श्रीरस्तु ।
॥ अथ तत्पुरुषसमासप्रकरणम् ॥
६८४ । तत्पुरुषः । (२-१-२२)
अधिकारोऽयम् । प्राग्बहुव्रीहेः ।
६८५ । द्विगुश्च । (२-१-२३)
द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । “सङ्खयापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समा सान्तः प्रयोजनम् । पञ्चराजम् ।
६८६ । द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । (२-१-२४)
अथ तत्पुरुषसमासनिरूपणम्--तत्पुरुषः ॥ प्रागिति ॥ “शेषेो बहुव्रीहि इत्यतः प्रागित्यर्थः । द्विगुश्च ॥ द्विगुरपीति ॥ “तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य “सङ्खयापूर्वो द्विगुः’ इति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषः संज्ञकू इति यावत् । एतत्सूत्राभावे एकसंज्ञाधिकारात् द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति ॥ *द्विगुश्च' इत्येतदित्यर्थः । तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह । सङ्खयेति ॥ “सङ्खयापूर्वो द्विगुः' इति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः । ततश्च सङ्खयापूर्वसमासः द्विगुसंज्ञकस्तत्पुरुषसज्ञकश्च स्यादिति लभ्यते । एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभात् 'द्विगुश्च' इति गुरुभूतं सूत्रन्न कर्तव्यमित्यर्थः । ननु मास्तु द्विगो स्तत्पुरुषत्वमित्यत आह । समासान्तः प्रयोजनमिति ॥ तदुदाहृत्य दर्शयति । पञ्च राजमिति ॥ पञ्चानां राज्ञां समाहार इति विग्रहे “तद्धितार्थ' इति द्विगुः । तस्य तत्पुरुष त्वात् 'राजाहस्सखिभ्यष्टच्' इति टच् । “स नपुंसकम्' इति नपुंसकत्वम् । “अकारान्तोत्तर पदो द्विगुस्त्रियाम्' इति तु न भवति । समासान्तस्य टवस्समुदायावयवत्वेन उत्तरपदावयव त्वाभावात् । नच “सङ्खयापूर्वो द्विगुश्च' इति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात् । अतस्समुच्चयार्थ 'द्विगुश्च' इति पृथक्सूत्रमस्त्विति वाच्यम् । सङ्खयापूर्व इति द्विगुरिति च यागे विभज्य पूर्वेण सङ्खयापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविधिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिासिध्द्या चकारस्य समुच्चयार्थत्वोपपत्तेः । द्वितीया श्रित । द्वितीयान्तमिति ॥ प्रत्यग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनेन