३८४ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः जीवनं असत्यभाषणं शूद्रसेवनमित्यपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च घातनं कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि । यदनुत्तं तत्प्र कीर्णकम्’ इति ॥ कात्यायनेन तु महापातकसमानां विष्णुनाप्युपपातकत्वे नोक्तानां पातकसंज्ञा दर्शिता –“महापापं चातिपापं तथा पातकमेव चव । प्रास ङ्गिवकं चोपपापमित्येवं पञ्चको गण ॥’ इत । ननूपपातकादीनां कथं पात कत्वं पतनहेतुत्वाभावात् । यदि तेषामपि पतनहेतुत्वं तर्हि मातृपितृयोनिसंब द्धाङ्ग इत्यादिपरिगणनमनर्थकम् । अथैवमुच्यते । यद्यपि महापातकतत्समे ष्विव सद्यःपातित्यहेतुत्वं नास्ति तथाप्यभ्यासापेक्षया पातित्यहेतुत्वमविरुद्धम् । नेिन्दितकर्माभ्यासादिति गौतमवचनादिति । मैवम् । अभ्यासस्यानिरूप्यमाण त्वात् द्विः शतकृत्वो वेति तत्राविशेषेऽङ्गीक्रियमाणे योऽपि द्विर्दिवा स्वपिति यः शतकृत्वो वा गोवधं करोति तयोरविशेषेण पातित्यं स्यात् । अत्रोच्यते । यत्रार्थवादे प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं वा तस्मिन्निन्दितकर्मणि यावत्यभ्यस्यमाने महापातकतुल्यत्वं भवति तावानभ्यासः पातित्यहेतुः । द्विा स्वमादौ तु सहस्रकृत्वोऽप्यभ्यस्यमाने न महापातकतुल्यत्वं भवतीति यातित्यमतो युक्तमुपपातकादेरभ्यासापेक्षया पतनहेतुत्वम् ॥ २३४-२४२ ॥ एवं व्यवहारार्थ संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्तिकानि प्रदर्शयितुमाह शिरःकपाली ध्वजवान्भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमामुयात् ।। २४३ ।। शिरसः कपालमस्यास्तीति शिरःकपाली । तथा ध्वजवान् (११॥७२) ‘कृत्वा शवशिरोध्वजम्’ इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमा रोपेितं ध्वजशब्दवाच्यं गृह्णीयात् । तञ्च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम् । ‘ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादाय तीर्थान्यनु संचरेत्’ इति शातातपस्मरणात् । तदलाभेऽन्यस्यैव ब्राह्मणस्य ग्राह्यम् । एतदु भयं पाणिनैव ग्राह्यम् । ‘खट्टाङ्गकपालपाणिः’ इति गौतमस्मरणात् । खट्टाङ्ग शब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते न पुनः खटैकदेशः । ‘महोक्षः खट्टाङ्गं परशुः' इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच कपाल धारणं विह्नार्थ न पुनभेजनार्थ भिक्षार्थ वा ।–“मृन्मयकपालपाणिर्भिक्षायै ग्रामं प्रविशेत्’ इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम् । (११।७२)-‘ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्’ इति मनुस्मरणात्। प्रामसमीपादौ वा । (मनुः ११।७८)-‘कृतवापनो वा निवसेद्भामान्ते गोत्र जेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥’ इति तेनैवोक्तत्वात् । कृतवाफ्नो वेति विकल्पाभिधानाज्जटी वेति लक्ष्यते । अतएव संवर्तेः ‘ब्रह्महा द्वादशाब्दानि बालवासा जटी ध्वजी’ इति । तथा भिक्षाशनशीलश्च १ ख. पाठः. ३ सर्वभूतहिते ग . ४ चीर नुपात्तकत्वेन २ ब्रह्महा द्वादशसमा इति न तन्त्र
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१०
दिखावट