प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ३८३ द्रव्यग्रहणेन परदास्यकरणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनं साधारणस्त्रीसंभोगश्च । अनाश्रमवासः अगृहीताश्रमेित्वं सत्यधिकारे । परान्नपरिपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिः ग्रन्थस्याधिगमः । सर्वाकरेषु सुवर्णाङ्कद्युत्पत्तिस्थानेपु राजाज्ञयाधिकारित्वम् । भार्याया विक्रय । चशब्दान्मन्वाद्युक्ताभिच्वारामतिपूर्वलशुनादिभक्षणादेह णम् । एषां गोवधादीनां प्रत्येकमुपपातकसंज्ञा वेदितव्या । मनुना पुनरन्या न्यपि निमित्तानि जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणसंज्ञानि परि गणितानि । ( मनुः ११ । ६७-७० )–‘ब्राह्मणस्य रुजःकृत्या घ्रातिरधेयः मद्ययोः । जैह्मयं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ खराश्धोष्ट्रमृगेभानामजा विकवधस्तथा । संकरीकरणं ज्ञेयं मीनाहेिमहिषस्य च ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ कृमिकीट वयोहत्या मद्यानुगतभोजनम् । फलैधःकुसुमस्तेयमधैर्य च मलावहम् ।।' इति । अतोऽन्यन्निमित्तजातं प्रकीर्णकं कथ्यते । बृहद्विष्णुना च समस्तानि प्रायश्चित्त निमित्तान्युत्तरोत्तरं लघीयांसेि पृथक्संज्ञाभेदभिन्नानि दर्शितानि–‘ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णापहरणं गुरुदारगमनमिति महापातकानि तत्संयोगश्च । मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । यागस्थक्षत्रियवधो वैश्यस्य च रजस्वलायाश्चान्तर्वत्याश्चासगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । कौटसाक्ष्यं सुहृद्धध इत्येतौ सुरापानसमौ । ब्राह्मणस्य भूमि हरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलनृपपल्यभिगमनं गुरुदारगमन समम् । पितृष्वसृमातृष्वस्मृगमनं श्रोत्रियवैिगुपाध्यायमित्रपल्यभिगमनं च स्वसुः सख्याः सगोत्राया उत्तमवर्णाया रजस्वलायाः शरणागतायाः प्रव्रजिताया निक्षिप्सायाश्च गमनमिलेयतान्यनुपातकानि । अनृतवचनं समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धो वेदनिन्दा अधीतस्य त्यागोऽझिपितृमातृ सुतदाराणां च अभोज्यान्नभक्षणं परस्वापहरणं परदारानुगमनमयाज्यानां च याजनं व्रात्यता भृतकाध्यापनं भृतकाध्ययनादानं सर्वाकरेष्वधिकारो महायत्र प्रवर्तनं दुमगुमलतौषधीनां हिंसया जीवनमभिचारमूलकर्मसु च प्रवृत्तिरात्मार्थ क्रियारम्भः अनाहितान्निता देवर्षिपितृणामृणस्यॉनपक्रिया असच्छास्राधिगमनं नास्तिकता कुशीलता मद्यपस्रीनिषेवणमित्युपपातकानि । ब्राह्मणस्य रुजःकरणम ज्ञेयमद्ययोघ्रतिजैह्मयं पशुषु पुंसि च मैथुनाचरणमित्येतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संकरीकरणम् । निन्दितेभ्यो धनादानं वाणिज्यं कुसीद विदुः। तं यलेन जयेछेोभं दुष्टा(तज्जा)वेतावुभौ गणैौ। पानमक्षाः स्त्रियश्चैव मृगयाचयथाक्रमम्। एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे । दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकै सदा ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्वं गुरुतरं विद्याद्यसनमात्मवान् । व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते स्वर्यात्यव्यसनी मृतः ॥’ इति १ च मैथुनं पुंसि. २ श्वात्रिगोत्रायाः ख. ३ पैशुन्यम् ख. ४ गुल्मवर्छीलतौषधीनां ख ५ स्यानपाक्रिया ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०९
दिखावट