पैप्पलादसंहिता/काण्डम् १४
अथ सप्तदशचर्मोनाम चतुर्दशकाण्ड:
14.1
एन्द्रो बाहुभ्यामभरच्चिकित्वानपो देवीर्वरुणाय प्रजानन् ।
तमादित्या अभ्यसिञ्चन्ति सर्वे राजानमुग्रं बृहते रणाय ता न आपो राजसूया अवन्तु ।१।
हिरण्यवर्णा: शुचय: पावका यासु जातः कश्यपो यास्विन्द्र: ।।
या आग्निं गर्भ दधिरे सुवर्णास्ता न आपो राजसूया अवन्तु ।२।
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यज्जनानाम्।
या आग्निं गर्भ दधिरे सुवर्णास्ता न आपो राजसूया अवन्तु।।३।।
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति।
या आग्निं गर्भं दधिरे सुवर्णास्ता न आपो राजसूया अवन्तु।।४।।
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुत: शुचयो याः पावकास्ता न आपो राजसूया अवन्तु ।।५ । ।
अपो देवीर्मधुमतीरगृह्णतोर्जस्वती राजसूया मयोभुवः ।
याभिर्मित्रावरुणावभ्यषिञ्चन् ता न आपो राजसूया अवन्तु ।।६।।
वरुणेन प्रेषिता यन्ति शुभ्रा उत्सं देवीर्दधते या हिरण्ययम् ।
या ब्रह्मणा पुनते संविदानास्ता न आपो राजसूया अवन्तु ।७।
अप: समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि याः सृजन्ति ।
याभिरीशाना मरुतश्चरन्ति ता न आपो राजसूया अवन्तु ।८।।
या अमृतं बिभ्रति या मधु प्रियं या अगृभ्णन् ऋषयो देवसख्ये ।
याभिरिन्द्रमत्यनयन्नरातीस्ता न आपो राजसूया अवन्तु ।९।
या जीवधन्या धनमुत्पृणन्ति देवायते दाशुषे मर्त्याय ।
यासां पयो अक्षितमक्षितानां ता न आपो राजसूया अवन्तु।।१०।।
14.2
हिरण्यौपशा ध्वजनीः पुनाना याः समुद्रमभ्यर्चन्ति धेनव: ॥
या: पर्जन्यो वहत्यन्तरिक्षे ता न आपो राजसूया अवन्तु।।१।।
रथन्तरे बृहति गीयमाने क्षत्रं जिन्वन्ति प्र तिरन्त्यायुः ।
याभिस्त्रयान् वाजिनो वाजयन्ति ता न आपो राजसूया अवन्तु।।२।।
याभिः सह वृत्रहा सोममिन्द्रो वसोरीशानो अपिबत् सुतस्य ।
याः सप्त ऋषय: कवयः पुनन्ति ता न आपो राजसूया अवन्तु।॥३ ।।
सप्त ऋषयो भरतमभ्यषिञ्चन्नास्मिन् राष्ट्रमदधुर्दक्षिणावत् ।
प्रजायै मनुमसुमवन्त देवास्ता न आपो राजसूया अवन्तु ।। ४ ।।
याभिर्यज्ञं प्राञ्चमुक्षयन्ति धीरा याभिः सोमं मधुपृचं पुनन्ति ।
याभिरिदं जीवति विश्वमेजत्ता न आपो राजसूया अवन्तु।।५।।
यासां स्तोका मधुमया बभूवुर्घृतं संज्ञानं मधु पिन्वते या:।
याः सोम आपः प्रणयन्ति ब्रह्मणा ता न आपो राजसूया अवन्तु ।।६।।
यासां पदोराज्यं वाजिनं तु सोमस्य प्रसवमनु याः पवन्ते ।
अन्तर्वतीस्तरुणवत्सा घृताचीस्ता न आपो राजसूया अवन्तु ।।७।।
अजीजनन्त मतयः स्वर्विद आ ब्रह्मणा सूक्तधेयान्यगुः।
असूषुत राजसूया: पयसि प्रासावीद्देव: सविता भुवनानि विश्वा।।८।।
सोमो राजा भवो राजा पशुपति: पशूनां वरुणो धृतव्रत: ।
ये राजसूये असूयन्त देवास्ते ते क्षत्रे दधत्वायुरोज: ।।९।।
