सामग्री पर जाएँ

शबरभाष्यम्/प्रथमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

सू.1.4.1 उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्व्वं तदर्थं स्यात्।।1।

उद्भिदा यजेत, बलभिदा यजेत, अभिजिता यजेत, विश्वजिता यजेतेति समामनन्ति। तत्र सन्देहः। किमुद्भिदादयो गुणविधय, आहोस्वित् कर्मनामधेयानीति। कुतः संशयः। उभयथाऽपि प्रतिभातो वाक्यात्। उद्भिदेत्येष शब्दो यजेतेत्यनेन सम्बध्यते। स किं वैयधिकरण्येन सम्बन्धमुपैति उद्भिदा द्रव्येण यागमभिनिवर्त्तयेदिति, उत सामानाधिकरण्येन- उद्भिदा यागेन यजेतेति। द्वेधाऽप्येतस्मिन् प्रतिभाति वाक्ये, सम्भवति संशयः।

कि तावत् प्राप्तम्। उक्तमस्माभिः समाम्नायस्यैदमर्थ्यम्। कश्चिदस्य भागो विधिर्योऽविदितमर्थं वेदयति। यथा, सोमेन यजेतेति कश्चिदर्थवादो यः प्ररोचयन् विधिं स्तौति। यथा, वायुर्वै क्षेपिष्ठा देवतेति। कश्चिन्मन्त्रो यो विहितमर्थं प्रयोगकाले प्रकाशयति। यथा, बहिर्देवसदनं दामीत्येवमादि। तस्मादुद्भिदादयोऽमीषां प्रयोजनानामन्यस्मै प्रयोजनाय भवेयुः। तत्र तावन्नार्थवादः। वाक्यशेषो हि स भवति विधातव्यस्य। न च मन्त्रः। एवञ्जातीयकस्य प्रकाशयितव्यस्याभावात्। परिशेष्याद् गुणविधिः। उद्भिद्गुणता यागस्य विधीयते। कुतः। प्रसिद्धेरनुग्रहाद् गुणविधेरर्थवत्वात्, प्रवृत्तिविशेषकरत्वाच्च। न चैषां यागार्थता लोकेऽवगम्यते। न च वेदेन परिभाष्यते। अतो गुणविधयः। यदि गुणविधिः, न तर्हि कर्म विधीयते। अविहिते च कर्मणि तत्र गुणविधानमनर्थकम्। नेति ब्रूमः। प्रकृतौ ज्योतिष्टोमे गुणविधानमर्थवद्भविष्यति। यदि नामधेयं स्याद्, यावदेव यजेतेति, तावदेव उद्भिदा यजेतेति न प्रवृत्तौ कश्चिद् गुणविशेषः स्यात्। गुणविधौ च

गुणसंयोगादभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति। तस्माद् गुणविधय इत्येवं प्राप्तम्।।1।। पूर्वपक्षः।।

एवं प्राप्ते ब्रूमः-

सू.1.4.2

अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्व्वमविधायकत्वात्।।2।।

अपि वेति पक्षो विपरिवर्त्तते। नामधेयं स्यादिति प्रतिजानीमहे एवमविहितमर्थं विधास्यति ज्योतिष्टोमाद् यागाऽन्तरं, श्रुतिश्चैवं यागमभिधास्यति। इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्ती उद्भिदादिमतो लक्षयेत्। उद्भिद्वता यागेन कुर्य्यादिति। यागेन कुर्य्यादिति, यजेतेत्यस्यार्थः। करणं हि यागः। उद्भिदाद्यपि तृतीयानिर्देशात् करणम्। तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्चस्यम्। द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्। श्रुतिलक्षणविषये च श्रुतिर्ज्यायसी। तस्मात् कर्मनामधेयम्। ननु प्रसिद्धं द्रव्यवचनत्वमपहनूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत। उच्यते। तृतीयानिर्देशात् कर्मवचनता। कुतः। करणवाचिनो हि प्रातिपदिकात् तृतीया भवति करणं च यागः। तेन यागवचनमिममनुमास्यामहे।।

नैतद्युक्तम्। यदि तृतीयानिर्देशे सति उद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिरुत्पद्येत, स्यादेतदेवम्। न हि नो

बुद्धिरुत्पद्यते तस्मादयुक्तम्। तृतीयावचनमन्यथा नोपपद्यते इति चेत्, कामं मोपपादि। स जातुचिदनवगम्यमानेऽपि यागवचनो भविष्यति। तस्माद् गुणविधयः। लक्षणेति चेद्, वरं लक्षणा कल्पिता न यागाभिधानम्। लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति। अपि च, यदि नामधेयं विधीयते, न यागः। अथ यागो, न नामधेयम् उभयविधाने वाक्यभेद इति। उच्यते। न नामधेयं विधायिष्यते। अनुवादा ह्युद्भिदादयः। कुतः प्राप्तिरिति चेत्। ततोऽभिधीयते, उच्छब्दसामर्थ्याद् भिच्छब्दसामर्थ्याच्चोद्भिच्छब्दः क्रियावचनः। उद्भेदनं प्रकाशनं पशूनामनेन क्रियते इत्युद्भिद् यागः। एवमाभिमुख्येन जयाद् अभिजित् विश्वजयाद् विश्वजित्। एवं सर्वत्र। अतः कर्मनामधेयम्। यत्त्वप्रवृत्तिविशेषकरोऽनर्थक इति, नामधेयमपि गुणफलोपबन्धेनार्थवत्।

तस्मात्कर्मनामधेयान्येवञ्जातीयकानीति सिद्धम्।।2।। सिद्धान्तः।। उद्भिदादिशब्दानां यागनामधेयताऽधिकरणम्।।1।।

सू.1.4.3

यस्मिन् गुणोपदेशः प्रधानतोऽभिसंबन्धः।।3।।

चित्रया यजेत पशुकामः, त्रिवृद्बहिष्पवमानम्। पञ्चदशान्याज्यानि, सप्तदश पृष्ठानित्युदाहरणम्। किं चित्रशब्दः, पवमानशब्दः, आज्यशब्द, पृष्ठशब्दश्च गुणविधयः? उत कर्मनामधेयानीति संशयः। प्रसिद्धेः अर्थवचनत्वात्, प्रवृत्तिविशेषकरत्वाच्च गुणविधयः। न चैते कर्मणि प्रसिद्धाः। न चामी यौगिकाः। जातिशब्दा ह्येति चित्रा इति च गुणशब्दः। चित्रया यजेतेति च यागानुवादः। विज्ञातत्वान्न यागविधिः। गुणे फलकल्पनायां यजतेर्न विवक्षा। तथा आज्यानि भवन्ति, पृष्ठानि भवन्तीति च। गुणविधिकल्पनायामपि न लक्षणा। तस्माद् गुणविधय इत्येवं प्राप्तम्।

