काशिका/चतुर्थोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः

             अथ चतुर्थाध्याये तृतीयः पादः
युष्मदस्मदोरन्यतरस्यां खञ्च ।। 4-3-1 ।।
देशाधिकारो निवृत्तः । युष्मदस्मदोः खञ्‌ प्रत्ययो भवति शैषिकः । चकाराच्छश्च । अन्यतरस्याङ्ग्रहणाद्‌ यथाप्राप्तम् । तदेते त्रयः प्रत्यया भवन्ति, तत्र वैषम्याद्यथासङ्ख्यं न भवति । त्यदादित्वाद्‌ वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे (4-2-114/1337)प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते - यौष्माकीणः, आस्माकीनः । युष्मदीयः, अस्मदीयः । यौष्माकः, आस्माकः ।।
तस्मिन्नणि च युष्माकास्माकौ ।। 4-3-2 ।।
तस्मिन्निति साक्षाद्विहितः खञ्‌ निर्दिश्यते, न चकारानुकृष्टश्छः । तस्मिन्खञि अणि च युष्मदस्मदोर्यथासङ्ख्यं युष्माक, अस्माक - इत्येतावादेशौ भवतः ।
निमित्तयोरादेशौ प्रति यथासङ्ख्यं कस्मान्न भवति ? योगविभागः करिष्यते - `तस्मिन्, खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः । ततः `अणि च इति । यौष्माकीणः, आस्माकीनः । यौष्माकः, आस्माकः ।
तस्मिन्नणि चेति किम् ? युष्मदीयः । अस्मदीयः ।।
तवकममकावेकवचने ।। 4-3-3 ।।
एकवचनपरयोर्युष्मदस्मदोस्तवक, ममक - इत्येतावादेशौ भवतो यथासङ्ख्यं तस्मिन्खञि अणि च परतः । निमित्तयोस्तु यथासङ्ख्यं पूर्ववदेव न भवति ।
ननु च न लुमातङ्गस्य(1-1-63/263) इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न सम्भवति ? वचनात्प्रत्ययलक्षणं भविष्यति ।
अथ वा - नैवेदं प्रत्ययलक्षणम्, किं तर्हि ? अन्वर्थग्रहणम् । एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः । तावकीनः, मामकीनः । तावकः, मामकः ।
तस्मिन्नणि चेत्येव - त्वदीयः, मदीयः ।।
आर्धाद्यत्‌ ।। 4-3-4 ।।
अर्द्धशब्दाद्‌ यत्‌ प्रत्ययो भवति शैषिकः । अणोऽपवादः । अर्द्ध्यम् ।

  • सपूर्वपदाट्ठञ्वक्तव्यः * (म.भा.2.303)। बालेयार्द्धिकम् । गौतमार्द्धिकम् ।।

परावराधमोत्तमपूर्वाच्च ।। 4-3-5 ।।
पर, अवर, अधम, उत्तम इत्येवम्पूर्वाच्चार्धाद्यत्‌ प्रत्ययो भवति शैषिकः । परार्द्ध्यम् । अवरार्द्ध्यम् । अधमार्द्ध्यम् । उत्तमार्द्ध्यम् ।
पूर्वग्रहणं किम्, `परावराधमोत्तमेभ्यः इत्येवोच्यते, अर्धादिति वर्त्तते, तस्य तत्पूर्वता विज्ञास्यते ? परावरशब्दावदिग्ग्रहणावपि स्तः - परं सुखम्, अवरं सुखमिति । तत्र कृतार्थत्वाद्‌ दिक्छब्दपक्षे परेण ठञ्यतौ स्याताम् । अस्मात्पूर्वग्रहणाद्यत्प्रत्ययो भवति - परार्द्ध्यम्, अवरार्द्ध्यमिति ।
दिक्पूर्वपदाट्ठञ्च ।। 4-3-6 ।।
दिक्पूर्वपदादर्धान्तात्प्रादिपदिकात्‌ ठञ्‌ प्रत्ययो भवति, चकाराद्यच्च शैषिकः । अणोऽपवादः । पूर्वार्द्ध्यम्, पौर्वार्द्धिकम् । दक्षिणार्द्ध्यम्, दाक्षिणार्द्धिकम् ।
पदग्रहणं स्वरूपविधिनिवारणार्थम् ।।
ग्रामजनपदैकदेशादञ्ठञौ ।। 4-3-7 ।।
`दिक्पूर्वपदात्‌ इत्येव । ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्रातिपदिकाद्‌ दिक्पूर्वपदादर्द्धान्तादञ्ठञौ प्रत्ययौ भवतः, शैषिकौ यतोऽपवादौ । इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः, पौर्वार्धिकाः । दाक्षिणार्धाः, दाक्षिणार्धिकाः ।।
मध्यान्मः ।। 4-3-8 ।।
मध्यशब्दान्मः प्रत्ययो भवति शैषिकः । अणोऽपवादः । मध्यमः ।।

