितेन जलेन चूर्णम् पीतं निहन्ति मरुतायुतश्लैष्मिकाणां पार्श्वातिशूलजठरानलहृत्प्रशस्तम् ५४ दारु नागरकं वासा हिंगु सौवर्चलान्वितम् क्वाथो वातकफे शूले आमे जीर्णे विबन्धके ५५ पलाशकदलीवासापामार्गकोकिलाह्वयम् गोमूत्रेण श्रितं तत्तु हिंगुनागरसंयुतम् ५६ हितं त्रिदोषजे शूले कामलाविड्विबन्धके गुल्मोदराणां शमनं मन्दाग्नीनां नियच्छति ५७ एक एव कुबेराक्षः सर्व शूलापहारकः किं पुनः स त्रिभिर्युक्तः पथ्यारुचिकरामठैः ५८ शङ्खक्षारं च लवणं हिंगुव्योषसमन्वितम् उष्णोदकेन तत्पीतं हन्ति शूलं त्रिदोषजम् ५९ लङ्घनं वमनं चैव विरेकश्चानुवासनम् निरूहो बस्तिकर्माणि परिणामे त्रिदोषजे ६० चित्रकं त्रिवृता दन्तो विडङ्गं कटुकत्रयम् समं चूर्णं गुडेनाथ कारयेन्मोदकान्सुधीः ६१ भक्षयेत्प्रातरुत्थाय पश्चादुष्णोदकं पिबेत् परिणामोद्भवं शूलं हन्ति शूलं नरस्य च ६२ यवानी हिंगु सिन्धूत्थक्षारं सौवर्चलाभया सुराभाण्डेन पातव्या परिणामे त्रिदोषजे ६३ हिंगुव्योषवचाजमोदहपुषा पथ्या यवानी शठी जाजीपिप्पलिमूलदाडिमवृकीचव्याग्निकं तिन्तिडी । तस्माच्चाम्लसुवर्चलेपि च यवक्षारं तथा सर्जिका सिन्धूत्थं विडचूर्णकं समकृतं स्याद्बीजपूरे रसे ६४ कुर्याच्चूर्णगुटीं समक्षफलदामक्षप्रमाणामिमां कल्को वातविकारिणां प्रददतः शूलार्शसत्प्लीहकान् । कासानाहविबन्धमेहहृदयशूलं निहन्त्याशुवै ६५ एष हिंग्वादिको नाम सर्वशूलार्त्तिनाशनः सर्ववातविकारघ्नः सर्वक्षयनिवारणः ६६ अतीसारस्तृषा मूर्च्छा अनाहो गौरवोऽरुचिः श्वासकासौ वमिर्हिक्का शूलस्यौपद्रवा दश ६७ शूलं सोपद्रवं तृष्णां भिषग्दूरे परित्यजेत् अनुपद्रवे श्रिया प्रोक्ता भिषजां सिद्धिमिच्छता ६८ वर्जयेद्द्विदलं शूली तथा सघनशीतलम् पिच्छलं च दधि चैव दिवानिद्रां च वर्जयेत् ६९ शालिषष्टिकसिन्धूत्थहिंगुसौवीरकं तथा सुरा वा गुडशुण्ठी वा पाने श्रेष्ठा भिषग्वर ७० शतपुष्पावास्तुकं च हितं प्रोक्तं प्रशस्यते ७१ एणतित्तिरिलावाश्च क्रौञ्चशशकसारसाः एषां मांसानि शस्तानि कथितानि भिषग्वर ७२ इति आत्रेय भाषितेहारीतोत्तरे तृतीयस्थाने शूलचिकित्सा नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः आत्रेय उवाच शृणु पुत्र प्रवक्ष्यामि पाण्डुरोग महागदम् पञ्चैव पाण्डुरोगास्ते सम्भवन्तीह मानुषे १ वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः पञ्चमो रूक्षणः प्रोक्तो वक्ष्ये चैषां तु सम्भवम् २ दीर्घाध्वन्ये पीडितो वा ज्वरेण रक्तस्रावेपीडितो वा व्रणेन चिन्तायासाद्रोधनाद्धे मनुष्य अयं पाण्डुर्जायते सेवते यः ३ क्षारं चाम्लं कल्यमैरेयसेवा अव्यायामान्मैथुनातिश्रमेणनिद्राणाशेनातिनिद्रादिवापियोगैश्चेतैर्मृत्तिकाभक्षणेन ४ पथि शिथिलशरीरे रोगसम्पीडिते वा लवणकटुकषायासेवनाम्लेन मृद्भिः अतिसुरसमजस्रं सेवनातिक्रमेण नयति रुधिरशोषं तेन वै पाण्डुरोगम् ५ तेनाक्षकूटे श्वयथुः शरीरे पाण्डुत्वमायाति च पीतमूत्रः निष्ठीवते त्वक् प्रविदीर्यते च सञ्जायते तस्य पुरःसराणि ६ तोदः परुषत्वशिरोगुरुत्वं त्वङ्मूत्रनेत्रे नखे पीतता स्यात् वातात्मकं तं मनुजस्य विद्धि लिङ्गरुपेतोऽनिलपाण्डुरोगः ७ आमत्वपीतत्वकरो हि लोके बिभर्त्ति शोषं कटुतास्यतां च मन्दज्वरो वै तृषामोहशोफः पीतच्छविः पित्तभवो हि पाण्डुः ८ तन्द्रालुशोफकफकासयुक्त आलस्यप्रस्वेदगुरुत्वमेवम् सञ्जायते तस्य कफात्मकोऽसौ नरस्य पाण्डुत्वभवो विकारः ९ तन्द्रालस्यं श्वयथुवमथू कासहृल्लासशोषा विड्भेदालस्यं परुष नयने सज्वरो वै क्षुधार्त्तः । मोहतृष्णाक्लममथ नरस्याशु पश्येत्सुदूरं त्याज्यो वैद्यैर्निपुणमतिभिः सन्निपातोत्थपाण्डुः १० मृत्तिकाभक्षणेनाथ शृणु पुत्र गदो महान् पाण्डुरोगो गरिष्ठोऽपि भवेद्धातुक्षयङ्करः ११ मृद्भक्षणाच्चैव मलं प्रकीर्य स्रोतांसि तुष्यन्ति तु मृत्तिकायाः तेनैव नासृक् परिवर्त्तयन्ति न तर्पयन्ति वपुषं रसेन १२ क्षारात्कषायान्मधुरस्य पानात्स कोपत्याशु नरस्य मृत्सा श्लेष्मप्रकोपान्मधुरान्करोति मृत्सा न जग्धा हितकारिणी स्यात् १३ विकृता एव बलिष्ठा मारुताद्यास्त्रयस्तु द्युतिबलजीवनाशां नाशयन्त्याशु दोषाः । भवति विकलमेवं पाण्डुरोगे शरीरं हरति जठरवह्निं मृत्तिकाभक्षणेन १४ गोमूत्रे लोहं मतिमान्स्थापयेत्सप्तरात्रकम् तस्माच्चूर्णं तु मधुना देयं पाण्ड्वामयापहम् १५ त्र्यूषणं त्रिफला मुस्ता विडङ्ग चित्रकं समम् १६ भागमेकं लोहचूर्णमपि वेक्षुरसेन भावयेत् सप्तकाहमलोपि खल्वितं पुनरपि प्रवरं स्यात् १७ शीलितं तु मधुनापि घृतेन पाण्डुरोगहृदयामयापहम् कामलार्शोहलीमकहारि कथितं सुमतिभिश्च पण्डितैः १८ त्र्यूषणं त्रिफलया सह चित्रकं मेघचव्यसुरदारुमाक्षिकम् ग्रन्थिकं च शिखिभृङ्गराजकं योजयेत्पलिकभागिकानिमान् १९ चूर्णिताद्द्विगुणमेव योजयेल्लोहचूर्णमपि कज्जलप्रभम् अष्टभागसममूत्रकल्पितं पाचितं पुनरहो बलप्रदम् २० सेवयेद्बलमुपक्रमं तथा तत्र संयुतमिहास्ति शोभनम् नाशयेच्च कफकामलान्कृमीन्पाण्डुकुष्ठगुदजान्हलीमकम् २१ पुनर्नवाव्योषत्रिवृत्सुराह्वयं निशाह्वयं चव्यफलत्रयं तथा घना यवा तिक्तवरोहिणी समा द्विभागिकं लोहरजो विमिश्रयेत् २२ गवां पयो वा द्विगुणं वियोज्यं दार्व्या प्रलेपं प्रणिधाय धीमान् छायाविशुष्का गुटिका विधेया क्षौद्रेण मूत्रेण गवां च भक्षयेत् २३ ज्ञात्वा बलं रोगबलं नरस्य पाण्ड्वामये कामलसर्वमेहे गुल्मोदराजीर्णविषूचिकानां शोफातिसारग्रहणीविबन्धान् शूलक्रिमीनर्शविकारहेतोः २४ पञ्चकोलककटुत्रिकं घना देवदारुकृमिशत्रुकोलकम् एष भागसहितो वियोजितो मिश्रयेत्तदनु चायसं रजः २५ तत्र चाष्टगुणमूत्रमध्यतः पाचयेद्भवति येन लेपिका कारयेद्बदरमात्रया पुनश्छाययापि पिषितञ्च शोषणम् २६ कारयेत्सुरभिमथितेन च पानकञ्च शमयेत्सकामलम् पाण्डुमर्शमतिसारमन्दभुक् शोषमेहगुदजान् क्रिमीनपि २७ धात्रीफलानां रसप्रस्थमेकं प्रस्थं तथा चेक्षुरसं विदध्यात् प्रस्थं तु कूष्माण्डरसप्रदिष्टमार्कं रसं प्रस्थविमिश्रमेकम् २८ एकीकृतं मन्दहुताशनेन पाच्यं भवेद्व्यापदशेषमेति विमिश्रयेदौषधसङ्घमेतत्पलैकमात्रं विपचेच्च पश्चात् २९ भृङ्गी सुराह्वं शतपुष्पधान्यं सुगन्धशुण्ठी मधुकं विशाला सपिप्पलीकं सकटुत्रयं च विडङ्गमुस्ता हपुषादलानि ३० भूरिहरिद्राकटुरोहिणीनां दुरालभापौष्करवत्सकानाम् कुष्ठाजमोदासुरसा दलानि चूर्णं त्वमीषां विनियोजनीयम् ३१ गुडं पुराणं द्विगुणं तु मध्ये गोघृतेन वटिकां विबन्धयेत् भक्षणाज्जयतिकामलार्शसं पाण्डुरोगमतिदारुणज्वरान् ३२ शोफशोषग्रहणी विनिघ्नति वातातिसारक्षयकासगुल्मान् ३३ गोधूमशालियवषष्टिकमुद्गकानां श्यामाढकीघृतयुतं पयसा सतक्रम् गाण्डीववास्तुकमथो शतपुष्पवर्त्तापथ्यं हितं निगदितं मनुजस्य पाण्डौ ३४ जाङ्गलानि च मांसानि भोजने च प्रशस्यते ३५ तिक्तानि रूक्षाणि च कटुकानि तीव्राणि दाहान्यपि काञ्जिकानि सुराम्लसौवीरकबीजपूरान् तैलानि वर्ज्यानि च पाण्डुरोगे ३६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने पाण्डुरोगचिकित्सा नाम अष्टमोऽध्यायः ८
नवमोऽध्यायः आत्रेय उवाच शृणु च भिषग्वरिष्ठ व्याधिर्घोरो नराणां भवति विहितचेष्टो वातलप्राणिनां वै । चिरनिचयकरोऽयं प्राकृतैः कर्मपाकैरिह परिभवकारी मानुषस्य क्षयोऽयम् १ देवानां प्रकरोति भङ्गमथवा भ्रूणस्य सन्तापनं गोपृथ्वीधरविप्रबालहननमारामविध्वंसनम् । सोऽयं स्थानविनाशनं च कुरुते स्त्रीणां वधं यो नरस् तस्यैतैर्गुरुकर्मभिः क्षयगदो देहार्थहारी महान् २ देवानां दहतो धनं च दहतो भ्रूणप्रपातेऽपि च देवत्वं हरती विषं च ददत आरामकं निघ्नतः । तेनासौ नियमेन सम्भवति वै नॄणां च तीव्रा रुजा धातूनां क्षयकारिणी च मनुजस्यात्मापहा दारुणा ३ क्षयो दशविधश्चैव विज्ञातव्यो भिषग्वरैः ४ श्रमाद्वाभाराद्वाविषमशयनैर्दीर्घचलनैरजीर्णे भोज्याद्वा सुरतरतिसेवापरतया । ज्वरेणातिक्रान्ताद्विषमशयनाच्छीतलतरैः क्षयं याति श्लेष्मा पवनमथ पितञ्च तनुषु ५ रोगाक्रान्ताद्विषमशयनात्तस्य मन्दज्वराद्वा श्लेष्मापित्तञ्च मरुदथवा याति देहक्षयं वा । रसरक्तमांसमेदश्चास्थि मज्जा च शुक्रमिति सप्त एवं दशविधा ज्ञेयाः क्षया भवन्ति नृणां शरीरेषु ६ पुनरपि लक्षणमेषां वक्ष्यते ते शृणु त्वम् ७ अतिस्वेदातिघर्मेण चिन्ताशोषभयादिना वाताद्यैः सेवितैश्चापि जायते मारुतक्षयः ८ तेन तन्द्राङ्गदाहश्च पिपासारुचिवेपथुः तमः क्लमो भ्रमश्चैव भवेच्च मारुतक्षये ९ तस्मादनूपानि सेव्यानि रसानि पललानि च रसोनादिककल्कञ्च सेवयेद्वातनाशने १० पित्तक्षयेऽग्निमान्द्यं च जायतेऽरुचिजाड्यता कासहृल्लासशोफश्च जायते मन्दचेष्टता ११ स्वेदाभ्यङ्गान्नपानानि दीपनानि प्रयोजयेत् जाङ्गलानि रसान्नानि सेवयेत्पित्तकृत्क्षये १२ व्यायामे च व्यवाये च रूक्षान्नाहारसेवनैः सन्तापक्रोधनैश्चैव जायते कफसम्भवः १३ तेन दाहोऽथवा पाण्डुः शोफो निःश्वसनं भ्रमः विनिद्रता क्षुत्तृषा च स्त्रीसङ्गेनापि नन्दति १४ तस्य शीतान्नपानानि कन्दशाकादिकै रसैः अनूपैर्दधिदुग्धैर्वा सेवनं च समीहितम् १५ त्रिभिर्दोषैः क्षयं प्राप्तैस्तदा हि मरणं ध्रुवम् तस्य क्रिया प्रयोक्तव्या साधारणा महामते १६ अथ धातुक्षयं वक्ष्ये हारीत शृणु साम्प्रतम् रसरक्तमांसमेदाः प्रत्येकं क्षयलक्षणम् १७ रसक्षयेऽतिशोषश्च मन्दाग्नित्वं च वेपथुः शिरोरुग्मन्दचेष्टत्वं जायते च क्लमभ्रमौ १८ रक्तक्षये क्षयः पाण्डुर्मन्दचेष्टो भवेन्नरः श्वासो निष्ठीवनं शोषो मन्दाग्नित्वं च जायते १९ मांसक्षयेऽतिकृशता चेष्टनं चाङ्गभङ्गता निद्रानाशोऽतिनिद्रास्य विसंज्ञो लघुविक्रमः २० मेदःक्षये मन्दबलो विसंज्ञता चाङ्गभङ्गो गमनं परुषता श्वासातिकासारुचिताग्निमान्द्यं विशोषस्तेन तनुशोषो जायते २१ अस्थिक्षये स्यादतिमन्दचेष्टता मन्दवीर्य इति मेदसः क्षये विसंज्ञता कृशता च कम्पना अङ्गभङ्गवमनं परुषता २२ शोषदोषसदनं च शोफिता विकम्पनं शोषरुषश्च जायते भिषग्वर त्वं परिवेद लक्षणं मज्जाक्षये कम्पनमेव वास्ति २३ भ्रमः क्लमः स्यादतिमन्दचेष्टः शोफो निशाजागरणं च तन्द्रा मन्दज्वरः शोषसमो मनुष्ये शुक्रक्षये चाङ्गविचेष्टितानि २४ रूक्षभ्रमकम्पनशोषरोषस्त्रीद्वेषितादीनि विरूपता च वैकल्यं सन्धिषु जातशोषः २५ इदानीं सम्प्रवक्ष्यामि भेषजानि यथाक्रमम् स्नेहनं रूक्षणं चैव तथा विम्लापनं हितम् २६ जाङ्गलानि च मांसानि भोजनानि च सेवयत् गुडूची शृङ्गवेरञ्च यवानीक्वथितं जलम् २७ मरिचैः क्वथितं दुग्धं पाने रात्रौ प्रशस्यते तेन रसानां वृद्धिः स्याच्छीघ्रं तस्माद्विमुच्यते २८ रसानां वृद्धिकरणं गोधूमयवशालीनाम् कथितानि भिषक्छ्रेष्ठैर्जाङ्गलानि विशेषतः २९ घृतदुग्धसिताक्षौद्रमरीचानि च पिप्पली पानं शस्तं मनुष्याणां रक्तवृद्धिकरं परम् ३० अनूपानि च धान्यानि लघुनामानि कल्पयेत् कल्यांश्च घृतदुग्धादीन्सेवयेन्मधुराणि च ३१ रसाश्च जाङ्गलानि स्युः सेवनार्थे भिषग्वर ३२ सितोपलादिकं चूर्णमजाक्षीरं सकोलकम् हितं पानं क्षये चैव कल्यमप्रातराशनम् ३३ पक्वानि घृतशस्तानि क्षीराणि विविधानि च चन्दनानि च द्राक्षादिचूर्णानि च भिषग्वर ३४ जाङ्गलानि च सर्वाणि सेवनीयानि पुत्रक अन्नानि च मधुराणि सर्वाणि च प्रयोजयेत् ३५ शुक्रक्षये प्रपाकानि रसानि च विशेषतः नवनीतं तथा क्षीरं मधुराणि च सेवयेत् ३६ कर्कटीमूलपयसा विदारीकन्दशाल्मली सिताढ्यपानं च हितं शस्यन्ते मधुराणि च ३७ शुक्रक्षयवृद्धिकरणमिदानीं चूर्णानि वक्ष्यन्ते ३८ बला विदारी लघुपञ्चमूली पञ्चैव क्षीरद्रुमत्वक् प्रयोज्या पुनर्नवा मेघतुगायुतं स्यात्सञ्जीवनीयैर्मधुकैः समांशैः ३९ अक्षप्रमाणानि समानि तानि सर्वाणि चैतानि विचूर्णयित्वा विमिश्रयेत्तत्र कणाशतानि यवान्न गोधूमयवांश्च पिष्ट्वा ४० तुगासमांशं सिततण्डुलानां सेयं सुभृङ्गारकमिश्रितं तु प्राकर्णकार्द्धेन वियोजनीयं सर्वांशकेनापि सिता प्रयोज्या ४१ विभावयेच्चामलकीरसेन वारत्रयं गोपयसा विभाव्य ततोऽस्य सर्वैश्च सशर्करैर्वा घृतेन चैवं पुनरेव भाव्यम् ४२ तं भक्षयेत्क्षौद्रयुतं पलार्द्धं जीर्णे च भोज्यं कटुकाम्लवर्जम् क्षीरं घृतं वा सितशर्करां वा यवान्नगोधूमकशालिभक्ष्यान् ४३ ज्ञात्वाग्निपाकं जठरे नरस्य देयो विधिज्ञैः क्षयरोगशान्त्यै पथ्यक्षये श्रान्तचिराभितापसम्पीडितानां च तथा शिरोऽर्त्तौ ४४ पित्तातुराणां रुधिरक्षयाणां श्रमाध्वंसम्पीडितकामलानाम् श्वासातुराणां मधुमेहिनां च क्षीणेन्द्रियाणां बलकारि शस्तम् ४५ गर्भो गृहीतश्च यया स्त्रिया च तस्याः प्रशस्तं तु बलादिचूर्णम् ४६ इति बलादिचूर्णम् बिल्वाग्निमन्थशोणाकाः काश्मरी पाटली तथा शालिपर्णी पृश्निपर्णी श्वदंष्ट्रा बृहतीद्वयम् ४७ भृङ्गी शीता चामलकी जयन्ती पुष्कराह्वयम् द्राक्षाभयामृता मेदा चन्दनागुरुपद्मकम् ४८ बलाह्वयास्तु कर्णे द्वे जीवकऋषभावुभौ काकोली क्षीरकाकोली विदार्याः कन्दमांसकम् ४९ सर्वेषां पलिका मात्रा योजयेद्भिषजां वरः धात्री फलं पञ्चशतं सुपक्वरससंयुतम् ५० जलद्रोणे विपक्तव्यं चतुर्भागे च शोषितम् तथा निर्वाप्य मतिमान् कलकानि समुद्धरेत् ५१ तत्क्वाथं कल्कयेत्तावद्यावद्दर्वीप्रलेपकः पुनस्तैलेन वाज्येन पक्त्वा चामलकीफलान् ५२ पाचिताश्चूर्णितान्सर्वान्समशर्करयायुतान् चतुष्पलातुगाक्षीरैर्योजयेद्भिषजां वरः ५३ पिप्पलीनां सहस्रैकं त्वगेलापत्रकं तथा एषां द्विपलिकां मात्रां विदध्यात्तत्र सत्तमः ५४ सर्वं प्राक्कथिते लेहे योजयेच्च विचूर्णितम् आदरेण समं लिह्यान्नराणां च रसायनम् ५५ श्वासकासक्षयपाण्डुकामलानां विशोषणम् क्षीणक्षतानां बालानां वृद्धानां देहरक्षणम् ५६ स्वरभङ्गपिपासानां हृद्रोगे पित्तशोणितम् शुक्रदोषं शिरोरोग्रं पीनसं चापकर्षति ५७ जीर्णज्वरञ्च मन्दाग्निं कुष्ठं दुष्टं भगन्दरम् मेहं कृच्छ्राश्मरीं हन्ति तथा रोचनवारणम् ५८ हृद्रोगशूलमानाहं नाशयत्यविसंशयम् वन्ध्यानां पुत्रजननं वृद्धानामल्परेतसाम् ५९ षण्ढोऽपि जायते चैव सदा ऋतुकरः परः मेधा स्मृती तथा तेजो वर्द्धयत्याशु निश्चितम् ६० सौख्यसौभाग्यदर्शी च वृद्धोऽपि तरुणायते क्षयरोगविनाशाय कथितं चात्रिणा महत् ६१ च्यवनप्राशनं नाम कृष्णात्रेयविभाषितम् ६२ इति च्यवनप्राशनं नामावलेहः भार्ङ्गीपुष्करमूलचित्रककणामूलं गजाह्वा शठी शङ्खाह्वादशमूलचित्रकबलायासात्मगुप्तास्तथा । एतेषां द्विपलांशकी भिषग्वर प्रोक्ता च पञ्चाढके पथ्यानां शतकं विपाच्य बहुधा मन्दाग्निना सन्ततम् ६३ निर्वाप्य पुनरेव पूतसरसं चोद्धृत्य पथ्याशतं संशुष्यामतिशीतले सुभवनक्वाथः प्रशस्तः पुनः । दत्वा जीर्ण गुडस्य चैकतुलया कुडवञ्च क्षौद्रं घृतं स्नेहस्यार्द्धमथाक्षकेण मगधा योज्यं शतं पञ्चकम् ६४ चूर्णं तत्र निधापयेत्पुनरपि सङ्घट्टयेदुच्चकं पथ्ये द्वे मधुना सहातिहितकृत्सर्वामयच्छेदनः । पाण्डुकासहलीमकगुदरुजो हृद्रोगहिक्काभ्रमान् हन्यात्पीनसमेहपित्तरक्तकुष्ठं च ग्रहण्यामयम् ६५ पुष्पं चैव तनोति शोफ मरुचिगुल्मार्त्तिराजक्षयमेहानाहविबन्धरोगशमनं क्षीणेन्द्रियाणां हितम् । मन्दाग्नेः प्रशमं करोति वडवातुल्योऽरुचिबन्धको नाशं वा विदधाति देहसुखदागस्तिप्रणीताभया ६६ बलाह्वयं गोक्षुरको बृहत्यौ निष्क्वाथ्य दुग्धेन कणासमेतम् । पानं हितं स्यान्मधुना सिताढ्यं विनाशनं कामलकं क्षयं वा । मेहस्य तृष्णाशय नाशकारि क्षीणेन्द्रियाणां बलमातनोति ६७ पिप्पलीं वर्द्धमानं वा कारयेद्दुग्धसर्पिषा आद्यः पञ्च पुनः सप्त पुनरेव नव क्रमात् ६८ एकादशस्त्रयोदशः पञ्चदशस्तथा सप्तदशः स्मृतः एकोनविंश एकविंशः पृथक्पृथग्यथाक्रमम् ६९ एवं क्रमेण वृद्धिः स्यात्कारयेच्छतमात्रया ततः क्रमेण पुनः पश्चाद्यावच्छेषं च पञ्चकम् ७० भोजयेत् षष्टिकान्नं तु मुद्गेन सर्पिषा युतम् एवं बालश्च वृद्धश्च नरो नागबलो भवेत् ७१ पिप्पली वर्द्धमाना तु ज्वरे जीर्णे प्रशस्यते मन्दाग्नौ पीतमेवाथ गुदजे वा तथा पुनः ७२ इति पिप्पलीवर्द्धमानम् द्वे पले मार्कवं धातु माक्षिकं च पुनर्नवा तुगा पृक्का शालिपर्णी वासकं च दुरालभा ७३ चूर्णार्द्धेन समं योज्यं त्रिगन्धं मरिचानि च तालीसं मगधा चैव तदर्द्धेन शिलोद्भवम् ७४ शिलाभेदं तदर्द्धेन सर्वं चैकत्र मिश्रयेत् समेन तिलचूर्णं तु शर्करायाः समायुतम् ७५ भक्षयेत्क्षीरपानं वा शस्यते घृतसंयुतम् तेन क्षयो राजयक्ष्मा कामला च विनश्यति ७६ अपस्मारं जयत्याशु बलवीर्याधिको भवेत् शाम्यन्ति च महारोगाः शुक्राढ्यो जायते नरः ७७ इति शिलाजतुचूर्णम् जीवन्तिकावत्सकयष्टिकानां सपौष्करं गोक्षुरकं बले द्वे नीलोत्पलं चामलकी यवासं सत्रायमाणा मगधा च कुष्ठम् ७८ द्राक्षामलक्या रसप्रस्थमेकं प्रस्थद्वयं छागलकं पयश्च प्रस्थं दधिषु पचेद्घृतं वह्निवातं पाने प्रशस्तमेव भोज्ये ७९ नस्ये च बस्तावपि योजयेत्तद्विनाशमेत्याशु च राजयक्ष्मा हलीमकः कामलपाण्डुरोगो मूर्च्छा भ्रमः कम्पशिरोऽर्त्तिशूलम् ८० महाश्मरी वा गुदकीलकुष्ठं शिरोगतो नाशमुपैति रोगः तस्य प्रदानेन वियोजितेन पानेन पाण्ड्वामयराजयक्ष्मा ८१ नाशं शमं याति हलीमको वा बस्तिप्रदानेन गुदोद्भवाश्च रोगी विनाशं समुपैति पुंसां विसर्पविस्फोटकप्रोक्षणेन ८२ कणा पलाशः पञ्चगुणं पयश्च आद्यं घृतं वै विपचेत्समांशम् पानेऽथवा भोजनके प्रशस्तं देयं च राजक्षयनाशहेतोः ८३ पञ्चकोलं यवाग्रञ्च क्षीरं दध्ना घृतं पुनः समांशेन तु योज्यानि भार्ङ्गी कुष्ठं तु पौष्करम् ८४ शतं तत्र हरीतक्या जले चैव चतुर्गुणे क्वाथं चैकत्रयं योज्यं क्वाथयेन्मृदुवह्निना ८५ मृदुपाकं घृतं सिद्धं पाने नस्ये च बस्तिषु गुणाधिक्यं भवेन्नॄणां पाण्डुरोगे हलीमके ८६ राजयक्ष्मणि क्षये चैव शस्तं चोक्तं भिषग्वर ८७ यष्टी बला गुडूची च पञ्चमूलं समांशकम् क्वाथेन सदृशं धात्रीरसं चेक्षुरसं तथा ८८ विदार्याश्च रसं चैव घृतं च समभागिकम् क्षीरं दधिसमं चात्र नवनीतं तु तत्समम् ८९ द्राक्षातालीससंयुक्तं यथालाभेन योजयेत् सिद्धं घृतं च पानाय नस्ये बस्ता प्रदापयेत् ९० जयति राजयक्ष्माणं पाण्डुरोगं सुदारुणम् हलीमकं चार्शसं च रक्तपित्तनिवारणम् ९१ लेपेन दुष्टवैसर्पपित्तदग्धव्रणापहम् ९२ बला श्वदंष्ट्रा बृहतीद्वयं च पर्णीद्वयं गोक्षुरकं स्थिरा च पटोलनिम्बस्य दलानि मुस्तं सत्रायमाणा च दुरालभा च ९३ कृत्वा कषायं च यदावशेषं पूतीकृते चूर्णमिदं प्रयुंज्यात् द्राक्षा शठी पुष्करमूलधात्री तमालकी दुग्धसमं कषायम् ९४ सर्पिःप्रयुक्तं नवनीतकं च सर्पिस्तदर्द्धेन नियोजनीयम् सिद्धं घृतं पानमथैव बस्तौ नस्ये तथाभ्यञ्जनभोजनेन ९५ जघन्यकासक्षयकामलानां राजक्षये क्षीणबलेन्द्रियाणाम् शतेषु शोफेषु व्रणेषु शस्तं शिरोऽर्त्तिपार्श्वार्त्तिगुदामयघ्नम् ९६ चन्दनं सरलं दारु यष्ट्येला वालकं शठी नलशैलेयकं पृक्कापद्मकं वनकेसरम् ९७ कङ्कोलकं मुरामांसी शैरियं द्विहरीतकी रेणुकात्वक्कुङ्कुमञ्च सारिवे द्वे तिक्तागुरुः ९८ नलिकाबले तथा द्राक्षा कषायं सुपरिस्रुतम् तैलमस्तु तथा लाजा रसेन समभागिकम् ९९ मन्दाग्निना पचेत्तैलं सिद्धं पाने च बस्तिषु नस्ये चाभ्यञ्जने चैव योजयेत्तद्भिषग्वरः १०० हन्ति पाण्डुक्षयं कासं ग्रहघ्नं बलवर्णकृत् मन्दज्वरमपस्मारकुष्ठ पामाहरं पुनः १०१ करोति बलपुष्ट्योजो मेधाप्रज्ञायुर्वर्द्धनम् रूपसौभाग्यदं प्रोक्तं सर्वभूतयशस्करम् १०२ स्वामिभार्याभिगमने गुरुपत्न्यभिलाषणात् राजस्वहेमचौर्याद्वा राजयक्ष्मा भवेद्गदः १०३ अथवा दुष्टरोगेण जायते शृणु पुत्रक चतुर्भिर्हेतुभिर्यक्ष्मा जायते शृणु साम्प्रतम् १०४ व्यायामयानसुरतागतिपीडिताङ्गरोगेण वा व्रणनिपीडितक्षीणदेहात् क्रोधातिशोकानशनादिभयोपवासैः सञ्जायते च मनुजस्य महागदोऽयम् १०५ वार्द्धक्याद्यो भवति नितरां ज्याधनुःकर्षणेन भारात्यर्थं भवति हननोत्पातबन्धेन युद्धात् दूराध्मानात्कदशनवशाच्चिन्तयातिव्यवायात्सम्भूतिः स्यान्मनुजबलहृद्राजयक्ष्मेतिसंज्ञः १०६ क्षतक्षयाच्छ्रमाद्वापि सहसोपप्लवादपि व्यवायातिप्रसङ्गेन तथा रूक्षातिसेवनात् १०७ तेन संक्षीयते गात्रं ज्वरो मन्दश्च जायते ज्वरान्ते जायते शोफो मलविट् चातिमूत्रता १०८ अतिसारश्च भवति भक्षणेनातिशेषते कासते ष्ठीवतेऽत्यर्थं शोषञ्च कुरुते भृशम् १०९ स्त्रियोऽभिलाषतात्यर्थं वार्त्तायाद्विषता पुनः राजयक्ष्मेति विज्ञेयो गदः साध्यो न विद्यते ११० सुप्तौ पादौ भवेतां तु ग्रासञ्च बहु मन्यते शब्दे च पटुता यस्य राजयक्ष्मा न जीर्यति १११ यदन्नं यत्समाहारं यादृशं प्रतियाचते तत्तस्य च प्रदातव्यं मधुरं घनमेव च ११२ यद्यदाहारमिच्छेद्वा नरं वा राजयक्ष्मिणम् तस्य तस्यास्य लाभेन क्षीयन्ते धास्य धातवः ११३ यदा सरक्ताः शोफाः स्युः पाकतां याति मानवे तदा पुनर्नवाक्वाथः सलेशः प्रविधीयते ११४ सञ्जीवेच्चतुरो मासान्षण्मासं वा बलाधिकः उत्कृष्टैश्च प्रतीकारैः सहस्राहं तु जीवति ११५ सहस्रात्परतो नास्ति जीवितं राजयक्ष्मिणः गतप्राणौजोवीर्यश्च क्षीणश्च विकलेन्द्रियः ११६ न भवेत्पुनरुच्छ्रायो याप्यरोगश्च मुञ्चति यस्तदायाससम्पन्नो भूयोऽपि कासना भवेत् ११७ तस्य प्राणापहारी स्याद्राजयक्ष्मातिदारुणः त्रिभिर्मासैश्च षण्मासैर्वर्षैश्चापि त्रिभिः पुनः ११८ शतमूलीरसे प्रस्थं गुडूचीकल्कप्रस्थकम् हरीतकीशतानां च कुटजस्य त्वचा तुलाम् ११९ निष्क्वाथ्य च पृथक्त्वेन पूतनाञ्चैकत्र मिश्रयेत् दार्वीप्रलेपनं कृत्वा गुडानां शतपञ्चकम् १२० सिता चामलकीचूर्णं त्वगेला चित्रकं शठी द्राक्षा कुष्ठं शिलाजिच्च शिलाभेदस्तु तालकम् १२१ योज्यं तत्राक्षमानेन भक्षयेच्छुद्धसर्पिषा तस्योपरि पिबेत्क्षीरं भोजनञ्च ततः परम् १२२ राजयक्ष्मी लभेत्सौख्यं पाण्डुकामलकाञ्जयेत् अतीसारं विनश्यति बले नागबलो भवेत् १२३ तालकं च शिलाभेदस्तथा चैव शिलाजतुः क्षीरके द्वे समङ्गा च कुष्ठं नागबला बला १२४ एलापत्रकतालीसं तमालं हरिचन्दनम् मुस्ता द्राक्षा च रास्ना च मुण्डी शैलेयकं पुरः १२५ सुरसा चैव संयोज्या तिलाः कृष्णा द्विभागिकाः चूर्णं सूक्ष्मं प्रयुञ्जीत गुडेन मधुना युतम् १२६ पश्चाद्गोक्षीरपानं स्यात्क्षीरेण सह भोजनम् राजयक्ष्मादिभिः क्षीणा ग्रहणीपीडिताश्च ये १२७ धातुक्षीणबला ये च तेषां संयोजयेद्भृशम् वृद्धोपि तरुणो भूत्वा नरो नार्याभिनन्दति १२८ बन्ध्यापि लभते पुत्रं षण्ढोऽपि पुरुषायते तालकाम्रातकं नाम कृष्णात्रेयविभाषितम् १२९ गुडूची च बले द्वे च धात्री च मरिचानि च चूर्णं गुडेन संयुक्तं राजयक्ष्मापहं नृणाम् १३० शालिषष्टिकगोधूमवास्तुकं जाङ्गलानि च मुद्गांश्च गोपयश्चैव शशकैणकुरङ्गिणाम् १३१ तित्तिरक्रौञ्चलावानां वार्त्ताकपिच्छकच्छागलानां हि कथितानि मांसादीनि प्रलेपकानि जगति च १३२ विभोजयेत्क्षीरसर्पिः क्षये वा राजयक्ष्मिणः क्षाराम्लकटुकं तीक्ष्णं तैलं सौवीरकं सुरा राजिकावर्जिताश्चैते क्षये वा राजयक्ष्मिणः १३३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने क्षयरोगचिकित्सा नाम नवमोऽध्यायः ९