एवं प्राप्ते, ब्रूमः। यस्मिन् गुणविधिर्नामधेयमिति सन्दिग्धे गुणोऽपर उपदिश्यते प्रधानेन कर्मणा तस्य सम्बन्धः, कर्मनामधेयमित्यर्थः। गुणविधौ हि सति वाक्यं भिद्येत। पुंपशौ प्राप्ते स्त्रीपशुः। पशवः फलं, चित्रो गुण इति न शक्यमेकेन वाक्येन विधातुम्। चित्रो गुणो विधीयमानः स्त्रियां विधीयेत। नासावग्नीषोमीये पशुकामे च विधीयेत। सोऽपि नाग्नीषोमीये। तथा पञ्चदशानि आज्यानि भवन्तीति आज्येषु पञ्चदशता। न चाविहितानि स्तोत्रेष्वाज्यानि भवन्ति न चान्यद्विधायकं वाक्यं, तच्चैतदाज्यानि विदध्यात् विहितेषु च पञ्चदशताम्। गम्यते च पञ्चदशताया आज्यानां च सम्बन्धः। स्तोत्रसम्बन्धश्चाज्यानामविज्ञातः पञ्चदशतासम्बन्धश्च। द्वावेतावर्थावेकवाक्यस्याशक्यौ विधातुम्। अथ नु कर्मनामधेयं, नैष विरोधो भवति। केवलं संख्यासम्बन्धस्तदानीं विधीयते। अपि चाज्यानि स्तोत्राणीत्यनेन शब्देन लक्षणयैव गुणो विधीयेत। अतः कर्मणां नामधेयानि। वाक्यान्तरैः, आज्यैः स्तुवते, पृष्ठैः स्तुवते इत्येवमादिभिर्विहितानाम्। यत्त्वुप्रसिद्धं कर्मणां नामधेयमिति। अवयवप्रसिद्ध्या आजिगमनादाज्यानि। कथमाजिगमनमिति। अर्थवादवचनात्। यदाजिमीयुस्तदाज्यानामाज्यत्वमिति। स्पर्शवचनात् पृष्ठानि। पवमानार्थमन्त्रकत्वाद् बहिःसम्बन्धाच्च बहिष्पवनाम्। दधि मधु पयोघृतं घानास्तण्डुला उदकं तत्संसृष्टं प्राजापत्यमिति नानाविधद्रव्यत्वाच्चित्रा।

तस्मादेवञ्जातीयकानि कर्मनामधेयानीति। अथ कस्मान्न पञ्चदशसंख्याविशिष्टानि आज्यानि स्तोत्रकर्मसु विधीयन्ते? विशिष्टानां वाचकस्य शब्दस्याभावात्।।

ननु पदद्वयमिदं वाचकं भविष्यति, पञ्चदशान्याज्यानीति। विशष्टानां, तदेतेषु स्तोत्रेषु विधास्यति। नैतत्पदद्वयमपि विधायकम्। एकमत्र विधायकम्, एकमुद्देशकम्। उभयस्मिन् विधायके परस्परेण संबन्धो न स्यात्। अविधायके स्तोत्रसंबन्धो न विधीयते। न चात्रैकं पदं, विशेषणं प्रति उद्देशकं, स्तोत्रं प्रति विधायकं भवितुमर्हति। वचनव्यक्तिभेदादतोऽयमसमाधिः।।3।। चित्रादिशब्दानां यागनामधेयताधिकरणम्।।2।।

सू.1.4.4

तत्प्रख्यञ्चान्यशास्त्रम्।।4।।

अग्निहोत्रं जुहोति स्वर्गकाम इति, आधारमाधारयतीति च समामनन्ति। तत्र संशयः किमग्निहोत्रशब्द आधारशब्दश्च गुणविधी, उत कर्मनामधेये इति। गुणविधी इति ब्रूमः। कुतः?। गम्यते हि, अग्नये होत्रमस्मिन्निति। तथा क्षरणसमर्थं द्रव्यं घृतादि, आधारश्चोपांशुयाजे। तत्रैतयोरर्थवत्ता प्रवृत्तिविशेषकरत्वञ्च। न च गुणविधिपक्षे लक्षणा भवति, यथोद्भिदा यजेतेति। अग्निहोत्रे समासेनावगतं गुणविधानम्। आधारेऽपि आधारं निर्वर्त्तयतीति श्रुत्यैव गुणो विधीयते। तस्माद् गुणविधी इत्येवं प्राप्ते, ब्रूमः। तत्प्रख्यञ्चान्यशास्त्रम्। यौ गुणवेताभ्यां विधीयेते इत्याशङ्क्यते, तावन्यत एवावगतौ। यदग्नये च प्रजापतये च सायं जुहोतीति देवताविधानं, चतुर्गृहीतं वा एतदभूत्तस्याधारमाधार्या इत्याधारे च द्रव्यविधिः।

अविदितवेदनञ्च विधिरित्युच्यते। विदितं चात्रन्यतो गुणविधानम्। तस्मान्न गुणविधी, कर्मनामधेये तु सम्भवतः। यस्मिन्नग्नये होत्रं होमो भवति, तदग्निहोत्रम्। दीर्घधारा क्षरणक्रिया प्रसिद्ध अवाधारः। तस्मात् कर्मनामधेये। प्रसिद्धादयश्चोक्तत्तराः। प्रजापतिनिवृत्त्यर्थमग्निविधानं भविष्यतीति चेन्नैतदेवम्। अÏग्न ह्येष विधातुं शक्नोति, न प्रजापतिं प्रतिषेद्धुम्।