  • आदेश्चेति वक्तव्यम् * । आदिमः ।
  • अवोऽधसोर्लोपश्च * । अवमम् । अधमम् ।।

अ साम्प्रतिके ।। 4-3-9 ।।
अकारः प्रत्ययो भवति मध्यशब्दात्साम्प्रतिके जातादौ प्रत्ययार्थे । मस्यापवादः । साम्प्रतिकम् = न्याय्यम्, युक्तम्, उचितम्, सममुच्यते । नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम् । नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः । मध्या स्त्री ।।
द्वीपादनुसमुद्रं यञ्‌ ।। 4-3-10 ।।
समुद्रसमीपे यो द्वीपस्तस्माद्‌ यञ्‌ प्रत्ययो भवति शैषिकः । कच्छादिपाठाद्‌ अणो(4-2-133>य1357) मनुष्यवुञः(4-2-134/1358) चापवादः । द्वैप्यम् । द्वैप्यं भवन्तोऽनुचरन्ति चक्रम् ।
अनुसमुद्रमिति किम् ? द्वैपकम् । द्वैपमन्यत् ।।
कालाट्ठञ्‌ ।। 4-3-11 ।।
कालविशेषवाचिनः प्रातिपदिकात्‌ ठञ्‌ प्रत्ययो भवति शैषिकः । अणोऽपवादः । वृद्धात्‌ तु छं परत्वाद्बाधते । मासिकः । आर्द्धमासिकः । सांवत्सरिकः ।
यथाकथञ्चिद्‌ गुणवृत्त्यापि काले वर्त्तमानात्प्रत्यय इष्यते । कादम्बपुष्पिकम् । व्रैहिपलालिकम् । तत्र जातः(4-3-25/1393) इति प्रागतः कालाधिकारः ।।
श्राद्धे शरदः ।। 4-3-12 ।।
शरच्छब्दात्‌ ठञ्‌ प्रत्ययो भवति श्राद्धेऽभिधेये शैषिकः । ऋत्वणः(4-3-16/1387) पवादः । `श्राद्धे इति च कर्म गृह्यते, न श्रद्धावान्पुरुषः; अनभिधानात्‌ । शारदिकं श्राद्धम् । शारदमन्यत्‌ ।।
विभाषा रोगातपयोः ।। 4-3-13 ।।
`शरदः इत्येव । रोगे, आतपे चाभिधेये शरच्छब्दाट्ठञ्‌ प्रत्ययो वा भवति शैषिकः । ऋत्वणोऽपवादः । शारदिको रोगः । शारदिक आतपः । शारदो रोगः । शारद आतपः ।
रोगातपयोरिति किम् ? शारदं दधि ।।
निशाप्रदोषाभ्यां च ।। 4-3-14 ।।
निशाप्रदोषशब्दाभ्यां विभाषा ठञ्‌ प्रत्ययो भवति शैषिकः । कालाट्ठञ्‌(4-3-11/1381) इति नित्ये ठञि प्राप्ते विकल्प उच्यते । नैशम्, नैशिकम् । प्रादोषम्, प्रादोषिकम् ।।
श्वसस्तुट्‌ च ।। 4-3-15 ।।
`विभाषा इत्येव । श्वःशब्दाद्विभाषा ठञ्‌ प्रत्ययो भवति, तस्य च तुडागमो भवति । त्यप्प्रत्ययोऽप्यतो विहितः ऐषमोह्यः श्वसोऽन्यतरस्याम्(4-2-105/1326) इति; एताभ्यां मुक्ते ट्युट्युलावपि भवतः - शौवस्तिकः, श्वस्त्यः, श्वस्तनः ।।
सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्‌ ।। 4-3-16 ।।
`कालात्‌ इत्येव सन्धिवेलादिभ्यः, ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण्प्रत्ययो भवति शैषिकः । ठञोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य बाधनार्थम् । सन्धिवेलादिभ्यस्तावत्‌ - सान्धिवेलम् । सान्ध्यम् । ऋतुभ्यः - ग्रैष्मम् । शैशिरम् । नक्षत्रेभ्यः - तैषम् । पौषम् ।
सन्धिवेला । सन्ध्या । अमावास्या । त्रयोदशी । चतुर्दशी । पञ्चदशी । पौर्णमासी। प्रतिपत्‌ ।