दशमोऽध्यायः अतिघर्मतया वापि तीक्ष्णोष्णकटुसेवनात् क्षाराम्लसेवनाद्वापि मद्यपानादिसेवनात् १ अतिव्यवायाच्छीतेन शुष्कशाकादिसेवनात् एतैस्तु कुपितं पित्तं रक्तेन सह मूर्च्छितम् २ पुत्रस्तु संशयापन्न पप्रच्छ पितरं पुनः ३ हारीत उवाच कथं पित्तं प्रकुपितं केन वापि प्रचाल्यते तद्वद्रक्तं प्रकुपितं जायते केन हेतुना ४ युगपद्दृश्यते केन कथं वापि प्रवर्त्तते एवं पृष्टो महाचार्यः प्रोवाच मुनिपुङ्गवः ५ आत्रेय उवाच शृणु प्राज्ञ महातेजश्चिकित्सागमपारग येनैव कुप्यते पित्तं रक्तं तेनैव कुप्यते ६ तावत्प्रकुपिते कोष्ठे वायुर्दारयते भृशम् ऊर्ध्मं च नयते प्राणश्चापानोऽपानमीरति ७ मध्ये समानः कुरुते रक्तपित्तस्य कोपनम् एवं युगपत्पित्तञ्च रक्तेन सह कुप्यति ८ चतुर्द्धा दृश्यते कोपो गतिश्चास्य द्विधा मता ऊर्ध्वश्लेष्मणि संसृष्टं नासास्ये कर्णरन्ध्रयोः ९ रक्तं प्रवर्त्तते यस्य साध्यास्तु विजिगीषुणा अधोयातेन संसृष्टं गुदेनापि प्रवर्त्तते १० स ज्ञेयो रक्तपित्तस्तु कृच्छ्रेण सिद्धिमिच्छति उभाभ्यामधऊर्ध्वाभ्यां वातश्लेष्मणि वर्त्तते ११ तमसाध्यं विजानीयात्कृच्छ्रेण यदि सिध्यति १२ एकमार्गबलतो वा नाभिवेगेन चोत्थितः रक्तपित्तः सुखेनापि साध्यः स्यान्निरुपद्रवः १३ एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते असाध्यस्तु त्रिदोषेषु रक्तपित्तः प्रवर्त्तते १४ ऊर्ध्वगरक्तपित्तेषु विरेकं कारयेत्सुधीः अधोभागगते रक्ते तदास्य वमनं हितम् १५ रोगक्षीणे छविरविकले हीनदौर्बल्यकाये मन्दाग्निर्वा क्षवथुरथवा पाण्डुता दाहशोषः । तृष्णा छर्दिः श्वसनमधृतिर्भक्तविद्वेषमोहो हृत्पीडा स्याद्भ्रममथ भवेद्रक्तपित्तोपसर्गात् १६ अष्टादश इमे प्रोक्ता रक्तपित्तौपद्रवाः उपद्रवैर्विना साध्योऽसाध्यः सोपद्रवस्तथा १७ रक्तनिष्ठीवनोपेतो रक्तनेत्रो भ्रमातुरः रक्तमूत्रश्च वमते रक्तमूत्री न जीवति १८ एवं प्रोक्तो निदानार्थस्ततो वक्ष्यामि भेषजम् सुलक्षणसमायुक्तं रक्तपित्तं सुखावहम् १९ यस्यारुणं पवनफेनयुतं च तावत्पित्तातिकृष्णमथ पीतकुसुम्भकाभम् पित्तेन पित्तमिति तं प्रवदन्ति धीराः सान्द्रं सपाण्डुरतिजं सघनं कफेन २० क्षीणमांसं कृशं वृद्धं बालं वा ज्वरपीडितम् शोषमूर्च्छाभ्रमापन्नं नातिरेचनमाचरेत् २१ निष्पीड्य वासारसमाददीत क्षौद्रेण खण्डेन युतं च पानम् नासास्यकर्णे नयनप्रवृत्तं रक्तं तु शीघ्रं शमतां प्रयाति २२ वासाकषायोत्पलमृत्प्रियंगुरोध्राञ्जनाम्भोरुहकेसराणि पीत्वा समध्वा ससिता प्रयोज्या पित्ताश्रयं चैवमुदीर्णमाशु २३ प्रविद्यमानं पिचुवासकेन कथं नरः सीदति रक्तपित्ते क्षये च कासे श्वसनेऽपि यक्ष्मे वैद्याः कथं नातुरमादरन्ति २४ भिषग्भिषजां माता वा पुरा कृत्य क्रिया यदि क्रियायत्ते रक्तपित्ते क्षये कासे च सिद्धिदा २५ वासायां विद्यमानायामाशायां जीवितस्य च रक्तपित्ती क्षयी कासी किमर्थमवसीदति २६ तालीसचूर्णं वृषपत्ररसेन युक्तं पेयं समारभ्य पुनः कफपित्तकासे हन्ति भ्रमं श्वसनकासतासङ्करोत्थं भङ्गस्वरे त्वरितमाशु सुखं ददाति २७ आटरूषकमृद्वीकापथ्याक्वाथः सशर्करः क्षौद्राढ्यः श्वसनकासरक्तपित्तनिवारणः २८ छागं पयो वा सुरभीपयो वा चतुर्गुणश्चापि जलेन कल्कः सशर्करं पानमिदं प्रशस्तं सरक्तपित्तं विनिहन्ति चाशु २९ बलाश्वदंष्ट्रामलकीफलानि द्राक्षा मधूकं मधुयष्टिकानाम् सिद्धं पयः पानमिदं हितं स्यात्पित्ते सरक्ते मनुजस्य शान्त्यै ३० खदिरस्य प्रियंगूनां कोविदारस्य शाल्मलेः पुष्पचूर्णं तु मधुना लिह्यादारोग्यमस्तुते ३१ आटरूषकरसेन सप्तधा भाविता च पुनरेव शोषिता पिप्पलीमधुसमन्विताभया रक्तपित्तमतिदुर्जयं जयेत् ३२ एलाफलानि सपद्मकनागकेशरं द्राक्षा घना मधुकपिप्पलिका समांशा एषांसमांशसितशर्करयुक्तलेहः खर्जूरिका समभिहन्ति च रक्तपित्तम् ३३ दाहंज्वरार्त्तिश्वसनं च विमोहतृष्णां मूर्च्छांनिहन्ति रुधिरवमिजित्तथैव ३४ घ्राणे प्रवृत्तं रुधिरं यदि स्यात्तदा घृतेनामलकीफलानि तोयेन पिष्ट्वा शिरसि प्रलेपः स रक्तपित्तं सहसा रुणाद्धि ३५ द्राक्षारसं वा घृतशर्कराढ्यं जलं सिताढ्यं च सरक्तपित्ते यवान्न चैवेक्षुरसं सिताढ्यं क्षयं च कासं क्षतजं निहन्ति ३६ नस्यं विदध्याद्धरितालिकाया रसेन वालक्तरसेन वापि स्याद्दाडिमस्य प्रसवोद्भवेन रसेन नस्यं रुधिरस्रुतेऽपि ३७ आम्रास्थिजम्बूद्भवशर्कराढ्यं नस्यं सिताढ्यं हितकृज्ज्वराणाम् नासाप्रवृत्तं रुधिरं निहन्ति हिक्कासच्छर्दिश्वसनं विमर्दि ३८ पलाण्डुपत्रनिर्यासनस्यं नासाग्रजावहम् यष्टीमधूमधुयुतं पश्चान्नस्येऽस्रजं जयेत् ३९ वासापत्ररसं विधाय मतिमान्योज्यानि चेमानि तु रोध्रं चोत्पलमृत्तिकासमधुकं कुष्ठं प्रियङ्ग्वन्वितम् चूर्णं पुष्परसेन पाचकमिदं पित्ताश्रयाणां हितं कासकामलपाण्डुरोगक्षतजश्वासापमर्दि भवेत् ४० रसो हितो दाडिमपुष्पकस्य तथैव किञ्जल्करसोत्पलस्य लाक्षारसो वा पयसा च नस्याद् घ्राणप्रवृत्तं रुधिरं रुणद्धि ४१ यदि वदनपथेऽसृक्प्रवृत्ते तस्य कुर्यात्प्रतिविधिर्विहितः स्याद्वक्ष्यते मानुषस्य भवति न सुखसाध्यं लोहितं मानुषेषु तदनुयुवतियोन्यां रक्तवाहस्त्वसाध्यः ४२ मधु मधुकमुशीरं कञ्जकिञ्जल्कदूर्वारसमिह परिपीतं दाडिमस्य प्रसूतम् मलयजसितकुष्ठं पद्मकं चैव बालं मधु मधुकबालकौ कोद्रवौ द्वौ समन्तात् ४३ समसुरभिपयो वा धावनं तण्डुलानां परिकलितसमग्रं तुर्यभागेन योज्यम् लघुतरमपि वह्नौ धावितं सिद्धमेव भवति वदनवृत्ते लोहिते पानमस्य ४४ श्रुति पथमपि रक्ते वा प्रवृत्ते तु नासं विहितमपि तदा स्यात्पूरणं कर्णनासे रुधिरमभिरुणद्धि श्वासमाशु क्षतं वा श्वसितरुधिरच्छर्दि मेहमुन्मादरोगम् ४५ नासाप्रवृत्ते नस्यं स्यान्मुखे पानं विधेयकम् कर्णे नेत्रे पूरणं च गुदमार्गे निरूहणम् ४६ दाडिमफलत्वचं वा चूर्णं लिह्यात्सितायुतम् पद्मकिञ्जल्कचूर्णं वा लिह्याद्वा सितया पुनः ४७ मुखप्रवृत्तरुधिरं रुणद्ध्याशु वमिं क्लमम् श्वासशोषौ भ्रमं तृष्णां नाशयत्याशु निश्चयः ४८ जम्ब्वाम्रपल्लवानि स्युर्हरीतक्या युतानि तु मधुशर्करया युक्तमास्यलोहितवारणम् ४९ वटप्रबालार्जुनवृक्षकदम्ब जम्ब्वाम्रकाणां खदिरस्य वापि यथाप्रपन्नो मधुनावलेह आस्यस्रजं वारयते क्षणेन ५० शतावरी मधुकं बला च ससिता काकोलिका दाडिमा मेदः क्षीरविदारिका च फलिनी स्यात्तिन्तिडीकं बला । सिद्धा गोपयसाज्यकं हितमिदं पाने तथा बस्तिषु योनौ मेढ्रगुदप्रवृत्तरुधिरं हण्यात्सकासक्षयम् ५१ मृद्वीका मधुकं विदारिवसुधा नीली समङ्गाफला काकोल्यो बृहती युगं वृषमहामेदासितं चन्दनम् । जातीपल्लवपटोलश्यामामृतासञ्जीवकाः साभया मेदे द्वे च कुचन्दनं मधुरसाः श्यामाः समांशास्त्वमी ५२ पक्त्वा गोपयसा विशुद्धविधिना सिद्धं चतुर्थांशकं मत्स्यण्डी मधुकं च सिद्धिमिति चेत्पानं प्रशस्तं नृणाम् । स्त्रीणां चापि हितं निहन्ति रुधिरं पित्ताद्गुदे वा भवेन्मेढ्रे चापि च रोमकूपकपथे वृत्तं निहन्त्यात्स्रजम् ५३ एतद्द्राक्षाभिधानं घृतमपि विहितं रक्तपित्ते ज्वरे वा वातास्रे योनिशूले भ्रममदशिरसोन्मादरक्तप्रमेहे । पित्ताम्लेऽतिकुष्ठे क्षयक्षतरुधिरे राजयक्ष्मेऽथ पाण्डौ पाने बस्तौ च नस्ये हितमपि मनुजां भाषितं चात्रिणा च ५४ छल्लिं निष्कृष्य कूष्माण्डखण्डानि प्रतिकल्पयेत् काञ्जिकेनाशु धौतानि पुनरेव जलेन तु ५५ पश्चात्क्षीररसप्रस्थे कल्कयेत्पुनरेव च घृतेन पुनरेवैतत्पाचयेत्सुविधानतः ५६ यदा मधुनिभानि स्युस्तदा शर्करया सह निधाय तत्र चेमानि भेषजानि प्रकल्पयेत् ५७ पिप्पलीशृङ्गवेराभ्यां द्वे पले मरिचानि च जीरके द्वे तथा धात्री त्वगेलापत्रकं तथा ५८ पलार्द्धेन वियुञ्जीयाच्चूर्णं तत्र विनिक्षिपेत् दार्व्या विघट्टयेत्तावल्लेहीभूतं यदा भवेत् ५९ तदा मधुघृतेनापि लिह्याज्ज्ञात्वाबलाबलम् रक्तपित्तं क्षयं कासं कामलं नैमिकं भ्रमम् ६० छर्दितृष्णाज्वरश्वासपाण्डुरोगान् क्षतक्षयम् अपस्मारं शिरोर्त्तिञ्च योनिशूलं च दारुणम् ६१ चिरं योनौ रक्तवाहं मन्दज्वरनिपीडनम् वृद्धोऽपि च युवा कामी वन्ध्या भवति पुत्रिणी ६२ अवीर्यो वीर्यमाप्नोति भवेत्स्त्रीणां प्रियो नरः एष कूष्माण्डको लेहः सर्वरोगनिवारणः ६३ सुस्निग्धकूष्माण्डकखण्डकानि पलानि पञ्चाशदथो सितायाः युञ्ज्यात्सतोयं प्रणिधाय धीमान् घृतेन प्रस्थं परिपक्वमेव ६४ विज्ञाय पक्वं पुनरेव तत्र वासाकषायञ्च विमिश्रयेच्च पश्चात्पचेद्यावत्तु दर्वीलेपो ज्ञात्वा तु चेमानि पुनर्वियुञ्ज्यात् ६५ धात्री घना च भार्ङ्गी च सुगन्धत्रयं च युञ्ज्यात्समस्तानि तानि कर्षमात्राम् तस्मात्पुनर्नवा च नागरधान्यकानि एषां पलस्य तुलिता कथितानुमात्रा ६६ श्यामापलाष्टकमिदं विदधीत चूर्णं सङ्घट्टयेत्सकलमेव पुनस्तु दर्व्या युञ्ज्यात्समं मधुयुतं सकलामयघ्नं कासं ज्वरं क्षतजमाशु निहन्ति हिक्काम् ६७ हृद्रोगपित्तरुधिरं क्षयपीनसं च पित्ताम्लकं विजयते श्वसनं च मूर्च्छाम् स्त्रीणां हितं भवति बालकवृद्धकेषु श्रेष्ठं समस्तरुजनाशबलप्रदं च ६८ शतावरी मुण्डितिकामृता च फलात्वक्च पुष्करमूलभार्ङ्गी वृषो बृहत्या खदिरं च मांशली पृथक्पृथक् पञ्चपलैकमात्रया ६९ उत्तार्य पक्वं जलमाशु पश्चाद्यावद्भवेच्छेषमथैव पूतम् विमूर्च्छितं तत्र निधाय धीमान्पलं तथा द्वादशमाक्षिकस्य ७० तथाशु चूर्णस्य च लोहकस्य विघट्टितं खण्डघृतेन तुल्यम् देयं पलं षोडशकं विधिज्ञो विपाचयेल्लोहमये च पात्रे ७१ गुडेन तुल्योऽपि विभाति यावत्तुगा विडङ्गं मगधा च शुण्ठी द्वे जीरके कण्टकं त्रिफलानां भृङ्गं धान्यमरिचं सकेसरम् ७२ पलेन मात्रां विदधीत पृथक् सुघट्टितं चूर्णमिदं घृतस्य स्निग्धे कटाहे प्रणिधाय युञ्ज्यात्कर्षप्रमाणं विदधीत चूर्णम् ७३ प्रभातकाले सरोवारिपानं गुरूणि चाम्लानि च वातलानि भगन्दरादिश्वयथून्निहन्ति रक्ताम्लकं वा श्वसनञ्च यक्ष्मिणम् ७४ विशोषणं कुष्ठरुजां च गुल्मान्बलप्रदं वृष्यतमं प्रदिष्टम् स रक्तपित्तं सहसा निहन्ति योनिप्रभावं च सरक्तशूलम् ७५ रक्तातिसारं रुधिरप्रमेहं समेढ्रबस्तौ निहितं नराणाम् सौभाग्यदं कान्तिकरं प्रदिष्टं तेजौजःपुष्टिं बलमातनोति ७६ रक्तातिसारे च प्रयोजनीयं रक्तप्रवाहे सरुजे सदाहे फलत्रिकञ्च सविषा समङ्गा सपर्पटं दाडिमधातकीनाम् ७७ चूर्णं मधुशर्करया समेतं तथैव दध्ना सघृतं सलेहम् रक्तातिसारं रुधिरप्रवाहं सततं स्त्रियश्च ७८ निवारयत्याशु हितं नराणां बालेऽतिसारे प्रशमाय योग्यम् ७९ योनिप्रवाहे मधुकं समङ्गा एलादलं निम्बदलानि पथ्या मुस्ता विशाला कटुरोहिणी च कल्को हितः शर्करया युतोऽयम् ८० योनिप्रवाहं विनिवारयेच्च सयोनिशूलं सरुजां तृषार्त्तिम् एला समङ्गा सहशाल्मलीनां हरीतकी मागधिका समांशा ८१ क्वाथोदितः शर्करया समाध्व्या योनिप्रवाहं विनिवारयेच्च ८२ घर्मातपान्ते च विदाहि चाम्लं सौवीरकं वा कटुकं कषायम् क्षारं सुरा वा परिवर्जनीयं सरक्तपित्ते मनुजे हिताय ८३ वास्तूकचिल्ली सुनिषण्णकञ्च जीवन्तिका वा शतपुष्पिका वा शाका हिता रक्तमेव च पित्ते मुद्गास्तथा लोहिततण्डुलाश्च ८४ यवगोधूमचणकाः कोशातक्यः पटोलकम् मुद्गा माषा हिताश्चैव रक्तपित्तनिवारणे ८५ हरिणशशकलावास्तित्तिरास्ते कुलिङ्गाः ककेरा अपि मयूराः क्रौञ्चपारावतानाम् पललमनिलपित्तबर्हणं वै हितञ्चेद्भवति बलममोधं सत्त्वतेजश्च कान्तिः ८६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तपित्तचिकित्सा नाम दशमोऽध्यायः १०
एकादशोऽध्यायः आत्रेय उवाच अथातो वक्ष्यते पुत्र अर्शस्य च चिकित्सितम् षट्प्रकारेण ये प्रोक्तास्तेषां च शृणु लक्षणम् १ जाता दोषैस्त्रिभिरपि वातपित्तकफादिकैः सन्निपाते चतुर्थः स्यात्पञ्चमो रक्तसम्भवः २ षष्ठकः सहजो ज्ञेयश्चार्शसां षड्विधो भवः एवं च षट्प्रकारेण जायन्ते गुदजा रुजः ३ अनशनलघुरूक्षाहारसंसेवनेन कटुलवणविदाहिसेवया वातरोधात् भवति सततवीप्सा विष्टरेणैव हीना कुपितमरुतवेगादर्शसां भूतिरासीत् ४ अनशनोपविष्टस्य मलमूत्रावधारणे शीतसंसेवनेनापि गुदजः सम्प्रकुप्यति ५ लवणकटुकषाया तिक्तसंसेवनेन अमितलघुतरभोज्याच्छीतलेनातिरोधात् कुपितमलिननामापानमार्गेष्वपाने सृजति रुधिरवातोपानमार्गे मरुत्सु ६ कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च सेवनानिलतोयेन श्रमाद्व्यायामपीडया यानव्यवायदोषाद्वा दुर्नामा पित्तसम्भवः ७ अव्यायामात्तस्य शीलादजस्रं शीताद्वान्याद्वातसंसेवनाच्च लौल्यात्यम्लात्तैलसम्पिच्छलेन दुर्नामा सञ्जायते श्लेष्मरोगात् ८ शीतत्वतोदं परुषं विनिद्रा गुल्मोदराष्ठीलविषूचिकावा शोफावुभौ कृष्णनखस्य नेत्रे लिङ्गानि वातप्रभवार्शसानाम् ९ दाहभ्रमौ ज्वरपिपासिशरीरतो वा मूर्च्छारुचिर्नयनदन्तमुखानि यस्य पीतच्छविर्भवति वा विटभेदनं च पित्तेन जातगुदजस्य च लक्षणानि १० निद्रा च जाड्यधनमन्दरुजा च शोफा शूलातिगुल्मगुदभंगुरकास्तथा स्युः विड्बन्धतोदमरुचिर्गतिमन्दता च श्लेष्मोद्भवा गुदरुजः खलु भेषजज्ञ ११ शूलानाहारुचिः कासो हृल्लासो रुचिनोदता स्कन्धयोर्जाड्यता सर्वाश्चार्शसि सम्भवन्ति हि १२ गुदजलक्षणं वक्ष्ये गदे कण्डूरसृक्स्रवः परुषा विषमा दीर्घा वातेन गुदजा मताः १३ सदाहाश्च विचित्राश्च पीता नीलावभासिकाः लोहितं स्रवते सोष्णं पित्तेन गुदजा मताः १४ सदाहा कठिना ये तु तत्र पाको विबन्धता शीतकण्डूसमस्थूलाः कफेन गुदजा मताः १५ सदाहाः सरुजः श्यावाः कण्डूः शोषश्च जायते स्रवते सततं रक्तं ते कण्ड्वासृग्भवार्शसाः १६ धान्याङ्कुरसमाकाराः क्रिमयः सम्भवन्ति च वातवर्च समा लिङ्गा गुदजाः सम्भवन्ति हि १७ वक्रास्तीक्ष्णाः स्फुटितवदना दीर्घबिम्बीफलाभाः केचित्सिद्धार्थककणनिभाः कालखर्जूरकाभाः । कर्कन्ध्वाभाः कलम्बकसमाः केचिदम्भोजबीजा वायोश्चासौ मनुज विहितः सम्भवश्चार्शसां च १८ गुदे नासाकर्णरन्ध्रे मुखे वा तथावर्त्तनेत्रान्तरयोनिमध्ये नराणां सकाशे भवन्ति रोगा न साध्याः सुखेन क्रिया यत्नतः स्यात् १९ त्रिवलीगुदमध्ये तु बाह्यतोऽभ्यन्तरेषु च अर्शसां तु विजानीयात्त्रीणि स्थानानि चैव हि २० बाह्यतः सुखसाध्यः स्यान्मध्ये कष्टेन सिध्यति असाध्योऽन्तर्बलीजातो गुदजो भिषजां वर २१ प्रलेपवर्त्तिभिः स्वेदैर्बाह्याः सिध्यति चोत्तमाः यन्त्रशस्त्रेण मध्यास्तु अन्तर्जाश्चान्तरौषधैः २२ तस्मात्पुत्र प्रयत्नेन क्रिया कार्या विजानता येनातुरस्य रक्षा स्याद्येन रोगो निवर्त्तते २३ करचरणमुखे वा नाभिमेढ्रे गुदे वा भवति हि यदि पुंसां शोफशोषो ज्वरश्च श्वसनतमकच्छर्दिर्मोहहृत्पार्श्वशूलं कृशमरुचिविबन्धश्चातिसारोपसर्गाः २४ इत्येवं द्वादशार्शसां सम्भवन्ति ह्युपद्रवाः उपद्रवैर्विना साध्या न साध्या बहूपद्रवाः २५ शूलारोचकतृष्णार्त्तश्चातिरक्तप्रवाहवान् शूलशोफातिसारार्त्तो ध्रुवं न जीवतेऽर्शसः २६ अतोर्शसां प्रवक्ष्यामि क्रियां चैव भिषग्वर वटकाक्षारशस्त्राणि येन सम्पद्यते सुखम् २७ अर्शसां च क्रियाः प्रोक्ताश्चार्शघ्ना बलवर्द्धनाः पित्तशोणितशमना न च वातप्रकोपनाः २८ तस्यादौ पचनं श्रेष्ठं ततो भेषजमाहरेत् पथ्यामृता च धनिका पाने क्वाथो गुडान्वितः २९ दन्ती विडङ्गमगधा धान्या भल्लातकगुडं तिलकुष्ठयुक्तम् संसिच्य पयसातिकल्को निहन्ति पाने गुदजांश्च रोगान् ३० नागरपिप्पलीबिल्वविडङ्गं दन्ती च शठ्यभया त्रिवृता च कल्कमिदं सगुडं प्रतिपाने वार्शसि नाशनकारि नराणाम् ३१ पत्रककेसरशुण्ठीसमैलातुम्बुरुधान्यविडङ्गतिलानाम् क्वाथो हरीतकीसर्पिर्गुडेन पीतो निहन्ति गुदे गदजानि ३२ पिप्पलिकामभयां गुडयुक्तां प्रातर्भवे नरो भक्षति चैताम् तस्य गुदकीलकमाशु हन्ति सकामलपाण्डुजरोगवर्गान् ३३ सुस्विन्नवार्ताकफलस्य तोयं दध्ना सिताह्वा सलिलामृतेन पाने विधेयं गुदकीलकानां क्रिमीन्निहन्यात्क्रिमिजांश्च रोगान् ३४ भल्लातकाः कृष्णतिलाश्च पथ्या चूर्णं गुडेनापि नरस्य सेव्यम् हन्याच्च पाने गुदकीलमेहशूलार्शकासान् विनिहन्ति तस्य ३५ सूरणकन्दकमर्कदलैस्तु वेष्टितमेव हि कर्दमलिप्तम् तप्तमनलवर्णकसमानं तत्पयःसैन्धवतैलविमिश्रम् ३६ भक्षति चार्शविनाशहेतोर्वातविकारहितोऽपि नरस्य ३७ चित्रकपुष्करमूलशठीनां तेषु समांशास्तिला विनियोज्याः सूरणकन्दकखण्डसमेतं तेषु समोऽग्निकफलानि दध्यात् ३८ सैन्धवं तस्य चतुर्गुणकञ्च भावितमर्कदलेन समस्तम् तञ्च घृतस्य घटे विनिधाय अरण्यगोमयवह्निविपक्वम् ३९ क्षीरमिदं लवणघृतपक्वं तक्रयुतं प्रतिपानमतोऽपि नाशयति गुदकीलककीलान्हन्ति विषूचिभगन्दरानपि ४० कामलपाण्डवानाहविबन्धान्गुल्ममरोचकनाशनकारी मूत्रगदगलकण्डुक्रिमीणां नाशनभद्रकसैन्धवो नाम ४१ त्रिकटुकमगधानां मूलचित्रं त्रिगन्धं समतुलितममीषां तुल्यभल्लातकानि समलमिह समन्तादेकतः सम्प्रचूर्ण्यं द्विगुणतुलितमात्रं योजनीयोगुडस्तु ४२ सकलमपि विकुट्य स्निग्धभाण्डे निधाय प्रतिदिनमपि सेव्यं चाक्षमात्रं सुधीरैः । गुदजजठररोगं शूलगुल्मान्क्रिमींस्तु जनयति वडवाग्निं हन्ति पाण्डुं क्षयं वा ४३ नागरं त्रिफलां चैव पलांस्त्रींश्च प्रयोजयेत् चतुष्पलानि मरिचानां पिप्पलीनां पलद्वयम् ४४ पलमेकं तु चव्यस्य योज्यं तत्र भिषग्वरैः तालीसार्द्धं पलं देयं पलार्द्धं पद्मकस्य च ४५ जीरकस्य समं मात्रा समेन तुलितो गुडः सुपक्वा सुघना श्यामा पिप्पलीनां शतत्रयम् ४६ उलूखले क्षोदयित्वा स्निग्धभाण्डेन धारयेत् ४७ अक्षप्रमाणा गुटिका नराणां प्रातः प्रदेया सकलामयघ्नी निहन्ति चार्शांसि च पाण्डुरोगं हलीमकं कामलकं भ्रमं वा ४८ गुल्मातिसारं च सरक्तपित्तं क्षयं क्षतं चाक्षयमस्य यक्ष्मा जीर्णज्वरारोचकपीनसानां हितो भवेत्प्राणदमोदकोऽयम् ४९ जाजीपिप्पलिमूलकोलमगधापथ्याग्निकं नागराः सूक्ष्मैला च पलद्वयेऽपि क्रमशः कृत्वा पलैः सैन्धवम् । भल्लातक्यफलानि पञ्चशतकं तेन समस्तेन गु द्वैगुण्येपि पुराणसूरणस्ततः सर्वस्य तुल्यो गुडः ५० क्षोदित्वा वटकाक्षमात्रमुपरि जातो विशेषो गुणः कुर्वत्यर्शनिवारणं क्षयमपि पुष्टं तथा सुप्रभम् । मन्दाग्निर्वडवासमो भ्रमहरो हृद्रोगपाण्ड्वामयं शूलानाहभगन्दरो भयहरो दुष्टार्त्तिनिर्वासनः ५१ कृतोऽप्यर्थे विकारोऽपि ऋषिणा योगयुक्तिना काङ्कायनेन मतिमान् तेन सौख्यमभीप्सति ५२ लवणोत्तमं वह्निकलिङ्गवचा चिरबिल्वमहत्पिचुमन्दयुतम् पिब सप्तदिनं समस्तु लुलितं यहदि मर्दितुमिच्छसि पायुरुजाम् ५३ विश्वोपकुल्यामरिचानि केसरं पत्रं लवङ्गैलकवृद्धिमाह्वयाः चूर्ण हितञ्च शर्करयुक्तमेतद्गुदामयानामुदरार्त्तिशान्तये ५४ सनागरं पुष्करवृद्धदारुकं गुडो नवो मोदकमम्बुदारुकम् अर्शेषु दुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् ५५ त्रिकटुकमभयानां पुष्करं चित्रकाणां कृमिरिपुतिलचूर्णं कारयेत्संगुडेन उषसि वटकमेकं भक्षयेद्यो मनुष्यो विनिहितगुदरोगश्चाग्निवृद्धिं करोति ५६ मरिचं नागरचित्रं सूरणभागोत्तरेण संकुट्य सर्वसमो गुडयुक्तो मोदको बिल्वप्रमाणं सेवेत् विनिहितपित्तविकारं क्षयति मनुजानां करोति तनुपुष्टिम् ५७ त्रिसमगतसूरणकन्दो लोहितवर्णेन यो भवेन्मतिमान् षट्खण्डीकृतवानपि संशुष्कान्षोडशान्भागान् ५८ त्स्यार्द्धेन तुलितश्चित्रकशुण्ट्यौ च तत्र संयोज्या मरिचस्य चैकभागो गुडेन बद्धस्तु मोदको मनुजैः ५९ भक्षित एव हि गुणवान्निहन्ति सकलान्गुदामयान् त्वरितमग्नेर्दीपनमुक्तं गुल्मानां जठररुजाम् ६० त्रिफलमगधजानां मूलतालीसपत्रं क्रिमिरिपुमगधानां पुष्करं चेत्समांशः मरिचदहनभागश्चैकभागेन शुण्ठी सकलतुलिततुल्यः सूरणस्यैकभागः ६१ मदनचपलयुक्तं वृद्धदारैलभृङ्गं कृतमिह परिचूर्णं द्विगुणो शीर्णखण्डः कृतवटकमुखस्तु प्राश्नुते यो मनुष्यो हरति जठररोगं तस्य चाशु प्रकर्षम् ६२ गुदजरुधिरपित्तं कासमन्दाग्निशूलान् क्षयतमकहलीमान् कामलांश्च क्रिमींश्च विदधति बलपुष्टिं दापयेच्चाशु मार्गे प्रबलयति हुताशं योगराजः प्रसिद्धः ६३ योगराजेन युञ्जीत स्मरणेनाप्यगस्त्यतः अस्य योगस्य योगेन भीमोऽपि बहुभक्षकः ६४ चव्यं पाठा त्रिकटु मगधा मूलकस्तुम्बुरूणां बिल्वाजाजीरजनिसुरसा पथ्यया सैन्धवं च । पिष्ट्वा चैतत्समगविघृतं पाचयेत्सुप्रयुक्तं पानाभ्यङ्गे हरति गुदजान्वातरोगाश्मरीं च ६५ श्यामा कुष्ठं मधुकमदनं पुष्पकं चित्रकञ्च बिल्वं दारु प्रतिविषशताह्वाकलिङ्गाशठीनाम् । पिष्ट्वा तैलं द्विगुणपयसा पाचितं चानुवासे चाभ्यङ्गे वा हितमपि गुदव्याधिनिर्णाशहेतोः ६६ वातव्याधिश्रवणरुधिरे कर्णशूलेऽश्मरीणां जङ्घापृष्ठे कटिशिरःशिरावेक्षणे वाततोदे । विष्ठाबन्धग्रहनिग्रहनिःसारके मूढगर्भे श्रेष्ठं तैलं सकलनिचयव्याधिसंधारणेन ६७ मुस्ता विश्वविडङ्गचव्यकशठी पथ्या च तेजोवती दन्तीन्द्रात्रिवृता समांशकपली मात्रा च प्रत्येकशः । तस्माच्चाष्टपलान् पुरुष्करमपि षड्वृद्धदारोपलान् युञ्ज्यात्षोडशसूरणाख्यसलिल द्रोणेऽखिलं फल्कितम् ६८ भूतं भूयः पचेद्गुडत्रिगुणितं युञ्ज्याद्भवेद्वादिनमुद्धृत्य पुनरेव चित्रकत्रिवृत्तेजोवती सूरणम् । एलापत्रकनागकेशरलवङ्गानां समं चूर्णितमेषां षोडशभागयोग्यविहितं सर्वञ्च तं चैकतः ६९ स्थाप्यं स्निग्धघटे प्रभातसमये भक्षेदक्षमात्रं वटं जीर्णे क्षीरमपि प्रभूतमतिमान् पाने तथा भोजने । अर्शोगुल्मभगन्दरान् ग्रहणीपाण्डुरोगं च कामलां शूलञ्चाथ विबन्धकासक्षतजराजयक्ष्मान्निहन्ति ७० भल्लातकानां द्विसहस्रकाणां द्रोणे जले पाच्यपदावशेषम् क्वाथे तु तस्मिन् विपचेद्गुडस्य तुलाप्रमाणं पुनरेव तत्र ७१ भल्लातकानां शतपञ्चकानि तत्रैव संयोज्य पलत्रिकं वा । व्योषं जवानीघनसैन्धवानामेलालवङ्गं दलनागकेशरम् । प्रत्येककर्षं तुलितं नियोज्यम् ७२ संकुट्य तैले घृतभाजने वा स्थाप्यं प्रभाते वटकप्रमाणम् भक्षेद्गुडं स तु निहन्ति रोगान्भगन्दरार्शःक्रिमियक्ष्मपाण्डून् ७३ गुल्माश्मरी मेहहलीमकं वा सरक्तपित्तं ग्रहणीं निहन्ति करोति पुष्टिं बलमातनोतिवर्णप्रकर्षं सुखमादधाति ७४ दशमूलकगुडूचिसठीक्षुरकं सहचित्रकभार्ङ्गीफलासहितम् भल्लातकपञ्चशतं प्रदिशेद्विपचेज्जलद्रोणमितेन च तत् ७५ गुडजीर्णशतं प्रददेत्क्वथितमवतार्य सुशीतलमेलसमम् दलकेसरभृङ्गलवङ्गयुतं कृतचूर्णमिदं सकलैकमिति ७६ घृतभावितमेकदिनं विदधीद्धृतभाजनके दिनसप्तमिदम् स्निग्धघटे विदधीत मनुष्यो दत्तमिदं गुदजामयसङ्घे ७७ मोदकमेकमुषस्सु ग्रसेद्विनिहन्ति गुदामयमेहरुजः हन्ति कासहलीमककामलकं हितमेव हुताशनदीप्तिकरम् ७८ यस्तु शीतजले क्षिप्तो जलेनैव विलीयते लोहितो लोहितां याति चैकपाको गुडस्य च ७९ ग्रन्थिकं चित्रकं मुस्तं चविकं त्रिफलामृता सहदेवी गजकर्णापामार्गश्च कुठेरकम् ८० प्रत्येकं चतुष्पालिकं कल्के द्रोणाम्भसा सुधीः द्वे सहस्रे समे पिष्टं भल्लातक्याः फलाति तु ८१ पादावशेषे कल्के च लोहचूर्णं तुलार्द्धकम् क्षिपेत्कुडद्वयं सर्पिः सर्वं चैकत्र घट्टयेत् ८२ फलत्रिकं तथा व्योषं चित्रकं लवणाष्टकम् विडङ्गानि समांशानि सर्वाणि पलमात्रया ८३ चतुष्पलं वृद्धदारोर्मूर्वाख्या तु चतुष्पला संशुष्कसूरणं कन्दं चूर्णं चाष्टपलोन्मितम् ८४ संक्षिप्य स्वादयेच्चूर्णमवतार्य सुशीतले स्थापितं मधु संयोज्यं कुडवद्वयमात्रया ८५ देयं गुदामये चादौ कल्कमप्रातराशने अर्शांसि ग्रहणीरोगं कामलाराजयक्ष्मणः ८६ गुल्मक्रिमीनश्मरीं च मन्दाग्निमेहशोणितम् नाशयत्याशु यक्ष्माणं करोति बलमाकृतेः ८७ आशु वृद्धिं प्रकुरुते वलीपलितनाशनम् रसायनस्य योगेन नरो नागबलो भवेत् ८८ रक्तार्शसामुपचारं वक्ष्यामि वृणु पुत्रक प्रातस्तिलान्भक्षयेच्च नवनीतविमिश्रितान् ८९ सितानागरकयुक्तं नवनीतं सशर्करम् केशरं मातुलुङ्गस्य विडङ्गशर्करायुतम् ९० भक्षेत्कूष्माण्डकालेहं नवनीतेन शर्कराम् एतेन रक्तगुदजाञ्छमयन्ति विचक्षणाः ९१ समङ्गाशाल्मलीपुष्पं चन्दनं ककुभत्वचम् नीलोत्पलमजाक्षीरं पिष्ट्वा पानमसृग्गदान् ९२ कुटजमूलसकेसरमुत्पलं खदिरधातुकिमूलशृतं पयः पिबति म्रक्षणयोगमसृग्भवं गुदजनाशनकारिविकारणम् ९३ कुक्कुटस्य पुरीषञ्च तथा पारावतस्य च ग्रहधूमं च सिद्धार्थं धत्तूरकदलानि च काञ्जिकेन च संपिष्य वर्त्तिं सञ्चारयेद्गुदे ९४ सूरणं कन्दकवर्त्तिर्विधेया मल्लीरसेन घृतेन च लिप्त्वा रोगगुदे गुदकीलकमाशु नाशयते गुदजांश्च क्रिमींश्च ९५ हरिद्रा मार्कवं कुष्ठं गृहधूमं सुवर्चलम् सिद्धार्थकरसश्चैव काञ्जिकेन च पिष्यते ९६ मधुना सह वर्त्तिः स्याद्गुदे सञ्चारिता यदि अर्शसां नाशनं चैव करोति सहसा नृणाम् ९७ देवदालीपलसम्मितञ्च हुतभुग्य्योषै रसानां गणान्षड्ग्रन्थापिचुमन्दवारिककणाभार्ङ्गीशिलातैलकम् । पिष्ट्वा श्लक्ष्णसमस्तकाञ्जिकयुतं दत्वा शिलालेपनं दुर्नामानि हन्ति तथैव गुदजान्सर्वातिसारामयान् ९८ युन्त्रं शस्त्राग्निकार्यञ्च कथितं तत्तु शल्यके यथा यन्त्रेण छिद्यन्ते दाहस्तत्र विधेयकः ९९ चर्मकीलं तथा छित्त्वा दग्धं क्षारेण धीमता पक्वजम्बूसमो वर्णो क्षारदग्धे प्रशस्यते १०० दग्धं वा सूरणक्षारं कदलीजीवमुद्गकैः पलाशकोकिलाक्षारमपामार्गघृतान्वितम् १०१ क्षारदाहे प्रशस्येत नवनीतघृतेन वा कुष्ठं पथ्या तथा निम्बपत्राणि च मनःशिला १०२ तस्मान्मधुघृतमिश्रं निर्धूमाङ्गारके क्षिपेत् धूपयेद्गुदजान्तेन यथा सम्पद्यते सुखम् १०३ मनःशिलानागरकं सगुग्गुलं ससार्षपम् देवदारु सपौष्करं विशल्यासर्जिकारसम् १०४ घृतेन धूपयेद्गुदजं गुदामयं भगन्दरम् निहन्ति दुष्टपीनसं व्रणं सपूयगन्धिकम् १०५ निर्गुण्डीदलपत्रहरितालं तथा सार्षपचूर्णकं देवाह्वं घृतशर्करामधुयुतं धूपं गुदजादिके । दुर्नामे सरुजे व्रणे च विषमे दुष्टे विसर्पेषु च पामापीनसकासनाशनकरो धूपो ग्रहोच्छेदनः १०६ एवं क्रियाविधिः प्रोक्तश्चातः पथ्यानि मे शृणु शालिषष्टिकमुद्गाश्चकुलत्थाढक्यवास्तुकम् १०७ चिल्ली च शतपुष्पा च कूष्माण्डकपटोलकम् कारवेल्लं च तुण्डीरं सूरणो राजिकार्जकम् १०८ गुडस्तक्रं घृतं चैतत्प्रशस्यन्तेऽर्शसां सदा सूकरः शल्लकी गोधा मूषको वा सरीसृपः १०९ लावतित्तिरवार्त्ताकमांसानि कथितानि च ११० वल्लूरमत्स्यदधि पिच्छलतैलबिल्ववार्त्ताकभोजनमतिप्रतिवर्जनीयम् निप्राकृति निशि दिवा शयनञ्च शीतं शीतान्तमेव परिवर्जितमादरेण १११ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अर्शश्चिकित्सा नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः आत्रेय उवाच अथ वक्ष्यामि कासानां निदानं सचिकित्सितम् कासांश्चाष्टविधांश्चैव शृणु पुत्र महामते १ हास्यात्प्रहास्यरजसानिलसन्निरोधाद्विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात्क्षवथोस्तथैव सञ्जायतेऽपि मनुजां प्रतिधाम कासः २ संसेवनान्मधुरपिच्छलजागरेण स्वप्नैर्दिवातिदधिगौल्यहिमाशनेन सञ्जायते मदनतैलमथाल्पकन्दो मद्येन वा भावि जनुः कफस्य ३ उदान ऊर्ध्वगतिवैपरीत्यात्कफेन प्राणानुगतेन दीर्घः ह्रदं निरेत्य कफकासकण्ठे करोति तेनापि च कास संज्ञाम् ४ कासाश्चाष्टौ समुद्दिष्टाः क्षतजाऽन्यः प्रकीर्त्तितः वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ५ वातपित्तसमुद्भूतः श्लेष्मपित्तसमुद्भवः सप्तमो लोहितेनात्र चाष्टमो जायते क्षयात् ६ न वातेन विनाश्वासः कासो न श्लेष्मणा विना न रक्तेन विना पिक्षं न पित्तरहितः क्षयः ७ कथितः सम्भवश्वासश्चातो वक्ष्यामि लक्षणम् येन संलक्ष्यते नॄणां कासश्चाष्टविधः परः ८ क्षीणेन्द्रियः पार्श्वरुजोऽतिवेगः शूलावृतो वा गलके च बद्धः निद्राकृतिर्भिन्नरवो मनुष्यो वातेन कासस्य भवेत्प्रकाशः ९ कण्ठे विदाहो ज्वरशोषमूर्च्छातृष्णाभ्रमः पित्तभवे च कासे आस्ये कटुत्वं च शिरोऽर्त्तिपित्तं निष्ठीवते पीतनखानि नेत्रे १० जाड्यं वमिः पाण्डुभवं च कासं निष्ठीवते यः सघनं कफं वा भक्तारुचिर्वा कफपूर्ण देहे घनः स्वरः श्लेष्मभवे च कासे ११ कण्डूदाहश्वासच्छर्दिशोषारोचकपीडिताः शिरोऽर्त्तिशोफहृल्लासः कासे त्रिदोषसम्भवे १२ कासः कण्डूः पिपासा च कुक्षि शूलो विनिद्रता शुष्ककासः पिपासा च वातपित्तोद्भवः कफः १३ धूमगन्धः पीतवर्णोऽक्षिप्रपाकी सरक्तकः रक्तनेत्रेः पिपासाद्यः पित्तश्लेष्मान्वितः कफः १४ व्यवायातिप्रसङ्गेन वेगरुद्धाभिघातकः भारोद्धरणयातेन जायते क्षतजः कफः १५ तेन हृदि व्यथा रूक्षं कासते च सशोणितम् श्वासः संक्षीयते गात्रं दीनो मन्दज्वरातुरः १६ वेपते पर्वभेदश्च मोहभ्रमनिपीडितः एवं क्षतजनिर्दिष्टो नृणां प्राणापहारकः १७ अल्पायासात्क्षतात्क्षीणात्सम्पातात्क्षणभोजनात् पातनाघातयोगेन जायते रक्तजः कफः १८ विस्रगन्धास्य हृच्छूलदीनो वै विकलेन्द्रियः रक्तनिष्ठीवनोपेत श्वासो वापि मदातुरः १९ क्षीयते सततं गात्रं मोहस्तृष्णा च जायते इत्येतैर्लक्षणैर्युक्तं रक्तकासं विनिर्दिशेत् २० अथ क्षयानुमानेन लक्ष्यते कासलक्षणम् पाण्डुरोगे तथा यक्ष्मे गुल्मे वापि क्षतक्षये २१ शोफार्शसां प्रतिश्याये चावश्यं काससम्भवः एतेषां चानुमानेन कासं संलक्षयेद्भृशम् २२ स्थविराणां रक्तकासः सोऽपि याप्यः प्रकीर्त्तितः बालानां जायते कासो धात्रीवैकल्ययोगतः २३ एते कासाः समुद्दिष्टा दशभिर्भिषगुत्तमैः तेषां क्रियाप्रतीकारः पथ्यभेषजमेव च २४ शतमूलिकाक्वथितः कषायः पीतः कणाचूर्णयुतः सुखोष्णः नृणां निहन्यान्मरुतोद्भवं तु कासं सशूलं च विपाचनं स्यात् २५ भार्ङ्गी शठीगोस्तनीशृङ्गवेरशृंङ्गीकणाचूर्णयुतोऽवलेहः गुडेन तैलेन हितो नराणां मरुद्भवकासविकारनाशनः २६ विश्वा दुःस्पर्शशृङ्गी शठी पुष्करं दारु भार्ङ्गी कणा मुस्तं रास्नायुतम् शर्करायुक्तमनुदिनञ्च चूर्णं कासं निःश्वासवातोद्भवं हन्ति वै २७ कट्फलं कटुतृणं भार्ङ्गी मुस्ता वचा धान्यकम् पर्पटं देवदारु स्तथादार्वी विश्वायुतकर्कटम् २८ कल्कयेत्पानमेतन्मधुसंयुतं मानवम् कासिनां कासप्रतीकारकासीत्तथा श्लेष्मसम्भूताय २९ क्षयं पीनसं कण्ठग्रहं शोषवातात्मकम् कफं नाशयत्याशुहिक्काज्वरं श्लेष्मकम् ३० द्राक्षामलक्याः फलपिप्पलीनां कोलं सखर्जूरयुतोऽवलेहः रक्तपित्तकासक्षयनाशकारी सकामलं पाण्डु हलीमकञ्च ३१ वालाबृहत्यौ मधुकं वृषं च तथैव कुष्ठं पिचुमन्दकञ्च गवास्तनीसंयुतकल्कमेतत्पानं हितं पित्तकफात्मके च ३२ मुस्ताटरूषकफलत्रिकदारुभार्ङ्गी व्याघ्रीसपुष्पफलमूलदलैरुपेता रास्नाविषा च मधुरसालानि चूर्णं निहन्ति क्वथितेन जलेन कासम् ३३ बद्धाथवा च गुटिका मधुना गुडेन सिन्धूद्भवेन मगधासमहौषधेन आस्ये धृता निशि विशालगुणा भवन्ति श्वासं क्षयं क्षतजकासमिदं निहन्ति ३४ शर्करा चैव खर्जूरं द्राक्षा लाजा कणा मधु सर्पिर्युतो हितो लेहः पित्तकासनिवारणः ३५ आटरूषकपत्राणि पिचुमन्ददलानि च तुलसीस्वरसञ्चैव शठी शृङ्गी मरीचकम् ३६ शुण्ठीचूर्णं गुडे युक्तं लिह्यात्कासे कफात्मके भार्ङ्ग्याश्च नागपिप्पल्याः पिबेत्क्वाथं सुखोष्णकम् ३७ आर्द्रकस्य रसं नीत्वा मधुना च पिबेत्सुधीः कासे श्वासे प्रतिश्याये ज्वरे श्लेष्मसमुद्भवे ३८ कट्फलं भूतृणं भार्ङ्गी शुण्ठी पर्पटकं वचा सुराह्वं च जलशृतमुक्तञ्च पण्डितैस्तथा ३९ मधुना संयुतं पानं कासे वातकफात्मके श्वासे हिक्काज्वरे शोषे महाकासे च दारुणे ४० तालीसपत्रं मरिचञ्च विश्वाश्यामायुतं चोत्तरभागवृद्ध्या त्वक् पत्रकेणापि लवङ्गमेलां पिप्पल्याचाष्टौ गुणितां सिताञ्च ४१ लिह्यात्प्रभाते श्वसने च कासे प्लीहारुचौ पीनसच्छर्दिहिक्काम् शोफातिसारं ग्रहणीं च पाण्डुं क्षयं निहन्यात्क्षतजञ्च यक्ष्मम् ४२ तालीसं त्रिफलाप्रियंगुमगधाभूलञ्च मुस्ता शठी दार्व्यलादलनागकेसरलवङ्गानां तथा नागराः । कृष्णाकोलकबालकं सचविला मूर्वा विषा कर्कटं द्राक्षा कुष्ठनिशाग्निवत्सकवृषं गोकण्टतिक्ता तथा ४३ वृक्षाम्लं च सदाडिमाम्लकरसं पक्वबदराणि च एतेषां समभागचूर्णविहितं योज्या समा शर्करा । योज्यं चार्द्धपलं निहन्ति क्षतजं कासं तथा श्वासकं पाण्डूकामलमेदशोषगुदजे शस्तं सदा यक्ष्मिणाम् ४४ क्षयकासे मधुयष्टिकया त्रिदोषजाः आमजे शूलरोगार्त्तिः पर्वभेदी भ्रमः क्लमः शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति ४५ खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः सापि स्निग्धा च रूक्षा च द्विविधा जायते वमिः ४६ गम्भीरनेत्रो वमते विड्बन्धो वाति सार्यते गात्रे खल्लीकरं शूलं तथा शोथातिमूर्च्छना ४७ विकलाङ्गो भ्रमार्त्तञ्च भ्रमन्तं पश्यते जगत् शिरोऽर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ ४८ एतैर्लिङ्गैस्तु संयुक्तां छर्दिं दूरे परित्यजेत् असाध्या सर्वयोगैस्तु साप्यजीर्णा सुधीमता ४९ सपञ्चमूलीक्वथितः कषायः ससैन्धवं चामलकञ्च कल्कः क्वाथं पिबेन्मिश्रितपिप्पलीकं सवातच्छर्दिविनिवारणं च ५० दद्यात्क्षीरं शर्करया नरस्य पित्तोद्भूतां वातिशीघ्रं निहन्ति द्राक्षा वापि क्षीरदार्व्या विचूर्णं लेहो हन्ति सारघाणां पिबन्ति ५१ फलत्रिकं पुष्करकं वचां च तथाभयासैन्धवकं गुडेन चूर्णं विलिह्यात्कफवान्ति हन्ति नरस्य मूत्रेण युतस्य पानम् ५२ शठी दार्व्याभया शुण्ठी मागधी घृतसंयुता चूर्णं तक्रेण संयुक्तं हन्ति छर्दि त्रिदोषजाम् ५३ रक्तशाल्युद्भवा लाजा मधुशर्करयान्विता ज्वरार्त्तिं युवतेः शीघ्रं नाशयन्त्येव मे मतम् ५४ आमलक्या रसेनाथ घृष्टं चन्दनकं मधु गुटिका पलमानेन लेहो हन्ति वमिं ध्रुवम् ५५ आर्द्रदाडिमनिर्यासश्चाजाजी शर्करान्विता सतैलमाक्षिकं वापि चत्वारः कवलग्रहाः ५६ चतुररोचकान्हन्ति वाताद्यान्द्वन्द्वजांस्त्रिः ५७ त्रिकटुकरजनीद्वयं च फलत्रिकं मध्वा च यावशूकञ्च समकृतमिति चूर्णमेतन्मधुना युतं वमिं निवारयति ५८ सगुडं दाडिमं द्राक्षा पथ्या वा नागरगुडयुक्ता त्रिवृता नागरमथवा गुडेन युक्तं वमिं दधति ५९ पर्पटं सगुडं क्वाथं शीतलं पाययेन्नृणाम् हन्ति वमिं महाघोरां सपित्तां भ्रमसंयुताम् ६० काकोली काकमाची च क्वाथं शर्करया युतम् लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम् ६१ मातुलुङ्गरसश्चैव पथ्या शर्करया युतः हन्ति कांसं पित्तभवं वमिं शीघ्रं नियच्छति ६२ दृष्ट्वा पित्तवमिं घोरां सदाहभ्रम दायिनीम् तस्यारग्वधपत्राणि मधुशर्करयान्वितम् ६३ क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ६४ जम्ब्वाम्रकप्रवालानि दाडिमामलकं तथा मस्तुनोपोषितं पानं हन्याच्छ्लेष्मवमिं नृणाम् ६५ सर्जार्जुनधवकदम्बकलोलचूर्णं शुण्ठीधान्याकसहितं सगुडं प्रदद्यात् श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसां शठीकणामधुविडङ्गयुतोऽपि लेहः ६६ एलालवङ्गगजकेसरकोलसर्जालाजाप्रियंगुघनचन्दनपिप्पलीनाम् चूर्णानि मार्कवसितासहितानि लीढ्वा छर्दिं निहन्ति कफ मारुतपित्तजाञ्च ६७ एलादलानि गजकेसरकत्वगेलालामज्जकं च दहनं च घनं प्रियंगुम् सचन्दनं मगधजासमचर्णितञ्च लीढ्वा सितासमत्रिदोषवमिं जघान ६८ ऊर्ध्वभागगते दोषे विरेचनं प्रशस्यते तस्मिञ्जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम् ६९ अथवा द्विभागगते तदा देया भया मधु क्रिमिजं वमनं ज्ञात्वा क्रिमीणां शमनक्रिया ७० न चोष्णं नातिचाम्लं च न तीक्ष्णं न तथा लघु तन्दुलीयकशाकं वा न मद्यं काञ्जिकं न तु ७१ वमिदोषे च कथितं पथ्यं चात्र शृणुष्व मे अनूपं शालिभक्तं च शतपुष्पा च वास्तुकम् ७२ आढकी मुद्गयूषञ्च दधि गुडघृतान्वितम् अङ्गारमण्डका चाथ वमौ पथ्यं प्रशस्यते ७३ यथाबलं यथाकालं यथारोगं यथानलम् तथा दृष्ट्वा प्रकुर्वन्ति पथ्यानां समुपक्रमम् ७४ दिवा निद्रां प्रयुञ्जीयाद्वमौ श्वासेऽतिसारके हिक्काशोषे तथाजीर्णे वमिक्लेदेऽथवा पुनः ७५ न चोष्णतोयपानञ्च नातिभोजनमेव च न धावनं न कर्त्तव्यं वर्जयेद्वमनार्दिते ७६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने छर्दिचिकित्सा नाम द्वादशोऽध्यायः १२
त्रयोदशोऽध्यायः आत्रेय उवाच भयश्रमाद्बलहीनाद्विदलरूक्षसेवनात् आतपे वा ज्वरे जीर्णे क्षयाच्च क्षतजात्तथा १ एतैः सङ्कुपिता दोषा वातपित्तकफास्त्रयः चतुर्थीक्षतजा प्रोक्ता पञ्चमी क्षयजा स्मृता २ अजीर्णात्षष्ठी सम्प्रोक्ता सप्तमी रूक्षसेवनात् अष्टमी स्याज्ज्वरोत्पन्ना लक्षणानि शृणुष्व मे ३ क्षामः श्यावास्यता चाथ वैरस्यं वेपथुस्तथा वातेन सा भवेत्तृष्णा विज्ञेया भिषजां वरैः ४ शीततोयाभिलाषश्च भ्रमदाहप्रलापतः मूर्च्छा च लोहिते नेत्रे तृष्णा पित्तोद्भवा मता ५ निद्रा श्यावास्यतालस्यं बलासोष्णाभिलाषता घन श्यावाङ्गशैत्यं च श्लेष्मणो जायते तृषा ६ दृक्शूलं वमते दाहो भ्रमो वा शिरसो व्यथा वेपथुश्चाङ्गशैत्यञ्च त्रिदोषप्रभवा तृषा ७ वक्त्रशोषो भवेज्जृम्भा शिरोऽर्त्तिर्गुरुतोदरे अजीर्णेनाथ मनुजे तृष्णा संलक्ष्यते गदः ८ रसक्षये यदा तृष्णा तथाक्षमक्षुधातुरः ग्लानिः शोषो भ्रमः श्वासो दैन्यमाशु प्रवर्त्तते ९ क्षतक्षयेषु या तृष्णा तस्यां नान्नाभिनन्दनम् अन्या ज्वरातुरे प्रोक्ता तृष्णा सा ज्वरवेगजा १० अन्यातिसारे शूले वा तृष्णा ज्ञेया भिषग्वरैः ११ तृष्णातिसारवमनदाहमूर्च्छाभ्रमशोषोद्भवा तोयेन न यति तृप्तिमसाध्यां तां विजानीहि १२ तृष्णां वातोद्भवां दृष्ट्वा शस्यते सगुडं दधि सगुडं वामृताक्वाथं पीतं वाततृषापहम् १३ शुण्ठी चाजाज्या सह शृङ्गवेरं जलेन सौवर्चलयुक्तकल्कः पिबेत्कषायं च सुशीतलं वा वातोद्भवां चाशु निहन्ति तृष्णाम् १४ काश्मर्यं पद्मकोशीरं द्राक्षा मधुकचन्दनम् वालकं शर्करायुक्तं क्वाथं पित्ततृषापहम् १५ वटद्रुमो रोध्रसिता च चन्दनं सदाडिमं तण्डुलधावनेन पिष्टञ्च शीतेन जलेन वापि पीतं च पित्तोत्थतृषापहञ्च १६ कुष्ठमुत्पललाजां च न्यग्रोधस्य प्ररोहवान् संचूर्ण्य शर्करायुक्ता गुटिका तृष्णावारणी १७ द्राक्षोत्पलं सयष्टीकं शस्तं चेक्षुरससेवनात् पीतं पित्तोद्भवां तृष्णां हन्ति दाहञ्च पित्तजम् १८ आकण्ठं शर्करायुक्तं क्षीरं तथा पिबेन्नरः वमनञ्च तदा कुर्याद्धन्ति तृष्णां सपैत्तिकीम् १९ लोष्टप्रतप्ततोयञ्च निर्याप्य शीतलं कृतम् पिबेत्तृष्णाविनाशाय जलं वा चन्दनान्वितम् २० जम्ब्वाम्रकप्रवालानि तथा लाजा च चन्दनम् धातकीकुसुमानि स्युः पिष्टवासारसंयुतः २१ श्लेष्मतृष्णापहो लेहो दाहमूर्च्छाभ्रमापहः पिबेच्चाढकीयूषञ्च लाजाशर्करयान्वितम् २२ क्षीरपानं समरिचं जलं वा मरिचान्वितम् श्लेष्मतृष्णाविनाशाय पिबेद्वा कोलकं पयः २३ दुरालभा पर्पटकं प्रियंगु लोध्रद्रुमं त्र्यूषणकं सकुष्ठम् क्वाथः सुशीतो मधुशर्करायास्तृष्णां त्रिदोषप्रभवां निहन्ति २४ कालदाडिमवृक्षाम्लाः सारिवा समशर्करा पथ्या दाडिमचूर्णं वा मातुलुङ्गरसान्वितम् २५ काष्ठपात्रे शृतं सम्यक्छीतलं सलिलं तथा मर्दितं बहुवेलां तु तत्पानीयं च पाययेत् २६ तालुशोषे घृतं तच्च दापयेच्च भिषग्वरः तृष्णादाहभ्रमच्छर्दिशोषमूर्च्छां व्यपोहति २७ क्षतजां क्षयजां तृष्णां वारयत्याशु निश्चितम् २८ दाडिमं कोलचुक्रीका वृक्षाम्लं चाम्लवेतसम् रसं चैव तथा पथ्यायुक्तं तालुप्रलेपनम् २९ वारयत्याशु शोषं च तृष्णां हन्ति च सज्वराम् केसरं मातुलुङ्गस्य पिष्टं तण्डुलवारिणा ३० प्रतप्तमधुना तालुलेपो मुखशोषापहः मधुशर्करया तालुलेपो शोषनिवारणः ३१ पद्मकन्दशृतालेपः शीतः शीतलवारिणा तालुशोषं निहन्त्याशु जम्ब्वाम्रपल्लवानि च ३२ निम्बान् वा मातुलुङ्गान् वा सौवीरं नागराणि च तृषार्त्तः पुरतो भक्षेन्न देयं तस्य धीमता ३३ दर्शनात्तस्य चास्ये च लाला प्रस्रवते भृशम् तेनास्य शोषं हरति तृष्णामपि नियच्छति ३४ रक्तशाल्योदनं शस्तं दधिशर्करयान्वितम् भोजनञ्च प्रशस्तं च न क्षारं कटुकं पुनः ३५ शोषे च छर्दितृष्णायां श्रमे पानात्ययेऽपि च अतीसारे च शोषे च दिवा निद्रा सुखावहा ३६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने तृष्णातालुशोषचिकित्सा नाम त्रयोदशोऽध्यायः १३
चतुर्दशोऽध्यायः आत्रेय उवाच वेगाभिघातातिनिरोधकेन क्षीणक्षताच्च तृषितेन वापि विरुद्धयुक्तान्नविभक्षणेन दोषः प्रदुष्टः प्रकरोति मूर्च्छाम् १ पञ्चेन्द्रियाणां संलग्नाः प्रत्येके द्वादशादयः पञ्चेन्द्रियाणां सहिता नाडिकाः षष्टिसंख्यया २ रुन्धन्ति नाडिकाद्वारं तेन चेतो विमूर्च्छति संज्ञानाशाद्भवेच्छीघ्रं निश्चेताश्च सदा नरः ३ पतति काष्ठवतूर्णं मोहमूर्च्छा निगद्यते सा षड्विधा समुद्दिष्टा वातपित्तकफात्तथा ४ शोणितादभिघातेन मद्येनाथ विषेण वा एतेषां कोपयेत्पित्तं मरुद्रक्तं समीतितम् ५ संख्यादौर्बल्यकं तेन मूर्च्छा मोहः प्रकथ्यते कथयामि समासेन लक्षणानि पृथक्पृथक् ६ नीलं कृष्णाऋणं पश्येत्तमः प्रविशति क्षणात् कम्पो मार्दवमेतासां क्षणेन प्रतिबुध्यति ७ वातेन मूर्च्छा भवति कृशता विकृतास्यता नेत्रप्लावश्च मृष्टिश्च आध्मानञ्च भवेत्क्षणम् ८ पीतञ्च नीलहरितं तमः प्रविशते भृशम् सन्तापश्च पिपासा च रक्ते पीते च लोचने ९ सस्वेदं शरीरं चापि श्रमः सम्भिन्नवर्चसाम् पित्ताद्भवति मूर्च्छात्वं जायते च शिरोव्यथा १० धूमाकुलां दिशं पश्येत्तमः पश्यति यः पुरः नेत्राकुलत्वं मन्दाग्निस्तमोऽङ्गेषु च शीतता ११ चिरात्प्रबुध्यतेऽत्यर्थं कण्ठश्च घुर्घुरायते हृल्लासमूर्च्छा भवति कफजा च विलक्षणैः १२ सन्निपातादपस्मारो दृश्यते भिषजांवर स प्राणिनां घातयति रक्तेन सहितो यदि १३ रक्तगन्धेन मूर्च्छन्ति तेन मूर्च्छा शिरोव्यथा कम्पते नष्टचेष्टत्वं जल्पते वमते पुनः १४ विभ्रान्तचेता रक्ताक्षः स्वप्नशीलः सुरावशः १५ क्षतक्षयाद्भवेच्चान्या कोद्रवान्ननिषेवणात् जायते मोहमूर्च्छा च तेन निद्राति दुर्मनाः १६ पित्तोत्तमाद्भवति वै मनुजस्य मूर्च्छा पित्तप्रभञ्जनभवं भ्रममेव पुंसाम् वातात्कफात्तमयुता मनुजस्य तन्द्रा निद्रा कफानिलतमा भजते नरस्य १७ स्वेदाभिषङ्गविधिमर्दनवातशान्त्यै शीतान्नपानव्यजनानिलपित्तशान्त्यै कषायपानमवितथैव सदा प्रशस्तं श्लेष्मोद्भवा विनिहिता भ्रममूर्च्छना वा १८ पाययेत्त्रिफलाक्वाथं शीतं शर्करया युतम् दुरालभायाः क्वाथञ्च पाययेच्छर्करान्वितम् १९ कणां कोलस्य मज्जाञ्च केसरोशीरचन्दनम् पिष्ट्वा शीताम्बुनाखण्डपानं हन्ति विमूर्च्छितम् २० रक्तजां मूर्च्छनां दृष्ट्वा विधेयः शीतलोविधिः क्षयजे दुर्बले क्षीणे मूर्च्छापोषणकारणम् २१ नष्टचेष्टत्वमापन्ने नरे सञ्चेतनक्रिया संपीड्य च नवांगुष्ठं नासिकां च प्रपीडयेत् २२ दन्तैर्वा सन्दंशैर्वापि शनैर्गात्रं प्रपीडयेत् दाहयेद्वा ललाटे तु पृष्ठदेशे च मालके २३ एवं न सिध्यते वापि तदा चान्दोलनं हितम् २४ मूर्च्छातुरं सकलशीतजलेन सिञ्चेत्संवीजयेच्च शिखिपिच्छकवोजनैस्तु दोलायनं हि विहितं मनुजस्य मूर्च्छामोहं भ्रमञ्च हरते च मदात्ययं वा २५ करञ्जबीजं सह सैन्धवेन रसोनपत्रस्य रसं च यत्र मार्कं च पथ्यञ्च वचां जलेन पिष्ट्वाञ्जनं हन्ति दिनस्य तन्द्राम् २६ घोटकलालामरिचं लवणयुतं नेत्रयोरञ्जनं शस्तम् विनिहन्ति दिनशतं तन्द्रां निद्रां वा मानुषस्य २७ सुगन्धं सुकषायोपयुक्ता रसस्त्रिफला गुडार्द्रकं प्रातः सप्ताहान्मधुरजलं हन्ति मदमूर्च्छाकरानुन्मादान् २८ रक्तकर्षणमिच्छन्ति मोहमूर्च्छाप्रशान्तये तस्मादवहितः कुर्यात्तासु रक्तावसेचनम् २९ शीतसेकावगाहाद्यान् श्रीखण्डं व्यजनानिलान् शीतानि चान्नपानानि सर्वमूर्च्छासु योजयेत् ३० शर्करेक्षुरसद्राक्षा वातमूर्च्छाप्रपानकैः काश्मर्यमधुकैरेव पित्तमूर्च्छां जयेन्नरः ३१ यष्ट्याः क्वाथं शृतं सर्पिः शृतं वामलकीरसम् पिबेद्रसं सितालाजायुक्तं चोष्णं च शीतलम् ३२ मधुना हन्ति च मूर्च्छामालेपैश्च प्रबोधयेत् ३३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूर्च्छाचिकित्सा नाम चतुर्दशोऽध्यायः ३४
पञ्चदशोऽध्यायः आत्रेय उवाच धुरिणां गीतैर्नृत्यैर्हास्यैस्तन्द्रां निद्रां दिवा हन्ति यदा रात्रौ न निद्रा स्यात्तदा कुर्यादिमां क्रियाम् १ काकमाच्यास्तु मूलञ्च शिखां बद्ध्वा भिषग्वरः अधोमुखीं शिखां बद्ध्वा निद्रां जनयति निशि २ मस्तुना पादतलकौ मर्दयेन्निद्रयार्थिनाम् यस्य नो दिवसे निद्रा तस्य निद्रा निशासु च ३ भयचिन्तया लोभेन या निद्रा न भवेन्निशि तां चिन्तां च परित्यज्य निद्रा सञ्जायते क्षणात् ४ सिंही व्याघ्री सिंहमुखी काकमाची पुनर्नवा वार्त्ताकीनां च मूलानां क्वाथो निद्राकरो नृणाम् ५ काकजङ्घा चापामार्गः कोकिलाक्षः सुपर्णिका क्वाथो निद्राकरः शीघ्रं मूलं वा बन्धयेच्छिखाम् ६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने निद्राचिकित्सा नाम पञ्चदशोऽध्यायः १५
षोडशोऽध्यायः आत्रेय उवाच हालाहलाहलसमं भजते वियोगात्सेव्यानां शिष्यानुजानां कथितं मुनीन्द्र तृष्णा वमिः श्वसनमोहनदाहतृष्णा सञ्जायतेऽतिशरणं विकलेन्द्रियत्वम् १ ये नित्यं सेवनाद्दुष्टा मद्यस्य मनुजा भृशम् विषमाहारसदृशी सुरा मोहनकारिणी २ यथा विषं प्राणहरं वियोगाद्योगेन तं चाप्यमृतं वदन्ति तथा सुरा योगयुता हिता स्यादयोगतश्चारभतेऽतिकष्टम् ३ क्षुधातुरे तृषाक्रान्ते सुरा वा भोजनं विना न च क्षीणैर्विना भक्ता विनाहारातिपानकम् ४ अत्यशनेऽप्यजीर्णेऽपि सुरा पीता रुजाकरी ५ यस्य प्रलपनं चापि वाचा वातमदात्ययः दाहमूर्च्छातिसारश्च ज्वरः पित्तमदात्यये ६ छर्द्यरोचकहृलासतन्द्रास्तैमित्यगौरवम् शीतता च प्रतिश्यायः कफजे च मदात्यये ७ त्रिषुदोषेषुसमतालिङ्गैर्येषामुपक्रमः स त्रिदोषसमुद्भूतो मदात्ययो भिषग्वर ८ वमनं च प्रशस्तं च निद्रासंसेवनं पुनः स्नानं हितं पयःपानं भोजने सगुडं दधि ९ मस्तुखण्डं सखर्जूरं मृद्वीका सारिवाम्लिका आमला च परूषं च लेहो हन्ति मदात्ययम् १० द्राक्षामलकखर्जूरपरूषकरसेन वा कल्कयेत्पयसा तत्तु पानं सर्वमदातयये ११ पथ्याक्वाथेन संयुक्तं पयःपानं मदात्ये १२ पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः प्रस्वेदो विधुरत्वं च लालास्रावश्च जायते १३ भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः १४ तस्य शीतं जलं पीतं बस्ति वास्तुहितं भवेत् शर्कराभक्षणे देया मुस्ता वा शर्करान्विता १५ कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम् धत्तूरकमदे देयं शर्करासहितं दधि १६ हलिनी करवीरं च मोहिनी मदयन्तिका अन्येषामपि कन्दानां वमनं चाशु कारयेत् १७ पाययेच्छर्करायुक्तं क्षीरं दा दधि शर्कराम् १८ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मदात्ययचिकित्सा नाम षोडशोऽध्यायः १६
सप्तदशोऽध्यायः आत्रेय उवाच समानः संक्रुद्धो रुचिरमपि पित्तं त्वचि गतं नरस्याङ्गे दाह्यं भवति नितरां घोरमपि च । कदादन्तोद्घर्षो भवति मनुजां दाह्योदये भवेच्छीतस्यार्त्तिः श्वसनमपि वा शोषमरतिः १ पित्तज्वरसमानानि लक्षणानि भिषग्वर पित्तज्वरवदारभ्य क्रिया दोषोपशान्तये २ कुशकासेक्षुमूलानामुशीरं घनवालकौ क्वाथः शर्करया युक्तः शीत दाहं नियच्छति ३ पर्पटः सघनोशीरः क्वथितः शर्करान्वितः शीतपानं निहन्त्याशु दाह्यं पित्तज्वरं नृणाम् ४ लामज्जचन्दनोशीरैर्लेपनं दाहशान्तये वीजयेत्तालवृन्तैश्चकदल्यम्भोजसंस्तरे ५ कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् शस्यते शीतलं वारि दाहतृष्णानिवारणम् ६ उत्तानस्य प्रसुप्तस्य नाभेरुपरि सन्दधेत् कांस्यपात्रमये सौख्यं धाराभिः शीतवारिणा ७ पूरयेत्सुरतं यत्नात्तेन सौख्यं समाप्नुते शतधौतं घृतमपितद्दाहोपरि धारयेत् ८ मतिर्धात्रीफलं वापि शीतलजे प्रलेपनम् दाहशोषातुरस्यापि लेह्यं वा सुखकारकम् ९ जम्ब्वाम्रपल्लवा न्निम्बंबीजपूररसेन तु पिष्ट्वाप्रलेपनं दाहे शीघ्रं सुखमभीप्सते १० धारागारं तथा सुशीतलशशी ज्योत्स्ना तु पानानि च वातः शीतलचन्दनं च कमलं प्रेमानुबन्धस्तथा । रामागूहनमर्दनं स्तनयुगे शुक्लार्द्रवस्त्राणि च क्षीरं शर्करशङ्खलोहरजतं दाहप्रशान्त्यै हितम् ११ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने दाहचिकित्सा नाम सप्तदशोऽध्यायः १७
अष्टादशोऽध्यायः आत्रेय उवाच पित्तं मरुच्च श्लेष्मा च उदानं कुपितो भृशम् प्राणः शिरसि सङ्कुप्य कुरुते नष्टचेष्टताम् १ प्राणान्नयत्यचैतन्यं नाडीं चेन्द्रियरोधनम् पतते काष्ठवल्लोको मुखे लालां विमुञ्चति २ कण्ठञ्च घुर्घुरायेत फेनमुद्गिरतेऽथवा कम्पेते हस्तपादौ च रक्तव्यावर्ति लोचनम् ३ उपस्मारे च लिङ्गानि जायन्ते भिषजां वर व्यावृत्तं लोचनं क्षामं तमो दाहः शिरोव्यथा ४ हतप्रभेन्द्रियसंज्ञश्चापस्मारी विनश्यति ५ तस्य पानाञ्जनालेपमर्दनं पानमेव च अपस्मारे चोपचार्य घृतं तैलं च धीमता ६ अगस्तिपत्रं मरिचं मूत्रेण परिपेषितम् नस्ये शस्तमपस्मारं हन्ति शीघ्रं नरस्य तु ७ बन्ध्याकर्कोटिकामूलं घृतं शर्करयान्वितम् नस्ये वापि प्रयोक्तव्यमपस्मारप्रशान्तये ८ कूष्माण्डखण्डाश्च पक्वरसाश्च सत्र्यूषणैलादलनागकेशरम् कुमेधिका ग्रन्थकधान्यकानां समांशकेनापि सितप्रियाज्या ९ प्रत्यूषसे भक्षणकं विधेयं तस्योपरि क्षोरमितं प्रशस्तम् विहन्त्यपस्मारविकारमाशु विनाशयेच्छीघ्रमसृग्विकारम् १० कूष्माण्डब्राह्मी षड्ग्रन्था शङ्खपुष्पी पुनर्नवा सुरसासहितं चूर्णं शर्करामधुसंयुतम् ११ अपस्मारविनाशाय भक्षणे हितमेव च उन्मादे पित्तरक्ते तु वन्ध्याया गर्भदायकम् १२ रास्नामागधिकामूलं दशमूलं शतावरी चणत्रिवृत्तथैरण्डो भागान्द्विपलिकान्क्षिपेत् १३ यष्टीमधुकमृद्वीका शङ्खपुष्पी शतावरी रास्ना समङ्गा शृतकं त्रिसुगन्धञ्च भीरुम् १४ कुष्ठं वैतद्दीपकं च घृतं योज्यं भिषग्वरैः हन्त्यपस्मारमुन्मादं रक्तपित्तं गुदामयम् १५ ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च पचेद्घृतं पुराणं च अपस्मारं नियच्छति १६ महाबलाद्यं तैलं च बस्तौ नस्ये प्रशस्यते शतावर्यादिकं चापि स दैव च हितं भवेत् १७ चन्दनाद्यं घृतं चैव प्रयोज्यं चात्र चोत्तमैः अपस्मारे वाप्युन्मादे वातरोगेऽथवा हितम् १८ त्र्यूषणं त्रिफला हिंगु सैन्धवं कटुका वचा नक्तमालकबीजानि तथा च गौरसर्षपाः १९ बस्तमूत्रेण पिष्टैस्तु गुटिका छायाशोषिता अञ्जनं हन्त्यपस्मारमुन्मादं चैव दारुणम् २० स्मृतिभ्रंशभ्रमीदोषभूतदोषविनाशनम् ऐकाहिकं द्व्याहिकञ्च चातुर्थिकं ज्वरं हरेत् २१ हन्तितिमिरपटलं रात्र्यान्ध्यं च शिरोरुजम् सन्निपातविस्मरणं चेतयत्याशुमानवम् २२ चन्दनं तगरं कुष्ठं यष्टीत्रिसुगन्धवासकम् मञ्जिष्ठाभीरुमृद्वीकापाठा श्यामाप्रियंगुभिः २३ स्वयंगुप्ता पीलुपर्णी विषा रास्ना गवादनी काकोल्यौ जीरकं मेदे पुष्करं घनवालुकम् २४ विदारी वासुमन्ती च वृद्धदन्ती विडङ्गकम् पद्मकं चैन्द्रवृक्षश्च तथारग्वधचित्रकम् २५ धान्यकं पञ्चजीरेण तथा तालीसपत्रकम् खदिरं निर्यासतगरं कालीयकं च कैकतम् २६ नागकेसरं परूषञ्च खर्जूरं चैकत्र मर्दयेत् भावितं पुनरेवं च मधुना सघृतेन च २७ लेहोऽयञ्च सदा शस्तश्चापस्मारेतिदारुणे उन्मादे कामलारोगे पाण्डुरोगे हलीमके २८ राजयक्ष्मे रक्तपित्ते पित्तातिसारपीडिते रक्तातिसारे शोषे च शिरोरोगे सदाज्वरे २९ तमकभ्रमके छर्दिदाहे च समदात्यये अश्मर्याञ्च प्रमेहेषु कासे श्वासे च पीनसे ३० एतेषां च प्रयोक्तव्यः सर्वरोगनिवारणः वन्ध्यानां च प्रयोक्तव्यो वृद्धानां च विशेषतः ३१ बालानां च हितश्चैव शृणु चात्र प्रमाणकम् एवं प्रयोजितो रोगे महाकल्को मतो बुधैः ३२ बलवान्गुणवांश्चैव भवतीह फलप्रदः भिषग्भिः कथ्यते लेहः कृष्णात्रेयेणपूजितः ३३ द्राक्षा दारु तथा निशा च मधुकं कृष्णा कलिङ्गा त्रिवृद्यष्टीका त्रिफला विडङ्गकटुकासृक्चन्दनं दाडिमम् । चातुर्जातकनिम्बका च तुरगी तालीसपत्रं घना मेदे द्वे सुरदारु कुष्ठकमलं रोध्रं समङ्गावरी ३४ भार्ङ्गीकोलकदाडिमाम्लसहितं काश्मर्यशृङ्गाटकं काम्बोजा शणघण्टिका लघुतरा क्षुद्रा च रास्नायुतम् । चूर्णं शर्करया समं मधु घृतं खर्जूरके संयुतं लिह्यात्कर्षमिदं समस्तबलकृद्धन्त्याश्वपस्मारकम् ३५ उन्मादञ्च सुदारुणं क्षयमथो यक्ष्मा च पाण्डुश्वसन् कासासृग्रुधिरप्रमेहगुदजं स्त्रीणां हितं शस्यते ३६ एतैर्यदि न सौख्यं स्याद्दहेल्लोहशलाकया ललाटे च भ्रुवोर्मध्ये दहेद्वा मूर्ध्नि मानवम् ३७ वर्जयेत्कटुकं चाम्लं रक्तपित्तविकारिणाम् विशेषेण वर्जनीयं सुरापूगकषायकम् ३८ न सेव्यानि ह्यपस्मारे मोहमूर्च्छाकराणि वा ३९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अपस्मारचिकित्सा नाम अष्टादशोऽध्यायः १८
ऊनविंशोऽध्यायः आत्रेय उवाच अयं मानसको व्याधिरुन्माद इति कीर्त्तितः प्रमत्ता ऊर्ध्वगा दोषा ऊर्ध्वं गच्छन्त्यमार्गताम् १ उन्मादो नाम दोषोऽयं कष्टसाध्यो भिषग्वरैः सोऽपि पृथग्विधैर्दोषैर्द्वन्द्वजोऽन्यः प्रकीर्त्तितः तथान्यः सन्निपातेन विषाद्भवति चापरः २ अशुचिविपथशून्यागारकेऽरण्यमध्ये सभयगहनवीथीदेवतागारके च अथ कथमपि भीत्याशङ्कया खिन्नचेतः क्षुभितमनसमार्ग त्याज्यमुन्मार्गयेति ३ चिन्ताव्यथासुभयहर्षविमर्षलोभाद्देवातिथिद्विजनरेन्द्रगुरूपमानात् प्रेमाधिकाच्चयुवतौहित विप्रयोगादुन्मादजन्म च नृणां कथितं वरिष्टैः ४ तेन जायति वा रौति विरूपं पठते यदा लोलयेच्छर्दिते वापि कम्पते हसते तथा ५ धावते हनने चैव तथा जिह्वा विनश्यति जवे भास यतेऽत्यर्थं पश्येद्धनमथातुरः ६ तस्यापस्मारकं कर्म कर्त्तव्यं भिषजांवरैः विशेषेण भूतविद्यामध्ये वक्ष्यामि चाग्रतः ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने उन्मादनिदानं नामोनविंशोऽध्यायः १९
विंशोऽध्यायः आत्रेय उवाच चतुरशीतिर्विख्याता वाता नॄणां रुजाकराः तेषां निदानं वक्ष्यामि समासेन पृथक्पृथक् १ विरुद्धचिन्ताशनजागराच्च व्यायामतश्चातितमोऽभिषङ्गात् । असृग्विरेकाद्विषमासनेन प्राणापानसमानसन्धारणात् । अध्वाश्रमे क्षीणबलेन्द्रियाणामासन्नो धातुगतोऽपि वायुः २ प्राणोऽपानः समानश्च उदानो व्यान एव च एषां दोषाद्भवन्त्येते वातदोषाः । पृथक्पृथक् ३ शिरःशूलं कर्णशूलं शङ्खशूलमसृग्गदः अर्द्धशीर्षविकारश्च दिनवृद्धिसमुद्भवः ४ नासिकोपद्रवो वापि मन्यास्तम्भो हनुग्रहः जिह्वास्तम्भस्तालुशूलं तथा च तमकं भ्रमः ५ तन्द्राश्वासगलाद्याश्च षोडशैते शिरोगता प्राण प्रकोपतो यान्ति पित्तेन सममीरिताः ६ हिक्का श्वासः परिश्वासः कासः शोषार्त्तिर्घण्टिका हृल्लासो हृदि शूलञ्च यकृद्वातादिका वमिः ७ क्षवथुर्जृम्भणञ्चैव तथा वैस्वर्यपीनसः उरुचिश्च प्रतिश्याय एते प्रोक्ता उदानतः ८ उदानः श्लेष्मसंयुक्तो दोषाद्धृदि प्रकुप्यति ९ वक्ष्यामो व्यानको नाम मरुतस्य प्रकोपनम् वातः सर्वाङ्गको धातुविकारं कुरुते भृशम् १० स च धातुगतो ज्ञेयस्तथा प्रोक्तः पृथक्पृथक् त्वग्वाते रोमहर्षश्च मन्या चांसाभूरेव च ११ मांसगे शोथतोदश्च मेदःस्वस्थे च कम्पता भङ्गतास्थिगते वाते पतनं मज्जगे भवेत् १२ शुक्रगे सन्धिशोथश्च तस्मात्त्वग्वातलक्षणम् एतैर्धातुगतान्वातान्साध्यासाध्यान्निरोधयेत् १३ सन्त्यक्तमांसमेदःस्थो वायुः सिध्यति भेषजैः अन्ये कष्टेन सिध्यन्ति न सिध्यन्त्यथवा पुनः १४ लोमहर्षी भवेत्तोदो निद्रानाशोऽरुचिस्तमः गात्रं सूची च विध्येत भ्रमन्त्येव पिपीलिकाः १५ रूक्षत्वं त्वग्रसे नेत्रे कृशत्वं जायते पुनः गर्भरजसः शुक्रस्य नाशो भवति वेपथुः १६ मन्दाग्नित्वं च भवति स्वप्नानि च स पश्यति निद्रानाशः क्षोभयति सामान्यं वातलक्षणम् १७ मुहुराक्षेपयेद्गात्रं भेदस्तोदो बहुज्वरः स चैवाक्षेपको नाम जातो व्यानप्रकोपतः १८ धनुर्वन्नाम्यते गात्रमाक्षिपेच्च मुहुर्मुहुः प्रक्लिन्ननेत्रस्तब्धाक्षः कपोत इव कूजति तमाहुर्भिषजां श्रेष्ठा अपतन्त्रकनामतः १९ मतान्तरे वदन्त्यन्ये प्रह्वप्रतानको मतः गृहीतार्द्धं ततो वायुरप्रतानकः संस्मृतः २० सोऽपि कफाश्रितो वायुः सम्पीडयति दण्डवत् स्तम्भयत्याशु गात्राणि सोऽपि दण्डाप्रतानकः २१ हृद्वक्षोजकरांगुलौगुल्फसन्धौ समाश्रितः स्नायुं प्रतानयेद्यस्तु सोऽपि स्नायुप्रतानकः २२ बाह्यानामथ नाडीनां प्रतानयति मारुतः कट्याश्रितो वा भवति सशल्यमिव कुर्वते २३ तमसाध्यं बुधाः प्राहुस्तञ्च वातं प्रतानकम् अन्यं चतुर्थमाक्षेपमभिघातसमुद्भवम् २४ अभिघातेन यो जातो न स साध्य प्रतानकः ऊर्ध्वं तानयते यस्तु विशोषयति गात्रकम् २५ मोहतमः कृते वास्थिसन्धिसंशुष्कको मतः कृच्छ्रार्द्धकर्षं भवति शुष्कतां च प्रकुञ्चति २६ पृष्ठं प्रतानार्द्धं यो वै स तथैकाङ्गिको मतः २७ एकाङ्गपक्षघातश्च भवत्यन्यतमो यदि वातघ्नैरौषधैः सर्वैर्वायुः कष्टेन सिध्यति २८ तोदमूर्च्छा वेपनं स्याद्वेष्टदा स्पर्शनाज्ञता यस्तु नश्यति गात्राणि वायुस्तूनीतिशब्दितः २९ वेपनं तोदवेष्टत्वं स्पर्शनं वेत्ति यः पुनः प्रतूनयति गात्राणि प्रतितूनीति गद्यते ३० हृदिस्तम्भः पृष्ठस्तम्भ उरुस्तम्भश्च गृध्रसी पृथक्त्वेन च कथितमग्रे शृणुष्व कोविद ३१ एते व्यानप्रकोपेन द्विषोडश प्रकीर्त्तिताः ३२ शूलं गुल्म उदावर्त्त आध्मानोदावर्त्तमेव च परिणामो विषमाग्निरजीर्णं वाति गुल्मकः ३३ परिक्लेदी रसशेषो रसश्च मलवालकः बन्धी भेदी विलासी च षोडशैते समानतः ३४ भगन्दरो बस्तिशूलो मेहार्शश्चातिकोठकः लिङ्गदोषौ गुदभ्रंशस्तथान्योगुदशूलकः ३५ मूत्ररोधो विड्रोधश्च षोडशैते विजानता अपानस्य प्रकोपेन विज्ञेयास्तु प्रधानतः ३६ एते विकाराः कथिताः विस्ताराश्च प्रकीर्त्तिताः दाहः सन्तापः शोषश्च मूर्च्छा पित्तान्वितो मरुत् ३७ शैत्यं शोफारुचिर्जाड्यं वातश्लेष्मसमन्वितम् यो द्वन्द्वजाश्रितो धीर तं साध्यं मारुतं विदुः ३८ केवलोऽपि समीरोऽपि सोऽपि साध्यतमः स्मृतः ३९ वक्रं भवति वक्त्रार्द्धं ग्रीवाचाप्युपवर्त्त ते वैकृत्यं नयनानाञ्च विसङ्गो वेदनातुरः ग्रीवायां गण्डयोर्दन्तपार्श्वे यस्यातिवेदना ४० तमर्दितमिति प्राहुर्वातव्याधिविचक्षणाः ४१ लालास्रावोऽथ शोषश्च हनग्रहो विरस्यता दन्तशूलं भवेद्यस्य वातेनार्दितमेव च ४२ पीताङ्गं सज्वरं तृष्णा पित्तजो मोह एव च शोफस्तम्भोऽस्य भवति कफोद्भूतेऽथवार्दिते ४३ भाविनो लक्षणं यस्य वेपथुर्नेत्रमाविलम् क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ४४ सिध्यत्यर्दितं गाढं विषमं चापि तस्य च कण्ठो घोरो भक्षणार्थं जृम्भा प्रस्तारिते मुखे ४५ हनुस्तम्भो भवत्येते कृच्छ्रसाध्या भवन्ति हि विषमे वा दिवास्वप्ने विवर्तितनिरीक्षणे ४६ मन्यास्तम्भं जनयति कृच्छ्रात्पार्श्वं विलोकते वाग्वादिनीं शिरां रुद्ध्वा स्तम्भयेद्वसनानिलः ४७ रक्ताश्रितोऽपि पवनः शिरोनाड्यां समाश्रितः शिरोऽर्त्ति कुरुते यस्तु सोऽप्यसाध्यः शिरोग्रहः ४८ अतः प्रतिक्रियां वक्ष्ये यथा सिध्यति मारुतः स्नेहनं रूक्षणं कार्यं पाचनं शमनानि च ४९ स्वेदनं मर्दनाभ्यङ्गो बस्तिस्नेहो निरूहणम् स्नायुसन्ध्यस्थिसम्प्राप्ते भेदनं कारयेत्सुधीः ५० माणिमन्थेन यन्त्रेण ततः सम्भूषयानिलम् अताध्यं शुक्रगे व्याने बोजवत्समुपाचरेत् ५१ मुण्डी गुडूची बृहतीद्वयं च रास्ना समङ्गा क्वथितः कषायः समुच्चितेनापि विमिश्रितं च दुग्धं दधि स्यान्नवनीतकञ्च ५२ पचेत्सुधीमान्मृदुवह्निना च सिद्धं घृतं स्नेहनमेव पुंसाम् कर्षप्रमाणं विहितं च पाने चाभ्यञ्जके भोजनके तथैव ५३ बस्तौ हितं स्नेहनमेव पुंसां सप्ताहकं वातविकारिणाञ्च ५४ रास्नाविडङ्गरजनी सह नागरेण सौवीरकेण सुरसा सह सैन्धवेन सौष्णञ्च पानमिदमेव विरूक्षणञ्च स्यान्नृणाञ्चपञ्चदिनकर्षमात्रमेव ५५ अतः स्यात्पाचनं सम्यक् दिनसप्तकमेव तत् पाचिते चैव दोषे च तस्मात्संशमनं ददेत् ५६ वक्ष्यामि ते पुष्टिगते धमन्या समाश्रिते च बहुधाशनेन संस्वेदश्च नाशयते समीरं सप्ताहकं चोष्णजलेन सेकः ५७ रास्नात्रिकण्टकैरण्डशतपर्वा पुनर्नवा क्वाथो वातामयं हन्ति सर्वाङ्गगतमाशु च ५८ रास्नागुडूचिकादारुनागरैरण्डसंयुतः क्वाथः सर्वाङ्गवातेऽपि समधातुगते हितः ५९ रास्नाश्वगन्धाकाशीशं वचा च कपिकच्छुकम् क्वाथस्त्वेरण्डतैलेन पीतो हन्ति समीरणम् ६० रास्नाधान्यकशुण्ठी च यवानो दशमूलकम् क्वाथः पाचनके प्रोक्तो नरै वातविकारिणि ६१ रास्नाद्यानि पावनानि हितानि कथितानि च ६२ अर्द्धपलं रसोनञ्च हिंगुसैन्धवजीरकैः सौवर्चलेन संयुक्तं तथैव कटुकत्रिक्तम् ६३ घृतेन संयुतं भक्षेन्मासमेकं दिने दिने निहन्ति वातरोगञ्च अर्दितं च प्रतानकम् ६४ एकाङ्गरोगिणाञ्चापि तथा सर्वाङ्गरोगिणाम् ऊरुस्तम्भं क्रिमेर्दोषं गृध्रसीर्वापि कर्षति ६५ पलार्द्धञ्च पलं चापि रसोनञ्च सुकुट्टितम् हिंगुजीरकसिन्धूत्थं सौवर्चलकटुत्रयम् ६६ एभिः सञ्चूर्णितैः सर्वैस्तुल्लं तैलेन संयुतम् यथाग्नि भक्षयेत्प्रातः रुवुक्वाथानुपानवत् ६७ मासमेकं प्रयोगेण सर्ववातामयाञ्जयेत् एकाङ्गं चैव सर्वाङ्गमूरुस्तम्भं च गृध्रसीः ६८ कटिपृष्ठास्थिसन्धिस्थमर्दितं चापतन्त्रकम् ज्वरं धातुगतं जीर्णं नित्यञ्च सैकराह्वयम् ६९ नागरा च हरिद्रा च कणाजाज्यजमोदिका वचा सैन्धवरास्ना च मधुकं समभागिकम् ७० श्लक्ष्णचूर्णं पिबेच्चैव सर्पिषा प्रत्यहं नरः एकविंशतिदिनैर्वा रोगान् हन्ति न संशयः ७१ भवेच्छ्रुतिधरः श्रीमान् मेघदुन्दुभिनिस्वनः हन्ति वातामयेन् सर्वान् लेहो यश्च सुखावहः ७२ शतावरी वचा शुण्ठी रास्ना कदरशल्लकी दशमूली बलाकिण्वस्तुम्बुरू च गुडूचिका ७३ एष कल्को घृतैर्युक्तो हन्ति वातं शरोरगम् ७४ शल्लकीचिक्कणीत्वचो क्वाथस्तैलेन संयुतः कुर्याद्वातार्दितं स्वस्थमेकविंशतिदिनैर्नरम् ७५ अतोऽभ्यङ्गश्च कर्त्तव्यस्तैलैरपि घृतैरपि गुग्गुलञ्च रसोनञ्च कारयेद्विधिपूर्वकम् ७६ भागाश्चाष्टौ बलामूलं चत्वारो दशमूलकम् क्वाथश्चतुर्गुणे तोयेऽथवा द्रोणस्य संख्यया ७७ तत्राढकं क्षिपेत्क्षीरमाढकं मिश्रयेद्दधि कुलत्थाढकयूषं वै चाशु पर्युषितं क्षिपेत् ७८ तैलं तिलानां द्रोणं तु कटाहे पाचयेच्छनैः जीवन्ती जीवनीया च काकल्यौ जीवकर्षभौ ७९ मेदे द्वे सरलं दारु शल्लकश्च कुचन्दनम् कालीयकं सर्जरसं मञ्जिष्ठा त्रिसुगन्धिकम् ८० मांसी शैलेयकं कुष्ठं वचा कालाष्टशारिवा शतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ८१ किण्वकं च सुरा मुस्ता तथा तालीसपत्रकम् कटुत्रयं वालुकौ च सर्वं तत्रैव मिश्रयेत् ८२ सिद्धं सर्वगुणं श्रेष्ठं कृत्वा मङ्गलवाचनम् सौवर्णे राजते कुम्भे वाथवा मृण्मयायसे ८३ प्रतप्तं धारयित्वा तु पानाभ्यङ्गे निरूहके बस्तौ वापि प्रयोक्तव्यं मनुष्यस्य यथाबलम् ८४ वातार्दितेऽथवा भग्ने भिन्ने वापि प्रदापयेत् या वन्ध्या च भवेन्नारी पुरुषाश्चाल्परेतसः ८५ क्षीणो वा दुर्बलो वापि तथा जीर्णज्वरातुरः आमवातातुराणाञ्च तथा प्रक्षिप्य कञ्चटम् ८६ प्रभाते च प्रयोक्तव्यं तथा शुष्के हनुग्रहे कर्णशूले चाक्षिशूले मन्यास्तम्भे च पार्श्वगे ८७ सर्ववातविकाराणां हितं तैलं यथामृतम् हन्ति श्वासं च कासं च गुल्मार्शोग्रहणीगदम् ८८ अष्टादशानि कुष्ठानि शीघ्रं वापि नियच्छति ग्रहभूतपिशाचाश्च डाकिनी शाकिनी तथा ८९ दूरदेशे पलायन्ते बलातैलस्य दर्शनात् अपस्मारादिदोषांश्च तच्च दूरे नियच्छति ९० वृद्धा युवानो भवन्ति वन्ध्या च लभते सुतम् तैलं महाबलाद्यं च महावातहरं स्मृतम् ९१ बलाक्वाथाढकं क्षिप्त्वा क्षिपेत्तत्राढकं दधि कुलत्थाढकयूषं तु सौवीरस्याढकं तथा ९२ एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत् शतपुष्पा देवदारु पिप्पली गजपिप्पली ९३ त्रिसुगन्धि सुरामांसी कुष्ठञ्च दशमूलकम् चूर्णकं निक्षिपेत्तत्र सिद्धं तदवतारयेत् ९४ योज्यं पाने तथाभ्यङ्गे निरूहे नस्यकर्मणि हन्ति वातामयाशीतिं श्रेष्ठं गुणगुणात्मकम् ९५ यथा महाबलं तैलं तथेदं गुणवर्द्धनम् ९६ भृङ्गराजरसञ्चैव कटुतुम्बीरसं तथा सौवीरकरसं चैव क्वाथं वै दशमूलकम् ९७ माषकुल्माषयूषं च वाजं दधि समाश्रयेत् समांशकानि सर्वाणि तैलं चार्द्धं प्रयोजयेत् ९८ मृद्वग्निना पाचनीयं सिद्धं चैवावतारयेत् अभ्यङ्गे च प्रयोक्तव्यं न पाने बस्तिकर्मणि ९९ पूरणं कर्णरोगेषु शिरःशूले च दारुणे अर्द्धशीर्षविकारेषु भ्रुवः शङ्खाक्षिशूलके १०० तस्य योगेन मनुजः सुखमापद्यते द्रुतम् हन्ति कुष्ठं च पामानं त्वग्रोगोऽभ्यञ्जनेन तु १०१ शीघ्रं विनाशमायाति हन्त्यपस्मारमुत्कटम् न बस्तिशूलो भवति वामवाते श्रमः क्लमः १०२ आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम् विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् १०३ कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलता गुल्मवज्जठरं गर्जेत्तथान्ते शोफमेव च १०४ शिरोगुरुत्वं भवति वामे च पतति भृशम् सर्वाङ्गगो भवेत्सोऽपि विज्ञेयः सुविजानता १०५ तस्य च पाचनं कुर्याद्विरेचनं ततः परम् विष्टम्भी गुल्मपाकी च सर्वाङ्गगोऽन्यः प्रकीर्त्तितः १०६ विज्ञेयस्तत्र यः साध्यश्चान्यौ द्वौ कष्टसाध्यकौ स्नेही वामश्च कथितः कृत्वापस्मारनिग्रहम् १०७ श्योनाकः पाटला बिल्वं तर्कारो पारिभद्रकम् अश्वगन्धा कण्टकारी प्रसारिणी पुनर्नवा १०८ श्वदंष्ट्रातिबला चैव बला च समभागिको पादशेषं जलद्रोणे क्वथितं परिस्नावयेत् १०९ वाच्यमानानि योज्यानि भेषजानि भिषग्वरैः ११० शतपुष्पा वचा मांसी दारु शैलेयकं वरा पतङ्गं चन्दनं कुष्ठं तथान्यं रक्तचन्दनम् १११ करञ्जबीजांशुमती त्रिसुगन्धि पुनर्नवा रास्ना तुरङ्गगन्धा च सैन्धवं च दुरालभा ११२ मिष्टासुरसा चैतत्तु प्रत्येकं तु पलद्वयम् चूर्णं कृत्वा क्षिपेत्तत्र क्षिपेल्लाक्षारसाढकम् ११३ शतावरीरसं चैव अजाक्षीरं चतुर्गुणम् दधि तत्राढकं गव्यं तिलतैलं प्रयोजयेत् ११४ सिद्धं तत्र प्रदृश्येत ततो मङ्गलवाचनम् प्रतिह्येनं प्रतिष्ठाप्य नारायणमिदं स्मृतम् ११५ हन्ति वातविकारांश्च अपस्मारग्रहांस्तथा शिरोरोगान् कर्णरोगान् कुष्ठान्यष्टादशान्यपि ११६ वन्ध्या च लभते पुत्रं षण्ढोऽपि पुरुषायते कृशो युवायते मूर्खो विद्याराधनतत्परः ११७ नारायणमिदं तैलं कृष्णात्रेयेण भाषितम् ११८ अन्यानि घृततैलानि तानि चात्र प्रयोजयेत् एतेन जायते सौख्यं वातरोगं नियच्छति ११९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वातव्याधिचिकित्सा नाम विंशोऽध्यायः २०
एकविंशोऽध्यायः आत्रेय उवाच लक्षणं शृणु पुत्र त्वं समासेन वदाम्यहम् गुर्वन्नाहारपुष्टेन मन्दाग्निना व्यवायिनः १ तर्पितैः कन्दशाकैस्तु आमो वायुसमीरितः श्लेष्मस्थाने प्रपच्यैव जायते बहुवेदनः २ आमातिसारो वर्तेत सन्धौ शोफः प्रजायते जरत्वञ्चैव गात्राणां बलासपतनं मुखे ३ पृष्ठमन्यात्रिके जाते वेदनार्त्तेऽपि सीदति अङ्गं वैकल्यमायाति आमवाते भिषग्वर ४ तस्य नो स्नेहनं कार्यं पाचनञ्च विधीयते आमं संक्षयते प्राज्ञश्चतुर्धा भेदलक्षणैः ५ विष्टम्भी गुल्मकृन्मेही आमः पक्वाम एव च सर्वाङ्गगो भवेच्चान्यो वक्ष्ये तस्यापि लक्षणम् ६ विष्टम्भी गुरुचाध्मानं बस्तिशूलं च जायते तस्यापि पाचनं कार्यं स्नेहनं चैव कारयेत् ७ जठरं गर्जते यस्य गुल्मवत्परिपीड्यते कटिदेशे जडत्वञ्च आमगुल्माभिशङ्कितः ८ तस्यादौ लङ्घनानि स्युर्ज्ञात्वा देहबलाबलम् पाचनं नैव कर्त्तव्यं गुल्मपाके विमूर्च्छति ९ पाचिते चापि गुल्मामे तदाशु मरणं ध्रुवम् १० यस्य च स्निग्धता गात्रे जाड्यं मन्दाग्निको बली स्नेहामो विजलो यस्य स्नेहो वामः प्रकीर्त्तितः ११ तस्य नो स्नेहनं कार्यं चोपवासञ्च कारयेत् पाचनं चैव कर्त्तव्यमामं चैवातिसारयेत् १२ यस्य शोफाननं जाड्यं तथा चैव घनोदरम् अरुच्यामातिसारश्च सचासाध्यो विजानता १३ प्रत्याख्येया क्रिया कार्या जीवितस्यापि संशये पाचनं पाचितं ज्ञात्वा तस्माच्चूर्णानि दापयेत् १४ सपीतो विजलः श्यामाः पक्वामः पतते त्वधः न बस्तिशूलो भवति आमवाते श्रमः क्लमः १५ आमपाकीति विज्ञेयो न कुर्यात्तस्य पाचनम् विरेचनं न कर्त्तव्यं स्तम्भनं तस्य कारयेत् १६ कटिपृष्ठे वक्षोदेशे तोदनं बस्तिशूलवान् गुल्मतो जठरं गर्जेत्तथातः शोफ एव च १७ शिरोगुरुत्वं भवति आमश्च पतते भृशम् सर्वाङ्गगो भवेत्सोऽपि विज्ञेयोऽसौ विजानता १८ तस्य च पाचनं कुर्याद्विरेचनमनन्तरम् विष्टम्भी गुल्मपाकी च अन्यः सर्वाङ्गगो मतः १९ विज्ञेयाश्चात्र ये साध्याश्चान्यौ द्वौ कष्टसाध्यकौ स्नेही आमश्च कथितः कृच्छ्रसाध्यं द्वयं मतम् २० पक्वामः सुखसाध्यस्तु ज्ञात्वा कर्म समाचरेत् २१ रास्ना त्रिकण्टमेरण्डं शतपुष्पा पुनर्नवा पानं पाचनके शस्तं वामे वाते भिषग्वर २२ रास्ना श्योनाककाश्मीरं चिक्कणीकं च पुष्करम् क्वाथं शृतं सुखोष्णं च पाचनं पाययेन्नरः एतत्पाचनकं विद्धि प्रोक्तं चामे सवातिके २३ आमवाते कणायुक्तं दशमूलीजलं पिबेत् गुडूची नागरं पथ्या चूर्णमेतद्गुडान्वितम् २४ धान्यनागरराजाम्लदेवदारुवचाभयाः पाचनं चामवाते च श्रेष्ठमेतत्सुखावहम् २५ तथा कोलकचूर्णं वा पिबेदुष्णेन वारिणा आमवातञ्च मन्दाग्निं शूलं गुल्मञ्च नाशयेत् २६ बलाक्वाथाढकं क्षिप्त्वा दधितक्राढकं क्षिपेत् कुलत्थाढकयूषं तु सौवीरस्याढकं तथा २७ एकत्र कृत्वा विपचेद्योजयेदौषधञ्च तत् शतपुष्पा देवदारु पिप्पली गजपिप्पली २८ त्रिसुगन्धि मुरामांसी कुष्ठं द्विपञ्चमूलकम् चूर्णं विनिक्षिपेत्तत्र सिद्धं तदवतारयेत् २९ पाने चाभ्यन्तरे योज्यं निरूहे बस्तिकर्मणि हन्ति वातामयं सर्वं श्रेष्ठं गुणगणप्रदम् ३० पिबेदेरण्डजं तैलं गुडक्षीरेण संयुतम् सर्वाङ्गे चामवाते हि श्रेष्ठमेतद्विरेचनम् ३१ नागरस्य भागमेकं द्वौ भागौ क्रिमिजस्य तु त्रिवृद्भागत्रयं क्षिप्त्वा चूर्णं गुडसमं वटम् ३२ भक्षेत्तथोष्णतोयेन पुनश्चोष्णं पयः पिबेत् एतेन जायते वामे विरेकः सुखकारकः ३३ विडङ्गशुण्ठी रास्ना च पथ्या त्रिकटुकान्विता क्वाथमष्टावशेषं च कारयेद्भिषजांवरः ३४ दुग्धं क्वाथार्द्धकं तैलं तथैवैरण्डजं क्षिपेत् कर्षमात्रं सुपातव्यो विरेकश्चानुपानतः ३५ गुडूची त्रिफला पथ्या गुडेन सह भक्षयेत् विरेको ह्यामवातेषु श्रेष्ठमेतत्सुखावहम् ३६ अभया मस्तुना पिष्टा मधुशर्करयान्विता आमातिसारं स्तम्भेत्तु गुडामलकमेव च ३७ वत्सकं जीरके द्वे च दध्ना पिष्टं तु दापयेत् आमातिसारशमनं बस्तिशूलं नियच्छति ३८ गुग्गुलं च रसोनं च हिंगु नागरसंयुतम् क्वाथं वामविनाशाय शमनं मारुतस्य च ३९ अजमोदोग्रगन्धा च कुष्ठं त्रिकटुकं शठी फलत्रिकं च भार्ङ्गी च पुष्करं लवणाष्टकम् ४० जीरके द्वे विडङ्गानि तुम्बुरू द्वे च दारु च तथा बिल्वा शिला भेदो रोध्रं वत्सकवासकम् ४१ धातकीकृसुमं चैव शाल्मली त्वक् च दाडिमम् एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ४२ घृतेन संयुतं वातं नाशयत्याशु निश्चितम् सहिंगु चारनालेन पीतं शूलार्त्तिनाशनम् ४३ तथा चोष्णजलेनापि वामवातं नियच्छति गृध्रसीकटिशूले च दशमूल जलेन तु ४४ विबन्धैरण्डतैलेन शोफे वापि सुदारुणे गुल्मगोमूत्रसंयुक्तं गुडेन पाण्डुरोगजित् ४५ प्रमेहे मधुसंयुक्तं यक्ष्मणि शर्करायुतम् हन्ति सर्वामयान् घोरान् यथायोगेन योजितम् ४६ वर्जयेद्द्विदलं गौल्यं तैलं पिच्छलमेव च शीतोदकेन न स्नानमामवाते भिषग्वर ४७ पाचिते चामदोषे च आमवातं न सेवयेत् न सेवनीयं चोष्णं च द्रवं द्रावं विशेषतः ४८ ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत् ४९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने आमवातचिकित्सा नामैकविंशोऽध्यायः २१
द्वाविंशोऽध्यायः आत्रेय उवाच रक्तवातसमुद्भूतान्दोषाञ्छृणु महामते कट्यूरुजानुमध्ये तु जायते बहुवेदना १ गृध्रसीति विजानीयात्तेन नोक्तञ्च लक्षणम् २ जानुमध्ये भवेच्छोफो जायते तीव्रवेदना वातरक्तसमुद्भूता विज्ञेया कोष्ठशीर्षिका ३ कण्डरा बाहुपृष्ठे च अंगुल्यभ्यन्तरेषु च करक्रमक्षयकरी सा विज्ञेया विपश्चिता ४ पादहर्षो भवेच्चात्र पादयोर्लोमहर्षणम् कफवातप्रकोपान्ते प्रस्वेदः करपादयोः ५ पित्तवातान्वितं चान्ते उष्णत्वं करपादयोः अमीषां रुधिरस्रावं ततः स्वेदं च कारयेत् ६ अभ्यङ्गे वातहृत्तैलं पानं रास्नायाः पञ्चकम् शतावरी बले द्वे च पिप्पली पुष्कराह्वयम् ७ चूर्णमेरण्डतैलेन गृध्रसीमपकर्षति अजमोदादिकं चूर्णमामवाते प्रकीर्त्तितम् ८ तदत्र योजनीयं च गृध्रसीनां निवारणम् एतैर्नजायते सौख्यं दहेल्लोहशलाकया ९ पादरोगेषु सर्वेषु गुल्फे द्वे चतुरङ्गुले तिर्यग्दाहं प्रकुर्वीत दृष्ट्वा पादे शिरां दहेत् १० वातरोगेषु प्रोक्तानि पथ्यानि चात्र योजयेत् ११ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गृध्रसीचिकित्सा नाम द्वाविंशोऽध्यायः २२
त्रयोऽविंशोऽध्यायः आत्रेय उवाच कटुक्षाराम्ललवणै रक्तं देहे प्रकुप्यति रोधात्संधारणाद्वापि दिवास्वप्नादिसेवनैः १ समीरकोपः प्रत्यङ्गे युगपद्दृश्यते नृणाम् वातरक्तमिति प्रोक्तं नृणां देहे प्रवर्त्तते २ जायते सुकुमाराणां तथा स्त्रीणां भिषग्वर स्थूलानाञ्च विशेषेण कुप्यते वातशोणितम् ३ आलस्यं च तथा कण्डूर्मण्डलानाञ्च दर्शनम् वैवर्ण्यं स्फुरणं शोफशोषौ दाहश्च मार्दवम् ४ वातरक्तं विजानीयाच्छ्यावतां दन्तरक्तयोः एतद्विलक्षणं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया ५ विरेकं रक्तमोक्षं च पानलेपनलेहकान् धान्यनागरसंयुक्तं क्षीरं चास्य प्रदापयेत् ६ पटोलीनिम्बपत्राणि क्वथित्वा मधुसयुतम् पाचनं वातरक्तानां तथा च शमनानि च ७ काञ्जिकेन च सम्पिष्य पिचुमन्ददलानि च लेपनं शस्यते तस्य वातरक्तप्रशान्तये ८ दुर्वा मूर्वा शठी शुण्ठी धान्यकं मधुयष्टिका वर्त्तनं शीततोयेन वातरक्तप्रलेपनम् ९ धन्यकर्षञ्च जीरे द्वे गुडेन परिपाचितम् भक्षणे वातरक्तानां दापयेद्दोषशान्तये १० एतैर्यदि न सौख्यं स्यात्तदा रक्तावसेचनम् ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत् ११ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तवातचिकित्सा नाम त्रयोविंशोऽध्याः २३
चतुर्विंशोऽध्यायः आत्रेय उवाच गुडनिषेवणाच्चाम्ले विरुद्धाहारसूचिते कुपितञ्चाम्ल पित्तञ्च कण्ठस्तेन विदह्यते १ दाहो वा हृदये तस्य शिरोऽर्तिश्चैव जायते उद्गारानम्लकान् कण्ठे हिक्काम्लोऽपि प्रधावति २ शृणु तस्य प्रतीकारं वमनं कारयेद्द्रुतम् अधोगते चाम्लपित्ते विरेकश्च प्रदीयते ३ पारिभद्रदलानीति आमलक्याः फलानि च क्वाथपानं प्रयोक्तव्यमम्लपित्तं व्यपोहति ४ पटोलपाटलाक्वाथो धान्यनागरकान्वितः जलेन हितकः प्रोक्तश्चाम्लपित्तनिवारणे ५ पटोलविश्वामृतवल्लितिक्तापत्राणि निम्बस्य च वत्सकानाम् क्वाथो विसर्पकृतमम्लपित्तं विनाशयेन्मण्डलकानिदद्रून् ६ रात्रौ सम्पाचनं देयं धान्यनागरकल्कितम् ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अम्लपित्तचिकित्सा नाम चतुर्विंशोऽध्यायः २४
पञ्चविंशोऽध्यायः आत्रेय उवाच शोफो भवेच्च विकलेन्द्रियरोममार्गः क्षीणे बले वपुषि चाम्लकटूष्णसेवया शैत्यात्तथा विशदपिच्छलसेवनेन रूक्षाभिघातपतनेन च धारणाद्वा १ आमाशये गतवातोऽपि नरस्य यस्य अन्ते प्रधावति ततोऽपि च दोष एषः करोति पाणिचरणे च पृथक् प्रसूतो द्वन्द्वेन वा भवति शोफविकारचारः २ नरस्य चान्तःप्रभवाश्च शोफाः साध्या भवेयुर्विनता मुखेषु असाध्याये सर्वशरीरगाश्च पादे स्त्रियो वा वदने नरस्य ३ क्षये वाते वापि च गुल्मदेशे स्याद्राजयक्ष्मणि तथोदरेषु रक्तेन जातोऽप्ययमेव शोफो गात्रेभवेच्छोफविकारचारः ४ अन्याश्चोर्ध्वगशोफाश्च श्लेष्मपित्तसमुद्भवाः कष्टसाध्याश्च विज्ञेया बहूपद्रवसंयुताः ५ श्लेष्मणि शिरसि प्राप्ते ऊर्ध्वशोफः प्रजायते मध्यः पक्वाशयस्थेऽपि मलमप्यागते त्वधः ६ रसे सर्वानुगाः शोफाः सर्वदेहानुगा रसाः ७ सर्वाङ्गशोफा अथ मध्यशोफाः सर्वाङ्गशोफाः परिवर्जनीयाः वृद्धे च बाले क्षतजाः क्षयोत्थाश्छर्द्यातिसारश्वसनेन युक्ताः ८ भ्रमज्वरक्षीणशरीरजाता शोफाद्भवा या च भवेन्नरस्य साध्या न वैद्यस्य चानन्यदोषा सा नैव साध्या भिषजांवरिष्ठ ९ तोदश्च रूक्षं श्वसनञ्च वातात्पित्ताच्छ्रमः शोफविदाहकश्च शीता घना श्लैष्मणि बाधकण्डूः स्याद्द्वन्द्वजा द्वन्द्वजलक्षणेन १० अतो वदामीत्युपचारमस्यां संस्वेदनं पाचनशोधनं वा विरेचनं रक्तविमोक्षणं च कषायशोफेषु विधिः प्रदिष्टः ११ न चास्य स्नेहनं कार्यं नैव कार्यं विरूक्षणम् १२ पुनर्नवा मगधजा च कटुत्रयं चनिम्बाभया च कटुका च पटोलदार्वी क्वाथः सुखोष्णक्वथितस्तु विपाचनेन शोफो जहाति जठरं च नरस्य शीघ्रम् १३ पुनर्नवा गुडूची च गुग्गुलं समकल्कितम् शोफदोषांश्च गुल्मञ्च हन्त्युदरं कफानयम् १४ गजमहिष्या वृषभस्य मूत्रं तथैव लाजं सकणं प्रयोज्यम् पानेन शोफो विजहाति शीघ्रमेरण्डतैलेन युतं पयो वा १५ संस्वेदनक्रिया तत्र कार्या चैव पुनः पुनः एरण्डपत्रकैर्वापि अथवा तिन्तिडीच्छदैः १६ लोमशा कटुतुम्बी च काञ्जिकेन जलेन वा निष्क्वाथ्य चापि संस्वेदस्तथैवोष्णेन तेन च १७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने शोफचिकित्सा नाम पञ्चविंशोऽध्यायः २५
षड्विंशोऽध्यायः आत्रेय उवाच श्वयथूत्थैरुपचारैस्तैश्च संकुप्यतेऽनिलः मन्दाग्निना विषमेण गुल्मं जठरे जायते १ उदरं गर्जते यस्य विषमाग्निश्च दृश्यते तोदो वपुषि शूलं च वातगुल्मं विनिर्दिशेत् २ शोषोऽरतिः सपीतत्वं मन्दज्वरनिपीडिनम् तमोभ्रमपिपासार्त्तिर्गुल्मं तत्पित्तसम्भवम् ३ शोषो जाड्यञ्च हृल्लासस्तन्द्रालस्यं सशीतकम् मन्दाग्निर्विड्विबन्धश्च गुल्मं तच्छ्लेष्मसम्भवम् ४ मोहो विभ्रमता जाड्यमरतिः क्षुत्पिपासकम् आलस्यं निद्रतावेश्यं गुल्मं तत्कफपैत्तिकम् ५ निद्रालस्यञ्च दाहश्च शोफाच्छूलं च सज्वरम् वैवर्ण्यमरतिर्जाड्यं विड्बन्धो विकलाङ्गता ६ तथातिसारो मूर्च्छा च तृढृल्लासश्च वेपथुः श्वासोऽरुचिरजीर्णत्वं गुल्मं तत्सान्निपातिकम् ७ साध्यं केवलदोषोत्थं द्वन्द्व कष्टेन सिध्यति असाध्यं सन्निपातोत्थं वक्ष्यामस्तत्प्रतिक्रियाम् ८ यकृद्ग्रहणीचिकित्सैव कथितं चोपवारणम् तद्वत्प्लीहा समाख्यातो न चात्र कथितः पुनः ९ चिकित्सोदरगुल्मस्य वक्ष्यते शृणु साम्प्रतम् स्नेहनं रूक्षणञ्चैव पाचनं शोधनानि च १० संशमनं विरेकश्च बस्तिस्नेहनिरूक्षणम् क्षारपानञ्च चूर्णानि गुल्मोपचरणक्रिया ११ शुण्ठी दारु सुरसा च मूर्वा पञ्चमूलं लघुः क्वाथोऽस्याष्टावशेषः स्यात्तन्समं क्षीरमेव च १२ दधि तत्सममाज्यं तु पाचयेत्तत्समाग्निना घृतं यावत्प्रदृश्येत सिद्धमुच्चार्यते ततः १३ तत्कृतं पानकेऽभ्यङ्गे भाजने च प्रदापयेत् स्नेहः सप्तविधो यावत्तस्माच्च रूक्षणं हितम् १४ दिनत्रयञ्च कर्त्तव्यं कथयाम्यत्र कोविद शुण्ठी सौवर्चलं जीरे द्वे वा हिंगु समन्वितम् १५ काञ्जिकं पानमेतेषां रूक्षणं गुल्मशान्तये गुल्मचिकित्सते क्षारपाकोऽत्र प्रतियुज्यते १६ क्षारं पलाशार्जुनसूरणस्य तथैव क्षारं सहयावशूकम् सौवर्चलं सिन्धुभवोद्भिदञ्च सामुद्रजं वापि विमिश्रयेच्च १७ तोयं परिस्राव्य विधानतोऽपि युक्तं तथैतानि सदौषधानि पथ्याग्निशुण्ठीरजनीसुराह्वं कुष्ठं विशाला च जवानिका च १८ तथाजमोदा सह जीरके द्वे षड्ग्रन्थिका हिंगुयुतं च चूर्णम् क्षारोदकापानविमिश्रिपानं निहन्ति सर्वाण्यपि कोष्ठजानि १९ गुल्मानि सर्वाणि विषूचिकानां मन्दाग्निशूलानि भगन्दराणाम् प्लीहोदरानाहं च विड्विबन्धं विनाशयेद्रोगत्रयं नराणाम् २० पथ्या समङ्गा कलसी वृषञ्च महौषधं वातिविषा सुराह्वम् जले च निष्क्वाथ्य त्विदं हि पानं गुल्मामयानां प्रतिपाचनञ्च २१ वचायवानीत्रिकटुदशमूलीजलं स्मृतम् क्वाथश्चोष्णो हितः पाने धान्यनागरयथवा २२ वातगुल्मेषु सर्वेषु ज्वरेषु विषमेषु च रास्नाद्यं पञ्चकं वापि वातगुल्मप्रपाचनम् २३ शठी सौवर्चलं शुण्ठी पाचनं वाथ गुल्मिते २४ विदुला द्राक्षा कटुका निम्बपत्राणि चैव तु सगुडं पाचनं देयं पैत्तिके गुल्मरोगिणि २५ धात्रीकल्कं सितोपेतं पाचनं पित्तगुल्मिते यवानी चोग्रगन्धा च तथा च कटुकत्रयम् पाचनं श्लैष्मिके गुल्मे पीतं चोष्णं निशासु च २६ नागरा क्रिमिजित्पथ्या त्रिवृतात्रिगुणायुता चूर्णं गुडान्वितं देयं वातगुल्मविरेचनम् २७ दन्ती च भागमेकं च द्वौ भागौ च हरीतकी त्रिवृताभागत्रयं स्याच्छुण्ठ्याश्चत्वार एव च २८ प्रक्षिप्य सर्वमेकत्र सर्वतुल्यगुडेन तु वटकं भक्षयेत्प्रातस्तस्योपरि जलं पिबेत् २९ क्वथितं च विरेकाय वातगुल्मोपशान्तये ३० पिबेदेरण्डतैलं च शर्कराक्षीरसंयुतम् पित्तगुल्मविरेकाय श्रेष्ठेमेतत्सुखावहम् ३१ आरग्वधप्रवालानि तथैवारग्वधानि च विभाव्यैरण्डतैलेनैरण्डपत्रैस्तु वेष्टयेत् ३२ कर्दमेन प्रलिप्याथ अङ्गारेषु च स्थापयेत् सुस्विन्नभर्जिकां ताञ्च भक्षयेच्छर्करान्विताम् ३३ विरेकः पैत्तिके गुल्मे हितं शुद्धविरेचनम् ३४ त्रिफलासुरसाशुण्ठीचूर्णं कृत्वा विभावयेत् स्नुहीक्षीरेण वारैकं गुडेन सह मिश्रितम् ३५ विरेकः श्लेष्मके गुल्मे सर्वोदरविनाशनः ३६ शुण्ठी सौवर्चलं पथ्या विडङ्गञ्च पुनर्नवा चूर्णेऽपामार्गबीजानां स्नुहीक्षीरेण भावितम् ३७ गुडेन संयुतं खादेत्पश्चादुष्णं जलं पिबेत् विरेकः सर्वगुल्मेषु प्रशस्तो हितकारकः ३८ शुक्तिक्षारनिशाविशालकदली स्यात्सूरणं कोकिला पालाशं दहनार्जुनं शठिजयापामार्गकूष्माण्डकम् । दग्ध्वा क्षारविपाचितं परिस्नुतं हिंगु त्रिकट्वान्वितं गुल्मानाहविबन्धशूलहरणं सर्वोदराणां हितम् ३९ अजमोदा शठी दन्ती विडङ्गं कुष्ठतुम्बुरू त्रिफला चित्रकं चैव शुण्ठी कर्कटशृङ्गिका ४० त्रिवृता च सुराह्वा च पुष्करं वृद्धदारुकम् तथाम्लवेतसं चैव तिन्तिडीकञ्च चिञ्चिनी ४१ समं तु मातुलुङ्गेन विभाव्यमेकतः कृतम् त्रिभागहिंगुसंयुक्तं घृतेन चूर्णितं हितम् निहन्ति वातगुल्मञ्च सशूलमुदरं तथा ४२ हिंगुफलत्रिकजीरकयुग्मं चित्रकभार्ङ्गी कुष्ठविडङ्गम् तुम्बुरुपुष्करविश्वसुराह्वं क्षारयुतं लवणानि च पञ्च ४३ वातिकगुल्मविनाशनहेतोः शूलरुजश्च निहन्ति नराणाम् ४४ हिंगुसौवर्चलाजाजी विश्वा कुष्ठं विडङ्गकम् आरनालेन पीतं च हन्ति गुल्मं सवातिकम् ४५ जीरे द्वे त्रिकटु शठी तुम्बुरु चित्रकं मधु लेहः पित्तात्मके गुल्मे हितः शोफनिवारणः ४६ यष्टिकं निम्बपत्राणि तथा धात्रीफलं सिता चूर्णं मध्वावलीढं च पित्तगुल्मनिवारणम् ४७ त्रिकटुत्रिफलाचित्रवटकफलसंयुतम् चूर्णं मद्येन वा पीतं फलक्वाथेन वा हितम् ४८ श्लेष्मगुल्मविनाशाय हितं चैतत्सुखावहम् ४९ रोध्रं च कमलं विश्वा कुष्ठं चित्रकमेव च नागरहिंगुसंयुक्तं चूर्णं मूत्रेण संयुतम् ५० श्लेष्मगुल्मविनाशाय शूलोदरविनाशनम् उग्रगन्धा च मरिचं क्षारचूर्णसमन्वितम् ५१ पिबेन्मूत्रेण संयुक्तं श्लेष्मगुल्मविनाशनम् ५२ शुण्ठी सौवर्चलं भार्ङ्गी वत्सकं यावशूककम् जीरे द्वे चाटरूषं च यवानी हिंगु सैन्धवम् ५३ आरग्वधेन संयुक्तं चूर्णं सघृतमेव च वातश्लेष्मोद्भवे गुल्मे सुखमाशु प्रपद्यते ५४ उग्रगन्धा फलत्रिकं देवदारु पुनर्नवा त्रिवृत्सौवर्चलोपेतं क्षारोदकसमन्वितम् पीतं वातकफे गुल्मे सुखकारि परं मतम् ५५ ग्रहणीगुल्मक्रिया या सा चात्र प्रभवेद्यदि शोफोदरेषु सर्वेषु कार्यञ्चात्र विरेचनम् ५६ शोफातिसारसंयुक्तो हन्तिगुल्मोदरो नरम् तस्य क्षारोदकपानं बृहद्धिंग्वादिचूर्णकम् ५७ अजमोदादिकं वापि शोफातिसारशान्तये वमिश्चैवातिसारश्च गुल्मरोगेषु यद्यपि ५८ तेन साध्यं विजानीयात्प्रत्याख्येया क्रिया हिता गुडदाडिमपथ्यां च मधुना सहितां पिबेत् ५९ वमिञ्च वातिसारं च वारं वारं प्रयोजयेत् सर्वलक्षणसंयुक्तं गुल्मं तत्सान्निपातिकम् ६० तोदोऽरतिर्विवर्णत्वं मूर्च्छातीसारसंयुतम् वमिः क्लेदश्च तन्द्रा च तदसाध्यं त्रिदोषजम् ६१ शृणु पुत्र महाप्राज्ञ एकाग्रमनसाधुना शोफोद्धारक्रियां नृणां वक्ष्यते च विजानता ६२ त्रिवृत् तथाचेक्षृगुडेन युक्ता अनन्तरं कोष्णजलेन पीता तस्मान्निहन्त्योदरकं सशोफं पित्तात्मकं वा विजहाति पुंसाम् ६३ हरीतकी च त्रिवृता च शुण्ठी गुडेन युक्ता त्वथ हन्ति शोफम् द्विपञ्चमूलं क्वथितं सुखोष्णमेरण्डतैलेन जहाति शोफम् ६४ गोमूत्रयुक्तं वरुणस्य तैलं पाने हितं नाशयते च शोफम् ६५ ग्राम्यानूपं पिशितलवणञ्च शुष्कशाकं नवान्नं गौडं पिष्टान्नं सदधिकृशरञ्च विजलं मद्यमन्नम् धान्यं वल्लूरं शोफकरणमथ गुर्वसात्म्यं विदाहिस्वप्नं वापि रात्रौ श्वयथुगदवान् वर्जयेन्मैथुनञ्च ६६ लेपोऽरुष्करस्यशोफं हन्ति तिलदुग्धमधुकनवनीतैः तत्तरुतलमृद्भिर्वा सकदलैर्वापिसविरणैः ६७ शोषे विषनिमित्ते तु विषोक्ता शमनक्रिया लङ्घनं दीपनं स्निग्धमुष्ण वातानुलालनम् ६८ बृंहणं तु भवेदन्नं तद्विषं सर्वगुल्मिनाम् वल्लूरं मूलकं मत्स्याञ्छुष्कशाकादि वैदलम् ६९ न खादेद्वालुकं गुल्मी मधुराणि समानि च ७० सरक्तगुल्मे न तु पाचनं तु न हिंगुपानं कटिचालनं च चैव संस्वेदनमर्दनञ्च न चक्रमं नोत्प्लुवनं हितं च ७१ रोध्रार्जुनं खदिरमागधिकासमङ्गक्वाथोऽम्लवेतसमधुघृतसम्प्रयुक्तः गुल्मं सरक्तमपि चाथ निहन्ति चाशु हृत्क्लेदनं च विनिहन्ति च क्रुद्धरक्तम् ७२ क्षीरपानं प्रदातव्यं घृतसौवर्चलान्वितम् रक्तगुल्मविनाशाय यकृद्विक्षतजेऽपिवा ७३ न च हिंगुयुतं पथ्यं न चोष्णं न विदाहि च रक्तजे क्षतजे गुल्मे मांसानि जाङ्गलानि च ७४ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गुल्मचिकित्सा नाम षड्विंशोऽध्यायः २६
सप्तविंशोऽध्यायः आत्रेय उवाच विषमासनोपवेशात्पीततोयादथापिवा श्रमाध्वश्वासनिष्क्रान्ते अतिव्यायामितेऽपि या पीतं तूदरमेवं च तस्माज्जातं जलोदरम् १ उदरं सजलं यस्य सघोषमतिवर्द्धितः श्वयथुः पादयोः शोफो जलोदरस्य लक्षणम् २ विरेकं वमनं कुर्यात्पाचनानि च कारयेत् क्षारयोगश्च वटकस्तेन तदुपशाम्यति ३ तस्मान्नाभेर्वलीभागे वर्जित्वांगुलमात्रकम् जलनाडी चानुमान्य कुशमात्रेण वेष्टयेत् ४ एरण्डजलनालं च तत्र सञ्चारयेद्बुधः अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् ५ यदा न धरते तच्च तदा दाहः प्रशस्यते कणकल्कं परिस्राव्य घृतं देयं चतुर्गुणम् ६ शुण्ठीविषासमं पाच्य पानमालेपनं हितम् शस्त्रकर्म भिषक्छ्रेष्ठो विज्ञातेनैव कारयेत् ७ दुष्करं शस्त्रकर्मैव न कुर्याद्यत्र तत्र तु अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ८ तस्मादवश्यं कर्त्तव्यमीश्वरं साक्षिकारिणा ९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने जलोदरचिकित्सा नाम सप्तविंशोऽध्यायः २७
अष्टाविंशोऽध्यायः आत्रेय उवाच विंशत्येवं प्रमेहास्तु नराणामिह लक्षणम् १ श्रमाद्व्यवायाच्च तथैव घर्मविरुद्धतीक्ष्णोष्णविभोजनेन मद्येन वा क्षीरकटुप्रसेवनान्मेहप्रसूतिः कथिता मुनीन्द्रैः २ जलप्रमेहो रुधिरप्रमेहः पूयप्रमेहो लवणप्रमेहः तक्रप्रमेहः खटिकाप्रमेहः शुक्रप्रमेहः कथितःपुरस्तात् ३ स्याच्छर्करामेहोवसाप्रमेहो रसप्रमेहोऽन्यघृतप्रमेहः पित्तप्रमेही कफमेहिनश्च मधुप्रमेहीति विभावयेच्च ४ यथा च नामानि तथैव लक्षणं बलक्षयं वापि नरस्य देहे कुर्वन्ति शीघ्रं भिषजां वरिष्ठः कुर्यात्क्रियाञ्च शमनाय हेतुम् ५ धवार्जुनं चन्दनशालछल्लीक्वाथो हितः स्याच्च जलप्रमेहे रक्तप्रमेहे शिशिरं पयश्च द्राक्षान्वितं यष्टिकचन्दनेन ६ स्त्रीसेवनं चाल्पतरञ्च पूयमेहे हितः क्वाथो धवार्जुनस्य दूर्वाकसेरुकदलीनलिन्या लवणस्य मेहे कषाय उक्तः ७ कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्लकीनाम् सर्वे तथैते मधुना कषायाः कफप्रमेहेषु निषेवनीयाः ८ रोध्रार्जुनः क्षीरमरिष्टपत्रात्तत्रैव धात्रोफलचन्दनानि तक्र प्रमेहे खटिकाप्रमेहे देयो हितः क्वाथगुडावटश्च ९ दूर्वा च मूर्वा कुशकाशमूलं दन्ती समङ्गा सह शाल्मली च शुक्रप्रमेहे क्वथितं जलेन पानं हितं वा रुधिरप्रमेहे १० फलत्रिकारग्वधमूलमूर्वाशोभाञ्जनारिष्टदलानि मोचा द्राक्षायुतो वा क्वथितः कषायः सर्पिःप्रमेहस्य निवारणाय ११ कुष्ठं तथा पर्पटकं च तिक्ता सिता प्रगाढं क्वथितः कषायः मूर्वारिकापाटलिकानियुक्तो दुरालभाकिंशुकटुण्टुकानाम् रसप्रमेहे च सदा हितः स्यात् १२ नीलोत्पलार्जुन कलिङ्गधवाम्लिकानां धात्रीफलानि पिचुमन्ददलानि तोये निष्क्वाथ्य शर्करयुते मनुजस्य पाने पित्तप्रमेहशमनाय वदन्ति धीराः १३ विडङ्गसर्जार्जुन कफलानां कदम्बरोध्राशनवृक्षकाणाम् जलेन क्वाथश्च हितो नराणां कफप्रमेहं विनिहन्ति तेषाम् १४ मुस्ता फलत्रिकनिशा सुरदारु मूर्वा इन्द्रा च रोध्रसलिलेन कृतः कषायः पाने हितः सकलमेहभवे गदे चमूत्रग्रहेषु सकलेषु वियोजनीयः १५ यच्चाभयालोहरजोनिकुम्भचूर्णं हितं शर्करया समेतम् फलत्रिकाया मधुना च लेहं सर्वप्रमेहेषु हितं वदन्ति १६ मधुमेहे प्रयोक्तव्यं घृतपानं सुधीमता क्षीरं वा शर्करायुक्तं क्वाथो वा गुटिकानि च १७ न्यग्रोधोदुम्बराश्वत्थ प्लक्षारग्वधटुण्टुकम् पियालं कुकुभं जम्बूकपित्थाम्रातकानि च १८ मधुकं यष्टिमधुकं रोध्रं वै पारिभद्रकम् पटोलं चारिणी चैव दन्ती मेषविषाणिका १९ चित्रकं च करञ्जञ्च शक्राह्वं त्रिफलायुतम् भल्लातकानाञ्च समं त्रिगन्धं कटुकत्रयम् २० सूक्ष्मचूर्णं प्रदातव्यं न्यग्रोधाद्यं गुणाधिकम् मधुना संयुतं लेही हन्याच्च मधुमेहकम् २१ क्वाथो वा तैलपाको वा घृतपाकोऽथवापि च पानाभ्यङ्गे प्रशस्तः स्याद्धन्ति वै मूत्रजं गदम् २२ न्यग्रोधाद्यमिदं चूर्णं पेयं वा क्षीरसंयुतम् मधुमेहेतु नान्योऽस्ति यथालाभेन योजितः २३ माक्षीकं धातुमाक्षीकं शिलोद्भेदं शिलाजतु चन्दनं रक्तधातुञ्च तथा कपूरकं कणाः २४ वंशरोचनकं चैव क्षीरेण सहितं पिबेत् मधुप्रमेहं हरति मूत्ररोगाद्विमुच्यते २५ प्रमेहपिटिकानाञ्च वक्ष्यामोऽथ चिकित्सितम् धवार्जुनकदम्बानां बदरी खदिरशिंशपे पारिभद्रकमेतेषां मेहनस्य प्रधावनम् २६ अर्जुनस्य कदम्बस्य टिण्टुकी वान्तरत्वचा पाके पूयविशोधार्थं मेहनस्य प्रशस्यते २७ भृङ्गराजरसं गृह्य तथाच सुरसादलम् निष्पावकपटोलानां पत्राणि काञ्जिकेन तु २८ पिष्ट्वा वातपिटिकानां लेपनं मेहनस्य च २९ यष्टीमधु तथा कुष्ठं चन्दनं रक्तचन्दनम् उशीरं कत्तृणं चैव रक्तधातुमृणालकम् ३० क्षीरमण्डकसंयुक्तं यथालाभं भिषग्वर लेपनं पित्तरक्तानां मेहदाहः प्रशाम्यति ३१ धावनं शीतपयसा नवनीतेन मर्दनम् कणं कदम्बार्जुनपिण्याकपत्राणि दाडिमस्य च ३२ खदिरस्य दलानां तु तथा चामलकीदलान् उष्णेन वारिणा पिष्ट्वा सोमपाके च मेहने ३३ त्रिफलायाश्च वा चूर्णं शुष्कपूयनिवारणम् धावनं काञ्जिकेनाथ तक्रेणाथ तुषाम्बुना ३४ अतिशीतेन तोयेन मेहपाके च धावनम् रक्तशालिश्च षाष्टीकश्चाढकी वा कुलत्थकः ३५ घृतं च मधुरं किञ्चिद्भोजनार्थे विधीयते क्षाराम्लकटुकं वापि दिवा स्वप्नं विशेषतः ३६ स्त्रीदर्शनं व्यवायञ्च तथाचात्यशनं तथा चलनं धावनं चेति तथा मूत्रविरोधनम् ३७ वस्त्रवातं रक्तवस्त्रं वर्जयेद्भिषजां वरः एकान्ते गृहमध्ये च गानस्त्रीबालकं रमः ३८ न चाभरणताम्बूलं कोपशोषं जहाति च दूरे चैतानि वर्जेत्तु यदीच्छेत्सुखसम्पदः ३९ हरिद्राद्वितयं शुण्ठी विडङ्गानि हरीतकी कफप्रमेहे विहितः क्वाथोऽयं मधुना सह ४० नीलोत्पलमुशीरञ्च पथ्यामलकमुस्तकम् पिबेत्पीतप्रमेहार्त्तः क्वाथं मधुविमिश्रितम् ४१ कमलञ्च तथा रोध्रमुशीरमर्जुनान्वितम् पित्तप्रमेहेविहितः क्वाथोऽयं मधुना सह ४२ आमलकस्य स्वरसं मधुना च विमिश्रितम् हरीतक्याश्च चूर्णं वा सर्वमेहनिवारणम् ४३ खदिरं शर्करा दारु हरिद्रा मुस्तमेव च चूर्णितं तु पिबेत् सर्वप्रमेहगदशान्तये ४४ कुष्ठं हरिद्राद्वयदेवदारु पाठा गुडूची त्रिफला च मुस्तम् एषां हि चूर्णं मधुना विमिश्रं मूत्रप्रमेहं हरते व्यथाञ्च ४५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने प्रमेहचिकित्सा नाम अष्टाविंशोऽध्यायः २८
एकोनत्रिंशोऽध्यायः आत्रेय उवाच एलाशिलाजतुयुतं मागधिकापाषाणभेदसञ्चूर्णम् तण्डुलजलेन पीतं प्रमेहरोगं हरत्येव १ एरण्डमूलपाषाणभेदगोक्षुरकास्तथा एलाटरूषपिप्पल्यो यष्टीमधुसमन्विताः २ एषां क्वाथं पिबेज्जन्तुः शिलादित्येन योजितम् अश्मरीशर्करायाञ्च शर्करायाः पलद्वयम् ३ सुशीतलं जलं कर्षमात्रं स्यान्मूत्रकृच्छ्रहृत् दध्यम्बुना च सम्मिश्रमयश्चूर्णं सुखप्रदम् ४ मूत्रकृच्छ्रेयवक्षार चूर्णं हिंगुप्रयोजितम् कूष्माण्डं च समादाय शर्करासहितं पिबेत् ५ यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः पिबेच्छतावरीमूलं शीतपानीयचूर्णितम् ६ अतः शर्करारोगार्त्ते शर्करां सम्प्रयोजयेत् आरग्वधफलं मूलं दुरालभा धान्यकशतावर्यः ७ पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात् ८ पाषाणभेदस्त्रिवृता च पथ्या दुरालभा गोक्षुरपुष्करं वा एला सकुरुण्टककर्कटीजं बीजं कषायः सुनिरुद्धमूत्रे ९ कुलत्थयुक्तः पटोलीमूलकषायः प्रतिपाकः पुष्करमूलमिश्रः प्रमेहपाषाणरोगघ्नः स्यात् १० यो मातुलुङ्गिकामूलं पिबेत् पर्युषिताम्बुना तस्यान्तः शर्करोद्भूतं दुःखं सद्यो विलीयते ११ गवां तक्रेण सम्पिष्टं क्षिप्रनामकमौषधम् पिबेच्चिरेण तक्रञ्च शर्करादोषदूषितः १२ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्रकृच्छ्रचिकित्सा नामैकोनत्रिंशोऽध्यायः २९
त्रिंशोऽध्यायः आत्रेय उवाच पिबेत्कर्कटिक्काबीजं त्रिफलासैन्धवान्वितम् उष्णाम्बुचूर्णितं पीतं मूत्ररोधं शमं नयेत् १ यस्तिलकाण्डक्षारं दधिमधुसंमिश्रितं पिबेत् स नरश्च मूत्ररोधं हत्वा सद्यः सुखमाप्नोति २ अजाक्षीरेण संमिश्रं जातीमूलं प्रपेषितम् पिबेत्सदाहमूत्रोष्णवेदनाशमनं यतः ३ तैलेन पद्मिनीकन्दं पक्वगोमूत्रमिश्रितम् पिबेन्मूत्रनिरोधे तु सतीव्रवेदनान्विते ४ पित्तप्रकोपनैर्द्रव्यैः कट्वम्लवर्णैस्तथा गौरास्त्रीसेवनेनापि रक्तं वापि प्रवर्त्तते ५ मद्यपानेन चोष्णेन श्रमव्यायामपीडितैः पित्तं प्रकोपयेच्छीघ्रं करोति मूत्रकृच्छ्रकम् ६ तेन मूत्रयते कृच्छ्रं चोष्णधारा प्रवर्त्तते मूत्रस्रोतश्च हरति रक्तं चापि प्रवर्त्तते तस्य वक्ष्यामि भैषज्यं येन संपद्यते सुखम् ७ यष्टीमधुकमृद्वीकाचन्दनं रक्तचन्दनम् रक्ततण्डुलतोयेन मूत्रकृच्छ्ररुजापहम् ८ वटप्ररोहमालासु द्राक्षाशर्करयान्वितः लेहोऽयं मूत्रकृच्छ्रस्य नाशनो भिषजां वर ९ देहोपशमनः प्रोक्तः शीतगाहनकोपतः मूत्रकृच्छ्रे तु तत् प्रोक्तं भोजनं मधुरं हितम् १० उत्तानस्य रतौ भङ्गाद्दाहव्यायामजातके मूत्ररोघे वचा वर्या दद्यात्तत्रा निरोधकान् ११ अव्यायामे शुभं भोज्ये शीतावगाहिता नरे एतैस्तु कुपितो वायुर्मूत्रद्वारं प्ररुन्धति १२ श्लेष्मसहितः पापिष्ठ उक्तः कष्टतमो गदः शृणु तस्य प्रतीकारं कषायं वानुवासनम् १३ बस्तिनिरूहक्वाथं च मूत्ररोघे हितो विधिः सर्वसंस्वेदनं चैव स्थानं वक्रमणाविव १४ तुरङ्गशकटारोहधावनं च हितं मतम् फलत्रिकं समगुडं क्वाथः क्षीररसेन तु १५ पानं मूत्रनिरोधेषु पित्ताद्वा लवणाम्लिकम् पाटला टुण्टुका चैव निम्बगोक्षुरकं तथा १६ एलात्वक् च तथा पत्रं क्वाथस्त्रिफलयान्वितः गुडेन संयुतं पीतं हन्ति मूत्रनिरोधकम् १७ दाडिमाम्लयुतं चैव हितं मूत्ररुजां नृणाम् त्रिफलेक्षु सिताक्वाथगुडेन सह सैन्धवम् १८ मूत्ररोधं वारयति पथ्या वा गुड संयुता अथवा तोदनन्नारीमैथुनं च विधेयकम् १९ तेन सौख्यं भवेच्छीघ्रं स्त्रीणाञ्च योनिमर्दनम् २० इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्ररोधचिकित्सा नाम त्रिंशोऽध्यायः ३०
एकत्रिंशोऽध्यायः आत्रेय उवाच पितृमातृकदोषेण अथवा मूत्ररोधनात् अपथ्यसेवनाचारैर्जायते चाश्मरीगदः १ मूत्राविष्टौ च पितरौ सुरतं कुरुतो यदि मूत्रेण सहितं युक्तं च्यवते गर्भसम्भवम् २ पञ्च यस्य सदेहस्य स च तत्र प्रजायते मूत्रं मूत्रस्य संस्थाने करोति बन्धनं त्रिषु ३ सोऽप्यसाध्यो मूत्रगदश्चाल्पाद्भवति मानुषे तारुण्ये चापि साध्यश्च जायते मूत्रशर्करा ४ विपरीतेन चोत्ताने स्त्रिया च पुरुषेण वा शुक्रञ्च प्रबलेत्तस्य स्त्री शुक्रं विचिनोति च ५ पुनश्च मेहने वासः वातेन शोणितं च तत् द्वयं दत्तं प्रपद्येत मूत्रद्वारं प्ररुध्यति ६ तेन मूत्रप्ररोधश्च जायते तीव्रवेदना अण्डसन्धिस्थिता याति शर्करा शस्त्र साध्यका ७ अतो वक्ष्यामि भैषज्यं शृणु पुत्र महामते शुण्ठी गोक्षुरकं चैव वरुणस्य त्वचस्तथा ८ क्वाथो गुडयवक्षारयुक्तश्चाश्मरि नाशनः कुशकाशनलं वेणु अग्निमन्थाक्षनृत्तकम् ९ श्वदंष्ट्रा मोरटा वापि तथा पाषाणभेदकम् पलाशस्त्रिफलाक्वाथो गुडेन परिमिश्रितः १० पाने मूत्राश्मरीं हन्ति शूलबस्तौ व्यपोहति ११ एलाकणावृषत्रिकण्टकरेणुकाचपाषाणभेदमधुकं च फलत्रिकञ्च एरण्डतैलकशिलाजतुशर्कराद्यं क्वाथोऽमरीञ्च हनते तथा सोष्णपानम् १२ गोक्षुरकस्य बीजानां धातुमाक्षिकसंयुतम् चूर्णं महिषीदुग्धेन पानं चाश्मरीपातनम् १३ शस्त्रविधिरुत्तरीये सूत्रस्थाने प्रोक्तं घृताध्याये च स्मृतम् १४ पुराणषष्टिका शालिरक्ततण्डुलकास्तथा श्यामाकः कोद्रवो दालो मर्कटी तृणधान्यकम् १५ यवगोधूमकुलत्थास्तथाचैवाढकी भिषक् वातहराः प्रयोक्तव्या भोजने वातरोगिणाम् १६ क्रौञ्चाद्यानि च मांसानि पथ्यान्यश्मरीनाशने १७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अश्मरीचिकित्सानामैकत्रिंशोऽध्यायः ३१
द्वात्रिंशोऽध्यायः आत्रेय उवाच अत ऊर्ध्वमण्डवृद्धिर्दृश्यते भिषजां वर बाल्ये मातुः पितुर्दोषाज्जयते वृषणानुगा १ दुष्टदाराविहाराच्च वातो बस्तिगतो भृशम् अण्डस्थानं च सम्प्राप्य तस्य वृद्धिं करोति वै २ एकैकसन्निपातश्च चतुर्थः सन्निपातिकः पित्तदोषात्सन्निपातात्तथाऽसाध्या इमे स्मृताः ३ दोषान् वक्ष्याम्यौषधानि शृणु तानि भिषग्वर स्वेदनान्यभ्यञ्जनानि क्वाथ्य पानं विधीयते ४ शिरःस्रावो भिषक्श्रेष्ठ तेषां वक्ष्यामि लक्षणम् कम्पश्च मृदुवातेन पित्तेन दाहकज्वरः ५ कफाद्घनश्च शोषश्च कठिनोवृषणो भवेत् रसालशल्लकीक्वाथः तर्कारी कटुतुम्बिका ६ क्वाथसंसेवनार्था च मुष्कवृद्धिः सवातिके शीततोयावगाहो वा शीतसंसेवनं तथा शीतशीतैश्चलेपश्च पित्तमुष्के प्रशस्यते ७ वचालवणतोयेन कदम्बार्जुनसर्षपैः कषायसेवनैः प्रोक्तं कफमुष्केऽहितापहम् ८ अरुणवरुणकोलं च शालिपर्णी शतावरी क्वाथः पित्तसन्निपातमुष्कवृद्धौ विदां वर ९ वरुणवृक्षादनी चैव दशमूली शतावरी क्वाथपानं वातिके च मुष्कवृद्धौ हितावहम् १० एतेन भवते सौख्यं तदा कर्मावकारयेत् कर्णकोषस्य मध्ये तु रक्तान्निर्हारयेच्छिराम् ११ वामकोष्ठस्य वृद्ध्या तु दक्षिणां हारयेच्छिराम् उभाभ्यां द्वे शिरे वेध्ये तेन वा तत्सुखं भवेत् १२ इति चाण्डक्रिया प्रोक्ता सा चैवोन्नीतरोगिणे १३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वृषणवृद्धिचिकित्सा नाम द्वात्रिंशोऽध्यायः ३२
त्रयस्त्रिंशोऽध्यायः आत्रेय उवाच लवणाम्लक्षारकटुकैरुष्णस्वेदातिदोषतः रक्तपित्तं प्रकुप्येत स विसर्पी भिषग्वर १ स सप्तधा परिज्ञेयः पृथग्दोषैश्च द्वन्द्वजैः केवलो रक्तजस्त्वन्यः सन्निपातेन सप्तमः २ तथापरे प्रवक्ष्यन्ते नामानि च पृथक्पृथक् आज्ञेयो ग्रन्थिको घोरः कर्दमश्च तथापरः ३ आज्ञेयो वातपित्तेन ग्रन्थिकः पित्तश्लेष्मणा कर्दमो वातश्लेष्मोत्थो घोरः स्यात्सान्निपातिकः ४ रक्तंलसीकात्वग्मांसं दूष्यं दोषास्त्रयो मलाः विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्तधातवः ५ न्यग्रोधबिल्वखदिरकषायो धावने हितः काञ्जिकाम्लैः पिच्छिलया सौवीरकरसेन वा ६ मातुलुङ्गरसेनापि धावनं वातसर्पिषु क्षीरेण शीततोयेन धावनं पित्तसर्पिणि ७ श्लेष्मविसर्पिणे वाथ धवार्जुनकदम्बकम् धावनं सर्पिणे शस्तं सुरासौवीरकेण वा ८ धावनञ्च हितं तस्य सन्निपाते विसर्पिणे यवाग्निमन्थैश्च शठीन्यग्रोधैश्च ससर्षपैः ९ क्वाथः स्यात्सन्निपातोत्थविसर्पधावने हितः पञ्चजीरकपित्थांश्च काञ्जिकेन तु पेषयेत् मातुलुङ्गरसेनापि लेपनं वातसर्पिणे १० धवा रोध्रतिलाश्चैलविदारीकण्टकं तथा लेपः पित्तविसर्पे वा गुञ्जापत्रैस्तु लेपनम् ११ सैन्धवारिष्टतुम्बीकापटोलपत्रकैर्घृतम् पाचितं लेपने शस्तं विसर्पाणां निवारणम् १२ रक्तजेषु विसर्पेषु कुर्याद्रक्तावसेचनम् पश्चाद्धवकदम्बानां सर्वदा गृहधूमकम् १३ लेपने हितकृत्प्रोक्तं धावनं काञ्जिकेन तु कुठेरकाश्च सुरसा चक्रमर्दो निशायुगम् १४ सर्षपाः काञ्जिकेनापि पिष्ट्वा च लेपनं हितम् १५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विसर्पचिकित्सा नाम त्रयस्त्रिंशोऽध्यायः ३३
चतुस्त्रिंशोऽध्यायः आत्रेय उवाच चतुर्विधो भवेद्दोषो वातरक्तसमुद्भवः गन्धदोषेण जायन्ते नामान्येषां पृथक् पृथक् १ क्षुद्रतश्चान्तको घोरः अथवान्यमसूरिका वसन्तः सर्षपाकारा पिटका यस्य दृश्यते २ सोऽपि क्षुद्रतरः प्रोक्तः पित्तरक्तप्रदोषतः अग्निदग्धवत्स दाह्यः पिटिका यस्य दृश्यते ३ सोऽप्यतीव विसर्पी स्यादसुखी च निरन्तरम् ४ सघनाः पीडका यस्य पाकयति समः कफः दाहोऽरतिर्विवर्णत्वं तस्य सद्यः प्रजायते ५ वर्त्तुलमसूरिकावत् पिटका यस्य दृश्यते शाम्यति शीघ्रं पाकेन सा विज्ञेया मसूरिका तस्य वक्ष्यामि भैषज्यं यथाविधि महामते ६ गुप्ताकारं सुरक्षेच्च रक्षायोगविधानतः न स्त्रीणां नाधमानाञ्च संसर्गं वा प्रसङ्गकम् ७ सुशीतं शीतलं स्थानं कारयेत्सुप्रयत्नतः क्षुद्रकस्योपसर्गस्य लेपनं चात्र कारयेत् ८ कुष्ठं सोशीरन्यग्रोधस्तथोदुम्बरिकत्वचः प्रलेपनं प्रशस्तं स्यात्क्षुद्रोपसर्गवारणम् ९ क्षीरञ्च मधुशर्करायुक्तं पानं सुखावहम् जम्ब्वाम्रपल्लवानाञ्च विष्ठं दधिमधुयुतम् १० पाययेत् क्षुद्रकस्यास्य अतिसाराग्निनाशनम् गोक्षुरश्चातिविषा च कर्कटाद्यं सपर्पटम् ११ कल्कमेतत्प्रयोक्तव्यं मधु शर्करासंयुतम् हरीतकीमातुलुङ्गस्वरसं शर्करायुतम् १२ क्षुद्रकस्योपसर्गस्य वमिशोषनिवारणम् अग्निकोऽप्युपसर्गं च योज्यं चैतत्प्रलेपनम् १३ रक्तचन्दनमञ्जिष्ठा निम्बपत्राणि चार्जुनम् क्षीरेण नवनीतेन हितं स्याल्लेपनं तथा १४ घोरं चोपद्रवं दृष्ट्वा न स्वेदं न च मर्दनम् प्रलेपनं न कुर्वन्ति यथायोगेन पण्डिताः १५ अरण्यगोमयक्षारतैलेन चालनं हितम् न तैलेनापि चाभ्यङ्गं लेपेनैव च कारयेत् १६ चन्दनं मधुकं रोध्रं न्यग्रोधोत्पलसारिवा मधुना संयुतः कल्कः पानेन चोपसर्गहृत् १७ उपसर्गे ज्वरस्तीव्रो रक्तमूत्रं प्रजायते तस्य वक्ष्याम्युपचारं येन सम्पद्यते सुखम् १८ पटोलं पर्पटं शुण्ठी मुस्ता च खदिरं समम् कल्को मधुयुतः पाने हितः स्याज्ज्वरनाशनः १९ चन्दनोशीरमञ्जिष्ठा पुष्करं दन्तधावनम् क्वायपानं मधुयुतमुपसर्गज्वरापहम् २० वमने चातिसारे च दाडिमं कुटजस्तथा मधुदध्नान्वित पानमतिसारनिवारणम् २१ शेषाश्च क्षुद्रिकाः प्रोक्ताः क्रिया चात्र विधेयका एका क्रिया मसूरिके कर्त्तव्या सुविधानतः २२ वातलानि च सर्वाणि तथा रूक्षाणि कोविदः स्त्रीसङ्गं रूक्षशोकञ्च दूरतः परिवर्जयेत् २३ ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत् एवं त्रिसप्तरात्रेण सुखं सम्पद्यते नरः २४ ततोऽभिषेकः कर्त्तव्यः कृत्वा मङ्गलवाचनम् नूतनानि च सूक्ष्माणि वस्त्राणि च सितानि च २५ परिधाप्य होमकार्यमिष्टभोज्यं विधेयकम् २६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने उपसर्गचिकित्सानाम चतुस्त्रिंशोऽध्यायः ३४
पञ्चत्रिंशोऽध्यायः आत्रेय उवाच अथातः सम्प्रवक्ष्यामि व्रणानां तु चिकित्सितम् व्रणाश्चानेकधा प्रोक्ता नानाधातुविकारिणः १ दुष्टाम्बुपानाशनसेवनाञ्च क्रोधातिभाराद्व्यसनेन वापि सञ्जायते दुष्टव्रणोऽपि घोरश्चान्येन रक्तस्य हि दूषणेन २ वातेन पित्तेन कफेन वापि द्वन्द्वेन वा दोषसमुच्चयेन मांसं प्रहृष्य रुधिरं विकीर्य सञ्जायते दुष्टव्रणोऽपि घोरः ३ त्वग्रक्तानि समेदांसि प्रदूष्यास्थिसमाश्रिताः दोषाः शोफं शनैर्घोरं जनयन्त्युद्धता भृशम् ४ सरक्तञ्च सशूलञ्च रुजावच्च सवेपथु रूक्षं वा वातसम्भूतं विज्ञेयं सरुजं व्रणम् ५ सप्तदाहस्वरः सृष्टः स्पर्शनं सहते तु यः शीतः सौख्यं लघुपाकी पित्तात् सञ्जायते व्रणः ६ कठिनो वर्तुलाकारो घोरः पीतोल्पवेदनः उष्णसहः स्निग्धतरश्चिरपाकी कफव्रणः ७ सर्वैर्लिङ्गैर्विजानीयात्सन्निपातसमुद्भवम् द्वन्द्वजे द्वयदोषस्तु दोषे चापि प्रदृश्यते ८ अभिघातसमुद्भूता विज्ञेयास्ते चतुर्विधाः अन्ये नाडीव्रणा ये स्युः सवाताश्च सवेदनाः ९ अन्ये तु स्रोतसां मध्ये तेषां शृणु चिकित्सितम् प्रथमं मण्डविस्रावो द्वितीयं स्वेदनं स्मृतम् १० तृतीयं पाचनं प्रोक्तं पाचिते पाटनं तथा शोधनञ्च प्रयोक्तव्यं तथा रोहणमेव च ११ पश्चात्क्रमस्तथैव स्याद्व्रणानां हितकारकः रास्ना वचा तथा शुण्ठीमातुलुङ्गरसस्तथा १२ काञ्जिकेन सममेकधावनं वातिके व्रणे यष्टीमधुकमञ्जिष्ठापटोलनिम्बपत्रकैः १३ दुग्धे न क्वथितं शीतं धावनं पैत्तिके व्रणे १४ त्रिफला च कदम्बञ्च तथा जम्बु कपित्थकम् क्वाथः सोष्णकफोद्भूते व्रणे धावनमुत्तमम् १५ मातुलुङ्गाग्निमन्यौ च मूलं वा काञ्जिकेन च सुरदारु तथा शुण्ठी लेपो वातव्रणे हितः १६ नलमूर्वा च मधुकं चन्दनं रक्तचन्दनम् पिष्टं तण्डुलतोयेन पित्तव्रणविनाशनम् १७ अङ्कोलकञ्च रोध्रञ्च कदम्बार्जुनवेतसाः पारिभद्रदलानां तु पिष्ट्वा व्रणविलेपनम् १८ पाकं गते व्रणे वापि गम्भीरे सरुजेऽथवा सरन्ध्रे शोधनं कार्यं धावनं तु भिषग्वरैः १९ करञ्जधवनिम्बानां कदम्बार्जुनवेतसैः पादावशेषे क्वाथेन गम्भीरव्रणधावनम् २० मञ्जिष्ठा च तथा लाक्षारसश्चैव मनःशिला निशायुगे समायुक्तं पिष्ट्वा वस्त्रपरिस्रुतम् २१ मधुयुक्तं शोधनञ्च व्रणानां हितकारकम् निम्बपत्राणि संक्षिप्य मधुना व्रणशोधनम् २२ निम्बपत्रतिलक्षौद्रं दार्वीमधुकसंयुतम् तथा तिलानां कल्कञ्च शोधनञ्च व्रणेषु च २३ तिलका निम्बसीतस्य पत्राणि सुमनासु च कषायश्च हितश्चैव व्रणानां शोधनेषु च २४ विशुद्धञ्च व्रणं ज्ञात्वा म्रक्षयेच्च व्रणं च तत् नवनीतेन वा श्रेष्ठं तेन नदहते व्रणः २५ जातीकरञ्जपिचुमन्दपटोलमत्र यष्टीमधुश्च रजनी कटुरोहिणी च मञ्जिष्ठकोत्पलमुशीरकरञ्जबीजं स्यात्सारिवा त्रिवृन्मागधिका समांशा २६ पक्वं घृतं वै हितमेव व्रणे प्रशस्तं नाडी गते च सरुजे च सशोणिते च लूताविसर्पमपि हन्ति गभीरयेच्च व्रणाः सदाहकठिना अपिरोहयन्ति २७ इति जात्यादि घृतम् इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने व्रणचिकित्सा नाम पञ्चत्रिंशोऽध्यायः
षट्त्रिंशोऽध्यायः आत्रेय उवाच व्रणोक्तैरुपचारैश्च जायते श्लीपदं तथा वातेन स्फुटितं रूक्षं श्यामञ्चापि प्रदृश्यते १ सदाहपाकं पित्तेन सज्वरञ्चैव दृश्यते श्लेष्मणा जायते स्निग्धं घनं शोफसमन्वितम् २ सन्निपातेन सर्वाणि जायन्ते भिषजांवर मेदाश्रितं तु वाल्मीकं वल्मीकवत् प्रदृश्यते ३ सदृशानि च चिह्नानि वातिकोत्थानि लक्षयेत् तस्य व्रणोक्ताः क्रियाश्च कारयेद्विधिपूर्विकाः ४ जात्यादि च घृतं शस्तं तथैवालेपनानि च पुनः प्रलेपनं कार्यं धवार्जुनकदम्बकैः अ ५ गिरिकर्णिकामूलञ्च तथा वृक्षादनीमपि पिष्ट्वा प्रलेपनं कार्यं वाल्मीकश्लीपदस्य च ६ सूरणकन्दकं पिष्ट्वा मधुना च घृतेन च लेपनं च हितं तस्य वाल्मीकश्लीपदापहम् ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने श्लीपदचिकित्सा नाम षट्त्रिंशोऽध्यायः ३६
सप्तत्रिंशोऽध्यायः आत्रेय उवाच वाताभिघातपवनाद्व्रणाद्वापि तथा पुनः रक्तनाड्यः प्ररोहन्ति रुन्धन्ति च तथा पुनः १ तेन रक्तस्य मार्गस्तु रुध्यते तेन जायते अर्बुदञ्चमहास्थूलं मार्गरोधाच्च जायते २ वातान्मृदुच परुषं कफाच्च घनशीतलम् पित्तेन दाहपाकाद्यं विजानीयं विचक्षणैः ३ सन्निपातेन काठिनं घनं पाषाणसन्निभम् वृद्धिमच्च गडुकं स्यादसाध्यं तद्भिषग्वर ४ तस्यादौ पाटनं कार्यं मर्मस्थानञ्च वर्जयेत् सैन्धवेन घृतेनापि कुर्यात्तस्यानुलेपनम् ५ सूरणं कन्दकं दग्ध्वा घृतेन च गुडेन च लेपनं चार्बुदानाञ्च नाशनञ्च भिषग्वर ६ शेषा व्रणक्रिया प्रोक्ता शस्ता वार्बुदशान्तये वातघ्नानि च पथ्यानि हितानि मधुराणि च ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अर्बुदचिकित्सा नाम सप्तत्रिंशोऽध्यायः ३७
अष्टत्रिंशोऽध्यायः आत्रेय उवाच इति व्रणक्रिया प्रोक्ता समासेन भिषग्वर यथायोगं चोपचारं ज्ञात्वा सम्यगुपानरेत् १ दुष्टाम्बुपानाञ्च कदन्ननिषेवणाच्च सञ्जायते च क्रिमिसम्भवगण्डमाला समारुते च कफपित्तभवे विकारे संसर्पते क्रिमिजदोषगणश्च गण्डात् २ वातेन वातसदृशानि च लक्षणानि पित्तेन दाहसरुजव्रणशोषतापाः संश्लेष्मणा च शीतलघना सम्प्रयोगात्स्यात्सन्निपातविहिता च समस्तलिङ्गैः ३ तस्य चेमं प्रतीकारं वक्ष्यामि शृणु पुत्रक रोहिणी विशदा चैव विजया च विभेदिनी ४ कान्तारी वज्रपुष्पा च तथा चेन्द्रायुधापरा इति सप्तविधा लूताः शृणु पश्चात्पृथक्पृथक् ५ रक्तमुण्डाभवेद्रक्ता रक्तस्थाने च रोहिणी विशदा मांसलस्थाने श्वेतवर्णा च दीर्घिका ६ विजया च शिरोमध्ये पीतवर्णा यवप्रभा ७ भेदिनी मेदसंस्थाने श्वेता च नीलरेखिका ८ कान्तारी बस्तिमध्ये च श्वेताङ्गा रक्तमुण्डिका वज्रपुष्पा चास्थिमध्ये श्वेता कृष्णा शिरा मता ९ इन्द्रायुधा शिरान्ते च धूम्रा कृष्णा शिरा मता १० रोहिण्यंगुलिमात्रेण मूत्रेण विशदा समा विजया च यवाकारा वर्त्तुला विजया तथा ११ अन्या नृणां च विज्ञेया तण्डुलीकण्टकानिभा रोहिणी विजया विंशा मांसस्थाने समाश्रिता १२ गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरे कुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्रक १३ वज्रपुष्पा शिरसि च शिरान्ते चेन्द्रायुधा मता अतो वक्ष्यापि भैषज्यं शृणु पुत्र प्रयत्नतः १४ सान्द्रपूय विस्रावञ्च गम्भीरञ्च व्रणं विदुः अन्यञ्च सरुजं चैव पक्वजम्बूसमप्रभम् १५ लूताव्रणानां चैतानि अपक्वं यावद्दृश्यते त्यक्त्वा सन्धिस्थमर्मस्थां लूतां चैवहि तद्व्रणम् तदा तप्तेन तैलेन दाहश्चाशु विधीयते १६ अङ्कोलश्चैव मद्यानि पारिभद्रदलानि च गृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम् लेपनं च प्रशस्तं च लूतानां मारणे परम् १७ पिण्डीतकं विडङ्गानि तथा चेंगुदिमूलकम् बीजपूरकमूलानि पेषितानि विलेपयेत् गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकान् १८ स्नुहीक्षीरं चार्कक्षीरं लूतारन्ध्रे नियोजयेत् तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः १९ आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम् पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् २० करवीरं चार्कदुग्धं तथा च कटुतुम्बिकाम् निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् २१ लूतामभ्यञ्जने हन्ति गण्डमालाश्च दारुणाम् घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् २२ अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि २३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने लूतागण्डमालाचिकित्सा नामाष्टत्रिंशोऽध्यायः ३८
एकोनचत्वारिंशोऽध्यायः आत्रेय उवाच विरुद्धपानानि गुरूणि चाम्लपापोदकं सेवनकेन वापि निद्रा दिवासुप्रतिजागराच्च पित्तं प्रकुप्येद्रुधिराश्रितं तत् १ त्वचागतः सर्पति रोगदोषः कुष्ठेति संज्ञा प्रवदन्ति धीराः पापोद्भवास्ते प्रभवन्ति देहे नृणां भृशं कोपयतां विधिज्ञ २ कुष्ठानि चाष्टादशधा वदन्ति तेषां पृथक्त्वेन वदामि लक्षणम् असाध्यसाध्यानि च कर्मजानि दोषोद्भवानि च सहजानि तानि ३ कारुण्यपारुष्यमथैव कण्डूरोमप्रहर्षः स्तिमितं तथैषाम् तोदस्तथा संव्यथनं च देहे त्वचि स्थिते कुष्ठभवेति चिह्नम् ४ कपालकं चैवमुदुम्बरञ्च तथैव दद्रूणि च मण्डलानि विसर्पकं हस्तिबलं किणञ्च गोजिह्वकं लोहितमण्डला वा ५ वैपादिकं चर्मदलं तथान्यं विस्फोटकान्यथ बहुव्रणञ्च कण्डूर्विचर्ची कथितं तथान्यद्धातुप्रभेदास्त्वचि रोगसिद्धाः ६ कपालकाभं सितवर्णकञ्च कपाल्यकं तद्गदितं विधिज्ञैः स्निग्धञ्च सर्वाङ्गगतं च कण्डूमुदुम्बरं तं प्रवदन्ति सन्तः ७ दद्रूपमं यद्भवते च दद्रूर्दद्रूपमं मण्डलकं तमाहुः विसर्पकं सर्पति तद्विसर्पे तथान्यमान्तं गजचर्मतुल्यम् ८ यद्द्रुष्यपारुष्यसकर्कशञ्च गोजिह्वकं स्यात्खलु भेदयोग्यम् यवासरक्तानि च मण्डलानि सकण्डुकानि व्रणसंयुतानि ९ ज्ञेयं तु तल्लोहितमण्डलञ्च रक्तोद्भवं तद्रुधिराश्रितञ्च सवेदनार्त्तस्य परिस्फुटञ्च विपादिका सा कथिता विधेया १० सरक्तवातकुपितेन जाता तथैव विस्फोटकसन्निभा वा तथापरं नाम बहुव्रणं च सूक्ष्मा च सा सुविदिता नरस्य ११ कण्डूर्विचर्चीभुवने प्रतीता श्वेतानि सूक्ष्माणि च पाटलानि विसर्पते यस्य नरस्य रक्तं युवा न केनापि भवेच्च सिद्धः १२ शिरीषपुष्पाणि शिरीषकाणिं सन्त्यक्तभावः पुरुषश्च सूक्ष्मः तोदस्तथा वेपथुवातलिङ्गं पित्तेनशोषभ्रमदाहतृष्णाः १३ श्लेष्मोद्भवे कठिनशीतलपाण्डुरञ्च नेत्रे नखेषु च वपुष्यभिलाषता च मिश्रेण संशृतभवानि भवन्ति यस्य स्यात्सान्निपातिकभवं बहुभिश्च लिङ्गैः १४ रूक्षं तथा सकण्डू त्वक्स्थितञ्च मृदु शीतलम् आस्रावदाहरक्ताभं रक्तस्थं रक्तगं विदुः १५ सुस्निग्धं तोदगम्भीरं मांसगञ्च विनिर्दिशेत् मेदःस्थन्तोदवेष्टत्वं सुस्निग्धं रक्तलोचनम् अस्थिसंस्थञ्च गम्भीरं विसर्पे नासिकामुखे १६ मज्जसंस्थश्च विकलो मज्जास्रावश्च जायते विशीर्यते च सर्वाङ्गे तथैव शुक्रगं विदुः १७ अतो वक्ष्ये समासेन प्रतिकर्म भिषग्वर १८ त्वक्स्थे स्वेदस्तथालेपो रक्तस्रावश्च रक्तगे विरेकं मांसगे प्रोक्तं मेदोगे क्वाथपाचनम् १९ अथ तानि च त्रीण्येवमस्थिमज्जागतानि च वातिके स्वेदनं पथ्यं पित्ते शीतोपचारणम् २० कष्टसाध्यमिदं प्रोक्तमसाध्यं सान्निपातिकम् रोगकारणमालोच्य तदा कर्म समारभेत् २१ पक्षान्पक्षाञ्छोधनं पाचनञ्च मासान्मासान्कारयेद्रेचनञ्च मासान्कुष्ठे शोधनाय प्रकर्षात्षष्ठे षष्ठे मास्यसृग्मोक्षणञ्च २२ वासापटोलफलिनीलवणं वचाञ्च निम्बत्वचं क्वथितमाशु पिबेत्कषायम् कुष्ठे करोति वमनं मदनान्विते च पथ्याकषाय वमने मदनान्वितेषु २३ फलत्रिकं त्रिवृद्दन्ती विरेचकं भिषग्वर क्वाथो वचोष्णतोयेन पानेस्याद्भिषगुत्तम २४ श्वासप्रश्वासयोर्वेध्या शिरा शिरसि चेद्बहिः ततः प्रयोजनीयञ्च क्वाथस्नेहस्य भोजनम् २५ शुण्ठीकणाखदिरपाटलिकापटोलीमञ्जिष्ठाक्षुरविषबिल्वयवानिकानाम् वासाफलत्रिकजलेन कषायसिद्धः पानान्निहन्ति मनुजस्य च कुष्ठदोषम् २६ वासाविडङ्गपिचुमन्दपटोलपाठाशुण्ठीसुरेन्द्रतरुपञ्चतरुमूलपथ्याः क्वाथो निहन्ति मरुत्प्रभवं च कुष्ठं त्रिःसप्तकेऽहनि महौषधमेव योज्यम् २७ नित्यं छिन्नोद्भवाचूर्णं तस्याः क्वाथसमन्वितम् पीतं जीर्णे सघृतञ्च पीतञ्च षाष्टिकं पयः २८ हन्ति कुष्ठानि सर्वाणि सप्तधातुगतानि च २९ काश्मर्यदरदघनञ्च कुष्ठं निशाद्वयं काञ्जिककुष्ठमेतत् लेपे प्रशस्तं विनिहन्ति कुष्ठं विचर्चिकां तथा विसर्पदोषम् ३० पिष्टानि तत्र मधुकाञ्जिकमूत्रपिष्टलेपेन कुष्ठमपि दुष्टविचर्चिकाञ्च ३१ विसर्पदोषे प्रोक्तानि धावनानि च कारयेत् सौवीरकरसेनापि धावनं त्रिफलाम्बुना ३२ वातिके चैव कुष्ठे च प्रशस्तं कथितं बुधैः निम्बपत्रकषाये च यष्टी मधुककल्कितम् ३३ दुग्धेन शीतलेनापि विदार्याः क्वाथकेन वा हन्ति कुष्ठं महाघोरं धावनं न प्रशस्यते ३४ अग्निमन्थपटोलानि मातुलुङ्गदलानि च सठीपर्पटकः क्वाथो धावनं श्लेष्मरोगिणाम् ३५ विपादिकां नवनीतेन क्षालयित्वा विदांवर स्वेदयित्वार्कदुग्धैश्च मधुतैलेन लेपनम् ३६ खदिरनिम्बकदम्बकं तथा ककुभः पाटलिका शिरीषकम् कुटजकिंशुकवासुसमोरटः वटकुटं नटपिप्पलिपीलुकम् ३७ धवमुदुरम्बवेतसमेकतः क्वथितपानविधानघृतेन तु सकलकुष्ठ विनाशनकारकं भवति चेन्दुसमानवपुर्नरः ३८ आरग्वधधातकीकर्णिकारधवार्जुनैः सज्जककिंशुकानाम् कदम्बनिम्बकुटजाटरूषाः खदिरेण युक्ताश्च तथैव मूर्वा ३९ मूलानि चैषामुपहृत्य सम्यगष्टावशेषे क्वथितः कषायः घृतेन तुल्यं प्रतिमानवस्य निहन्ति सर्वाणि शरीरजानि ४० कुष्ठानिसर्वाणि विसर्पदद्रुविचर्चिका हन्ति नरस्य शीघ्रम् ४१ खदिरकदरमूर्वावालकं कर्णिकारः कुटजसपरिभद्रारग्वधाश्चेति पिष्टाः क्वथितमिततमांशं वैघृतपानमस्य विनिहन्ति सकलान् वै कुष्ठवैसर्पदर्पान् ४२ भल्लात्कत्र्यूषणमक्षचूर्णं कुष्ठञ्च गुञ्जालवणानि पञ्च फलत्रिकं तैलविपाचितानि चाभ्यञ्जनं हन्ति च दद्रुकुष्ठम् ४३ अश्वघ्नमूलं मलिनं समङ्गा निशाद्वयं सर्षपचित्रकञ्च सभृङ्गराजं कुहतुम्बिका च कुष्ठं विडङ्गं मगधा च चूर्णम् ४४ स्नुह्यर्कदुग्धेन विपाचितं तु तैलं तिलानां परिपक्वमेतत् अभ्यञ्जनं चैव नरस्य नूनं दद्रूणिकण्डूनि विनाशयेच्च ४५ हरिद्रा समङ्गा सुराह्वं सचित्रविडङ्गानि कृष्णा विशालाम्बु कुष्ठम् तथा लाङ्गली चक्रमर्द्दं च गुञ्जा विशाला तथारिष्टपत्राणि चैतत् ४६ चूर्णं कृतं भावितं वै तथैतद्गुडेन घर्मे विपाच्यम् हितं लेपने कुष्ठपामाविचर्चीर्नरस्यातिशीघ्रं निहन्ति ४७ निम्बं पटोलं च किरातकञ्च जाती विशाला सपुनर्नवा च पयोदलाक्षारसमेव वासा त्रायन्तिका बिल्वककुष्ठयष्टिः ४८ संचूर्णितं क्षीरदधिसमेतं घृतं विपक्वं परिषेचने च हितञ्च कुष्ठक्षत दद्रुरक्तं पामविचर्चीर्विनिहन्ति कण्डूम् ४९ पित्तञ्चैव गदं भूत्वा वातेनैव समीरितम् सरक्तञ्च प्रकुपितं कुरुते पाण्डुरच्छविम् ५० स्तब्धचित्तं विरूपञ्च तस्य च लक्षणम् असाध्यं कुष्ठं साध्यं वा विज्ञेयं तद्भिषग्वरैः ५१ ईषद्रक्तं भवेत् पाण्डु सन्निपातोत्थं च जायते असाध्यं तच्च सर्वाङ्गचित्रं स्निग्धं तदेव तु ५२ पीतच्छवि पाण्डुररूक्षमेव उपागतं साध्यतमं प्रतीतम् सम्पाचनं शोधनमेव शस्तं विरेचनं रक्तविमोक्षणञ्च ५३ वासागुडूचीत्रिफलाकरञ्जपटोलनिम्बार्जुनवेतसानाम् कृष्णासमङ्गासहितं च कल्कं पाने हितं चित्रकमण्डले च ५४ खदिरवासकनिम्बपटोलकैर्धवयवासकमेव फलत्रिकैः सकलकुष्ठविसर्पकमण्डलं विजयते मनुजस्य च पाण्डुरम् ५५ पाठाविडङ्गमगधासुरदारुचित्रं दद्रुघ्नरात्रि युगलं च तथा समङ्गा कुष्ठं वचामधुकसैन्धवकाञ्जिकेन पिष्टं तु मूत्रकरुधिररसेन वापि ५६ प्रलेपने चित्रमथैव सिद्धं विनाशमायाति च कण्डुकुष्ठम् विचर्चिकां नाशयते च कण्डूं विस्फोटमाशु प्रति सर्पणानि ५७ भृङ्गराजो हरिद्रा च दूर्वा जाती विडङ्गकाः कृष्णास्तिलाश्चित्रकाणि तथैव हरिचन्दनम् ५८ मूत्रेण पेषितं तत्तु लेप्लनं चित्रकुष्ठिनि हन्ति दद्रूणि सर्वाणि कुष्ठं दद्रूविचर्चिकाः ५९ न विदाहीनि चाम्लानि वातलानि तथैव च ज्वरे च प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत् व्रणेषु कुष्ठराजीषु हितमेवोपचारिणाम् ६० इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कुष्ठचिकित्सा नामैकोनचत्वारिंशोऽध्यायः ३९
चत्वारिंशोऽध्यायः आत्रेय उवाच अतिभारातियोगेन अतितीक्ष्णोष्णभावतः विनाभ्यङ्गेन वा शैत्यात्पित्तेनातिविशेषतः १ क्रिमिदोषेण वा पुंसा जायते च शिरोगदः वातरक्तकफात्पित्तात्पित्तेनापि विशेषतः २ सन्निपातेन विज्ञेयाः क्रिमिजाश्च तथापरे अर्द्धशीर्षविकारश्च दिनवृद्धिकरस्तथा ३ वातेन रात्रौ भवते व्यथा च अथातुरस्य व्यथते शिरश्च सौख्यं लभेत्स्वेदनमर्दनेन वातेन सा विड्वृषणे रुजा वा ४ यस्योष्णमङ्गं भवते शिरस्यं घर्मे सतापे च दिने च रात्रौ स धूमतो वा कटुको बलाशे शीतात्सुखं वा निशि स्वास्थ्यमेति ५ शीतात्सुखं वा प्रथमश्च तृष्णा सतीव्रपित्ताद्भवते रुजा च सूर्योदये वा भवते दिनान्ते भ्रमश्च तृष्णा भवते सुतीव्रा ६ सजाड्यमुण्डं भवते च शीतं स्वेदेन युक्तं युगलञ्च नूनम् सदृश्यनेत्रं नयते च तद्वा कफे यदीष्टः शिरसो विकारः ७ रक्तेन नासापुटकेऽपि जालं निरेति शेषा वदने च तृष्णा रक्ताक्षमन्या जठरे च यस्य तमाहू रक्तोद्भवशीर्षरोगम् ८ मध्यं प्रदूष्य प्रतनोति पीता नाशापरिस्रावि सविड्जलञ्च सजाड्यमोहश्वसनं च यस्य त्रिदोषरोधाद्भवते शिरोऽर्त्तिः ९ यस्यातिमात्रं शिरसि प्रतोदो विभज्यमानेऽपि च मस्तकान्ते घ्राणे परिस्रावि सरक्तपूयं क्रिमिप्रसूता च शिरोव्यथा च १० क्रोधाच्छोकाद्भवेच्चान्या व्यायामेऽतिश्रमेषु च सा वातेन शिरः पीडा सरुजे च नृणामपि ११ अतिलेखनपाठेन तथा सूक्ष्मान्निरीक्षणात् दूरदृष्टेक्षणेनापि वेदना वातरक्तजा १२ नासिकार्द्धे व्यथा तस्य व्यथा भ्रूयुगले भवेत् नीलं कृष्णञ्च पश्येत वेदना मस्तके भवेत् १३ न रक्तेन विना पित्तं रक्तं पित्तेन चाल्यते न पीत्तेन शिरोऽर्त्तिः स्यात्पित्तं वातेन चाल्यते १४ तस्माद्वक्ष्याम्युपचारं शृणु भेषजलक्षणम् स्वेदः प्रलेपनं नस्यं पानाभ्यङ्गञ्च मर्दनम् १५ स्वेदनं वातकफजे चाभिघाते तथा पुनः पित्तजे रक्तजे वापि न कुर्यात्स्वेदनं तयोः १६ रक्तजे च शिरा वेध्या पित्तजे वापि कुत्रचित् कोकिलाख्या च तर्कारि कटुका निम्बपत्रकैः १७ शोभाञ्जनकपुत्रैस्तु क्वाथं वा तेन स्वेदयेत् अमीषाञ्च प्रलेपेन सौख्यं चास्य प्रजायते १८ संशीतपरिषेकैश्च यष्टीमधुकचन्दनैः केसरैर्मातुलुङ्गैश्च पित्तजे शीतलेपनम् १९ कदम्बार्जुनसिन्धुश्च लेपनार्थे भिषग्वर गुडेन नागरा वापि पथ्यां वापि गुडेन वा २० गुडशोभाञ्जनरसैर्नस्ययोगात्पृथक्पृथक् नस्येन बस्तमूत्रेण शिरोऽर्त्तिश्चोपशाम्यति २१ मरिचं पथ्या कट्फलं मूत्रेणोष्णोदकेन वा नस्यं कफोद्भवे घोरे शिरोरोगे भिषग्वर २२ वचामधुकसारं वा मूलं वा गिरिकर्णिका नस्यप्रयोगे विहितं सन्निपाते शिरोगदे २३ वन्ध्याकर्कटकीमूलं पिष्टमूष्णेन वारिणा मितं नस्ये प्रयुञ्जीत क्रिमिजे च शिरोगदे २४ मृङ्गराजरसं चैकं द्विभागं काञ्जिकेन च शोभाञ्जनं भागत्रयं सर्वं तत्र विनिक्षिपेत् २५ सौवीरकरसं पञ्च षड्भागं तुम्बिकारसम् शुण्ठी सैन्धवमम्लीका पटोलं वासकं शिवा २६ अभया सुरसा चैव तैलञ्च चतुरंशकम् पाचितं तत्तु नस्येन योजयेच्च षड्बिन्दुकम् २७ तथैव मस्तकाभ्यङ्गे हितं स्यात्कर्णपूरके हितं वातादिजेरोगे शिरोऽर्त्तौ क्रिमिजे तथा २८ करञ्जबीजस्य विभीतकानां पुटेन तैलं परिस्रुत्य धीमन् बिन्दुत्रयं नस्यविधौ प्रयोज्यं जघान कुष्ठं क्रिमिजं विकारम् २९ कुष्ठं च यष्टीमधुकं च नीत्वा पटोलजातीसुरसारसञ्च विपाचितं तन्नवनीतकञ्च घृतेन नूनं च सरक्तपित्ते ३० सशर्करायुक्तमिदं दिवा च गव्यं प्रवृद्धप्रभवे च दोषे ३१ लाक्षारसं चन्दनयष्टिकानां पटोलधात्रीफलशर्कराणाम् दधि सदुग्धं नवनीतकञ्च विपाचिते नस्यविधौ प्रयुज्यते ३२ भ्रूदोषशङ्खक्षतज क्षये वा दिनादिवृद्ध्या प्रभवेऽपि दोषे ३३ कुंकुमं यष्टिमधुकं कुष्ठं च शर्करासमम् पक्वञ्च नवनीतेन घृतं नस्ये प्रयोजयेत् ३४ नश्यन्ति पित्तजा रोगा दिनवृद्ध्योपवर्जनात् अर्द्धशीर्षविकारश्च प्रशमं याति सत्वरम् ३५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने शिरोरोगचिकित्सा नाम चत्वारिंशोऽध्यायः ४०
एकचत्वारिंशोऽध्यायः आत्रेय उवाच अतिपठनशीलस्यसूक्ष्मवस्त्रेक्षणेनवा दूरालोकेन चोष्णेन भ्रूदोषश्चोपजायते १ रक्तवाताश्रितो दोषः पित्तेन सह मूर्च्छितः भ्रूव्यथा च प्रभवति नासावंशोद्भवा शिरा २ व्यथते चोष्णवेलासु शीतेन स्याद्विशेषतः नेत्रमध्येनीलपीतमण्डलानि च पश्यति ३ तस्यादौ च क्रियां कुर्याच्छिरा वेध्या प्रयत्नतः पूर्वोक्तं स्वेदनं कार्यं नस्ये षड्बिन्दुकादिकम् ४ देवदारु रजनी घनं सठी पुष्करं कुटजबीजमागधी कुष्ठरोध्रचविकायवासकं क्वाथितं च पुनरेव विस्रुतम् ५ तत्र गुग्गुलं विनिक्षिपेत्पुनः शुण्ठिसैन्धवफलात्रिकं हितम् चूर्णितं दधिपयोविमिश्रितं पाचितं च नवनीतकं च तत् ६ सिद्धमेव विदधीत शीतलं शर्करायुतमिदं हितनस्यम् नस्यकर्म शिरसो रुजापहं भ्रूललाटभुजशङ्खमूलकम् ७ शीर्षरोगमपि चार्द्धशीर्षकं तोदने च विहितेन केवलम् कर्मरोगमपि वारयत्यपि तैलञ्च शिरोरोगहरं परम् ८ ताम्बूलपत्रस्य रसं बिडङ्गं सिन्धूद्भवं हिंगुगुडेन युक्तम् जलेन पिष्टं विहितं च नस्यं भ्रूशङ्खदोषांश्च क्रिमीन्निहन्ति ९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भ्रूदोषचिकित्सा नामैकचत्वारिंशोऽध्यायः ४१
द्विचत्वारिंशोऽध्यायः आत्रेय उवाच नासारोगो भवेद्धीमन् क्रिमिजो दोषजः पुनः रक्तजश्च भिषक्छ्रेष्ठ लक्षणञ्च शृणुष्व मे १ वाताच्छिरोऽर्त्तिः शोफश्च सदोषे वातपैत्तिकम् कफजे सघनं शीतं क्रिमिजेऽसृगुपवाहनम् २ नासापाके गुडशुण्ठ्या वातिके नस्यमेव च शर्कराघृतयष्ट्या च पैत्तिके नस्यमेव च ३ श्लैष्मिके सुरसावासारसेन विहितञ्च तत् विडङ्गहिंगुमगधाः क्रिमिदोषे हिता मताः ४ रक्तजेऽसृग्विरेकश्च शिरोरोगस्योपक्रमे ५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने नासारोगचिकित्सा नाम द्विचत्वारिंशोऽध्यायः ४२
त्रिचत्वारिंशोऽध्यायः आत्रेय उवाच केशघ्नस्य चिकित्सां तु शृणु हारीत साम्प्रतम् रूक्षं सपाण्डुरं वातात्पित्ताद्रक्तं सदाहकम् १ कफान्वितं भवेत् स्निग्धं रक्तात् पाकं व्रजन्ति तत् सन्निपातेन सदृशं जायते सर्वलक्षणम् २ गुडेन सुरसाशुण्ठीमातुलुङ्गरसेन तु केशघ्ने वातसम्भूते धावनञ्च प्रशस्यते ३ त्रिफलावचारोहीतं गुडेनापि प्रपेषितम् धावनं कफसम्भूते चैन्द्रलुप्ते प्रशस्यते ४ पैत्तिके च हितं दुग्धं नवनीतान्वितं तथा शिताशिवाफलं यष्टी पैत्तिके धावनं मतम् ५ भृङ्गराजरसं ग्राह्यं शृङ्गवेररसं तथा सौवीरकरसेनापि तिलान् पिष्ट्वा प्रलेपनम् पश्चात्कार्यं पूरुषेण स्नानमुष्णेन वारिणा ६ धवार्जुनकदम्बस्य शिरीषमपि रोहितम् क्वाथमेषां शिरोदद्रूं शमयेदिन्द्रलुप्तकम् ७ कुरबकस्य पुष्पेण जपायाः कुसुमेन च घृष्टस्य चेन्द्रलुप्तस्य कृतमेव निवारणम् ८ पैत्तिकानि च लिङ्गानि दृष्ट्वा दुग्धेन धावनम् शीतलानि प्रदेयानि पैत्तिकेन विधीयते ९ धत्तूरपत्राणि च मागधीनां निशाविशालागृहधूमकुष्ठम् घृतेन युक्तञ्च जलेन पिष्टं शिरःप्रलेपे क्षतवारणं स्यात् १० पित्तकृते दोषयुते च रोगे पटोलपत्रं पिचुमन्दकं वा तथा मलक्याः फलमेव पिष्ट्वा घृतेन खण्डेन प्रलेपनञ्च ११ निवार्यते मस्तकजं क्षतञ्च शिरोऽर्त्तिसङ्घान्विनिहन्ति चैतत् गजेन्द्रदन्तस्य मषीं गृहीत्वा प्रलेपनं वा नवनीतकेन १२ तिलार्क भल्लातकदग्धमाषक्षारस्य लेपो नवनीतकेन सर्पस्य क्षारस्य तथा प्रयोगः खल्लाटके केशचयं करोति १३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने इन्द्रलुप्तचिकित्सा नाम त्रिचत्वारिंशोऽध्यायः ४३
चतुश्चत्वारिंशोऽध्यायः आत्रेय उवाच शेषेण वा तोयभृतेन वापि मलेन वा चाति भवेद्रुजा च उच्छासरोधाद्भवते तथापि वातादिकैर्वा कुपितैरथापि १ संसर्गदोषैरपि सर्वदोषैः क्रिमिव्रणेनापि तथैव चान्या सञ्जायते कर्ण रुजा नरस्य शृणोति तेनापि बहुस्वनांश्च २ निःस्वानमेघध्वनिदन्तशब्दान् शूलं सदाहं च शिरो व्यथा च वेणुस्वनं वत्स शृणोति सर्वं पित्तेन तं विद्धि भिषग्वरिष्ठ ३ तथा च मूर्च्छां प्रतनोति शब्दं मेघस्वनं वा कफजे शृणोति ४ क्रिमिदोषे स्रवेत्पूयं सरक्तं वाति सत्तम तथाचैवाभिघातेन जायते तीव्रवेदना ५ क्षतेन पूयं स्रवते बाल्याद्भवति चापरः तञ्चापि लूतिदोषेण जायते कर्णजा रुजा ६ न कर्णरोगे जलपूरणञ्च न चूर्णमेतत्कथितं विधिज्ञः तैलं हितं स्वेदनमेव कर्णे सवाष्पबिन्दुश्च हितो मतश्च ७ सैन्धवं समुद्रफेनश्च सूक्ष्मचूर्णं च कारयेत् सौवीरकरसेनापि वातिके कर्णपूरणम् ८ अर्द्रसौवीरस्य रसं शुण्ठीसैन्धवगुग्गुलम् माषकुल्माषरसेन तैलं पक्वातिचोष्णकम् ९ कटुतुम्बेन धार्येत कर्णरोगे प्रशस्यते १० यष्टीमधुकुष्ठमरिष्टपत्रं निशा विशालासुमनःप्रवालाः विपाचितं कर्णभवे च शूले सपैत्तिके वा घृतमेव शस्तम् ११ ब्राह्मीरसं सैन्धवकं विडङ्गं सभृङ्गराजस्य घृतेन युक्तम् तथैव सौवीररसञ्च पथ्या स्रुतञ्च वस्त्रं परिपूर्णमेतत् १२ हितं भवेत्तच्छ्रुतिपूरणाय पूयं सरक्तं क्रिमिजं निहन्ति १३ सर्वे प्रोक्ताः शिरोरोगास्तैलानि च घृतानि च जात्यादिकान्वा युञ्जीत शिरोरोगविदांवरः १४ वातहारीणि पथ्यानि विदाहीनि गुरूणि च १५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कर्णरोगचिकित्सा नाम चतुश्चत्वारिंशोऽध्यायः ४४