प्रतिषिद्ध्यमानस्य च प्रजापतेर्विधानमनर्थकं स्यात्। प्रजापतिर्देवतेति गम्यते। गम्यमानंच न शक्यं मिथ्येति कल्पयितुम्। अतोऽयमसमाधिः। उच्यते। आधारमधारयतीति द्रव्यपरा चोदना। यैस्तु द्रव्यं चिकीर्ष्यते इति। द्रव्यं ह्यनया क्रियया क्षार्यते। क्षारितं च यागं साधयति। तत्कस्य प्रधानस्य कर्मणो नामधेयमिति। उच्यते। एतद्देवाधारणं प्रधानकर्म। नन्वस्य द्रव्यदेवतं नास्ति। अस्तीति ब्रूमः। तस्याधारमाघार्या इत्याज्यं द्रव्यं, मान्त्रवर्णिकी देवता। इन्द्र ऊर्ध्वोऽध्वर इत्याधारमाधारयतीति मन्त्रो ह्यभिदधत् कर्म, तत्साधनं वा कर्मणि समवैति। एष च मन्त्र इन्द्रमभिधातुं शक्नोति। स यदीन्द्रस्तत्साधनं भवेद्, एवमनेन मन्त्रेणाधारः शक्यते कर्त्तुम्। तस्मादिन्द्रो देवता। द्रव्यदेवतासंयुक्तमाधारणम्। तस्माद् यजतिः. तस्य यजतेर्नामधेयमिति।।4।। अग्निहोत्रादिशब्दानां यागानामधेयताऽधिकरणम्।।3।। तत्प्रख्यन्यायः।।

सू.1.4.5

तद्व्यपदेशं च।।5।।

अथैष श्येनेन अभिचरन् यजेत, अथैष सन्दंशेन अभिचरन् यजेत, अथैष गवाऽभिचरन् यजेतेति समाम्नायन्ते। तत्र गुणविधिः, कर्म नामधेयमिति सन्देहः। प्रसिद्ध्यादिभिः पूर्वपक्षः उद्भिदादीनामिव। ते तूद्भिदादयः क्रियानिमित्ताः शक्नुवन्ति यागं वदितुम्। इमे पुनर्जातिनिमित्ता न शक्नुवन्ति। तेन गुणविधय इत्येवं प्राप्तम्। एवं प्राप्ते ब्रूमः। तद्व्यपदेशञ्च। तेन श्येनादिना प्रसिद्धेन यस्य व्यपदेशः, तच्च कर्मनामधेयम्। श्रुतिर्हि नमधेयत्वे, लक्षणागुणविधौ। यत्तु जातिशब्दा इमे, न यागमभिवदन्तीति। सादृश्यव्पदेशादभिवदिष्यन्ति। एवं हि व्यपदेशो भवति। यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्याद्त्ते, यमभिचरन्ति श्येनेनेति। निपत्यादत्ते इत्यनेन सादृश्येन श्येनशब्दो यागे। यथा सिंहो देवदत्त इति। तस्मात् कर्मनामधेयम्। सन्दंशे, सन्दशेन यथा दुरादानमादत्ते इति, गवि यथा गोपायन्तीति। तस्मात् सन्दंशशब्दोऽपि कर्मनामधेयं, गोशब्दोऽपि।।5।। श्येनादिशब्दानां यागनामधेयताऽधिकरणम्।।4।। तद्व्यपदेशन्यायः।।

सू.1.4.6

नामधेये गुणश्रुतेः स्याद्विधानमिति चेत्।।6।।

वाजपेयेन स्वाराज्यकामो यजेतेति श्रूयते। तत्र किं गुणविधिः कर्मनामधेयमिति सन्देहः। एवं चेत् सन्देहो, दृश्यते गुणविधिः। न सन्देहः, श्रूयते हि गुणः। सोऽवगम्यमानो न शक्यो नास्तीति वदितुम्। तस्माद् गुणविधिः।। 6।। पूर्वपक्षः।।

सू.1.4.7

तुल्यत्वात् क्रियायोर्न।।7।।

नैतदेवं, तुल्ये हि इमे क्रिये स्याताम्। या च वाजपेयक्रिया, या च दर्शपूर्णमासक्रिया, उभयत्र दार्शपौर्णमासिको विध्यन्तः स्यात्। तथा च दीक्षाणामुपसदाञ्च दर्शनं नावकल्प्येत, सप्तदशदीक्षो वाजपेय इति, सप्तदशोपसत्को वाजपेय इति।

अथ वा, तुल्यत्वात् क्रिययोर्नेति। यदि न गुणविधिः, ततस्तुल्यैवा वाजपेयक्रिया ज्योतिष्टोमक्रियया। तत्र दीक्षाणामुपसदाञ्च दर्शनमुपपन्नम्। तस्मात् कर्मनामधेयमिति। लिङ्गं त्वेतत्प्राप्तिः पुनरुत्तरसूत्रेण।।7।। सिद्धान्तः।।

सू.1.4.8

ऐकशब्द्ये परार्थवत्।।8।।

यदि गुणविधिः स्यात्, स्वार्थवत् परार्थवच्चाभिधानं विप्रतिषिद्ध्यते यजेतेत्यस्य शब्दस्य। यदि स्वाराज्यकामो यजेतेति स्वाराज्यकामस्य यागं विधातुं स्वार्थमुच्यते, न तर्हि वाजपेयेन गुणेन सम्बद्धुं परार्थमनूद्येत यागेन वाजपेयगुणकेनेति। भिद्येत हि तथा वाक्यम्। ननु द्वे एवैते वाक्ये प्रत्यक्षमुपलभामहे, स्वाराज्यकामो यजेतेत्येतदेकं प्रत्यक्षं पदद्वयम्। यजेत वाजपेयेनेत्येतदपि प्रत्यक्षमेव। नैतदेवम्। एवं सति चत्वारि पदान्युपलभेमहि, त्रीणि चैतान्युपलभ्यन्ते। उच्यते। यजेतेत्येतदुभाभ्यां सम्भन्त्स्यते। कथं सकृदुच्चारितं सम्बन्धमुभाभ्यामेष्यतीति। रूपाभेदात्। ईदृशमेवास्य रूपं स्वराज्यकामेन सम्बध्यमानस्य, ईदृशमेव वाजपेयेन।

अतस्तन्त्रेणोभाभ्यां सम्भन्त्स्यन्ते इति। नैतदस्ति, ईदृशेनैव रूपेणेति। यद्यज्ञातस्ततो विधिः, यदि ज्ञातस्ततोऽनुवादः। न च

ज्ञातोऽज्ञातश्च युगपत् सम्भवतीति। आह। यदिदमुक्तं- गुणविधिपक्षेऽनुवादो येजेतेति। यद्ययमनुवादः केनेदानीं गुणो विधीयते। वाजपेयशब्देनेति मा वोचः। न ह्याख्यातमन्तरेण कृत्यं वा नाम शब्दार्थस्य व्यापारो विधीयते। यश्चात्राख्यातशब्दो यजेतेति सोऽनुवाद इत्युक्तम्। केनेदानीं तस्य व्यापारो विधीयते। अतः स्वाराज्यकामं गुणं च प्रति यजेतेति विधिः। तस्मादुभाभ्यां सम्बध्यते इति। यद्युभयत्र विधिः वाजपेयो न स्वाराज्यकामस्य यागेन सम्बध्येत। द्वे ह्येते तदा वाक्ये, न स्वाराज्यकामस्य यागेन सह गुणविधिरेकवाक्यता। प्रकरणात् सम्बन्धः स्वाराज्यकामस्य यागेनेति चेन्न। वाक्येन यागमात्रे विधानात्। अस्तु यागमात्रेण सम्बन्धः इति चेद्, न। स्वाराज्यकामस्य .यागेन सह एकवाक्यताया गम्यमानत्वात्। तदेवं प्रकरणस्य वाक्यस्य च बाधो युज्यते यदि कर्मनामधेयम्। गुणविधिपक्षे हि सर्वे इमे वाक्यभेदादयो दोषाः प्रादुर्भवेयुः। तस्मात् कर्मनामधेयं वाजपेयशब्द इति सिद्धम्।।8।। सिद्धान्त युक्तिः।। वाजपेयादिशब्दानां नामधेयताऽधिकरणम्।।5।।

सू.1.4.9

तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः।।9।।

यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्येवमादयः श्रूयन्ते। तत्र सन्देहः। किमाग्नेयोऽग्नीषोमीय इत्येवमादयो गुणविधयः, कर्मनामधेयानीति।किं तावत् प्राप्तम्। गुणविधौ सत्यनेको गुणो विधीयेत। अग्निपुरोडाशाष्टाकपाला इति। तस्मान्न गुणविधय इत्येवं प्राप्ते, ब्रूमः। तच्च कर्म, गुणाश्चास्य विधीयेरन्। अविभक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे। तत्र हि अष्टाकपालस्याग्नेयता विधीयते। स एष एवमाग्नयो भवति। यद्यग्नये संकल्प्य दीयते। तेनायमनेन प्रकारेण यागो विहितो भवति। स एवं विधीयमानो न शक्योऽग्निमष्टाकपालं चाविधाय विधातुम्। संबन्धो हि विधीयमानो न शक्यते सम्बन्धिनावविधाय विहित इति वक्तुम्। तस्माद् गुणविधयः। अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो यवमयो वा पुरोडाशा एव भवति। सोऽनुवादः। सिद्धश्चात्राष्टाकपाल उच्यते। कपालेषु श्रपयतीति वचनाद् नान्येन श्रपितं गृह्णन्ति। तेनाऽस्मिन् पक्षे न वाक्यभेदो भवति, न चेदन्येन शिष्टः। यत्र पुनरन्येन वचनेन शिष्टा गुणा भवन्ति, भवति तत्र नामधेयम्। यथा, अग्निहोत्रं जुहोतीति।।9।। आग्नेयादीनामनामताधिकरणम्।।6।।

सू.1.4.10

बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः।।10।।

बर्हिराज्ययोः पुरोडाशे च सन्देहः। किमेते संस्कारशब्दा, उत जातिशब्दा इति। संस्कारशब्दा इति ब्रूमः। संस्कृतेषु तृणेषु बर्हिःशब्दमुपचरन्ति सर्वत्र, नासंस्कृतेषु। संस्कृते च घृते आज्यशब्दम्। तथा संस्कृते पिष्टे पुरोडशशब्दम्। नन्वसंस्कृतेऽपि कस्मिश्चिद्देशे उपचर्यते। यथा बर्हिरादय गावो गता इति भवन्ति वक्तारः

तथा आज्यं क्रय्यमिति, पुरोडाशेन मे माता प्रहेलकं ददातीति। सादृश्यात्तेषु प्रयोगः। यथोपशये यूपशब्दः। कुत एतत्। यत एकदेशो हि शब्दप्रयोगः। तस्मात् संस्कारशब्दा इत्येवं प्राप्तम्।।

एवं प्राप्ते ब्रूमः। बर्हिरादिष्वसंस्कृतेष्वपि शब्दलाभान्न संस्कारशब्दाः। ननूक्तं सादृश्यादेकदेशे शक्यते वक्तुम्। तच्चाप्रसिद्धम्। कथम्। बर्हिरादिशब्दैरुद्दिश्य संस्कारा विधीयन्ते। तेन सत्सु शब्देषु संस्कारैर्भवितव्यम्। सति च संस्कारे शब्दलाभ इतीतरेतराश्रयं भवति। न चाविहिताः संस्कारा भवन्ति, यानालोच्य लोकः प्रयुञ्जीत। तस्मान्न लोकाः संस्कृतेषु बर्हिरादीन् प्रयुञ्जते। तत एकदेशेऽपि जातिनिमित्ता दृष्टाः सर्वत्र जातिमिनित्ता भवितुमर्हन्ति। न चाऽलौकिकानां सतां वेदादेवं पूर्वोत्तरपदसम्बन्धमनपेक्ष्य शक्यतेऽर्थोऽध्यवसातुम्। पूर्वोत्तरपदे अनर्थके मा भूतमित्येवं स परिक्ल्प्येत। अशक्यस्त्वनवगम्यमानः परिकल्पयितुम्। अर्थवती च ते पदे पूर्वोत्तरे लौकिकेनासंस्कृतप्रयोगेण भविष्यतः। तस्माज्जातिशब्दा एवञ्जातीयकाः। प्रयोजनं, बर्हिषा यूपावटमवस्तृणातीति संस्कृतैरेव स्तरितव्यम्। यदि पूर्वं पक्षः, विपरीतं सिद्धान्ते।।10।। बर्हिरादिशब्दानां जातिवाचित्वाधिकरणम्।।7।।

सू.1.4.11

प्रोक्षणीष्वर्थसंयोगात्।।11।।

प्रोक्षणीरासादयेति श्रूयते। तत्र प्रोक्षणीशब्दं प्रति सन्देहः। किं संस्कारनिमित्तः, उत जातिनिमित्तः, उत यौगिक? इति। तत्र संस्कारेषु सत्सु दर्शनात् संस्कारशब्दतायामवगम्यमानायामसंस्कृते शब्दलाभाज्जातशब्दः, असंस्कृतास्वेवाऽस्तु प्रोक्षणीभिरुद्वेजिताः स्म इति कस्मिश्चिद्देशे भवन्ति वक्तारः। तेन जातिशब्द इति प्राप्ते यौगिक इत्युच्यते। कुतः। अर्थसंयोगात्। प्रोक्षण्य इत्युपसर्गधातुप्रत्ययसमुदायस्य जातिनिमित्तता प्रयोगादनुमीयते।

सेचनसंयोगात्तूपसर्गधातुकरणप्रत्ययसहितोऽप्सु प्रवर्त्तते इति प्रसिद्धिरनुगृहीता भविष्यति। यदाऽन्यदपि सेचनं प्रोक्षणशब्देनोच्यते, तदा तत्संयोगादेवाप्सु भविष्यतीति न समुदायार्थः कल्पयितुं शक्यते। तस्माद् यौगिकः। प्रयोजनं, घृतं प्रोक्षणं भवतीति। यदि संस्कारशब्दः, प्रोक्षणीरासादयेति प्रैषः। यदि जातिशब्दः, घृतमासादयेति। यदि यौगिकः, प्रोक्षणमिति।11।। प्रोक्षण्यादिपदानां यौगिकत्वाऽधिकरणम्।।8।।

सू.1.4.12

तथा निर्मन्थ्ये।।12।।

निर्मन्थ्येनेष्टकाः पचन्तीति संस्कृते, दर्शनात् संस्कारशब्दो निर्मन्थ्य इति। असंस्कारेऽपि दृश्यते। निर्मन्थ्यमानय, ओदनं पक्ष्याम इति। निर्मन्थ्ययोगात् पूर्ववद् यौगिक इति संस्थितम्। प्रयोजनं संस्कारनिमित्ते संस्कृतेन इष्टकाः पक्तव्याः। जातिशब्दे यथोपपन्नेन, यौगिके अचिरनिर्मथितेन। यथा नावनीतेन भुङ्क्ते इत्यचिरनिर्द्दग्धेनेति गम्यते।।12।। निर्मन्थ्यशब्दस्य यौगिकत्वाधिकरणम्।।9।।

सू.1.4.13

वैश्वदेवे विकल्प इति चेत्।।13।।

चातुर्मास्येषु प्रथमे पर्वणि वैश्वदेवे सन्देहः। वैश्वदेवेन यजेतेति किं वैश्वदेवशब्दो गुणविधिः, उत कर्मनामधेयमिति। इति यदि सन्देहो, न सन्देहः। वैश्वदेवे विकल्पः। गुणविधिर्वैश्वदेवशब्दः। गम्यते हि गुणविधानम्। विश्वदेवा विधीयन्ते आग्नेयादिषु यागेषु तत्राग्न्यादीनां विश्वैर्देवैर्विकल्पः। एवं प्रसिद्धिरर्थवती भविष्यति।।13।। पूर्वपक्षः।।

सू.1.4.14

न वा प्रकरणात् प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य।।14।।

नैतदेवम्। प्रत्यक्षश्रुतिविहिता अग्न्यादयः। तेषां यागानां विश्वेदेवा वाक्येन, प्रकरणात्तेनैव, नान्येनेति गम्यते। न च इयं विषमशिष्टो विकल्पो भवितुमर्हति। न हि प्रकरणं श्रुतस्य द्रव्यस्य बाधने समर्थम्। तस्मात् कर्मनामधेयम्।।14।। सिद्धान्तः।।

सू.1.4.15

मिथश्चानर्थसम्बन्धः।।15।।

अथोच्येत, वैश्वदेव इत्यनेन शब्देन प्रत्यक्षमग्न्यादिगुणविशिष्टो यागगणो लक्ष्यते। वैश्वदेवी हि तत्राऽऽमिक्षा समवैति। यदि वैश्वदेवशब्देन यागगणो लक्ष्यते, न तर्हि विश्वेदेवा विधीयन्ते। कथं सकृदुच्चारितो वैश्वदेवशब्दो यागगणं लक्षयिष्यति, विश्वांश्च देवान् विधास्यतीति नायं वैश्वदेवशब्दस्य विश्वैर्देर्मिथः संबन्धो घटते। तस्मात् कर्म्मनामधेयमेव, न गुणविधिरिति।।15।। आ0नि0।।

सू.1.4.16

परार्थत्वात् गुणानाम्।।16।।

परार्थाश्च गुणाः। ते न शक्नुवन्ति प्रधानमावर्त्तयितुम्। तेन सकृद्यागः कर्त्तव्य, न गुणानुरोधेनावर्त्तितुमर्हति। सम्प्रतिपन्नदेवतत्वाच्च न विरोधः। तत्रैकस्याम्प्रधानाहुतौ तिं्रशदाहुतयो हूयन्ते इति तिं्रशत्संख्यासम्पत्तिराहवनीयाहुतीनां नावकल्पते। तस्मात् कर्म्मनामधेयमिति सिद्धम्। वैश्वदेवादिशब्दानां नामधेयताधिकरणम्।।16।।

सू.1.4.17

पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये।।17।।

वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते इति श्रूयते। तत्र यदष्टाकपालो भवति गायर्त्यैवैनं ब्रह्मवर्चसेन पुनातीत्येवमादयः कपालविकल्पाः श्रूयन्ते। तेषु सन्देहः। किमष्टत्वादयो गुणविधयः, उताऽर्थवादा इति। तत्र गुणविधय इत्येव ब्रूमः। कथम्। ये हि पूर्ववन्तो विदितपूर्वमर्थमभिवदन्ति ते अविधानार्थाः। तेदतदस्य वाक्यस्य समाम्नाये सामर्थ्यं, यदविहितपूर्वकाभिधानम्। किं तत्? विधानसामर्थ्यम्। एवमविहितमर्थं विधास्यति। इतरथा अर्थवादाः सन्तोऽनर्थकाः स्युः। न च द्वादशकपालस्य शेषभावमुपगन्तुमर्हति। प्रत्यक्षा ह्यष्टानां कपालानां स्तुतिः, परोक्षा द्वादशानाम्। प्रत्यक्षाभावे च परोक्षा स्यात्। तस्माद् गुणविधयः।।17।।

सू.1.4.18

गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्ताऽस्ति।।18।।

नैतदस्ति गुणविधय इति। गुणस्य विधानार्था एते सन्तः पुरोडाशस्य कपालेषु संख्यां विदध्युः।न शक्नुवन्ति यागप्रयोगस्य विधातुम्। द्वादशकपालता हि यागस्य वाक्येन, अष्टाकपालादयः प्रकरणेन। तेन ते यागे न भविष्यन्ति। अपिचाष्टत्वादयः पुरोडाशेन एक्यवाक्यभूताः प्रकरणं बाधित्वा न यागस्य भविष्यन्ति। यागासम्बन्धे च अनर्थकाः, पुरोडाशसमबन्धे फलाभावात्। अर्थवादत्वेन तु वैश्वानरयागस्य स्तुतिरुपपद्यते। तस्मादर्थवादा इति।।18।। सि0।।

सू.1.4.19

तच्छेषो नोपपद्यते।।19।।

इति यदुक्तं, तत्परिहर्त्तव्यमित्याभासान्तं सूत्रम्।।19।। उत्तराभासः।।

सू.1.4.20

अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन्।।20।।

यदा त्वष्टाकपालादिप्ररोचनर्था अनर्थका इत्यवगतं, तदा लक्षणया द्वादशकपालस्य स्तुतिर्वैश्वानरयागप्ररोचनार्था भविष्यति। सन्ति हि द्वादशसंख्यायामष्टत्वादयः संख्याविशेषा अविभक्ताः। अतो द्वादशकपालस्य स्तुत्यर्थत्वेनावयवस्तुतिरुपपद्यते। यथा शोभनमस्य चक्रस्य नेमितुम्बारं, शोभनमस्याः सेनाया हस्त्यश्वरथपादातमिति। तस्मादुपपन्ना स्तुतिरिति।।20।। उत्तरम्।।

सू.1.4.21

कारणं स्यादिति चेत्।।21।।

इति चेद् भवान् पश्यति, अर्थवादा इति, कारणमष्टत्वादीनां ब्रह्मवर्चसादि कस्मान्न भवति? ब्रह्मवर्चसकामस्याष्टाकपालः। एवमुत्तरेषु यथाकामम्। किमेवं भविष्यति। पुरोडाशस्य गुणविधानेऽप्यानर्थक्यं न भविष्यति। न च लक्षणया द्वादशकपालस्य स्तुतिः कल्पिता भविष्यति तस्मात् कामेभ्यो विधयो भविष्यन्ति।।21।। आ0।।

सू.1.4.22

आनर्थक्याद्कारणं कर्त्तुर्हि कारणानि गुणार्थो हि विधीयते ।। 22 ।।

यदि कामाय विधयः, भिन्नानि वाक्यानि भवेयुः। एकं चेदं वाक्यं, वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते इत्येवमुपक्रान्तम्। यद् द्वादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति, यस्मिन् जाते एतामिÏष्ट निर्वपति, पूत एव स तेजस्व्यन्नाद इन्द्रियादिपशुमान् भवतीत्येवमन्तम्। तस्य मध्येऽष्टत्वादयः श्रूयमाणा यदि न संबध्येरंस्ततो वाक्यान्तराणि भवेयुः। कर्तुर्हि कारणानि पूतत्वादीनि भवेयुः। स एष गुणार्थोऽत्र विधीयते वैश्वानरयागे पूत एव इत्येवमादिः। तेन चैतेऽष्टत्वादयः साक्षाद्धेतुत्वेन संबन्ध्यन्ते। यस्माद् गायर्त्यैवैनं ब्रह्मवर्चसेन पुनाति तेन पूत एव सः यस्मात्त्त्रिवृतैवाऽÏस्मस्तेजो दधाति तेन तेजस्वी। यस्माद् विराजैवास्मिन्नन्नाद्यं दधाति तेनान्नादः। यस्मात्त्त्रिष्टुभैवाऽस्मिन्निन्द्रियं दधाति, तेन इन्द्रियावी। यस्माज्जगत्यैवाऽस्मिन् पशून् दधाति तेन पशुमानिति। ततः कामाय विधयोऽसम्भवन्तो यद्यर्थवादा अपि न

भवेयुः, आनर्थक्यमेवैषां स्यात्। तस्मादकारणं ब्रह्मवर्चसत्वादयोऽष्टत्वादीनाम्। तस्मादष्टत्वादयोऽर्थवादा

इति।।22।। आ0नि0।।वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणम्।।11।।

सू.1.4.23

तत्सिद्धिः।।23।।

यजमानः प्रस्तरः, यजमान एककपाल इत्यादि समाम्नायते। तत्र सन्देहः। किं यजमानः प्रस्तरः इत्येष गुणविधिः, किमर्थवाद इति। तथा यजमान एककपाल इति। किं तावत् प्राप्तम्। गुणविधिरिति। किमेवं भविष्यति? एवम्। अपूर्वमर्थं विधास्यति। इतरथाऽर्थवादो अनर्थकः स्यात्। अर्थवत्त्वञ्च न्याय्यम्। तस्माद् विधिः। नैतदेवम्। यदि विधिः स्यात् प्रस्तरकार्ये यजमानो नियम्येत। यजमानकार्ये वा प्रस्तरः। प्रस्तरे जुहुमासादयति, सर्वा सा स्रुव इति यजमाने जुहुरासाद्येत। सर्वा वा स्रुव इति। तथा सति न याजमानं शक्यते कर्तुम्, दक्षिणतो ब्रह्मयजमानावासाते कर्म्मणः क्रियमाणस्येति। न च प्रस्तरो याजमानं शक्नोति कर्तुम्। तथा यदि यजमान एककपालकार्य्ये विनियुज्येत, सर्वहुतः क्रियेत। तत्र सर्वतन्त्रपरिलोपः स्यात्। न चैककपालो याजमानं शक्नोति कर्तुम्। तस्मान्न विधिः। विध्यन्तरं , चास्ति, प्रस्तरमुत्तरं बर्हिषः सादयति,

एककपालं सर्वहुतं करोतीति। तस्मादपि न विधिः। किं तर्हि। अर्थवादः। यजमानो ज्ञायत एव प्रस्तरः, एककपाल इति च।।

कथं पुनरनयोः सामानाधिकरण्यं ज्ञायते? न हि प्रस्तर एककपालो वा यजमानः। न च यजमानः एकस्मिन् कपाले संस्कृतः पुरोडाशः, प्रथमो वा कुशमुष्टिर्लूनः। कथं परशब्दः परत्र वर्त्तते, किमर्थं वा ज्ञायमानस्य सङ्कीर्त्तनम्? इति। उच्यते। ज्ञायमानः सङ्कीर्त्यते स्तोतुम्। प्रस्तर उत्तरो बर्हिषः सादयितव्यो यजमानत्वात्। तथा यजमान एककपालः सर्वहुतः कर्त्तव्यः, स्वर्ग आहवनीयस्तत्र प्रतिष्ठापितो भवति इति।।

