सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३६
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ।

१२९८ । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्। (१-२-५६)

'प्रत्ययार्थः प्रधानम्' इत्येवं रूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धेः ।

१२९९ । कालोपसर्जने च तुल्यम् । (१-२-५७)

'अतीतायाः रात्रेः पश्चार्धेनागामिन्याः पूर्वाधेन च सहितो दिवसोऽद्यतनः', ‘विशेषणमुपसर्जनम्' इत्यादि पूर्वाचार्यैः परिभाषितम् । तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ।

१३०० । विशेषणानां चाजातेः । (१-२-५२)

लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । 'अजातेः' किम् । पञ्चाला जनपदः । गोदौ ग्रामः । 'हरीतक्यादिषु व्यक्ति:' (वा ७१५) । हरीतक्याः फलानि


सम्प्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्येत, प्रयुज्यते च, अतः पञ्चालादिशब्दाः जनपदविशेषेषु केवलरूढा इति युक्तमित्यर्थः । तदाह । यदि हि योगस्येति ॥ अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे । प्रधानप्रत्ययार्थ् । प्रत्ययार्थ इति ॥ प्रकृत्यर्थम्प्रति प्रत्ययार्थः प्रधानं विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषणमित्येवं यत्पूर्वाचार्यवचनन्तदपीत्यर्थः । कालोपसर्जने च ॥ कालश्च उपसर्जनञ्चेति समाहारद्वन्द्वात् विषयसप्तमी । आशिष्यमित्यनुवृत्तम्भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनन्तत्राप्यशिष्यत्वं समानमित्यर्थः । तद्विशेषवचनं विशदयन् व्याचष्टे । अतीताया इत्यादिना ॥ विशेषणानाञ्चाजातेः ॥ कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठ्या विपरिणतं सम्बध्यते लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह । लुबर्थस्येति ॥ तद्वदिति ॥ प्रकृतिवदित्यर्थः । 'लुपि युक्तवद्व्यक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रम् । तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति ॥ पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रमणीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति ॥ गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवत् द्विवचनम् । पञ्चाला जनपद् इति ॥ जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्वहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवत् द्विवचनम् । हरीतक्यादिषु व्यक्तिरिति ॥ वार्तिकमिदम् । लुपि लिङ्ग प्रकृतिवद्भवति । न तु वचनामिति शेषः । हरीतक्याः फलानि हरीतक्य इति ॥ 'हरीतक्यादिभ्यश्च' इति विकारप्रत्ययस्य