सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७०९ । तृजकाभ्यां कर्तरि । (२-२-१५)

कर्त्रर्थतृजकाभ्यां षष्टया न समासः । अपां स्रष्टा । व्रजस्य भर्ता । ओदनस्य पाचकः । “कर्तरि' किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थ भर्तृशब्दस्य याजकादित्वात्समासः । भूभर्ता । कथं तर्हि *घटानां निर्मातु स्त्रिभुवनविधातुश्च कलहः’ इति । ' शेषषष्ठया समासः’ इति कैयट: ।

७१० । कर्तरि च । (२-२-१६)

कर्तरि षष्ठया अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठया अभावात् ।


यद्यप्यत्र “कर्तृकर्मणोः कृति’ इत्येव कर्मणि षष्ठी, न तु “उभयप्राप्तौ कर्मणि' इति सूत्रेण । तस्य सूत्रस्य कर्मण्येव षष्ठी, नतु कर्तरीति नियमपरत्वात् । तथापि नियमसूत्राणां विधिरूपेण निषेध रूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः । शब्दानुशासनमित्यत्र तु वस्तुतः आचार्यस्य कर्तृत्वे ऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याप्रवृत्तेर्नायन्निषेधः। कृत्वोऽर्थप्रयोगे' इत्यतः प्रयोगे इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । “शेषे विभाषा' विशेषण विभाषे त्याश्रित्य उभयप्राप्तावित्यभावपक्षे “कर्तृकर्मणोः कृति' इत्यव षष्ठयाः प्राप्तिर्नायन्निषेध इत्यलम् । तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणम्, श्रुतत्वात् । नतु षष्ठयाः । तदाह । कर्त्रर्थतृजकाभ्यामिति । अपां स्रष्टा, व्रजस्य भर्तेति । ‘ण्वुल्तृचौ' इति कर्तरि तृच् । “कर्तृकर्मणोः' इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः । इक्षुभक्षिकेति । “स्त्रियां क्तिन्’ इत्यधिकारे धात्वर्थनिर्देशे ण्वुल । कर्मणि षष्ठया समासः । 'कर्मणि च' इति निषेधस्तु न । कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधस्यात् । नच भर्तृशब्दस्य याजकादौ पाठात् भवत्येव षष्ठीसमासः । “याजकादिभिश्च' इत्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम् । एवन्तर्हि व्रजस्य भर्तेत्यत्रापि समासप्रसङ्गादित्यत आह । पत्यर्थेति । याजकादौ पत्यर्थक स्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्च व्रजस्य भर्तेत्यत्र “याजकादिभिश्च' इति समासो नेति भावः । कथं तर्हीति ॥ त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'तद्धितार्थ' इति द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति । पात्राद्यन्तस्य नेत्युक्त्तेः । त्रिभुवनस्य विधातेति तृचा योगे कथं कर्मणि षष्ठयास्समास इत्याक्षेपः । परिहरति । शेषषष्ठयेति ॥ प्रत्यासत्या कारकषष्ठया एवायन्निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः । कर्तरि च ॥ कर्तरीत्येतत् षष्ठीत्यनुवृत्ते अन्वेति । तदाह । कर्तरि षष्ठया इति। अकेनेति ॥ * तृजकाभ्यां कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति ॥ “स्त्रियां क्तिन्’ इत्यधिकारे धात्वर्थनिर्देशे ण्वुल् । अकादेशः, टाप् । “कर्तृकर्मणोः' इति कर्तरि षष्ठी । अत्र अकस्य कर्त्रर्थकत्वाभावातू “तृजकाभ्याम्' इति न प्राप्तिः । ननु पूर्वसूत्रे “तृजकाभ्याम्' इति समस्तपदो-