आस्थादुदस्थादजनिष्ट विप्रो मृधो व्यास्थदशसीत बाहू ।
आरे अवाधिष्ट निर्ऋतिं पराचैः समपृक्त रश्मिभिः सूर्यश्च ।१० ।।
14.3
अपश्यं त्वावरोहन्तं दिवितः पृथिवीमव ।।
अपश्यमस्यन्तं रुद्रं नीलग्रीवं शिखण्डिनम् ।।१ ।।
दिव उग्रो ऽवारुक्षत् प्रत्यष्ठाद् भूम्यामधि ।
जनास: पश्यतेमं नीलग्रीवं विलोहितम् ।।२।।
एष ऐत्यवीरहा रुद्रो जलाषभेषजी ।
वि ते क्षेपमनीनशद्वतीकारो व्येतु ते । ३ । ।
नमस्ते भव भामाय नमस्ते भव मन्यवे ।
नमस्ते अस्तु बाहुभ्यामुतो त इषवे नमः ।। ४ ।।
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरिशः तां कृणु मा हिंसीः पुरुषान् मम ।।५।।
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं सुमनो असत् ।। ६ ।।
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड़ जीवसे ।।७।।
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकश ।८ ।
असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहित ।
ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो अवैषां हेड ईमहे।।९।।
अदृशन् त्वावरोहन्तं नीलग्रीवं विलोहितम्।
उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ।
उतो त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ।। १० ।।
14.4
नमो ऽस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ।
अथो ये अस्य सत्वानस्तेभ्यो ऽहमकरं नम: ।। १ । ।
नमांसि त आयुधायानातताय धृष्णवे ।
उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ।२।
प्र मुञ्च धन्वनस्पर्युभयोरार्त्न्योर्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ।। ३ । ।
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः शम्भुरा भव ।।४।। ।
विज्यं धनुः शिखण्डिनो विशल्यो वणवाङ उत ।(पा. बाणवां)
अनेशन्नस्येषवः शिवो अस्य निषङ्गतिः ।। ५ ।।
परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ।।६।।
या ते हेतिर्मिढुष्टम हस्ते बभूव ते धनुः । (पा. हेतिर्मीढुष्टम)
तया त्वं विश्वतो अस्मनयक्ष्मया परि भुज ।।७।।
14.5
सुपार्श्वा कामदुघा न आगञ्छतौदना पयसा पिन्वमाना
ऊर्ज दुहाना अनपस्फुरन्ती यजमानस्य प्रतिरन्त्यायुः ।।१।।
गृभ्णामि मेध्यामुशतीं स्वस्तय ऊर्जस्वतीमनमीवां स्वाध्याम् ।
विश्व लोको मम देवेष्वस्तु शतौदनां श्रद्दधानः पचामि ।। २ ।।
बधान देवीमभि धेहि भुञ्जती शतौदनां कामदुघा ह्येषा ।
मैनां हिंसीरश्मना जहृषाणोऽप्येतु देवाङ अति गच्छति द्विषः।।३।।
आ रभस्व ब्रह्मणा वैश्वदेवीं शतौदनां शतपाप्मानो अस्याः ।
समर्पयन्नश्मना पर्वतेन स्वर्गं लोकमधि रोहयैनम् ।। ४ ।।
धृष्णुर्ह्येनां विकृता विकृन्तनपघ्नंश्चर्मेरया सं सृजैनाम् ।
विराज दुहितेरया समक्ता कामंकामं यजमानाय दुहाम्।।५।।
यथापरु विशसन्नाति मंस्थाः कृणुष्वामेनावधेयान् पृथक ।
अगन् देवान् मानुषी या पुराभूच्छतौदना पुरुरूपा सुवर्णा ।।६।।
द्विपाद् द्विहस्तः पुरुषो महदमो वनस्पर्ति बिभर्ति सायकाग्रम् ।
तेन परूंषि प्रविद्वानघ्न्यायाः शतौदनां देवीं शतधा व्यस्य ।।७।।
एतं ब्रध्नं चर्मणः कृन्त साधु तमु प्रमाय शतधा व्यस्य ।
समुत्सृजन्नवधानानि सर्वा रायस्पोषं यजमानाय धेहि ।।८ ।।
ऋचा कुम्भीमध्यग्नौ श्रयामि भूम्यां त्वा भूमिमधि धारयामि।
अपो मासं बिभ्रती मा व्यथिष्ठा मा त्वा वधिषुर्मेनिभिः पिशाचाः ।।९।।
ऊर्ध्वः प्रेहि मा सं विक्था व्यस्य रजो अन्तरम् ।
रक्षांसि सर्वा तीर्त्वाथा रोह दिवं त्वम् ।।१०।।
14.6
दिवं प्रेहि शतौदने सहस्रस्यायनं भव । ।
अयुतं प्रयुतं भवाक्षितिर्भवतात्त्वं स्वर्गं लोकमा रुहः ।। १ ।।
शतौदनां शतधा भक्षयन्ति शतं रोहान् रोहति यो ददाति ।
वामदेव्यं नौधसमस्या: पक्षौ तृतीये नाके अधि विष्टपि श्रिता ।२।
शतौदनां शतधा कल्पमाना शतं रूपाणि कृणुते स्वर्यती ।
सा नो देवी सुहवा शर्म यच्छत्वथो मृडातीदृशे ।। ३ ।।
शतौदना द्वादशाहेन संमिता शतं पृष्ठानि ससृजे स्वर्यती ।
सर्वान् यज्ञान् परियती परस्तात् सा दातारं रायस्पोषे दधातु।।४।।
अभि प्रेहि शतौदन ईजानान् सोमसत्वनः ।
यज्ञांस्त्वं सर्वानाप्त्वा कामप्रस्यायनं भव । ५ । ।
अभि प्रेहि शतौदने यज्ञेनायज्वनस्तर ।
आा देवयूनरूरुहो यत्रादस्त्रिदिवं दिवः ।। ६ ।।
इरापदी प्रथमा शतौदना सत्यं ह मध्यममृतं शिरस्तव ।
उभे देवी रोदसी आ पृणासि ।।७।।
ऋतं ह श्रोणी उत सक्थौ तवौजो ह बाहू उत तद्बलाय कम्।
अनुष्ठु जठरमादु पार्श्वे सर्वाल्लोकां छतौदना समाप ।।८।।
चक्षुष्मती प्रथमा शतौदना सूर्यो ह चक्षुरुत चन्द्रमास्तव ।
विश्वैर्देवैर्ऋतुभि: संविदाना सा दातारं तृप्त्या तर्पयासि ।।९।।
शतं पयांसि शतमस्या वत्साः शतधा पक्वां वि भजन्त्येनाम् ।
सप्त लोका दिव्यार्पिता ये तां जिगेथ प्रथमा शतौदने।१०।।
14.7
सहस्त्रेण शतमाना यदेषि लोकां जिगेथ प्रथमा शतौदने । ।
सर्ववेदसमुत वाजपेयं सर्वाल्लोकां छतोदना समाप ।१।
इन्द्रः पपात प्रथम: शतौदनां सप्तऋषिभ्यः सुमनस्यमान: ।
तयासुराणां बलमोज आ ददे तया रुरोह विष्टपो देवलोकान्।।२।।
विश्वामित्रोऽयं जमदग्निरत्रिर्भरद्वाजो गोतमोऽयं वसिष्ठः ।।
इदं पक्वं कश्यपसप्तमा: प्राश्नन्तु प्रथमाः शतौदनाम् ।।३।।
ज्योतिष्मती प्रथमा शतौदना त्रीणि ज्योतींषि कृणुते स्वर्यती ।
तां दातार उपजीवन्ति यत्र तत्र देवैः सधमादं मदन्ति ।।४।।
छन्द:पक्षा बृहती शतौदना त्रीणि छन्दांसि ससृजे स्वर्यती ।
ऋतूनामधिराजं संवत्सरं पतिमस्या विन्दन् ।।५।।
अतिक्रम्याग्निष्टोममतिरात्रं शतौदने ।
यज्ञांस्त्वं सर्वानाप्त्वा चित्यमग्निं व्यश्नुहि ।।६।।
अश्वमेध्यमतिक्रम्य द्वादशाहं शतौदने । ।
त्रिरात्रं साह्वमाप्त्वा वाजपेयेन कल्पते ।।७।।
ये सहस्रैरीजाना अग्निहोत्रहुतश्च ये ।
यजैर्ये सर्वेरीजानास्तान आप्नोति शतौदना ।८।।
शं ते परूंषि सुभगे दधामि शं ते मांसान्यत्तथा भवन्ति ।
अस्थि यत्ते शमिता शशार तत्ते त्वष्टाविहृतं निष्कृणोतु ।। ९ ।।
ये यज्ञेन जिता लोका या नु च्छन्दांसि भेजिरे ।
सर्वांस्तांल्लोकानाप्नोति यो ददाति शतौदनाम् ।।१०।।
14.8
इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।
अश्वक्षता सुहवा संभूतश्रीरा पप्रौ द्यावापृथिवी महित्वा। १ ।।
अव विश्वान्यरुहद् गभीरोद्वर्षिष्ठमरुहदश्रमिष्ठा ।
उशती रात्र्यनुसानु भद्राद्वि तिष्ठते मित्र इव स्वधाभिः । ।२ ।।
नर्ये वन्द्ये सुभगे सुजात आ त्वागन् रात्रि सुमना इह स्याम् ।
अस्मांस्त्रायस्व नर्याणि जाताश्व्या यानि गव्यानि पुष्टा ।३।
सिंहस्य रात्र्युशती पिशस्य व्याघ्रस्य द्वीपिनो वर्च आददे ।
अश्वस्य ब्रध्नं पुरुषस्य मायं पुरु रूपाणि कृणुषे विभाती।। ४ ।।
शिवां रात्रिमह्नि सूर्यं च हिमस्य माता सुहवा नो अस्तु ।
अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु।।५ 1।।
स्तोमस्य नो विभावरि रात्रि राजेव जोषसै ।
असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषस: ।। ६ । ।
शम्या हि नाम दधिषे मम दिप्सन्ति ये धना ।
तात्रीहि तानसदपाथ स्तेनो न विद्यतेऽथ रिपुर्न विद्यते ।।७।।
भद्रासि रात्रि चमसो न पिष्टो विश्वं गोरूपं युवतिर्बिभर्षि ।
चक्षुष्मती मे मृषती वपूंषि प्रदित्यां दिव्यां रुक्मा ङ अमुक्थाः।।८ ।।
यो अद्य स्तेन आयत्यघायुर्मृत्यो रिपुः ।
रात्री तस्य प्रतीत्य प्र ग्रीवा प्र शिरो हनत् ।। ९ ।।
प्र पादौ न यथायति प्र हस्तौ न यथाशिषत् ।
यो मलिम्लरुपायति स संपिष्टो अपायति ।
आपायति स्वपायति शुष्के स्थाणावपायत । १o ।
14.9
अन्धं रात्रि तिष्ठधूममशीर्षाणामहिं कृणु ।
अक्षी वृकस्य निर्जह्या स्तेनं द्रुपदे जहि ।।१।।
ये ते रत्र्यनड्वाहस्तीक्ष्णशृङ्गः: स्वाशवः ।
तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ।२।
रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।
गम्भीरमप्लवा इव न तरेयुररातय: ।३।
यथा शाम्याकः प्रपतन् प्रेदिवान्नानुविद्यते ।
एवा रात्रि प्र पातय यो अस्मा ङ अभ्यघायति । ॥४ ।।
अप स्तेनं वासोमथं गोअजमुत तस्करम् ।
अथो यो अर्वत: शिरोऽभिधाय निनीषति ।। ५ ।।
यदद्य रात्रि सुभगे विभजन्त्ययो वसु।
यदेह्यस्मान् भ्राजयाथेदन्यानुपायसि ।।६।।
उषसे नः परि धेहि सर्वान् रात्र्यनागसः ।
उषा नो अह्न आ भजादहस्तुभ्यं विभावरि ।।७।।
(इति सप्तदशर्चोनामचतुर्दशकाण्डे तृतीयोऽनुवाक:)
इत्यथर्ववेद पैप्पलादशाखा संहितायां सप्तदशर्चोनाम चतुर्दशकाण्डः समाप्तः