१४४३ । अशब्दे यत्खावन्यतरस्याम् । (४-३-६४)
पक्षे पूर्वेण छः । मद्वर्ग्यः-मद्वर्गीणः-मद्वर्गीयः । 'अशब्दे' किम् । कवर्गीयो वर्णः ।
१४४४ । कर्णललाटात्कन्नलङ्कारे । (४-३-६५)
कर्णिका । ललाटिका ।
१४४५ । तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । (४-३-६६)
सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ।
१४४६ । बह्वचोऽन्तोदात्ताट्ठञ् । (४-३-६७)
षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ।
१४४७ । क्रतुयज्ञेभ्यश्च । (४-३-६८)
सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवः
कादिवर्गे भवमित्यर्थः । अशाब्दे ॥ वर्गान्तात् छः इति शेषः । मद्वर्ग्यः-मद्वर्गीण इति ॥ मत्पक्षे भव इत्यर्थः । कर्णललाटात् ॥ ‘शरीरावयवाच्च' इति यतोऽपवादः । कर्णिका । ललाटिकेति ॥ कर्णे ललाटे वा भवोऽलङ्कारः इत्यर्थः । स्त्रीत्वं लोकात् । टापि प्रत्ययस्थात्' इति इत्त्वम् । तस्य व्याख्यायते इति च ॥ व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः । करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात् षष्ठ्यन्ताद्भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः ‘तत्र भवः’ इत्यस्य समुच्चयार्थः । सौप इति ॥ औत्सर्गिकोऽण् । तैङ इति ॥ तिङां व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति ॥ कृतां व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति । सुप्सु भवं सौपमिति ॥ नच 'तस्येदम्, तत्रभवः’ इत्याभ्यामेव सिद्धत्वादिदं सूत्रं व्यर्थमिति वाच्यम् । अर्थद्वयनिर्देशस्य अपवादभूतवक्ष्यमाणठञ्आदिविधानाय तदावश्यकत्वात्” इति
भाष्ये स्पष्टम् । बह्वचोऽन्तोदात्ताट्ठञ् ॥ अन्तोदात्ताद्वह्वचः उक्तविषये ठञ् स्यात् ।
अणोऽपवादः । क्रतुयज्ञेभ्यश्च ॥ सोमेति ॥ सोमलताद्रव्यकयागेषु क्रतुशब्दो यज्ञः शब्दश्च प्रसिद्ध इत्यर्थः । तर्ह्यन्यतरग्रहण व्यर्थम् । बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह । तत्रेति । गृह्यन्ते इति ॥ ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागाः विवक्षिता इति भावः । एवञ्च सोमयागविशेषवाचिभ्यः तदितरयागविशेषवाचिभ्यश्च उक्तविषये