लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु व्याढकी । ' तद्धितलुकि' किम् । समाहारे पञ्चाश्वी ।
४८१ । काण्डान्तात्क्षेत्रे । (४-१-२३)
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्रभक्ति ।'प्रमाणे द्वयसच्--' (सू १८३८) इति
नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्कयम् । वर्णाश्रये प्रत्ययलक्षणाभावात् । बिस्ता दिशब्दानान्तु परिमाणविशेषवाचित्वात् “अपरिमाण' इत्यनेन अप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ॥ “सुवर्णबिस्तौ हेम्नोऽक्षे ” इत्यमरः । “गुञ्जाः पञ्चाद्यमाषकाः । ते षोडशाक्षः” इति च । गुञ्जापञ्चक माषपरिमाणम् । माषोडशकम् अक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् । तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णविस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे “तद्धितार्थ' इति द्विगुः । 'सम्भवत्यवहरतिपचति' इति ठक्, तस्य अद्यर्ध' इति लुक् । 'द्विगोः' इति डीपि अनेन प्रतिषिद्धे सति टापि द्विबिस्ता मूषा । द्विबिस्तपरिमाणकहिरण्यं द्रावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । ह्द्याचितेति । “ आ चितो दश भाराः” इत्यमरः । “तुला स्त्रियां फलशतं भारस्याद्विंशतिः पुमान्” इति च । द्वावाचितौ वहतीत्यर्थे 'आढकाचितपात्रातू खोऽन्यतरस्याम्, द्विगोष्ठंश्च' इति खठनोरभावे प्राग्वतीयष्ठञ् । “अच्द्यर्ध' इति तस्य लुक्तः । अनेन ‘द्विगोः' इति डीपि निषिद्धे टापि द्याचिता शकटी । द्विकम्बळ्येति ॥ कम्बळस्य प्रकृतिभूतं द्रव्यं कम्बळ्यम् ऊर्णापलशतम् ।
- तदर्थं विकृतेः प्रकृतौ' इत्यर्थे * कम्बळाच्च संज्ञायाम्' इति यत् । द्वाभ्यां कम्बळ्याभ्यां
क्रीतेति विग्रहे “तेन क्रीतम्' इति ठञ्ज । “अध्द्यर्ध' इति लुक् । 'द्विगोः' इति ङीपि अनेन प्रतिषिद्धे टापु । नन्वत्र न तद्धितलुकि इत्येवास्तु । तावतैव पञ्चभिरश्वैः क्रीता पञ्चाश्वेति सिद्धेः * अपरिमाण' इति मास्तु । एवञ्च द्विबिस्ता द्याचिता द्विकम्बळ्येत्यपि सिद्धेर्बिस्तादि ग्रहणमपि मास्त्वित्यत आह । परिमाणान्तात्विति ॥ “गुञ्जाः पञ्च तु माषस्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ॥ पलद्वयन्तु प्रसृतं द्विगुणं कुडबं मतम् । चतुर्भिः कुडबैः प्रस्थः प्रस्थाश्चत्वार आाढवकः । इति स्मृतिः । द्वावाढकौ पञ्चतीति विग्रहे “ आढकाचितपात्रात् खोऽन्यतरस्याम्, द्विगोष्ठंश्च' इति खठनोरभावे प्रग्वती यष्टञ् । “ अध्द्यर्ध' इति लुक् । 'द्विगोः' इति ङीप् । द्वयाढकीति रूपम् । 'न तद्धितलुकि इत्येतावत्येवोक्ते अत्रापि ङीपो निषेधस्यात् । अतः अपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्त्ते द्विबिस्तत्यादौ परिमाणत्वात् ङीनिषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति भावः । काण्डान्तात् क्षेत्रे ॥ 'द्विगोः' इति, न तद्धितलुकीति, चानुवर्तते । तदाह । क्षेत्रे य इत्यादि । द्वे काण्डे इति ॥ षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्याः इति विग्रहे “तद्धितार्थ' इति द्विगुसमासे द्विकाण्ड शब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं