४४० याज्ञवल्क्यस्मृतः । [ प्रायश्चित्ताध्यायः पाकयज्ञविधानेन यजेत नित्रैरतिं निशि ॥’ इति । पशोरभावे चरुणा यष्टव्यम् । “नित्रैतिं वा चरुं निर्वपेत् तस्य जुहुयातू-कामाय स्वाहा, कामकामाय स्वाहा नित्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' इति वसिष्ठस्मरणात् । एतचाशक्तवि षयम् । शक्तस्य पुनर्गर्दभेनावकीण नित्रैतिं चतुष्पथे यजेत् । तस्याजिनमूध्वं. वालं परिधाय लोहितपात्रः सप्तसगृहान् भैक्षं चरेत्कर्माचक्षाणः संवत्सरेण शुद्धयति’ इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश्चरुर्वा द्रष्टव्यः । तथा त्रिषवणस्तानमेककालभोजनं च द्रष्टव्यम् । ( ११। १२२-१२३)-‘एतस्मिन्ने नसि प्रासे बसित्वा गर्दभाजिनम् । सप्तागारं चरेदैक्ष स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयज्ञेककालिकम् । उपस्पृशैस्त्रिषवणमब्देन स विशु द्वयति ॥’ इति मनुस्मरणात् । इदं च वार्षिकमश्रोत्रियब्राह्मणपल्यां वैश्यायां श्रोत्रियपढ्यां च द्रष्टव्यम् ॥ यदा तु गुणवत्योब्रह्मणीक्षत्रिययोः श्रोत्रियभार्य योरवकिरति तदा त्रिवार्षिकं द्विवार्पिकं च क्रमेण द्रष्टव्यम् । यथाहतुः शङ् लिखितौ–‘गुप्सायां वैश्यायामवकीर्णः संवत्सरं त्रिषवणमनुतिष्ठत् । क्षत्रेि यायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । यत्वङ्गिरोवचनम्-“अव कीर्णनिमित्तं तु ब्रह्महत्यात्रवतं चरेत् । चीरवासास्तु पण्मासांस्तथा मुच्येत किल्बि षात् ॥’ इति तदकामतो मानवाब्दिकविपयमीषब्द्यभिचारिणीविपयं वा ॥ अत्य न्तव्यभिचरितासु पुनः खैरिण्यां वृषल्यामवकीर्णः सचैलं स्नात उदकुम्भं वैश्यायाँ चतुर्थकालाहारो ब्राह्मणान्भोजयेत् । यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोपेितो घृतपात्रं दद्यात् । ब्राह्मण्यां षडू त्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्ण पलालभारं सीसमाषकं च दद्यात्’ इति शङ्खलेिखितोदितं वेदितव्यम् । एतचा वकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु । इष्टा भैक्षाशनो नित्यं शुद्धयन्त्यब्दात्समाहिता ॥’ इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगामन्तरेण कामतश्चरमधातुं विसृजति दिवा च स्वमे वा विसृजति तदा नैऋत्तयागमात्रं द्रष्टव्यम् । “एतदेव रेतसः प्रयलो त्सर्गे दिवा खझे च' इति वसिष्टन यागमात्रस्यातिदृिष्टत्वात् । ब्रतान्तरेषु कृच्छ् चान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव यागमात्रम् । ‘व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वमस्कन्दने तु मनूक्तं द्रष्टव्यम् (२॥१८१) “स्वमे सिक्तवा ब्रह्मचारी द्विजः शुक्रमकामत । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मा मित्यूचं जपेत् ॥' इति ।.वानप्रस्थादीनां चेदमेव ब्रह्मचर्यखण्डने अवकीर्णि ऋतं कृच्छ्त्र याधिकं भवति । ‘वानप्रस्थो यतिचैव स्कन्दने सति कामतः । पर कत्रयसंयुक्तमवकीर्णिव्रतं चरेत् ॥' इति शाण्डिल्यस्मरणातू ॥ यदा गार्हस्थ्य परिग्रहेण संन्यासारप्रच्युतो भवति तदा संवतत्तं द्रष्टव्यम् ।–“संन्यस्य द्वर्मति कश्चित्प्रत्यापतिं व्रजेद्यदि । स कुर्यात्कृच्छूमश्रान्तः षण्मासात्प्रत्यनन्तरम् ॥ इति । प्रत्यापतिर्गौर्हस्थ्यंपरिग्रहः । अतएव वसिष्ठः –‘यस्तु प्रव्रजितो भूत्वा १ गाईंस्थ्यासंभवः परिग्रहश्च ङ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६४
दिखावट