सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः द्वन्दोः प्रथमादधियामतः । भुञ्जीतावर्तनात्पूर्व प्रथमे प्रथमाद्धः । ’ तथा --- अपरहे न मध्याहे सायाखे न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्स्यान्न पूर्व भोजन क्रिया ॥' इति । यच्च मनुनोक्तम्—‘नाश्रीयात्संधिवेलायां नातिप्रगे नाति सायमेित्येवमादि यञ्च बृहच्छातातपेनोक्तम्-*धाना दधि च सतूंश्च श्रीकामो वर्जयेन्निशि। भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥’ इत्येवमादिष्व नाद्विष्टप्रायश्चित्तषु–“प्राणायामशतं कार्य सर्वपापापनुत्तये । उपपातकजातानाम नादिष्टस्य चैव हि ॥’ इति योगीश्वरोत्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु शेषेधूपवसेदहः' इति मनूक्तोपवासो द्रष्टव्यः । अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः (११।१५३) शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न त्रज त्यधः ॥' इति । अत्राकामतः ‘शेषेष्पवसेदहः’ इत्युपवासो द्रष्टव्यः । कामतस्तु ‘केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपर्छ भुक्त्वा च त्रिरात्रं तु ब्रती भवेत् ॥’ इति शङ्खोक्तं द्रष्टव्यम् । एतच्चामलकादिफलयुक्तकाञ्जिकादि व्यतिरेकेण दृष्टव्यम् । ‘कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् । तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥’ इति स्मरणात् ॥ उद्धृतखेहादिषु तु उद्दृतखेहवेिलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि.नाश्रीयात्' इत्युक्त्वा प्राक्पञ्चनखेभ्यश्छदैनं धृतप्राशनं च' इति गौतमोत्तं द्रष्टव्यम् । विलयनं धृताद्विमलम् । अनाहुताद्यन्नभोजने तु लिखित आह -‘यस्य चाौ न क्रियते यस्य चाग्रं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोपवसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुली । आहिताझिद्विजो भुक्त्वा प्राजापत्यं समाचरेत् ॥ इति ॥ अनाहितामेस्तु ‘शेषेधूपवसेदहः' इत्युपवासो द्रष्टव्यः ॥ भिन्नभाजना दिषु तु भोजने संवर्तनोक्तम्—‘शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्न भाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुद्धयति ॥’ इति । तथा स्मृत्य न्तरेऽप्युक्तम्-‘वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु . भुक्त्वा चान्द्रायणं चरत् ॥' इति । तथा–“पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्विकं फलम् ॥' इति ॥ अथ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः---- माक्षिकं फैाणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिन मेकमभोजनम् ॥’ इति । कामतस्तु–“हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपङ्गिभोजने पङ्कयग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने इदैः सह स्वमे त्रिरात्रमभोजनम्’ इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे इ-‘ब्राह्मणार्छ ददच्छूद्रः शूद्रान्न ब्राह्मणो ददत् । द्वयमेतद्भोज्यं स्यादुक्त्वा तूए चुझेदहः ॥' इति वृद्धयाज्ञवल्क्योक्तमवगन्तव्यम् । शद्रहस्तेन भोजने तु----

  • ाहतेव यो भुङ्गे पानीयं वा पिबेसञ्चवित् । अहोरात्रोषितो भूत्वा पञ्च

९ क्षिपते ख. २ चात्रं ख. ३ दुष्टान्नभोजने ख. ४ फाणितं इक्षुरसविकारः काकवीति