सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४९९
बालमनोरमा ।


युवति-' (सू ७४४) इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्वाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते ।

७०६ । क्तेन च पूजायाम् । (२-२-१२)

'मतिबुद्धि-' (सू ३०८९) इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्टी न समस्यते । * राज्ञां मता बुद्धः पूजितो वा । ' राजपूजित:’ इत्यादौ तु भूते क्तान्तेन सह तृतीयान्तस्य समासः ।

७०७ । अधिकरणवाचिना च । (२-२-१३)

क्तेन षष्टी न समस्यते । इदमेषामासितं गतं भुक्तं वा ।

७०८ । कर्मणि च । (२-२-१४)

'उभयप्राप्तौ कर्मणि' (सू ६२४) इति या षष्ठी सा न समस्यते ॥ आश्चर्यो गवां दोहोऽगोपेन ।


विभक्त्यन्तरे चरितार्थानां परत्वाद्वाधक इति ॥ पोटायुवति, युवा खलति इत्यादिविधयः गौर्धेनुः, युवाखलतिरित्यादिषु प्रथमाविभक्तयन्तेषु सावकाशाः । षष्ठीसमासस्य राज्ञः पुरुषः इत्यादावसमानाधिकरणे सावकाशः । गोर्धेनोः, यूनः खलतरित्यादिषु उभयं प्राप्तम् । तत्र पोटायुवति, युवा खलति, इत्यादिविधीन् बाधित्वा षष्ठीसमासः प्राप्तः । सोऽप्यनेन समा नाधिकरणेनेति निषेधेन वार्यत इत्यर्थः । नच निषेधसामर्थ्यादेव पोटायुवतीत्यादिसमासो बाध्यतामिति वाच्यम् । षष्ठीसमासे गोर्धेनेोरित्यादौ अन्यतरस्य पूर्वनिपातः । 'पोटायुवति इत्यादिसमासेतु गोयुवादिशब्दस्यैव फलभेदस्य स्पष्टत्पात् । समानाधिकरणेन निषेधश्चायं क्वाचित्क एव । अन्यस्य पदस्यार्थ इत्यर्थे अन्यपदार्थ इति निर्देशात् । तेन नीलोत्पलस्य गन्ध इत्यादिस्सिद्धः । तेन च पूजायाम् । अत्र पूजाग्रहणं “मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रोपलक्षणम् । तदाह । मतिबुद्धीति सूत्रेणेति । राज्ञां मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणः ज्ञायमानः पूज्यमान इति क्रमेणार्थः । “मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने त्क्तः । ‘क्तस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति राजपूजितः राजमतः राजबुद्धः इति कथं समास इत्यत आह । राजपूजित इत्यादाविति । अधिकरणवाचिना च । शेषपूरणेन सूत्रं व्याचष्टे। क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति ।

‘क्तोऽधिकरणे च' इति अधिकरणे त्क्तः । अधिकरणवाचिनश्च' इति षष्ठी । कर्मणि च ॥ क्तेनेति निवृत्तम् । ‘कर्मणि या षष्ठी सा न समस्यते’ इत्यर्थे अपां स्रष्टत्यादावपि निषेधसिद्धेः 'तृजकाभ्यां कर्तरि” इति व्यर्थं स्यात् । किन्तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य या षष्ठी विहिता तया न समस्यत इत्यर्थः । फलितमाह । उभयेत्यादिना । आश्चर्य इति ॥