' असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिः' इति लक्षणान्तरम् । वृषळी । ' सत्यन्तम्’ किम् । शुक्ला । 'सकृत्'- इत्यादि किम् । देवदत्ता ।
-गोत्रं च चरणैः सह ॥'
अपत्यप्रत्ययान्तः शाखाद्धयेतृवाची च शब्दो जातिकार्ये लभत इत्यर्थः । औप गवी । कठी । कलापी । बहवृची । ब्राह्मणीत्यत्र तु शार्ङ्गेरवादिपाठान्डीना
व्यक्ताविति शेषः । आख्यातेति भावे त्क्तः, उपदेश इत्यर्थः । निर्ग्राह्येत्यस्य व्यक्तयन्तरे उपदेशं विनापि सुगमेत्यर्थः । निरित्युपसर्गवशात् । निर्ग्राह्येत्यनन्तरमन्या जातिरिति शेषः । फलित माह । असर्वेति ॥ एकस्यामिति । एकस्यां व्यक्तौ वृषळ इत्युपदेशात् व्यक्तयन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तरमित्यर्थः । अन्यथा उक्ततटत्वादिजातेरेव “ आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते । तटस्य सर्वलिङ्गत्वात् । वृषळीति ॥ वृषळत्वं ह्यसर्वलिङ्गम्, नपुं सकत्वाभावात् एकस्यां व्यक्तौ वृषळत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात् सकृदाख्यातनिर्ग्राह्यञ्चेति भावः । ब्राह्मणत्वन्तु पुत्रपौत्रादौ यद्यपि न सुगमम्, ब्राह्मणात् क्षत्त्रियायामुत्पन्नस्य ब्राह्मणत्वाभावात् । तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं व तत्पित्रादावेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति ॥ बलाकेति शेषः । ‘गुणे शुक्लादयः पुंसि गुणि लिङ्गास्तु तद्वति' इति विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाभावात् शुक्लत्वन्न जातिः । अवयवसंस्थानव्यङ्गयत्वाभावान्न पूर्वलक्षणमपि । देवदत्तेति ॥ संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्रह्यत्वामिति भावः । अनेन द्वितीयलक्षणेन जनननिमि त्तकब्राह्मणत्वादिजातिसङ्गहः । नन्वेवमपि औपगवी कठीत्याद्यसङ्गहः, औपगवत्वादेरनु गतसंस्थानव्यङ्गयत्वाभावात् सर्वलिङ्गत्वाच्चेत्यत आह । गोत्रञ्च चरणैस्सहेति ॥ जाति रित्यनुषज्यते । गोत्रशब्देन अपत्यं विवक्षितम्, नतु पौत्रप्रभृतीति पारिभाषिकम् व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो डीषिति “ अनुप सर्जनात्' इति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षित मिति प्रपञ्चितम् । चरणशब्दतु शाखाध्द्येतरि प्रसिद्धः । चरणैस्सह गोत्रं जातिरिति लभ्यते । गोत्रञ्चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिलोके प्रसिद्धा । तत्र गोत्रचरणाः नान्तर्भवन्ति । तथापि अतस्मिन् तच्छब्द स्तद्वाचिषु शब्देषु तत्कार्यार्थ इत्यभिप्रेत्य व्याचष्टे । अपत्यप्रत्ययान्तः इत्यादिना ॥ गोत्र मुदाहरति । औपगवीति ॥ उपगोरपत्यं स्त्री इत्यर्थे 'तस्यापत्यम्’ इत्यणि 'टिड्ढाणञ्' इति डीपम्बाधित्वा परत्वादनेन डीष् । स्वरे भेदः । चरणमुदाहरति । कठीतेि ॥ कठेन प्रोक्तमधी यानेत्यर्थः । कलापीति । वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः । “कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक्, ततो डीष्, चरणविषये उदा