पञ्चचत्वारिंशोऽध्यायः आत्रेय उवाच उष्णातिक्षारकटुकैरभिघातेन वा पुनः सूक्ष्म वस्त्रेक्षणेनापि दोषाः कुप्यन्ति नेत्रजाः १ सहजा ये पराजेया वक्ष्यामि शृणु लक्षणम् रूक्षः कण्डुश्च तोदश्च शुष्कशीतास्रसन्ततिः २ वातिकं तं विजानीयात्पैत्तिकं शृण्वतः परम् ३ सरक्ते सदाहे नेत्रे उष्णस्रावश्च पैत्तिके शोफकण्डू सन्निपाते शीतजाड्ये कफात्मके ४ द्वन्द्वजो मिश्रलिङ्गैश्च सर्वैस्तैः सान्निपातिके एतद्धि लक्षणं ज्ञात्वा चोपचारं शृणुष्व मे ५ शुण्ठीसुराह्वसुरसाः सह काञ्जिकेन चोष्णेन धावनमिदं सह पैत्तिके च श्लेष्मोद्भवे त्रिफलकल्कमिदं समूत्रं प्रशस्तमन्यैः कथितं भिषग्वरैस्तथा ६ शुण्ठी सठी च रजनी त्रिफला सनिम्बा पत्राणि सैन्धवयुतानि तुषाम्लकेन शस्तं वदन्ति नयनेषु ससन्निपाते रक्तोद्भवे च सरुजे च तथाच शस्तम् ७ फलत्रिकं चारुनिशासु धूमो वचासु वर्षाभवसैन्धवेन प्रलेपनं श्लेष्मभवे विकारे सवातिके वा हितमेव शस्तम् ८ शुण्ठीसैन्धवतक्रेण ताम्रभाण्डे विघर्षितम् अपामार्गस्य मूलं वा मूलं धत्तूरकस्य वा ९ अञ्जनञ्च हितं तेषां वातनेत्रामयापहम् १० दुग्धोत्पन्नं नवनीतं यष्टी निम्बस्तिलाश्च संयोज्याः त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ११ शुण्ठी सैन्धवतुत्थं मागधिका ताम्रभोजने घृष्टम् दध्ना घृतेनाञ्जनकं निहन्ति सर्वांश्च नेत्रगदान् १२ वातपित्तकफदोषसम्भवान्नेत्रयोर्बहुव्यथां हरते क्षणात् एक एव हरति प्रयोजितः शिग्रुपल्लवरसः स माक्षिकः १३ मिथ्याहारविहारैस्तु नेत्रे पुष्पञ्च जायते प्रथमं सुखसाध्यं स्याद्द्वितीयं कष्टसाध्यकम् १४ तृतीयं शस्त्रसाध्यं तु चतुर्थं तदसाध्यकम् १५ शङ्खपुष्पं तथा रोध्रं शङ्खनाभिर्मनःशिला काञ्जिकेन तु सम्पिष्टा छायाशुष्का भिषग्वर १६ वातिके काञ्जिकेनापि पैत्तिके पयसा हिता श्लेष्मले मूत्रसंयुक्ता पुष्पस्याञ्जनके हिता १७ भृङ्गराजरसेनापि त्रिदोषशमने हिता हरीतकी वचा कुष्ठं पिप्पली मरिचानि च १८ विभीतकस्य मज्जा वा शङ्खनाभिर्मनःशिला एतानि समभागानि अजाक्षीरेण पेषयेत् १९ नाशयेत्तिमिरं कण्डूपाटलान्यर्बुदानि च हन्ति पुष्पं सपटलं रात्र्यान्ध्यञ्च नियच्छति २० क्षताभिघाति शोकेन अग्निदग्धं च वा पुनः काचञ्च नीलिका चैव सिद्धिमिच्छन्ति नेत्रयोः २१ बाल्याद्दोषबलादेवदुष्टाहाराभिषेवणात् वार्द्धक्याच्च पटलं स्यात्तस्य वक्ष्यामि लक्षणम् २२ वातात्सकश्मलं रूक्षं पित्तान्नीलं च पीतकम् कफेन शुभ्रं सघनं रक्तेनारक्तकं विदुः २३ सन्निपातादिलिङ्गैश्च अतो वक्ष्यामि भेषजम् २४ शुण्ठीवचारजनितुत्थमनःशिला च शोभाञ्जनाञ्जनविशालजटा च शङ्खम् वास्तूकमूलमधुसैन्धवकट्फलानां सौवीरकेण परिमर्दनवर्तिरेषा २५ छायाविशुष्कनयनाञ्जनके प्रशस्तं नाशं नयेत्पटलनेत्रजरोगसङ्घान् २६ साञ्जना सकट्फलका हरीतकी मनःशिला गुडेन कट्फलञ्चापि निहन्ति नेत्रप्रच्छदम् २७ महाविभीतकफलस्य च शङ्खनाभि घृष्टं ससैन्धवयुतं पयसाम्लकेन वर्तिर्गुडेन नयनाञ्जनके हिता च पित्तप्रसूतपटलस्य निवारणञ्च २८ स धूमञ्च सवातञ्च रूक्षमुष्णादिकं तथा कटुकाम्लं व्यवायञ्च वर्जयेन्नेत्ररोगिणाम् २९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने नेत्ररोगचिकित्सा नाम पञ्चचत्वारिंशोऽध्यायः ४५
षट्चत्वारिंशोऽध्यायः आत्रेय उवाच ओष्ठौ च स्फुटितौ यस्य वातिवाहेन वातिकात् तस्य सर्पिर्भक्षणञ्च ओष्ठदारणवारणे १ सदाहञ्च भवेत्सौष्यं पैत्तिकं तं विनिर्दिशेत् २ मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् लेपनं चोष्ठरोगेषु शर्करासहितं दधि ३ सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम् धवार्जुनकदम्बानां प्रलेपः स्यात्सुखावहः ४ कृष्णा दन्तावलिर्यस्य दन्तमूलं च वातिकात् चलनं वा प्रदृश्येत वातिकञ्च विनिर्दिशेत् ५ पैत्तिकात्पित्तवाहञ्च दन्तमांसं विनिर्दिशेत् श्लैष्मिके दन्तपाके च शोफः स्याच्छ्वेतता भृशम् ६ रक्तजे जायते कण्डूरक्तस्रावश्च दृश्यते सूयते दन्तमांसञ्च सरक्ते दत्पुटे तथा ७ सच्छिद्रं दन्तमूलञ्च सबलं शूलमेव च दन्तमांसं विशीर्येत क्रिमिजा दन्तरुग्भवेत् ८ वचावयानीसहचित्रकेण सिन्धूत्थविश्वासहसिन्धुवारम् कल्कं तथोष्णञ्च सदन्तरोगे मुखे च गण्डूषशतानि पञ्च ९ सर्वेषु मुखरोगेषु हितमेतत्प्रशस्यते वचासैन्धवशुण्ठ्या च घर्षणं दन्तमूलके १० यवानीं च वचां रात्रौ दन्तमूले च धारयेत् पित्तजदत्तरोगेषु नवनीतं सशर्करम् ११ धात्रीफलेन संघृष्टं दन्तरोगनिवारणम् श्लेष्मिकदन्तरोगेषु हरीतक्या गुडेन वा १२ घर्षणं च प्रशस्तं च त्रिफलाक्वाथसंयुतम् अहिमारकमूलस्य क्वाथो गण्डूषधारणात् १३ खदिरस्य तथा क्वाथो यवानीक्वाथ एव च क्वाथश्च निम्बमूलस्य दन्तरोग निवारणः १४ रक्तजे च विकारे च घर्षो लवणसर्षपैः रक्तञ्च स्रावयेत्तस्य इष्टमोष्ठपुटे च तत् १५ विडङ्गं हिंगु सिन्धुञ्च वचाचूर्णेन घर्षयेत् क्रिमिजदन्तरोगेषु हितमेतत्प्रशस्यते १६ जिह्वायां पिटिका यस्य जिह्वापाकं विनिर्दिशेत् वातिके सरुजा कृष्णा पित्तेन दाहसंयुता १७ श्लेष्मणा सघना श्वेता सर्वे वै सान्निपातिके १८ वचा भया विडङ्गानि शुण्ठी सौवर्चलं कणा घृतेन युक्तं जिह्वायां घर्षणं वातिके गदे १९ काञ्जिकेन तु तक्रेण सोष्णगण्डूषधारणम् यष्टीकं चन्दनं मुस्ता मागधी मधुसयुतम् २० लेपनं पैत्तिके दोषे जिह्वास्फोटकवारणम् दुग्धेन च शीतेनापि हन्ति गण्डूषधारणम् २१ दन्तरोगे तथा जिह्वापाके तच्च हितं विदुः रोध्रार्जुनकदम्बानां क्वाथश्चोष्णः सुखावहः २२ श्लेष्मोद्भवे मुखपाके हितं गण्डूषधारणम् रक्तजेषु विकारेषु रक्तस्रावं च कारयेत् २३ कण्टकेनापि जिह्वायाश्चीरयित्वा च लेपनम् मूर्वामुस्ताभयाशुण्ठीमागधीरजनीद्वयम् २४ गुडेन मधुना युक्तं लेपनं रक्तजिह्वके मरिचञ्चवचा कुष्ठं हरीतक्याश्च चूर्णितम् घर्षणं श्लेष्मणि जाते जिह्वापाके हितं विदुः २५ तिलपिच्छिलगौल्यादिसेवनातिद्रवादपि नवोदकेन कफजो जायते घण्टिकागदः २६ जिह्वामूले कण्ठसन्धौ श्लेष्मरक्तसमुद्भवः तेनास्यशोषो जडता ज्वरो मन्दश्च जायते २७ शिरोव्यथारुचिस्तन्द्रा तथास्य जडता भवेत् तर्जन्यां कण्ठमध्ये तु सम्पीड्य रक्तपन्थिका २८ परिस्रुतं तथा रक्तं तदा विम्लापनं हितम् वचाञ्च मरिचं कृष्णाचूर्णं तत्र निधापयेत् २९ मर्दनं स्यात्कण्ठदेशे तेन ग्रन्थिविलीयते धान्यनागरजीमूतवचाः ह्येताः समांशकाः ३० क्वाथः स्वेदो घण्टिकाया मुखे गण्डूषधारणम् दिवारात्रौ वचाग्रन्थिं मुखे सन्धारयेद्भिषक् ३१ तेन सौख्यं भवेत्तस्य मुखरोगाद्विमुच्यते ३२ गले घण्टिकामार्गे च रक्तश्लेष्मविकारजा लम्बिका वर्धते नृणां विज्ञेया गलशुण्डिका ३३ रुन्धते चास्यमार्गञ्च नेत्रस्रावः प्रदृश्यते शिरोऽर्त्तिः श्वासकासञ्च ज्वरेणैव प्रपच्यते ३४ आशुकारी महाप्राज्ञः शीघ्रं कुर्यात्प्रतिक्रियाम् शस्त्रेण शुण्डिकां छित्त्वा कुर्याद्विम्लापनं हितम् ३५ मागधी मरिचं पथ्या वचाधान्ययवानिकाः क्वाथः सोष्णः स्वेदमायाद्गलशुण्डोपशान्तये ३६ दिवा रात्रौ यवान्याश्च मुखे सन्धारणं हितम् मर्दनं कण्ठदेशे तु तेन सम्पद्यते सुखम् ३७ सिद्धार्थकं वचा कुष्ठं रजनी पारिभद्रकम् ग्रहधूमं सलवणं कण्ठे वा लेपनं हितम् ३८ ज्वरे प्रोक्तानि पथ्यानि यानि तानि महामते न गौल्यं पिच्छिलं सेव्यं तैलं नैव गलामये ३९ इति गलशुण्डिकाचिकित्सा इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मुखरोगचिकित्सा नाम षट्चत्वारिंशोऽध्यायः ४६
सप्तचत्वारिंशोऽध्यायः आत्रेय उवाच क्लैब्यं पञ्चविधं प्रोक्तं समासेन शृणुष्व मे १ निरोधातिव्यवायेन वयःश्रान्तेऽपि मानवे जायते रेतसो हानिः क्लीबत्वञ्चापि जायते २ त्रिविधं जायते क्लैब्यं मानसं रेतसः क्षयात् सहजं शुष्कसंस्वेदाज्जायते क्लीबता नरे ३ यस्य वै ममता चित्ते दृष्ट्वा स्त्रीणां विरागिताम् स्पर्शने स्वेदकं पञ्च तत्साध्यं मानसं स्मृतम् ४ यस्य विद्वेषतः स्त्रीणां व्यवायेन मनःक्षितिः ध्वजभङ्गो भवेच्छीघ्रं तत्क्लैब्यं रेतसः क्षयात् ५ समप्रकृतिर्यस्यान्यः सोऽप्यसाध्यतमः स्मृतः मनःक्षये मनोद्रेको मुग्धस्त्रीसहसङ्गमः ६ सरागविभ्रमकथालापैः संवर्द्धते मनः शुक्रक्षये शुक्रवृद्धिं कथयिष्यामि साम्प्रतम् ७ विदारिकागोक्षुरमूषकानां धात्रीफलं स्यात्सहसैन्धवानाम् समानि चैतानि च मागधीनां युक्तं सिताढ्यं पयसा पिबेच्च ८ विषं बृहत्यौ मगधात्रिकण्टास्तथात्मगुप्ता सशतावरी च सशर्करं गोपयसो घृतेन पानं नराणां प्रकरोति बीजम् ९ यवगोधूममाषाणां निस्तुषाणाञ्च चूर्णकम् दुग्धेनेक्षुरसेनापि संस्कृत्य तु घृतेन तु १० पाचितं वटकश्रेष्ठं भक्षयेत्प्रातरुत्थितः तस्योपरि पयःपानं पिप्पलीशर्करान्वितम् ११ यवक्षारविदारीञ्च माषचूर्णं तथा यवान् मरिचानां सिताढ्यञ्च घृतानाञ्च प्रपोलिकाम् १२ पाचयेद्भक्षयेत्प्रातः पयःपानं तथोपरि वीर्यञ्च कुरुते पुंसां वनिता रमते भृशम् १३ गुडूची शतमूली च स्वयंगुप्ता बला तथा १४ शाल्मली मुसलीमूलं चूर्णं गोपयसान्वितम् पानं नराणां श्रेष्ठं तु बीजमिन्द्रियकारकम् १५ विदारिकन्दांशुमती बृहत्यौ काकोलिका भीरु पुनर्नवे द्वे शृङ्गाटकं मागधिका बला च चूर्णं सिताढ्यं सितया प्रयोज्यम् १६ जीर्णे पयः पायसमेव योज्यं करोति पुंसां बलमेवमोजः स्त्रीणां सहस्रं भजतेऽपि षण्ढो मासद्वयेप्रस्तुतमेव शस्तम् १७ वर्जयेत्कटुकं चाम्लं तीक्ष्णं चोष्णं विदाहि च रूक्षं वापि च सौवीरं प्रोक्तानि चेन्द्रियक्षतौ १८ पलाण्डुयवनं कन्दांस्तिलान्माषान्यथाबलम् तथौदनं विशालीनां दुग्धं चेक्षुरसं तथा १९ वास्तुकं चिल्लकानाञ्च पथ्ये शुक्रक्षयादपि वर्जित्वा सूरणं शुण्ठी योगयुक्तो न योजयेत् २० इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वाजीकरणं नाम सप्तचत्वारिंशोऽध्यायः ४७
अष्टचत्वारिंशोऽध्यायः आत्रेय उवाच वन्ध्या स्यात्षट्प्रकारेण बाल्येनाप्यथवा पुनः गर्भकोशस्य भङ्गाद्वा तथा धातुक्षयादपि १ जायते न च गर्भस्य सम्भूतिश्च कदाचन काकवन्ध्या भवेच्चैका अनपत्या द्वितीयका २ गर्भस्रावी तृतीयाऽथ कथिता मुनिसत्तमैः मृतवत्सा चतुर्थी स्यात्पञ्चमी च बलक्षयात् ३ तस्योपक्रमणं वक्ष्ये येन सा लभते सुतम् ४ अजातरजसां स्त्रीणां क्रियते यदि मैथुनम् तेनैव गर्भसङ्कोचं भगत्वमुपगच्छति ५ तेन स्त्री भवते वन्ध्या गर्भं गृह्णाति नो भृशम् सा च कष्टेन भवति रामा गर्भवती भिषक् ६ औषधैश्चोपचारैश्च सिद्धिश्चापि न संशयः अनपत्यबलेनापि जायते भिषजां वर ७ न भवेत्काकवन्ध्या च अनपत्यापि सिध्यति सिध्यन्ती क्षीणधातुत्वाज्जायते सा भिषग्वर ८ चन्दनोशीरमञ्जिष्ठापटोलं धनवालकम् मधुकं मधुयष्टी च तथा लोहितचन्दनम् ९ सारिवा जीरकं मुस्तं पद्मकञ्च पुनर्नवा क्षीरेण शर्करायुक्तं पानं पित्तोद्भवे गदे १० ज्ञात्वा योनिविशुद्धिञ्च तत्र दद्यान्महौषधम् चन्दनोशीरमञ्जिष्ठा गिरिकर्णी सिता तथा ११ क्षीरेणालोडिता पित्ते पुष्पसिद्धिं करिष्यति १२ रजोरक्तं परीक्षेत वातपित्तकफात्मकम् सरुजञ्च सकृष्णञ्च पक्वजम्बूनिभं च यत् वातेन बाधितं पुष्पं तच्च संलक्षयेद्बुधः १३ तस्य नागरपिप्पल्यौ मुस्ताधन्वयवासकम् बृहत्यौ पाटला चैव क्वाथः सगुडको दधि १४ सप्ताहं पाययेद्धीमान्यावत्स्रवति शोणितम् विशुद्धे च तथा रक्ते पाययेत्पयसान्वितम् १५ श्वेता च गिरिकर्णी च श्वेता गुञ्जा पुनर्नवा तेन सा लभते गर्भं मासमेकं प्रयोगतः १६ जपाकुसुमसङ्काशं कुसुम्भरससन्निभम् दाहशोषमूत्रकृच्छ्रयुक्तं तत् पित्तदूषितम् १७ चन्दनोशीरमञ्जिष्ठापटोलं घनवालकम् मधुकं यष्टिमधुकं तथा लोहितचन्दनम् १८ पद्मकं पुनर्नवे द्वे शारिवा जीरकं घनम् क्षीरेण शर्करायुक्तं पानं पित्तकृते गदे १९ ज्ञात्वा योनिविशुद्धिञ्च तत्र दद्यान्महौषधम् श्वेतार्कमूलं पयसा श्वेता च गिरिकर्णिका २० श्वेताद्रिकर्णीमूलञ्च पानं गोक्षीरसंयुतम् वन्ध्यानां गर्भजननं भवते लक्षणान्वितम् २१ सघनं पिच्छलं चापि जाड्यं स्यान्मूत्ररोधनम् आलस्यतन्द्रा निद्रा च कफदुष्टं रजो विदुः २२ त्रिफला गिरिकर्णी च तथारग्वधवत्सकौ पयसा पयसा पानं स्त्रीणाञ्च गर्भकारणम् २३ बलाद्यं चन्दनाद्यञ्च द्राक्षाद्यं चूर्णमेव च दापयेद् गर्भजननं नारीणां भिषगुत्तमः २४ खण्डकाद्यञ्च चूर्णञ्च नारीणां भिषगुत्तमः पुनर्नवाद्यं देयं वा स्त्रीणां गर्भप्रदायकम् २५ अथ पथ्यं प्रवक्ष्यामि स्त्रीणां च शृणु पुत्रक कञ्चरं सूरणं चैव तथा चाम्लं च काञ्जिकाम् २६ विदाहिकं च तीव्रं च स्त्रीणां दूरे परित्यजेत् वन्ध्याकर्कटकीमूलं लाङ्गली कटुतुम्बिका २७ देवदाली द्विबृहती सूर्यवल्ली च भीरुका निर्माल्यं माल्यवस्त्रञ्च तथा स्यादृतुसङ्गमः २८ अन्यस्त्रीस्नातमुदकं स्त्रीणां पथ्यमुपक्रमः २९ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वन्ध्योपक्रमो नामाष्टचत्वारिंशोऽध्यायः ४८
एकोनपञ्चाशत्तमोऽध्यायः आत्रेय उवाच प्रथमे मासि यष्टीमधुपरुषकं मधुपुष्पाणि यथा लाभम् नवनीतेन पयो मधु मधुरं पाययेच्च १ द्वितीये मासि काकोली मधुरं पाययेत्तथा तृतीये कृशरा श्रेष्ठा चतुर्थे च कृतौदनम् २ पञ्चमे पायसं दद्यात् षष्ठे च मधुरं दधि सप्तमे घृतखण्डेन चाष्टमे घृतपूरकम् ३ नवमे विविधान्नानि दशमे दोहदं तथा मासे तृतीये सम्प्राप्ते दोहदं भवति स्त्रियः ४ यद्यत् कामयते सा च तत्तद्दद्याद्भिषग्वरः ५ वर्जयेद्द्विदलान्नानि विदाहीनि गुरूणि च अम्लानि सोष्णक्षीराणि गुर्विणीनां विवर्जयेत् ६ मृत्तिका भक्षणीया न न च सूरणकन्दकाः रसोनश्च पलाण्डुश्च सन्त्याज्यो गुर्विणीस्त्रिया ७ सूरणानि प्रदेयानि गौल्यानि सरसानि च पथ्ये हितानि चैतानि गुर्विणीनां सदा भिषक् ८ व्यायामं मैथुनं रोषं शोषं चंक्रमणं तथा वर्जयेद्गुर्विणीनाञ्च जायन्ते सुखसम्पदः ९ अथोपपन्नं विहितमपि स्वकीयाचारेण पञ्चमासिकमटमासिकं वा ब्राह्मणमङ्गलादिभिर्गोत्रभोजनमपि कर्त्तव्यम् दोहदादिषु परिपूर्णेषु रूपवान् शूरः पण्डितः शीलवान्पुत्रो जायते १० इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपचारो नाम एकोनपञ्चाशत्तमोऽध्यायः ४९
पञ्चाशत्तमोऽध्यायः आत्रेय उवाच प्रथमे मासि गर्भस्य चलनं दृश्यते यदि तदा मधुकमृद्वीकाचन्दनं रक्तचन्दनम् १ पयसालोडितं पीतं तेन गर्भः स्थिरो भवेत् २ द्वितीये मासि चलिते मृणाले नागकेशरम् तृतीये मासि गर्भस्य चलनं दृश्यते यदा ३ तदा मूषककिट्टं तु शर्करापयसा पिबेत् चतुर्थे मासि दाहश्च पिपासा शूलमेव च ४ ज्वरेण स्त्रीणां यदि गर्भश्चलते तदोशीरचन्दननागकेशरधातकीकुसुमशर्कराघृतमधुदधिपाययेत् । पञ्चमेमासे चलिते गर्भे दाडिमीपत्राणि चन्दनं दधि मधु च पाययेत् । षष्ठे मासि गैरिकं कृष्णमृत्तिकागोमयभस्म उदकं परिस्रुतं शीतलं चन्दनं शर्करया सह पिबेत् । सप्तमे मासि गोक्षुरसमङ्गापद्मकघनमुशीरनागकेशरं मधुरं पाययेत् । अष्टमे मासि रोध्रं मधु मागधिकाञ्च सह दुग्धेन पीतवतीनां चलिते गर्भे स्त्रीणां सुखं सम्पद्यते ५ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने चलितगर्भचिकित्सानाम पञ्चाशत्तमोऽध्यायः ५०
एकपञ्चाशत्तमोऽध्यायः आत्रेय उवाच शोषो हृल्लासच्छर्दिश्च शोफो ज्वरस्तथारुचिः अतीसारो विवर्णत्वमष्टौ गर्भस्योपद्रवाः १ वक्ष्यामि भेषजं तस्य यथायोगेन साम्प्रतम् वटप्ररोहं मगधामुशीरं घनमेव च २ युता खण्डगुटिकास्ये विहिता शोषवारिणी ३ वत्सकं मगधा शुण्ठी तथा चामलकीफलम् युक्तं कोमलबिल्वेन दध्ना पिष्टं तु दापयेत् ४ शर्करासंयुतं पानं स्त्रीणां गर्भे हितं सदा ५ पीतो भूनिम्बकल्कश्च शर्करासमभावितः छर्दिं हरेच्च हृत्क्लेदं मधुना वा समन्वितः ६ शृङ्गवेरं सकटुकं मातुलुङ्गस्य केशरम् मार्जनं दन्तजिह्वासु गन्डूषश्चोष्णवारिणा ७ गुर्विणीनाञ्च सर्वासामरुचिं च नियच्छति वत्सकं दाडिमं पाठा बिलबिल्वबलास्तथा ८ जम्ब्वाम्रपल्लवाश्चैव यथा लाभेन सत्तम शर्करादधिसंयुक्तं स्त्रीणाञ्चैवातिसारके ९ हरीतकी नागरकं गुडेन वा त्रिफलाकषायः शीतः स्त्रीणां विनिहन्ति पाने विबन्धविद्रधींश्च १० मूत्रविबन्धनस्य त्रपुसैर्वारिबीजानि मागधी च शिलाभेदं सिताढ्यञ्च पिबेत्तण्डुलवारिणा । मूत्ररोधं गुर्विणीनां वारयत्याशु निश्चितम् ११ मधुकविषमृणालं पद्मकिञ्जल्ककल्कं घनमतिविषमैन्द्रं बीजमौशीरनीरम् । समकृतमथ कल्कं देयमाशु प्रपाने हितमपि युवतीनां गर्भचाले सिताढ्यम् १२ गर्भस्योपद्रवाः शोफाः स्वेदयेदुष्णवारिणा न दातव्यो मतिमता विरेको दारुणो महान् १३ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपद्रवचिकित्सा नामैकपञ्चाशत्तमोऽध्यायः ५१
द्विपञ्चाशत्तमोऽध्यायः आत्रेय उवाच विरुद्धाहारसेवाभिस्तथा गर्भव्यथासु च अतिमूर्द्धनपीडायाः पीडां प्राप्नोति चार्भकः १ तिर्यग्वापि च गर्भञ्च त्यक्त्वा द्वारं भगस्य च अन्यद्वा म्रियतेऽपत्यं तेन कष्टं प्रपद्यते २ अथवा लज्जया स्त्रीणां सङ्कोचात्सङ्कुचिते भगे मूढगर्भञ्च जानीयात्तस्य वक्ष्यामि लक्षणम् ३ बस्तिशूलञ्च भवति योनिद्वारं निरुन्धति गर्जते जठरं यस्या आध्मानञ्चैव जायते ४ तोदनं चाङ्गभङ्गश्च निद्राभङ्गश्च जायते वाताद्भवति गर्भस्य संरोधो भिषगुत्तम ५ शूलं ज्वरस्त्रिदोषश्च तृष्णादोषो भ्रमस्तथा मूत्रकृच्छ्रं शिरोऽर्त्तिः स्यात्पित्ताद्रोधो भ्रूणस्य च ६ आलस्यतन्द्रानिद्रा च जाड्याध्मानं च वेपथुः कासो विरसता चास्ये श्लेष्मणा मूढगर्भके ७ द्वन्द्वैश्च द्वन्द्वजं विद्यात्सर्वं स्यात्सान्निपातिकम् ८ भ्रममूर्च्छातृषाध्मानं वातरोधञ्च विह्वलम् मूर्च्छावमिं सपारुष्यं दीनत्वमुपगच्छति ९ मृतगर्भं विजानीयादाशुकारी स्त्रियामपि अतोवक्ष्यामि भैषज्यं महामोहे विशारद १० वातिके मर्दनाभ्यङ्गं स्वेदनं वाल्पमेव च यवागूं पञ्चकोलञ्च पाययेद्भिषगुत्तमः ११ पैत्तिके शीतलं पानं शीतान्नसहितानि च व्यञ्जनानि तथा तस्य यष्टिकं पयसा पिबेत् १२ त्रिकटु त्रिफला कुष्ठं रोध्रं वत्सकधातुकी सगुडं क्वथितं पाने श्लेष्मणा मूढगर्भके १३ मूर्वाचिञ्चावास्तुकर्णीमञ्जिष्ठारोध्रनीलिकाः कर्कन्धुमूलं सौराष्ट्री क्वाथश्च सगुडो हितः १४ रक्तपित्तविकारेषु कुक्षिशुद्धिश्च जायते मृतगर्भस्य वक्ष्यामि भेषजं भिषजां वर १५ मर्दयित्वा मानुषीञ्च ततश्चापि प्रयत्नतः निराहाराच्च म्रियते यदिगर्भोऽन्तरे स्त्रियः १६ तदा शस्त्रप्रतीकारं भेषजानि शृणुष्व मे नाभिबिलशयाच्च सुकुण्डलिकां कृत्वा तु तस्योपरि मूढगर्भामुपवेश्य जानुनी प्रसार्य किञ्चित्पृष्ठभागे साधारणमवष्टभ्य उदरादधोऽवतारयेत् । योनिद्वारे प्रगलति तिलतैलेन वारिणा परिभ्यज्य हस्तो याति योनिद्वारञ्च तस्मात्तर्जन्यांगुष्ठेन गलप्रदेशे धृत्वा निःसारयेत् । अथवार्द्धचन्द्रेण शस्त्रेणैव मृतगर्भस्य बाहुयुगलं संच्छिद्य बाहू निःसारयेत् १७ लाङ्गल्या मूलेन उष्णेन वारिणा योषितां नाभिलेपेन शीघ्रं गर्भो जायते प्रसूयते च । बलामूलं सूर्यकान्तिसोमवल्लीकानि कज्जलेन पिष्ट्वा लेपनं करोतु १८ भीरुभूनिम्बवार्त्ताकीमूलञ्च पिप्पलीयकम् यवान्यग्रवचाः पिष्ट्वा तथा चोष्णेन वारिणा १९ नादिदेशादधस्ताच्च प्रलेपेन प्रसूयते मूलञ्च लाङ्गलिक्याश्च देवदाल्याश्च तुम्बिका २० कोशातक्यादिकं सर्वं लेपने परिकल्पितम् सूतिलेपाः स्त्रियो ह्येते सुखेन सा प्रसूयते २१ हिमवदुत्तरे कूले सुरसा नाम राक्षसी तस्या नूपुरशब्देन विशल्या गुर्विणी भवेत् २२ ऐं ह्रीं भगवति भगमालिनि चल चल भ्रामय पुष्पं विकाशय विकाशय स्वाहा । ॐ नमो भगवते मकरकेतवे पुष्पधन्विने प्रतिचालितसकलसुरासुरचित्ताय युवतिभगवासिने ह्रीं गर्भं चालय चालय स्वाहा । अभिर्मन्त्रितं पयः पाययेत्तेन सुखप्रसवः २३ ऐं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रौं ह्रः २४ इदं यन्त्रं भूर्जपत्रस्योर्ध्व भागे लिखित्वा मूढगर्भायै दर्शयेच्छयातले च स्थापयेत्तेन सुखेन प्रसवः २५ गङ्गातीरे वसेत्काकी चरते च हिमालये तस्याः पक्षच्युतं तोयं पाययेच्च ततः क्षणात् २६ ततःप्रसूयते नारी काकरुद्रवचो यथा अनेन दूतो व्याकुलो भवेत्तावच्च पाययेत् २७ तेन प्रसूयते नारी गृहे काकसुखेन च २८ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूढगर्भचिकित्सानाम द्विपञ्चाशत्तमोऽध्यायः ५२
त्रिपञ्चाशत्तमोऽध्यायः आत्रेय उवाच प्रसूत्यनन्तरं रोध्रार्जुनकदम्बदेवदारुबीजकाह्वं कर्कन्धूञ्च यथालाभं लोहितविशुद्धे दापयेत् । प्रसूतिजाता योनिः संशोध्यते तैलेनापूर्याभ्यज्य चोष्णेन वन्रिणा स्वेदयेत् उपवासमेवं कृत्वा द्वितीये दिवसे गुडनागरहरीतकीश्च दापयेत् । द्वययामोर्ध्वं कुलत्थयूषं वा सोष्णं पाययेत् । तृतीयदिवसे पञ्चकोलयवागूर्दापयेत् । चतुर्जातक मिश्रा यवागूर्दापयेत् । पञ्चमेऽहनि शालिषष्टिकौदनं भोजयेत् । अनेन क्रमेण दशपञ्चदशाहं चोपचारयेत् १ पिप्पली पिप्पलीमूलं नागरं घनवालुकम् कुस्तुम्बुरूणि मञ्जिष्ठां सह क्षीरेण कल्कयेत् २ पानं क्षीरविशुद्ध्यर्थं कल्कमश्नात्यनन्तरम् मरीचं पिप्पलीमूलं क्षीरं क्षीरविवृद्धये ३ मागधी नागरी पथ्या गुडेन सघृतं पयः पानं जनयते क्षीरं स्त्रीणाञ्च क्षीरपादपि ४ एवं कृत्वा च नारीणां द्वादशाहे भिषग्वरः माङ्गल्यं वाचनं कृत्वा योषार्थञ्च प्रदर्शयेत् ५ जातके सुतमोक्षञ्च द्वादशाहं तथा पुनः नामकर्मकृतौ सत्यां कर्णवेधनमेव च ६ वस्त्रबन्धं विवाहञ्च कारयेद्बालकस्य च ७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने सूतिकोपचारीनाम त्रिपञ्चाशत्तमोऽध्यायः ५३
चतुःपञ्चाशत्तमोऽध्यायः आत्रेय उवाच पञ्चैव क्षीरदोषाश्च स्त्रीणाञ्च कथिताबुधैः घनक्षीरोष्णक्षीराम्लक्षीरा चैव तथा परा १ अल्पक्षीरा क्षारक्षीरा मृदुक्षीरा तथा परा मृदुक्षीरा भवेत्सौख्या पञ्चान्या दोषकारकाः २ घनाध्माननिरोधत्वं श्वासकासादिसम्भवः उत्फुल्लकुक्षितैवं हि घनक्षीरस्य सेवनात् ३ अल्पसत्वः कृशो दीनः श्वासातीसारपीडितः अल्पक्षीरस्य दोषेण सम्भवेद्घतवाक्सुतः ४ ज्वरः शोषस्तथाल्पत्वमुष्णक्षीरेण बालके तथैव चोष्णक्षीरेण ज्वरातीसार एव च ५ सुसत्वं बलमाप्नोति चारोग्यं लभते शिशुः मृदुक्षीरेण नियतं जायते रूपवानपि ६ चक्षूरोगश्च कण्डूश्च क्षतश्लेष्मावस्राविता संक्लेदयुक्तं नासास्यं जायते क्षारदुग्धके ७ अतो वक्ष्यामि भैषज्यं शृणु हारीत मे मतम् ८ आध्मानात्फुल्लकुक्षिश्च श्वासदोषादिपीडितः उत्फुल्लिका च विज्ञेया बालानां दुःखकारिणी ९ उदरे च जलौकादिरक्तं चादौ विमोक्षयेत् उत्फुल्लिदोषे दातव्य क्षीरदोषनिवारणम् १० अग्निना प्रबलः स्वेदो दहेद्वापि शलाकया जठरे बिन्दुकाकारा जायन्ते भिषगुत्तम ११ बिल्वमूलफलं पाठा त्रिकटु बृहतीद्वयम् क्वाथश्च गुडयुक्तश्च बालानाञ्च ज्वरे हितः १२ स्त्रीणां स्यात्पानमेतेषां बालानां ज्वरनाशनम् १३ हितः पर्पटकक्वाथः शर्करामधुयोजितः बालानां ज्वरनाशाय कैरातं मधुसंयुतम् १४ भार्ङ्गीरास्नाकर्कटकचूर्णं वा मधुसंयुतम् लेहो वा बालकस्यापि श्वासकासनिवारणः १५ पथ्यावचानागरकं घनं कर्कटमेव च चूर्णं सगुडमेवं हि बालानां कासनाशनम् १६ पलाशभेदं त्रिफलात्रपुसीवरीमागधीः पिष्ट्वा तण्डुलतोयेन सिताढ्यं मूत्ररोधजित् १७ नागरीमभयादन्तीगुडचूर्णं प्रदापयेत् बालानां विद्रधिञ्चैव नाशयेच्च न संशयः १८ पाठाबिल्वशिलादीनि वत्सकं शाल्मलीत्वचम् दुग्धेन पानं बालानामतिसारनिवारणम् १९ अर्जुनञ्च कदम्बञ्च कुष्ठं गैरिकमेव च लेपनं त्वचो दोषाणां वारणं बालकस्य च २० रोध्रं रसाञ्जनं धात्री गैरिकं मधुना युतम् अञ्जनञ्चैव बालानां नेत्ररोगनिवारणम् २१ वचा ब्राह्मी च मण्डूकी घनकुष्ठं सनागरम् घृतेन प्रातर्देयञ्च बालानां पुष्टिकारकम् २२ गुडूचिकापामार्गश्च विडङ्गं शङ्खपुष्पिका विष्णुक्रान्ता वचा पथ्या नागरञ्च शतावरी २३ चूर्णं घृतेन संमिश्रं लिहतो धीः प्रवर्त्तते त्रिभिर्दिनैः सहस्रकं श्लोकानामवधारयेत् २४ त्रिकटु त्रिफला धन्या यवानी सालमूलिका वचा ब्राह्मी तथा भार्ङ्गी चूर्णञ्च मधुना हितम् वाक्पटुत्वञ्च बालानां नादो वीणासमस्वरः २५ यस्य श्वासो विचैतन्यं तन्द्रा चातीववेपथुः शिरोऽर्तिः संज्वरश्चैव सचासाध्यो भिषग्वर २६ लालाकृतिर्विचैतन्यं तृप्त विभ्रान्तलोचनम् स्तब्धाङ्गविकृतिर्यस्य चापस्मारी स उच्यते २७ अपस्मारे तु बालस्य शीतलानि प्रयोजयेत् वचा सैन्धवपिप्पल्यो नस्यं हि गुडनागरः २८ रसं चागस्ति पत्रस्य मरिचैः प्रतियोजितम् एतेन प्रतिसौख्यं स्यात्तदा चान्दोलनं हितम् २९ मस्तकान्ते ललाटे च दहेल्लोहशलाकया ३० शून्यागारे देवकुले श्मशाने देवमध्यगे चत्वरे सङ्गमे नद्योर्भय क्षुभितबालके ३१ संक्रामन्ति भिषक्छ्रेष्ठ बालकस्यापि पूतनाः ३२ लोहिता रेवती ध्वांक्षी कुमारी शाकुनी शिवा ऊर्ध्व केशी तथा सेना ह्यष्टौ चैताः प्रकीर्त्तिताः ३३ तथान्यासाञ्च मत्तस्त्वं नामानि शृणु साम्प्रतम् रोहिणी विजया काली कृत्तिका डाकिनी निशा ३४ भूतकेशी कृशाङ्गी च अष्टौ चैताः प्रकीर्त्तिताः लक्षणञ्च प्रवक्ष्यामि शृणु पूजाबलिक्रमम् ३५ जातमात्रस्य बालस्य लोहिता नाम पूतना विस्रगन्धा लोहितञ्च रोदिति स मुहुर्मुहुः ३६ बलिं तस्याः प्रवक्ष्यामि येन सौख्यं प्रजायते द्वितीये दिवसे बालं रेवती नाम पूतना ३७ गृह्णाति लक्षणं तस्य रोदति कम्पते भृशम् कृष्णमृन्मयीं प्रतिमां कृत्वा गन्धानुलेपनैः ३८ कृशरारालचूर्णञ्च दीपधूपैस्तथाक्षतैः ताम्बूलैः कृष्णसूत्रैश्च रात्रौ नैऋर्तिके क्षिपेत् ३९ तृतीये दिवसे प्राप्ते वायसी नाम पूतना तया गृहीत मात्रेण रोदिति न पिबेत्स्तनम् ४० ज्वरश्चैवातिसारश्च काक वद्वदति भृशम् तस्या दध्योदनं पात्रे यवकृशरपोलिकाः ४१ ध्वजानिः सगुणश्चैव कृष्णगन्धानुलेपनम् धूपदीपाक्षतैश्चैव मध्याह्ने बलिमाहरेत् ४२ चतुर्थे दिवसे बालं कुमारी नाम पूतना गृह्णाति वालकस्ते न ज्वरेण परितप्यते ४३ शून्यं विगाहते बालस्तन्मुखं परिशुष्यति भृशं स रोदिति तस्याः शृणु पूजाबलिक्रमम् ४४ पायसं घृतं खण्डं घृतस्य दीपकत्रयम् ४५ मृन्मयीं प्रतिमां कृत्वा पुष्प धूपाक्षतैरपि कृतान्तदिशि मध्याह्ने बलिं दत्वा सुखी भवेत् ४६ पञ्चमे दिवसे बालं शाकुनी नाम पूतना गृह्णाति स तयाक्रान्तः स्तन्यं नाकर्षते शिशुः ४७ सज्वरो वमति रौति कासमानोऽथ वेपते ४८ तस्याः शोभनिका पूजा क्रियते तिललड्डुकैः श्वेतगन्धाक्षतैर्धूपैः पूजयेन्मृण्मयाकृतिम् ४९ उत्तराशां समाश्रित्य पूर्वाह्णे बलिमाहरेत् षष्ठे च दिवसे प्राप्ते शिवा नाम कुमारिका ५० रौति निःश्वसिति तेन वमति कम्पते तथा स्तन्यञ्च नाहरेद्बालो ज्वरातिसारपीडितः ५१ तस्यै बलिः प्रदेयश्च सप्तव्रीहिमयश्चरुः पायसैर्दधिदीपैश्च पूज्या सा तिलचूर्णकैः ५२ गन्धपुष्पाक्षतैर्धूपैः पूजयेन्मृण्मयाकृतिम् ऐशानीं दिशमाश्रित्यापराह्णे बलिमाहरेत् ५३ सप्तमेऽह्नि पूतनाया उर्ध्वकेश्याः शिशौ तथा पूर्ववद्दृश्यते चिह्नं तथैव बलिमाहरेत् ५४ अष्टमे दिवसे प्राप्ते सेना नाम च पूतना तथा गृहीतः श्वसिति हस्तौ कम्पयते भृशम् ५५ तस्यै दध्योदनं दद्यात्तिलचूर्णञ्च पोलिकाम् धूपदीपगन्धपुष्पताम्बूलान्यक्षतानि च ५६ आग्नेयीं दिशमाश्रित्य प्रदोषे बलिमाहरेत् एवं क्रमेण मासस्य वर्षस्य बलिकर्म च ५७ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने बालचिकित्सानाम चतुःपञ्चाशत्तमोऽध्यायः ५४
पञ्चपञ्चाशत्तमोऽध्यायः आत्रेय उवाच शून्ये देवकुले श्मशानभूमौ वीथीप्रतोलीतले रथ्या कारविहारशून्यनगरे चारामक चत्वरे १ जायन्ते क्षुभिते बलानि हृदये क्षुद्रग्रहाणां नरे ते चापि प्रथिता ग्रहा दशविधा वक्ष्याम्यतः साम्प्रतम् २ दश प्रोक्ता महाचार्यैः कैश्चिदप्येकविंशतिः दशग्रहाणां वक्ष्यामि चिकित्सां शृणु पुत्रक ३ ऐन्द्राग्नेयौ यमश्चान्यो नैऋर्तो वरुणो ग्रहः मरुतोऽपि कुबेरश्च ऐशान्यो ग्रहको ग्रहः ४ पैशाचिको ग्रहश्चान्यो दशैते ग्रहनायकाः आरामे च विहारे च देवस्थाने च यो भवेत् ५ ऐन्द्रग्रहं विजानीयात्तेन हर्षति गायति सदर्पश्चासदर्पश्च उन्मादग्रस्त एव च ६ श्मशाने चत्वरे चैव गृह्णात्याग्नेयकुग्रहः तेनैव रोदित्यत्यर्थं पश्यति सर्वतो भयम् ७ युद्धभूमौ श्मशाने च यमश्चापि उदीर्यते तेन विह्वलो दीनश्च प्रेतवच्चेष्टते नरः ८ वल्मीकचत्वरे चैत्ये गृह्णाति नैऋर्तो ग्रहः तेनासौ वर्त्तते द्वेष्टि धावति मारयत्यपि ९ गृप्तनेत्रो विवर्णास्यो बलिष्ठो दुष्टचेतनः नदीतडागतीरे च चलति वारुणग्रहः १० तेनास्यात्स्रवति लाला भृशं मूत्रयति नरः नेत्रप्लावश्च दृश्येत मूकवत्प्रविलोक्यते ११ वातमण्डलीमध्ये च गृह्णाति मारुतग्रहः तेनास्य शोषयेद्दीनः कभ्यते रोदित्यथवा १२ विह्वलः श्रान्तनेत्रश्च निषीदति क्षुधातुरः हर्षगर्वाभिमाने च गृह्णाति यक्षराड् ग्रहः १३ तेन गर्वोद्धतश्चैव तथालङ्कारसुप्रियः १४ देवस्थाने च रम्ये च शिवग्रहश्छलप्रदः भस्माङ्गरागं कुरुते भ्रमते च दिगम्बरः १५ शिवध्यानरतो नित्यं गीतवाद्यप्रियस्तु सः १६ शून्यागारे शून्यकूपे ग्रहको ग्रहनामकः क्षुधार्त्तो न तृषार्त्तश्च कथति न शृणोति च १७ उच्छिष्टे वा शुचौ यस्य छलति पिशाचग्रहः तेन नृत्यति रौति वा गायति जल्पति तथा १८ मत्तवद्भ्रमते नग्नो लालास्रावः क्षुधादिकः एवं दशग्रहाणाञ्च लक्षणं कथितं मया १९ वक्ष्याम्यतः प्रतीकारं शृणु पुत्र समासतः जलस्नानं सातिशयं तथा च बलिकर्म च पूजां यथा वाच्यमानां तेन सम्लभते सुखम् २० एलाजातिफलंमधूकयुगलं रास्ना तथा खादिरः कर्पूरामलकीजटाबहुसुताघोण्टाम्लसारास्तथा । सीसं पारदसारदाडिमफलं मद्यैश्च सम्मीलितं प्रत्येकं दधिदुग्धलाङ्गलरसैर्युक्तं समं कल्कितम् २१ रसेन भावितं तस्य गुटिका च प्रकल्पिता जयेच्चन्द्रप्रभा नाम तीव्रान्मोहादिकान्गदान् २२ शुण्ठी मधुकसारश्च चवी किंशुकमेव च वचाहिंगुसमायुक्तं बस्तमूत्रेण संयुतम् देयं ग्रहविकारघ्नं ग्रहाणां नाशनं परम् २३ बिडालविष्ठाहिममोचनिम्बमयूरपिच्छं समराजिका च निर्मोकपिण्डीतकसर्जमोचधूपं घृताक्तं ग्रहदोषशान्त्यै २४ चेतना नाम गुटिका तथा ब्राह्मीघृतं स्मृतम् अपस्मारे प्रयुक्तानि तानि चात्र प्रयोजयेत् २५ गुग्गुलुं समधुघृतं तेन धूपेन धूपयेत् मन्त्रेण तेन हारीत तर्जयेद्ग्रह पीडितम् २६ ओं नमो भगवते भूतेश्वराय कलिकलिनखाय रौद्र दंष्ट्राकरालवत्क्राय त्रिनयनधगधगितपिशङ्गललाटनेत्राय तीव्रकोपानलामिततेजसे पाशशूलखट्वाङ्गडमरुकधनुर्बाणमुद्गराभयदण्डत्राससमुद्राव्ययदसंयदार्द्रदण्डमण्डिताय कपिलजटाजूटार्द्धचन्द्रधारिणे भस्मरागरञ्जिताविग्रहाय उग्रफणिकालकूटाटोपमण्डितकण्ठदेशाय जय जय भूतनाथामरात्मने रूपं दर्शय दर्शय नृत्य नृत्य चल चल पाशेन बन्ध बन्ध हुङ्कारेण त्रासय त्रासय वज्रदण्डेन हन हन निशितखङ्गेन छिन्नछिन्न शूलाग्रेण भिन्न भिन्न मुद्गरेण चूर्णय चूर्णय सर्वग्रहाणामावेशयवेशय स्वाहा २७ ग्रहाविष्टेन चेत्तस्मै दीयते बलिरुत्तमः मुक्तो भवति तस्माच्च संशयो नास्ति तत्र च २८ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भूतविद्यानाम पञ्चपञ्चाशत्तमोऽध्यायः ५५
षट्पञ्चाशत्तमोऽध्यायः आत्रेय उवाच द्विविधं विषमुद्दिष्टं स्थावरं जङ्गमं भिषक् शृङ्गिको वत्सनाभश्च तथा च शार्ङ्गवैरिकः १ दारकः कालकूटश्च शङ्खस्ययात्सत्सुकन्दुकः हालाहलश्चाष्टभिश्च तथाष्टौ विषजातयः २ शृङ्गिकः कृष्णवर्णश्च वत्सनाभश्च पीतकः शुण्ठीसमानवर्णश्च शार्ङ्गवेरः स उच्यते ३ दारको हरिवर्णश्च कालकूटो मधुप्रभः शङ्खश्चातिविषाभाषः पीताभः सत्सुकन्दुकः ४ हालाहलः कृष्णवर्णचाष्टौ च जातयस्तथा पीतं विषं नरं दृष्ट्वा सद्यो वमनमुत्तमम् ५ यावत्पीतातिविषञ्च तावत्तु वमयेत्सदा सिञ्चच्छीताम्भषा वक्रं मन्त्र पूतेन सत्वरम् ६ ॐ हर हर नीलकण्ठ अमृतं प्लावय हूङ्कारेण विषं ग्रस ग्रस क्लीङ्कारेण हर हर ह्रौकारेण अमृतं प्लावय प्लावय हर हर नास्ति विष उच्छिरे उच्छिरे ७ ॐ नमो हर हर नीलग्रीवश्वेताङ्गसङ्गजटाग्रमण्डितखण्डेन्दुस्फूर्त्तमन्त्ररूपाय विषमुपसंहर हर हर हर नास्ति विष विष विष उच्छिरे उच्छिरे उच्छिरे इति कर्णेजपमन्त्रेण वारंवारं तालुमुखं सिञ्चेछीतवारिणा ८ ताण्डुलीयकमूलानि पिष्ट्वा चोष्णेन वारिणा पीतं पीतविषं हन्ति वमने लाघवं भवेत् ९ काकजङ्घा सहचरीमूलं चैडगजस्य च कदरं कार्मुकञ्चापि त्वचं पीतोष्णवारिणा पीतं तच्च विषं घोरं नाशयत्याश्वसंशयः १० खदिरस्य च मूलञ्च तथा निम्बफलानि च उष्णोदकेन पीतानि विषं जयेयुस्तत्क्षणात् ११ वत्साह्वञ्चाश्वगन्धाञ्च पीत्वा चोष्णेन वारिणा प्रपीतञ्च विषं पाति चाशु नरस्य वेदवाक् १२ अथ प्रधान रक्तस्य क्षते रक्तं विषस्य च तस्य वक्ष्यामि भैषज्यं येन सम्पद्यते सुखम् १३ मर्मस्थाने मर्मगतं तदसाध्यं भवेन्मतम् साध्यञ्च तत्त्वग्रक्तस्थं मांसस्थं कष्टसाध्यकम् १४ असाध्यं धातुसम्प्राप्तं सखे वक्ष्यामि भेषजम् विषलिप्तं नरं ज्ञात्वा ततः कुर्यात्प्रतिक्रियाम् १५ रजनीयुग्माम्लकेन काञ्जिकेन तु पेषितम् लेपेन च विषं हन्ति प्रलिप्तं नात्र संशयः १६ मातुलुङ्गरसेनापि धावनं काञ्जिकेन वा अतिशीतेन तोयेन प्रलिप्तं नात्र संशयः १७ विषं जङ्गममित्युक्तमष्टधा भिषगुत्तम दर्वीकरा मण्डलिनो राजिमन्तश्च गुण्डसाः १८ वृश्चिको गोरकश्चापि तथा च खण्डबिन्दुकः अलर्कमूषमार्जारविषं प्रोक्तमनेकधा १९ दार्वीकराणां सर्वेषामुक्तं वातात्मकं विषम् मण्डलिनाञ्च सर्वेषां पैत्तिकं विषमुच्यते २० राजिमन्तश्च ये प्रोक्तास्तेऽपि कफात्मका विषाः विचित्रगमनं मूर्ध्नः पीडनं चातिदुर्भरम् २१ हृदये व्यथनं यस्य तमसाध्यं वदन्ति च नासारक्तस्रुतिर्यस्य नेत्रे प्लावश्च दृश्यते २२ जडा च जायते जिह्वा तमसाध्यं विदुर्बुधाः यस्य लोमानि शीर्यन्ते पीताभं शरीरं भवेत् २३ न स्थिरं मस्तकं यस्य तमसाध्यं भिषग्वर एभिर्विरहितं दृष्ट्वा कुर्यात्तस्य प्रतिक्रियाम् २४ ॐ नमो भगवते सुग्रीवाय सकलविषोपद्रवशमनाय उग्रकालकूटविषकवलिने विषं बन्ध बन्ध हर हर भगवतो नीलकण्ठस्याज्ञा । ॐ नमो हर हर विषं संहर संहर अमृतं प्लावय प्लावय नासि अरेरे विष नील पर्वतं गच्छ गच्छ नास्ति विषम् ॐ हाहा ऊचिरे ऊचिरे ऊचिरे । अनेन मन्त्रेण मुखमुदकेन त्रासयेत् । ॐ नमोऽरेरे हंस अमृतं पश्य पश्य २५ जयकूटं वचाकुष्ठं सैन्धवं मगधा निशा लेपो दष्टव्रणे प्रोक्तो विषं हन्ति सुदारुणम् २६ सुरसा रजनी व्योषं यवानी पारिभद्रकम् सर्पदष्टव्रणे प्रोक्तं लेपनं विषशान्तये २७ कुष्ठं मुस्ता अजाजी च विडङ्गं मधुयष्टिका गुञ्जामूलं शीततोयैर्लेपो मण्डलिना हितः २८ राजिमन्तो विषा यस्य गृहधूमं वचा घनम् सर्षपाश्च यवानी च पिचुमन्दफलत्रयम् लेपनं राजिमताञ्चैव व्रणतैलेन संयुतम् २९ सठीकिरातं सकटुत्रयं च वचाविशालापिचुमन्दकञ्च पथ्यायवानीरजनीद्वयञ्च दष्टव्रणे लेपनमेव शस्तम् ३० स्थावरं जङ्गमं वापि विषं जग्धं भिषग्वर शीघ्रं दद्याद्व्यथां गुर्वीं प्रोक्तञ्च नरसत्तमैः ३१ ॐ नमो भगवते शिरसिशिखराय अमृतधाराधौतसकलविग्रहाय अमृतकुम्भपरितोऽमृतं प्लावय प्लावय स्वाहा ३२ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विषतन्त्रं नाम षट्पञ्चाशत्तमोऽध्यायः ५६
सप्तपञ्चाशत्तमोऽध्यायः आत्रेय उवाच छिन्नं भिन्नं तथा भग्नं घृष्टं पिष्टं तथैव च आस्फालितं सम्प्रहारः सङ्घातः कथ्यते बुधैः १ शस्त्रभिन्नं नरं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया २ अस्थिस्थं विद्यते मांसमस्थि संच्छिद्यते यदि शाखाप्रशाखयोर्वापि छिन्नं तच्च निगद्यते ३ असन्धौ परिसंच्छिन्नं तदसाध्यं विनिर्दिशेत् खङ्गार्द्धचन्द्रपरशुच्छिन्नं तु कथितं सदा ४ तस्यादौ चारणालेप धावनं परिकीर्त्तितम् पिचुना तिलतैलेन शीघ्रं संस्वेदनान्वितम् ५ यावद्वै स्रवती रक्तं तावत्तैलेन चाभ्यजेत् रक्ते वै विकृतिं प्राप्ते तैलेनाभ्यञ्जनं मतम् ६ शोफाद्याश्च प्रजायन्ते बहुलोपद्रवा व्रणे सन्धौ छिन्नं नरं दृष्ट्वा सेचयेत्तप्तवारिणा ७ सञ्चितस्य व्रणस्यापि प्रशस्तं पिचुतैलकम् पूये वापि विनिर्याति निम्बारग्वधपत्रकम् ८ गुडेन पथ्यां पिष्ट्वा च लेपनं पूयशोधनम् दिनत्रये विशुद्धेऽपि तत्रैवलेपनं हितम् ९ धवार्जुनकदम्बस्य वृक्षोदुम्बरयोस्त्वचम् जलेन पिष्ट्वा लेपश्च तेन संरोहते व्रणः १० शक्तिशूलैश्च बाणैश्च भल्लारखड्गतोमरैः क्षुरिकामुखधाराभिर्भिन्नं तत्कथ्यते भिषक् ११ साध्यममर्मजं प्रोक्तं मर्मस्थं तन्न सिध्यति अपामार्गरसेनापि तथा कूष्माण्डकस्य च १२ धावनं काञ्जिकेनापि प्रशस्तं कथ्यते बुधैः तिलतैलेन चाभ्यङ्गो हितः स्यात्स्वस्थभिन्नके लेपनश्च प्रयोक्तव्यं पूर्वोक्तञ्च हितावहम् १३ उरसि शिरसि शङ्खे कक्षयोः पादयोर्वा त्रिकजठरमुखाग्रे नेत्रयोः कर्णयोर्वा भवति हि यदि शल्यं कष्टसाध्यञ्च शस्त्रैर्भवति यदि न गूढं भेषजैस्तैर्विधिज्ञ १४ शाखाप्रशाखयोर्यच्च मर्मस्थं तन्न सिध्यति यन्त्रशस्त्रप्रतीकारैः शल्यं प्राज्ञः समुद्धरेत् १५ द्वादशैव तु यन्त्राणि शस्त्राणि द्वादशैव तु चत्वारि च प्रबन्धानां शल्योद्धारे विनिर्दिशेत् १६ गोधामुखं वज्रमुखं च नाम संदंशचक्राकृतिकङ्कपादम् अयानकं शृङ्गककुण्डलञ्च श्रीवत्ससौवत्सिकपञ्चवक्त्रम् १७ द्वादशैतानि यन्त्राणि कथितानि भिषग्वरैः अथ शस्त्राणि प्रोक्तानि नामानि च पृथक्पृथक् १८ अर्द्धचन्द्रं व्रीहिमुखं कङ्कपत्र कुठारिका करवीरकपत्रञ्च शलाकाकारपत्रकम् १९ बडिशं गृध्रपादञ्च शूली च घनमुद्गरम् शस्त्राण्येतानि प्रोक्तानि शल्योद्घारे पृथक्पृथक् २० अतिगुप्तं च शल्यञ्च संदंशेन समुद्धरेत् भिन्नेन तत्प्रतीकारः कर्त्तव्यश्च सुधीमता २१ गम्भीरशल्यं ज्ञात्वा च प्रतीकारञ्च कारयेत् पाटनं कुशपत्रेण चोद्धरेत्कुंकुमेन च २२ भिन्नवत्प्रतीकारश्च कर्त्तव्यश्च सुधीमता २३ यत्र शोफो भवेत्तीव्रस्तत्र शल्यं विनश्यति सशल्यं सघनं चैव रुजावन्तं निरूप्य च २४ तत्र योग्यं च यन्त्रं च यन्त्रशस्त्रञ्च योग्यकम् तत्तत्र योजनीयञ्च ऊहापोहविशारदैः २५ या वेदना शल्यनिपातजाता तीव्रा शरीरे प्रतनोति जन्तोः घृतेन संशान्तिमुपैति तिक्ता कोष्णेन यष्टीमधुनान्वितेन २६ सर्जार्जुनोदुम्बरमर्कटीनां रोध्रं समङ्गासुरसासमेतम् जलेन पिष्ट्वा प्रतिलेपनाय शल्योद्धृतौ सौख्यमिदं करोति २७ शेषा क्रिया च पूर्वोक्ता छिन्ने भिन्ने हिता तु या कर्त्तव्यो वालुकास्वेदो घटीस्वेदश्च तत्र च २८ भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेषजम् मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा २९ पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ग्रीवादेशे चेन्द्रबस्तौ रोहिण्यां कूर्परादधः ३० स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः उरसि चैव क्रोडे च विभग्नं तदसाध्यकम् ३१ विभग्नं च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् मृक्षयेन्नवनीते नैरण्डपत्रैश्च वेष्टयेत् ३२ उष्णाम्बसा सेचयेच्च वस्त्रेण मृदु बन्धयेत् ३३ धवार्जुनकदम्बानां वल्कलं काञ्जिकेन तु पिष्ट्वा हितः प्रलेपश्च तेन सौख्यं प्रजायते ३४ स्वेदयेत्तानि चोष्णेन आवासं कारयेत्पुनः एवं क्रियासमापत्तौ ततो बन्धं विमोचयेत् ३५ एकाहान्तरितेनापि पूर्ववत्तत्प्रबन्धयेत् यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ३६ घृष्टञ्चैव नरं दृष्ट्वा धावनं काञ्जिकेन च मूत्रेण शीततोयेन धावनञ्च हितं मतम् ३७ यावद्वै स्रवति रक्तं तावत्तैलेन सेचयेत् अल्पानि चौषधान्यत्र कारयेद्विविधानि च ३८ विपाके रक्तस्रावञ्च स्वेदनञ्च विधीयते भग्नवत्प्रतीकारञ्च कारयेद्विधिपूर्वकम् ३९ आस्फालिते प्रतीकारे ज्ञातव्यश्च भिषग्वर ऊहापोहैश्च कर्त्तव्यस्तेन सम्पद्यते सुखम् ४० शिरोऽभिघातजो दोषः शिरोरोगः प्रकीर्त्तितः उरसा चाभिघातेन यकृद्गुल्मश्च जायते ४१ इत्येवञ्च प्रतीकारं कुर्याद्रक्तावसेचनम् स्वेदनञ्च प्रयोक्तव्यं भिषजा कर्मसिद्धये ४२ न च तैलञ्च भोक्तव्यं नात्युष्णकटुकं तथा मत्स्यानि न च मांसानि घनानि च गुरूणि च ४३ श्वेतशालिसमुद्भूतं यूषं चैवाढकीषु च शशलावकवार्त्ताककक्कोलं तण्डुलीयकम् ४४ शतपुष्पाद्यमन्यच्च न च हिंगुसमन्वितम् लवणं नातिभोक्तव्यं यदीच्छेदात्मनः सुखम् ४५ व्यायामञ्च व्यवायञ्च दिवानिद्रां तथा क्रमम् वर्जयेत्सुखसम्पत्तिर्नरश्च प्रतिपद्यते ४६ इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भग्नचिकित्सा नाम सप्तपञ्चाशत्तमोऽध्यायः ५७
अष्टपञ्चाशत्तमोऽध्यायः आत्रेय उवाच अग्निदग्धं नरं दृष्ट्वा तच्च दग्धं चतुर्विधम् ईषद्दग्धं मध्यदग्धमतिदग्धञ्च वेदभाक् १ सम्यग्दग्धं भिषक्छ्रेष्ठ लक्षणं शृणु पुत्रक २ अतिदग्धं मांसगं स्याद्वातपित्तकफाश्रितम् सम्यग्दग्धञ्च निर्दोषं विज्ञेयं च चतुर्विधम् ३ त्वचा विशीर्यते येन स दाहः पित्तजो भवेत् सरक्तश्च सपित्तश्च पित्तकोपात्प्रदृश्यते ४ कृष्णवर्णञ्च तत्पित्तं मांसगं तीव्रवेदनम् तस्य वक्ष्यामि संसिद्ध्यै भेषजं भिषजां वर ५ ईषद्दग्धे काञ्जिकस्य लेपनं सुखहेतवे निम्बपत्राणि सुरसा कुष्ठं धात्रीफलानि च ६ ईषद्दग्धे यथालाभे लेपनं भिषगुत्तम मध्यदग्धे पयस्या या लेपनी सुखकारिणी ७ मधुकुष्ठकमञ्जिष्ठाघृतं पक्वं हितं मतम् कुष्ठञ्च यष्टीमधुकं चन्दनैरण्डपत्रकम् ८ मध्यदग्धे हितो लेपो दुग्धेन परिपेषितः ९ घृतकर्पूरचूर्णञ्च गैरिकं रोध्रमेव च शुष्कचूर्णं पूयहरं दग्धं संरोहयत्यपि १० आमलक्या तिलं कुष्ठं लेपनं वाग्निदग्धके रोध्रोशीरं समङ्गा च लेपनं शीतवारिणा ११ अतसी स्नेहमभ्यङ्गमधुयष्टीघृतेन तु लेपाभ्यङ्गे हितं दग्धरोहणं दाहवारणम् १२ धूमोपघाते वमनं क्षीरपानं तथोपरि जले च तरणं श्रेष्ठं धूमदाहोपशान्तये १३ इत्यात्रेयभाषिते हारीतोत्तरे चिकित्सास्थानं नामाष्टपञ्चाशत्तमोऽध्यायः ५८ तृतीयस्थानं समाप्तम् ३
आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि रोगसङ्करकारणम्
श्रमाद्व्यायामरोधाद्वा चिन्ताशोकभयादपि १
क्रोधादौषधगन्धेन क्षयाद्घातोर्विशेषतः
उदीर्य कोष्टादग्निञ्च रक्तपित्तं तथा बहिः
त्वचाश्रितञ्च सम्भूय ज्वरं तस्मात्करोति हि २
उक्तहेतुर्ज्वरो वापि ज्वरान्मन्दज्वरो भवेत् ३
मन्दान्मन्दतमो ज्ञेयस्तस्मादम्लातिसेवनात्
जायते कामलस्तस्मात्प्ररूढे स्याद्धलीमकम् ४
हलीमकाद्भवेत्पाण्डुस्तस्माद्यस्मात्प्रकीर्त्तिताः
यक्ष्मणो जायते शोफः शोफादुदरमेव च ५
तस्माद्गुल्मञ्च वाताद्यं गुल्माच्छ्वासोऽथशूलिता
मन्दाग्नित्वं भवेत्तस्मात्स्वरभेदोऽथ रोधनः ६
एतेषां सर्वरोगाणामुत्पत्तिः स्याज्ज्वरेण तु
ज्वरेण मृत्युर्विज्ञेयो न मृत्युः स्याज्ज्वरं विना ७
शृणु भेषजरोगज्ञ द्वितीयं रोगसङ्करम्
मन्दज्वरो भवेन्नॄणामतीसारस्ततो ज्वरः ८
तेन चापि भवेद्धिक्का शोषो मोहो भ्रमोऽरुचिः
एतेषां शोफतो मृत्युस्तृतीयः कथ्यतेऽधुना ९
दिवास्वप्नादिदोषैर्वा प्रतिश्यायश्च जायते
तस्मात्कासः समुद्दिष्टः कासात्पीनस एव च १०
तस्मात्क्षयः क्षयाच्छोफो शोफेनाऽपि मृतिं व्रजेत्
ज्वरः क्षयश्च यक्ष्मा च कुष्ठगुल्मार्शसंग्रहाः ११
शर्करा मेह उन्माद अपस्मारो भगन्दरः
एते महाघोरतरा याप्यं कुर्वन्ति मानवम् १२
वातपित्तादयो दोषास्तथा श्लैष्मसमुद्भवाः
जायन्ते व्याधयः सर्वे तेषां वक्ष्याम्युपक्रमम् १३
वातः पचति सप्ताहात्त्रिरात्रात्पित्तमेव च
श्लेष्मा सार्द्धदिनेनापि विपचेद्भिषजां वर १४
द्वन्द्वजं वातपित्तञ्च नवरात्रेण पच्यते
श्लेष्मवातौ दशाहेन पञ्चाहात्पित्तश्लैष्मिकम् १५
शमनाय च द्वन्द्वानां तुर्याहात्पाचनं तथा
त्रिदोषस्य च घोरस्य पाचनं द्वादशे दिने १६
सन्निपातश्च पचति चतुर्दशदिनैरपि
ज्ञात्वा दोषबलं पक्वं तस्माद्देयन्तु पाचनम् १७
युक्तं निदानलक्षैस्तु तस्मात्संशमनक्रिया
सप्ताहेनापि पच्यन्ते सप्तधातुगता मलाः १८
चिरादपि हि पच्यन्ते सन्निपातज्वरे मलाः
विरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि
न भवेत्सप्तमेऽहनि विरामज्वरकारणम् १९
विचार्य भेषजं दद्मादजीर्णे मतिमान्भिषक्
मन्दो हि सुतरामग्निर्भेषजं न विपाचयेत् २०
सर्वेषु दोषशामेषु पाचनं लङ्घनं स्मृतम्
लङ्घितं मध्यलङ्घितं स्यादतिलङ्घितमेव च २१
लक्षणं वक्ष्यते चैषां मनुष्याणां शृणुष्व हि २२
गतक्लमोऽरुचिम्लानिरिन्द्रियाणां प्रसन्नता
लङ्घने दोषपाकस्तु शुद्धलङ्घितलक्षणम् २३
किञ्चित्क्लमोऽरुचिग्लानिरिन्द्रियाणां विवर्णता
बहुतृष्णाल्पक्षुच्चापि श्रमश्चैव भिषग्वर २४
किञ्चित्संस्निग्धता गात्रे रुचिबाधातिबन्धता
मध्यपाकी च दोषः स्यान्मध्यलङ्घितलक्षणम् २५
वैकल्यं जायते तन्द्रा विड्भेदश्च विनिद्रता
वेपथुश्च शिरोऽर्त्तिश्च क्षुत्क्षामं शूलमेव च २६
श्यामास्यं प्लावनं नेत्रे मूर्च्छामोहश्रमातुरम्
अतिलङ्घितमेतैस्तु लक्षणं संविभावयेत् २७
वेलाज्वरे भूतज्वरे तथा पित्तज्वरेऽपि च
आयासे क्रोधजे वापि भयकामज्वरेऽपि च २८
एतेषां लङ्घनं नैव कारयेद्भिषगुत्तमः २९
बालं वृद्धं कृशं क्षीणमतीसारव्रणातुरम्
गुर्विणीं सुकुमारञ्च लङ्घयेन्न कदाचन ३०
सामे मन्दज्वरे तीव्रे रुचिविड्बन्धकेऽपि च
अजीर्णे तु प्रशस्तञ्च लङ्घनं मात्रयान्वितम् ३१
स्निग्धत्वञ्चातिगात्राणामुदरं गर्जयेद्भृशम्
शिरोऽर्त्तिर्जठराध्मानः प्रतप्तं कण्ठकूजनम् ३२
अरुचिः पीतता मूत्रे निद्रातन्द्रातुरं नरम्
आमज्वरञ्च विज्ञाय लङ्घयेद्भिषगुत्तमः ३३
अनशनवमनविरेचनरक्तस्रुतितप्ततोयपानैः
स्वेदनकर्मसहितैः षड्विधं लङ्घनं गदितम् ३४
क्षुत्क्षामं श्रमशैथिल्यं भ्रमवेगज्वरातुरम्
अन्तर्दाहं रक्तमूत्रं विरामज्वरलक्षणम् ३५
वातिको लङ्घनैः षड्भिः पैत्तिकस्तु दिनत्रयम्
सप्तभिः पचते श्लेष्मा दृष्ट्वा लङ्घनमाचरेत् ३६
त्रिदोषो दशरात्राणि पचते लङ्घनैस्तु सः
दिने पञ्चदशे प्राप्ते पचते सान्निपातिकः ३७
मुञ्चेद्वा आतुरं हन्ति भवेद्वा विषमज्वरः
बाल्ये रक्तमया दोषाः कफपित्तादनन्तरम् ३८
षोडशे तु समे प्राप्ते त्रिदोषप्रभवा गदाः
पञ्चविंशतिमे प्राप्ते ज्वरो वै सान्निपातिकः ३९
वातपित्तकफैरेव रसरक्तसमुच्चयात्
जायते यो ज्वरः सम्यक् पक्के क्वाथं तु दापयेत् ४०
क्वाथः सप्तविधः प्रोक्तः पाचनः शमनस्तथा
दीपनः क्लेदनः शोषी सन्तर्पणो विशेषतः ४१
पाचनञ्च नरे देयं निशासु प्रविजानता
पूर्वाह्णे शमनो देयोऽपराह्णे दीपनः स्मृतः ४२
सन्तर्पणो भेदनश्च कल्ये पानाय दापयेत्
शोषणोपि प्रभाते च क्वाथः पाने प्रकीर्त्तितः ४३
रात्रौ यः प्रथमो यामो भूतवेला प्रकीर्त्तिता
द्वितीयं निशि इत्याहुर्निशीथञ्च ततः परम् ४४
गणरात्रं ततो ज्ञेयं कालमप्राप्तराशिनम्
पूर्वापराह्णमध्याह्नाः परार्द्धदिनशेषकाः ४५
पूर्वे दिनावसाने च भेषजानामुपक्रमः ४६
पाचनो दीपनीयश्च शोधनः शमनस्तथा
तर्पणः क्लेदनः शोषी क्वाथः सप्तविधः स्मृतः ४७
पाचनोऽर्द्धावशेषी स्याच्छोधनो द्वादशांशकः
क्लेदनश्चतुरङ्गश्च शमनोऽष्टावशेषितः ४८
दीपनीयो दशांशस्तु तर्पणश्च समांशकः
विशोषी षोडशांशश्च क्वाथभेदाः प्रकीर्त्तिताः ४९
पाचनः पचते दोषान्दीपनो दीप्यतेऽनलम्
शोधनो मलशोधी स्याच्छमनः शमते गदान् ५०
तर्पणस्तर्पते धातून्क्लेदी हृत्क्लेदकारकः
विशोषी शोषमाधत्ते तस्मात्क्वाथं परीक्षयेत् ५१
क्लेदी विशोषी विज्ञाय वामनं कारयेन्नरम्
न लङ्घयेत्क्वाथकृतं नान्तराणि च चालयेत् ५२
न शोषयेत्पुनः स्थाप्यो नाशुचौ च चकासते
स च क्वाथो न शस्तः स्याद्रोगसङ्करकारणम् ५३
न शोषयेत्पुनः क्वाथं न च भूमिगतं पुनः
दोषसंशमनेनैते प्रशस्ता गदकर्मणि ५४
विदीर्यते पततेऽपि स्फुटते क्वाथतो जनः
एतेऽनिष्टकराः क्वाथा न दोषशमनाय च ५५
एतैर्हिलक्षणैर्हीनं क्वाथं दृष्ट्वा परीक्षयेत् ५६
कृष्णं नीलं घनं रक्तं पिच्छिलं शिथिलञ्च यत्
दग्धं कुणपगन्धञ्च विस्रगन्धं विवर्जयेत् ५७
एतैरसाध्यं जानीयाद्रोगिणं नात्र संशयः
द्रव्यगुणानुवर्णेन द्रव्यगन्धं विनिर्दिशेत् ५८
तद्वद्विशुद्धं सच्छायं कषायममृतोपमम्
वातज्वरे लङ्घनान्ते दत्त्वा चान्नं तथोपरि
निशासु पाचनं देयं ज्ञात्वा दोषबलाबलम् ५९
त्रिरात्रे पैत्तिके देयं श्लैष्मिके प्रथमेऽहनि
अविज्ञाते च दोषे च पाचनं न प्रदापयेत् ६०
सप्तरात्राद्धि मर्यादा ज्वरेणैवोपलक्ष्यते
तस्मान्नवज्वरे पीतं दोषकृन्न च दोषहृत् ६१
तस्मादादौ प्रदेयन्तु पाचनञ्च दिनत्रयम्
शमनीयं प्रदेयन्तु पञ्चरात्रं ततः परम् ६२
शोधनं दीपनीयन्तु एकरात्रं प्रदापयेत् ६३
क्वाथपाने क्लमो मूर्च्छा वैक्लव्यञ्च प्रदृश्यते
वमनञ्च यदा प्रोक्तं शमनं पथ्यकेऽपि वा ६४
सदा पथ्यं प्रयोक्तव्यं नापथ्येन स सिध्यति
औषधेन विना पथ्यैः सिध्यते भिषगुत्तमैः ६५
विना पथ्यं न साध्यः स्यादौषधानां शतैरपि
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ६६
अन्नकालेष्वभुञ्जानो हीयते म्रियतेऽपि वा
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ६७
तस्माद्रक्षेद्बलं पुंसां बलशान्तिर्हिजीवितम्
लङ्घिते चैव दोषे च यवागूपानमाचरेत् ६८
शालिषष्टिकमुद्गञ्च यूषं शस्तं वदन्ति हि ६९
पञ्चकोलकसंसिद्धा यवागूर्मध्यलङ्घिते
भवेत्प्रशस्ता सततं तस्य सन्तर्पणं हितम् ७०
आजं दुग्धं गुडोपेतं पानाय ज्वरशान्तये
तेन क्लमविनाशः स्यात्सुखमाशु प्रपद्यते ७१
उदीच्यां वा पूर्वस्यां वाऽभिमुखञ्चोपवेशयेत्
पाययेत्क्वाथपानञ्च कृत्वा ब्राह्मणवाचनम् ७२
पानपात्रमधः कृत्वा शयीता ज्ञानमेव च
पीत्वा चैव तृषार्त्तोऽपि न जलं पाययेत्क्षणम् ७३
गतक्लमं नरं दृष्ट्वा तदा सम्पद्यते सुखम् ७४
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भेषजपरिज्ञानविधिर्नाम
प्रथमोऽध्यायः १