सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

नयोग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेतेत्यर्थः । पुरुषार्थत्वात् । यथाह गौतम –‘न पूर्वाह्नमध्याहा पराह्यानफलान्कुर्यात् धर्मार्थकामेभ्यस्तेपु धमोत्तरः स्यात्' इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं तथापि कामार्थयोर्धर्माचेिरोधेनानुष्टानं तयोर्धर्ममूलत्वादेवं प्रतिदिनमनुष्ठेयम् ॥ ११५ ॥

विद्याकर्मवयोबन्धुवितैर्मन्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ।। ११६ ।।

विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्त च , वयः आत्मनोऽतिरिक्त ससल्या वा ऊध्र्व, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरदादिकं एतेर्युक्ताः क्रमेण मान्याः पूज नीयाः । एतैर्विद्याकर्मबन्धुवितैः प्रभूतैः प्रवृद्धेः समस्तैव्यैस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूध्व मानमर्हति । ‘शूद्रोऽप्यशीतिको वरः’ इति गौतमस्मर णात् ॥ ११६ ॥

वृद्धभारिनृपस्रातस्त्रीरोगेिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्रातश्च भूपतेः ।। ११७ ।।

वृद्धः पैछकेशः प्रसिद्धः । भारी भाराक्रान्तः । नृपो भूपतिः न क्षत्रियमात्रम् । स्रातो विद्याव्रतोभयस्रातक । स्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहो द्यतः । चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम् ।–“बालवृद्धमत्तो न्मत्तोपहतदेहभारक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः’ इति शङ्कस्मरणात् । एतेभ्य पन्था देयः । एतेष्वभिमुखायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा स्पद पथि समवाये राजा मान्य इति तसै पन्था देयः । भूपतेरपि स्नातको मान्यः । स्रातकग्रहणं स्रातकमात्रप्रास्यर्थ न ब्राह्मणाभिप्रायेण । तस्य सदैव गुरुत्वान् । यथाह शङ्कः–“अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्टं गुरुज्येष्ठश्च ब्राह्मणो राजानमतिशेते तस्मै पन्था' इति । वृद्धादीनां पथि परस्पर समवाये वृद्धतराद्यपेक्षया विद्यादिभिर्वा विशेपो द्रष्टव्यः ॥ ११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विशे याजनाध्यापने तथा ।। ११८ ॥

वैश्यस्य क्षत्रियस्य च चकाराङ्गाह्मणस्य द्विजानुलोमानां च यागाध्ययनदा नानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति स्मृत्यन्तरोक्तवृत्युपसंग्रह । यथाह गौतमः–‘कृषिवाणिज्ये वा स्वयं कृते कुसीदं च' इति । अध्यापनं तु क्षत्रियवैश्ययोब्रह्मणप्रेरितयोर्भवति न खेच्छया ।–“आपत्काले ब्राह्मणस्याबाह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः’ इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य षट् कर्माणि ।


१ बन्धुर्बहुस्वजन ग. २ पकशरीरः ख. ३ नृपो राजा न क. ४ ष्वाभिमुख्यागतेषु ख