कथं परत्र वर्त्तते परशब्द? इति। गुणवादस्तु, गुणादेव वादः। कथमगुणवचनो गुणं ब्रूयात्। स्वार्थाभिधानेनेति ब्रूमः। सर्व एवैते गौणाः शब्दा, न स्वार्थं हित्वा गुणेषु वर्त्तन्ते। प्रसिद्धहानिर्हि तथा स्यात्, अप्रसिद्धकल्पना च। न च सर्वे गुणसमुदायवचनाः। गुणहीनेऽपि तथा दर्शनात्। अप्रसह्यकार्य्यपि हि कदाचिद्रोगेणोपहतः सिंह्याः पुत्रः सिंह एव। समुदायवाची च नावयवे प्रवर्त्तितुमर्हति। सर्वसिंहव्यक्तिषु यत् सामान्यं तद्वचनः शब्द इति स्थितो न्यायः प्रत्युद्ध्रियेत। न चासति सिंहे परिकल्पनया प्रवर्त्तेत। कल्पनाया अशक्यत्वात्। कथं नु स्वार्थाभिधानेन प्रत्ययव्यवस्था इति चेत्। अर्थसम्बन्धात्। सिंह इति निर्ज्ञाते प्रसह्यकारिता तत्र प्रायेणेति प्रसह्याकारीति गम्यते। अर्थप्रत्ययसामर्थ्यात्। यो हि मन्यते, प्रसह्यकारिणं प्रत्याययेयमिति, स यदि सिंहशब्दमुच्चारयति सिद्ध्यत्यस्याभिप्रेतम्। सिंहार्थः प्रतीतः प्रसह्यकारीति सम्बन्धादितरमर्थं प्रत्याययति। एवं स्वार्थाभिधानेन तद् गुणसंबन्धः प्रतीयते।

इह तु यजमानः प्रस्तरः, यजमान एककपाल इति कीदृशो गुणसंबन्धः प्रतीयते? तत्सिद्धिकर इति। सर्वो ह्यात्मनः कार्य्यसिदिं्ध करोति। अन्योऽपि यस्तस्य कार्य्यसिदिं्ध करोति, स तस्मिन्नुच्चरिते हृदयमागच्छति। यथा, राजा पत्तिगणक इति। पत्तिगणको राज्ञः कार्यं साधयति। स राजशब्दे उच्चरिते प्रतीयते। एवमिहापि यजमानकार्यं प्रस्तरैककपालौ साधयःत, तौ यजमाने प्रतीते प्रतीयेते। तस्मात्तौ यजमानशब्देन प्रत्याय्येते। कथम्? स्तुतौ स्यातां बर्हिष उपरिसादने सर्वहोमे चेति। तस्मादेवञ्जातीयका अर्थवादा न विधय, इति।।23।। यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थताधिकरणम्।।12।।

सू.1.4.24

जातिः।।24।।

आग्नेयो वै ब्राह्मणः, ऐन्द्रो राजन्यः, वैश्यो वैश्वदेव इत्येवमादयः श्रूयन्ते। तत्र किं गुणविधयः, अर्थवादाः? इति सन्देहः। गुणविधय इति ब्रूमः। एवमपूर्वमर्थं विधास्यति, इतरथा अर्थवादाः सन्तोऽनर्थकाः स्युः। न विधिः विध्यन्तरस्य भावात्। तस्मात् संवादः। तस्य संकीर्त्तनं विधिस्तुत्यर्थम्। अनाग्नेयादिष्वाग्नेयादिशब्दाः केन प्रकारेण? गुणवादेन। को गुणवादः? अग्निसंबन्धः। कथम्। एकजातीयकत्वात्। किमेकजातीयकत्वम्? प्रजापतिरकामयत, प्रजाः सृजेयमिति। स मुखतस्त्रिवृतं निरमिमीत, तमग्निद्देवता अन्वसृज्यत, गायत्रीच्छन्दः रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्। तस्मात्ते मुख्याः, मुख्यतो ह्यसृज्यन्त। उरसो बाहुभ्यां

पञ्चदशं निरमिमीत, तमिन्द्रो देवताऽन्वसृज्यत, त्रिष्टुप् छन्दः, बृहत् साम, राजन्यो मनृष्याणाम् अविः पशूनाम्। तस्मात्ते वीर्य्यवन्तः, वीर्याद्धि असृज्यन्त। ऊरुभ्यां मध्यतः सप्तदशं

निरमिमीत, तं विश्वे देवा देवता अन्वसृज्यन्त, जगतीच्छन्दः, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्। एवमुक्ते सत्येकस्मिन्नेवञ्जातीयके विज्ञाते अन्योऽपि तज्जातीयको हृदयमागच्छति। तस्मादर्थवादशब्दाः।।24।। आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणम्।।13।।

सू.1.4.25

सारूप्यात्।।25।।

यजमानो यूपः आदित्यो यूप इत्यादि श्रूयते। तत्र गुणविधिः अर्थवाद? इति सन्देहः। अर्थवत्त्वाद् गुणविधिः। अशक्यत्वाद् यूपकार्य्यसाधनं यजमानस्य, यजमानकार्यसाधने वा यूपस्य। विध्यन्तरभावाच्च न विधिः। विधिस्तुत्यर्थं संवादः। गुणवादात् सामानाधिकरण्यम्। को गुणः? सारूप्यम्। किं सारूप्यम्? ऊर्ध्वता, तेजस्विता च। तस्मादेवञ्जातीयका अर्थवादाः।।25।। यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणम्।।14।।

सू.1.4.26

प्रशंसा।।26।।

अपशवो वा अन्ये गोऽश्वेभ्यः पशवो गोअश्वाः, अयज्ञो वा एष योऽसामा, असत्रं वा एतद् यदच्छन्दोममिति श्रूयते। तत्र विध्यर्थवादसन्देहे अर्थवत्त्वाद्विधय इति प्राप्ते। अभिधीयते। यदि विधयो भवेयुः, गोअश्वा एव पशवः स्युः, सामवानेव यज्ञः, छन्दोमवदेव सत्रम्। अन्येषां पशूनां, यज्ञानां, सत्राणां चोत्पत्तिरनर्थिका स्यात्। विध्यन्तरञ्च नावकल्पेत। अतः स्तुत्यर्थं संवादः। गोऽश्वान् प्रशंसितुमन्येषां पशूनां निन्दा। सामवतः प्रशंसितुं असाम्नां निन्दा। छन्दोमवन्ति प्रशंसितुमच्छन्दोमकानि निन्द्यन्ते। यथा, यदघृतमभोजनं तत्। यन्मलिनमवासस्तदिति।।26।। अपश्वादिशब्दानां गवादिप्रशंसार्थताधिकरणम्।।15।।

