सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
असाधारणव्य ०मा०प्र०१ ]
१३१
मिताक्षरासहिता ।

नाभ्युह्य यथास्थानं गमयेत्’ इत्युक्त्वा, तस्माद्राजाचार्यावनिन्छौ' इत्युपसंहरति । नचैकदेशभावितोऽनुपादेयवचनः प्रत्यथत्येतावदिह गम्यते –‘एकदेशवेि भावितो नृपेण सर्व दाप्यः’ इति वचनात् ॥ यत्त कात्यायनेनोक्तम्—‘अने कार्थाभियोगेऽपि । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥' इति तैत्पुत्रादिदेयपित्रावृणविषयम् । तत्र हि बहूनर्थानभियुक्त पुत्रादिर्न जानमीति प्रतिवदन्निह्नववादी न भवतीत्येकदेशविभावितोऽपि न कचिदसत्यवादीति ‘निहुते लिखितं नैकम्’ इति शास्त्रं तत्र न प्रवर्तते । निह्ववाभावादपेक्षिततकभावाच्च ।–“अनेकार्थाभियोगेऽपि’ इति कात्यायन वचनं तु सामान्यविषयं, विशेषशास्रस्य विषयं निहँवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते ॥ ननु–“ऋत्णादिषु विवादेषु स्थैिरप्रायेषु निश्चितम् । ऊने वाध्यधिके वाथे प्रोक्त साध्यं न सिद्धयति ॥’ इतिवदता कालयायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्धयतीत्युक्तम् । तथासत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखित सर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधाने-ऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्धच्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्धयतीति वचनात्पूर्वव त्संशय एवेति प्रमाणान्तरस्यावसरोऽस्त्थव । छलं निरस्येति नियमात् । सह सादौ तु सकलसाध्यसाधनतयोद्दिष्टः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्य सिद्धिर्भवलेयेव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाञ्च–‘सीध्या थौशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चैौर्ये यत्साध्यं परेि कीर्तितम् ॥' इति ॥ २०
ननु ‘नेिहुते लिखितं नैक'मितीयं स्मृतिस्तथा ‘अनेकार्थाभियोगेऽपी'तीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह--

स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।

यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापना

दावुत्सर्गापवादादिलक्षणो न्यायो बलवान्समर्थः । स च न्यायः कुतः प्रत्येतव्य


१ एवं निश्चितेऽर्थे प्रसक्तविरोधं परिहरति यत्विति. २ तत्पुत्रावृण ख. ३ मीतिवदन् ग ४ न भवतीति । ऋणस्यान्यकृत्वेनाज्ञानस्यापि तत्र संभवेनापलापाभावात्. ५ ‘निहुते' इत्यस्य. ६ निहवोत्तरं=शात्वापलापो निह्नवस्तदूपमुत्तरं परिहृत्य परित्यज्य अज्ञानोत्तरे ज्ञानाभावेनोत्तरे प्रवर्तते. ७ स्थिरेति । लिङ्गदर्शनमात्रेणादृढहेतुनापि स्त्रीसंग्रहणादिरूप साध्यस्य सिद्धिर्भवतीति तादृशानामस्थिरत्वम्, ऋणादानादिरूपस्य साध्यस्य तु दृढसा धनेनैव सिद्धिस्तेषां स्थिरत्वम्, तदपि नाकाशादिवदिति स्थिरप्रायत्वमित्यर्थः. ८ स्थिर प्रायेष्वित्यस्य प्रत्युदाहरणमाइ साहसादौ त्विति. ९ ‘उपदिष्टः' इति पाठः. १० साध्येति -स्त्रीसंग्रहादिके विवादपदत्रये भाषावादिना यदेकार्थरूपं साध्यत्वेन कथितं तत्रानेकसाध्य साधनतयाभिहितैः साक्षिभिः साध्यार्थजातयैकदेशेऽपि साधिते सकलं भवेत्सिछेदित्यर्थ ११ परस्परविरोध ग.