पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः । ते सुवर्णाश्चत्वारः पलमिति संज्ञा
कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभि । तत्र स्थूलैस्त्रिभिर्यवैः
कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांश कृष्णलो भवति । तै
पञ्चभिर्माषः । माषेः षोडशभिः सुवर्णः । सच व्यावहारिकैः पञ्चभिर्निष्कैरेक
सुवणे भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु
सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो
भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्ध निष्कद्वयं भवति । पलं च
दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशति
तमो भागः कृष्णलः, सुवर्णश्चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्ण
पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भाग
कृष्णलः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेव
सूत्रादूहनीयम् ॥ ३६२ ॥ ३६३ ॥
एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह -
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ।। |
द्वे कृष्णले पूर्वोक्त रूप्यमाषो रूप्यसंबन्धी माष । ते रूप्यमाषाः षोडश
धरणम् । पुराण इत्यस्यैव संज्ञान्तरम् –“ते षोडश स्याद्धरणं पुराणश्चैव राजत
इति (८॥१३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधी
यते । पूर्वोक्ताश्चत्वारः सुवर्ण एको राजतो निष्को भवति ॥ ३६४ ॥
इदानीं ताम्रस्योन्मानमाह -
- कार्षिकस्ताधिकः पणः ॥ ३६५ ॥
पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य
विकारस्तात्रिकः । कर्षसैमितस्ताम्रविकारः पणसंज्ञो भवति कार्षपणसंज्ञकश्च
कार्षापणस्तु विज्ञेयस्तान्त्रिकः कार्षिकः पणः’ इति (८॥१३६) मनुवचनात् ।
पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति—‘माषो विंशतिमो
भागः पणस्य परिकीर्तितः’ इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे
तु षोडशमाषः पणो भवति । अस्मिश्च पक्षे सुवर्णकार्षापणपणशब्दानां समा
नार्थत्वेऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामु
न्मानमुक्तम् । दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव
हारङ्गभूतानामवान्मान द्रष्टव्यम् ॥ ३६५ ॥
स्वशास्रपरिभाषामाह -
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । |
पणानां सहस्त्रं पणसहस्त्रं तत्परिमाणमस्येति पणसाहस्र । अशीत्या सह