सू.1.4.27

भूमा।।27।।

सृष्टीरुपधाति इति श्रूयते। तत्र गुणविधिः, अर्थवादः? इति सन्देहे, अपूर्वत्वाद् विधिरिति प्राप्ते। उच्यते। यदि विधिः, सृष्टिमन्त्रका उपदधातीष्टका इत्यर्थः। तत्र न इष्टकानां विशेषः कश्चिदाश्रीयते, एवंरूपाः सृष्टिमन्त्रकाः, नैवंरूपा इति। तत्र सर्वासां सृष्टिलिङ्गा मन्त्राः प्राप्नुयुः। अन्येषाम् असंयुक्तानां मन्त्राणामानर्थक्यं स्यात्। तस्मादनुवादो मन्त्रसमाम्नानात् प्राप्तानामुपधाने मन्त्राणाम्। सृष्टीनां सङ्कीर्तनं सर्जनार्थवादार्थम्। अपि च विधित्वे लक्षणा, एकया स्तुवते इत्यत्र या असृष्टयस्ता लक्षयेत्। नन्वनुवादेऽपि लक्षणा। नानुवादपक्षे लक्षणायां दोषः। कथं त्वसृष्टिषु च सृष्टिशब्द इथि। भूम्ना। बहवस्तत्र सृष्टिलिङ्गा मन्त्राः, अल्पशो विलिङ्गा इति।।27।। बाहुल्येन सृष्टिव्यपदेशाधिकरणम्।। भूमाधिकरणम्।।16।।

सू.1.4.28

लिङ्गसमवायात्।।28।।

प्राणभृत उपदधाति, आज्यानीरुपदधातीति। विधित्वे प्राणभृन्मन्त्रकासूपधीयमानासु विलिङ्गानां मन्त्राणामानर्थक्यम्। तस्मादनुवादः। लिङ्गसमवायात् परशब्दः परत्र वर्त्तते। यथा, छत्रिणो गच्छन्तीत्येकेन छत्रिणा सर्वे लक्ष्यन्ते। न चायं प्राणभृच्छब्दः सृष्टिशब्दश्च जहत्स्वार्थं मन्त्रगणं लक्षयेत्। यद्गणे च सृष्टिप्राणभृच्छब्दौ समवेतौ, तावपि परिगृह्येते। यथा, छत्रिशब्देन स्वार्थलक्षणार्थेन सोऽपि छत्री गृह्यते इति।।28।। प्राणभृदादिशब्दानां स्तुत्यर्थताऽधिकरणम्।।17।।

सू.1.4.29

सन्दिग्धेषु वाक्यशेषत्वात्।।29।।

अक्ताः शर्करा उपदधाति, तेजो वै घृतमिति श्रूयते। तत्र सन्देहः किं घृततैलवसानामन्यतमेन द्रव्येणाञ्जनीयाः शर्कराः, उत घृतेनैवेति। कथं सन्देहः। अञ्जनसामान्येन वाक्यस्योपक्रमः। घृतेन विशेषेण निगमनं, यथोपक्रमं निगमयितव्यमेकस्मिन् वाक्ये। तत्र यद्वा सामान्यमादौ विशेषोपलक्षणार्थं? विवक्ष्यते। यद्वा

निगमने विशेषः सामान्यलक्षणार्थः। तदारम्भनिगमनयोः किंसमञ्जसमिति संशयः। एवं सन्दिग्धेषु उपक्रमे सामान्यवचने विरोधाभावान्न विशेषः परिकल्प्यः। निगमने तूपजातः सामान्यप्रत्यय इति विरोधाल्लक्षणार्थं घृतवचनम्। यथा सृष्टिष्वसृष्टिषु च सृष्टिशब्दः, एवं घृतमघृतं च घृतमित्युच्यन्ते। सन्दिग्धेष्वेवं प्राप्ते, ब्रूमः- सामान्यवचनेन विशेषापेक्षिणोपक्रमो वाक्यस्य, विशेषे निगमनवशेन। कुतः। नहि सामान्यं विहितम्। येन विरोधो निगमनस्य। कथमऽविहितम्। सन्दिग्धेषु विधानशब्दाभावात्। न हि विधानशब्दोऽस्ति। अक्ताः शर्करा उपदधातीति वर्त्तमानकालनिर्देशात् नाऽपि सामान्यस्य साक्षात् स्तुतिः, प्रत्यक्षन्तु घृतस्य स्तवनम्। श्रुत्या घृतस्य स्तुतिः, लक्षणाया सामान्यस्य। श्रुतिश्च लक्षणाया ज्यायसी। तस्माद् घृतविधानम्। एवं वासः परिधत्ते,

एतद्वै सर्वदेवत्यं वासो यत् क्षौममिति। तथा इमां स्पृष्ट्वोद्गायेत्, इमां हि औदुम्बरीं विश्वाभूतन्युपजीवन्तीति।।29।। वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणम्।।18।।

सू.1.4.30

अर्थाद्वा कल्पनैकदेशत्वात्।।30।।

स्रुवेणाऽवद्यति, स्वधितिनाऽवद्यतीति, हस्तेनाऽवद्यति श्रूयते। तत्र सन्देहः। किं स्रुवेणावदातव्यं सर्वस्य द्रवस्य संहतस्य मांसस्य च। तथा स्वधितिना, हस्तेन च, उत सर्वेषामर्थतो व्यवस्था। द्रवाणां स्रुवेण, मांसानां स्वधितिना, संहतानां

हस्तेनेति। अविशेषाऽभिधानादव्यवस्था इति। एवं प्राप्ते ब्रूमः। अर्थाद्वा कल्पना, सामर्थ्यात् कल्पना इति। स्रुवेणावद्येद् यथा शक्नुयात्। तथा यस्य शक्नुयात् तस्य चेति। आख्यातशब्दानामर्थं ब्रुवतां शक्तिः सहकारिणी। एवञ्चेद् यथाशक्ति व्यवस्था भवितुमर्हति। तथा, अञ्जलिना सक्तून् प्रदाव्ये जुहोतीति। द्विहस्तसंयोगोऽञ्जलिः, स व्याकोशोऽर्थात् कर्त्तव्यः। तथा हि शक्यते होमो निर्वर्त्तयुतुम्। तद् यथा, कटे भुङ्क्ते इत्यर्थात् कल्प्यते- कटे समासीनः कांस्यपार्त्यामोदनं निधाय भुङ्क्ते इति।।30।। सामर्थ्याऽनुसारेणाव्यवस्थितानां व्यवस्थाऽधिकरणम्।।19।। इति श्रीशबरस्वामिकृतौ मीमांसाभाष्ये प्रथमाऽध्यायस्य चतुर्थः पादः।।1।।4।।समाप्तोऽयं प्रथमोऽध्यायः।।1।।