श्रीरस्तु ।
॥ अथ स्त्रीप्रत्ययप्रकरणम् ॥
४५३ । स्त्रियाम् । (४-१-३)
अधिकारोऽयम् । समर्थानामिति यावत् ।
अथ स्त्रीप्रत्ययाः निरूप्यन्ते । तदेवं 'ङ्याप्प्रातिपदिकात्' इत्यधिकृत्य ‘स्वौजसमौट्’ इति सूत्रं सप्रपञ्चन्निरूप्य तदुत्तरमनुक्रान्तान् स्त्रीप्रत्ययान्निरूपयितुमाह । स्त्रियाम् ॥ अधिकारोऽयमिति ॥ 'अजाद्यतष्टाप्' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्रविधिरित्यर्थः । कियत्पर्यन्तमयमधिकारः इत्यत आह । समर्थेति । यावदित्यवधौ । 'समर्थानां प्रथमात्' इत्यतः प्रागित्यर्थः । अत्रेदमवधेयम् । “स्तनकेशवती स्त्री स्याल्लोमशः पुरुषस्स्मृषः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥” इति लक्षणलक्षितम् अवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोर्लिङ्गं, तदभावे तयोरुभयोरभावे सति यदुभयोरन्तरं सदृशं तन्नपुंसकमित्यर्थः । तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते । तस्य अचेतने खट्वा मालादौ बाधात् स्त्रीप्रत्ययानापत्तेः । दारानित्यादौ 'तस्माच्छसो नः पुंसि' इति नत्वानापत्तेश्च । किन्तु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वम्, अपचयः स्त्रीत्वम्, स्थितिमात्रन्नपुंसकत्वम् । अत एव उत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय 'सामान्ये नपुंसकम्' इति प्रवादः । उत्कर्षापकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः । ईदृशमवस्थात्रयं केवलान्वयि । अयं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्ठमेव । तदुक्तं भाष्ये “एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च” इति । एकस्मिन्नेवार्थे पुष्यस्तारका तारकं नक्षत्रम् इति शब्दनानात्वदर्शनात्, कुटी कुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः । पुल्लिङ्गशब्द इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचाराद्बोध्यः । नच उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशायोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम् । एकैकस्मिन् वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तञ्च भाष्ये “कश्चिदपि सत्त्वादिधर्मः क्वचिन्मुहूर्तमपि नावतिष्ठते यावदनेन वर्धितव्यमपायेन वा युज्यते” इति । नचैवं सति युगपत् द्वित्रिलिङ्गत्वानापत्तिरिति वाच्यम् । नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका । तथा सति भूतभविष्यद्व्यवहारोच्छेदापातात् । तत्र कश्चिच्छब्दः एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः, कश्चित्तु द्विलिङ्गे, कश्चित्तु त्रिलिङ्गे, इतीत्येतत्तु लिङ्गानुशासनशास्त्रादवगन्तव्यम् । एषां पुंस्त्रीनपुंसकशब्दानां वृध्द्यादिशब्दवदस्मिन् शास्त्रे सङ्केतश्च लिङ्गानुशासनत एव ज्ञेयः । उक्तञ्च