द्व्यचः । शैषिकः । पाशुकः । ऋतः चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः, इत्यादि ।
१४५२ अणृगयनादिभ्यः । (४-३-७३)
ठञादेरपवादः । आर्गयन: । औपनिषदः । वैयाकरणः ।
१४५३ । तत आगतः । (४-३-७४)
स्नुघ्नादागत: स्नौघ्नः ।
१४५५ । ठगायस्थानेभ्यः । (४-३-७५)
शुल्कशालायाः आगतः शौल्कशालिकः ।
१४५५ । शुण्डिकादिभ्योऽण् । (४-३-७६)
आयस्थानठकश्छादीनां चापवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः । तैर्थः । औदपानः ।
व्याख्याने तत्र भवे च । शैषिक इति ॥ शेषस्य व्याख्यानः तद्भवो वेत्यर्थः । पाशुक इति ॥ पशुयागप्रतिपादकग्रन्थः पशुः, तस्य व्याख्यानः तत्र भवो वेत्यर्थ । उकः परत्वात् ठस्य कः । ऋत इति ॥ उदाह्रियते इत्यर्थः । चातुर्होतृक इति । ‘चित्तिस्रुक्’ इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानः तत्र भवो वेत्यर्थः । ब्राह्मणिकः । आर्चिक इति ॥ ब्राह्मणानि मन्त्रव्यतिरिक्तवेदभागाः । तेषामृचां वा व्याख्यानः तत्र भवो वेत्यर्थः । इत्यादीति ॥ प्राथमिकः, आध्वरिकः, पौरश्चरणिक:, नामिकः, आख्यातिकः । अणृगयनादिभ्यः । तस्य व्याख्याने तत्र भवे चेति शेषः । आर्गयन इति || ॠग- यनम् ऋक्संहिता, तस्य व्याख्यानः तत्र भवो वेत्यर्थः । “बह्वचोऽन्तोदात्तात्' इति ठञि प्राप्ते अण्| औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः एवं वयाकरणः| 'न य्वाभ्याम्' इत्यैच् । अण्ग्रहणन्तु छबाधनार्थम् |अन्यथा अणा युक्ते छो दुर्वारः स्यादित्याहुः । तत आगतः । अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थ:| स्रौघ्न इति । औत्सर्गिकोऽण् । ठगायस्थानेभ्यः । तत आगतः इत्यर्थ इति शेषः| हट्टादिषु स्वामिग्राह्यो भागः आयः| स यस्मिन् गृह्यते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः । शुण्डिकादिभ्योऽण् ॥ तत आगत इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहित- ठगपवादः । कार्कण इति ॥ कृकणादागत इति शेषः । 'कृकणपर्णाद्भारद्वाजे' इति छस्यापवादः| तैर्थ इति ॥ धूमादिवुञोऽपवादः । औदपानः इति ॥ अत्र उत्सादित्वादञ् प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अणेव