  • संवत्सरात्फलपर्वणोः * (ग.सू.104)। सांवत्सरं फलम् । सांवत्सरं पर्व ।।

प्रावृष एण्यः ।। 4-3-17 ।।
प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । प्रावृषेण्यो बलाहकः ।।
वर्षाभ्यष्ठक्‌ ।। 4-3-18 ।।
वर्षाशब्दाट्ठक्‌ प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । वार्षिकं वासः । वार्षिकमनुलेपनम् ।।
छन्दसि ठञ्‌ ।। 4-3-19 ।।
</>
वर्षाशब्दाच्‌ छन्दसि विषये ठञ्‌ प्रत्ययो भवति शैषिकः । ठकोऽपवादः । स्वरे भेदः । `नभश्च नभस्यश्च वार्षिकावृतू(तै.सं.<4-4-11>.1) ।।
वसन्ताच्च ।। 4-3-20 ।।
</4-4-11>
`छन्दसि इत्येव । वसन्तशब्दाच्छन्दसि विषये ठञ्‌ प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । `मधुश्च माधवश्च वासन्तिकावृतू(तै.सं.<4-4-11>.1) ।।
हेमन्ताच्च ।। 4-3-21 ।।
</4-4-11>
`छन्दसि इत्येव । हेमन्तशब्दाच्छन्दसि विषये ठञ्‌ प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । `सहश्च सहस्यश्च हैमन्तिकावृतू(तै.सं.<4-4-11>.1) ।
योगविभाग उत्तरार्थः ।।
सर्वत्राण्‌ च तलोपश्च ।। 4-3-22 ।।
हेमन्तशब्दादण्‌ प्रत्ययो भवति, तत्सन्नियोगेन चास्य तकारलोपः । हैमनं वासः । हैमनमुपलेपनम् ।
सर्वत्रग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम् । छन्दसि भाषायां च सर्वत्रैतद् भवति ।
ननु च छन्दसीति नानुवर्तिष्यते ? सैवाननुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि सम्बन्धार्थम् । हैमन्तकमिति हि भाषायामपि ठञं स्मरन्ति ।
</4-4-11>
अत `अण्च इति चकार किमर्थः ? अण्‌, यथाप्राप्तं च ऋत्वणिति । कः पुनरनयोरणोर्विशेषः ? ऋत्वणि हि तकारलोपो नास्ति - हैमन्ती पङ्‌क्तिः(म.भा.2.304) इति, तदेवं त्रीणि रूपाणि भवन्ति - `हैमन्तिकम्(तै.सं.<4-4-11>.1), `हैमन्तम्(पै.<17-19-11>), `हैमनम्(अ.वे.<15-4-14>) इति ।।
सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट्‌ च ।। 4-3-23 ।।
`कालाद्‌ इत्येव । सायम्, चिरम्, प्राह्णे, प्रगे इत्येवमादिभ्योऽव्ययेभ्यश्च ट्युट्युलौ प्रत्ययौ भवतः, तयोश्चादिष्टयोस्तुडागमो भवति । सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम्। अव्ययेभ्यः - दोषातनम् । दिवातनम् । सायमिति मकारान्तं पदमव्ययम्, ततोऽव्ययत्वादेव सिद्धः प्रत्ययः । यस्तु स्यतेरन्तकर्मणो घञि सायशब्दः, तस्येदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते । दिवसावसानम् = सायः । चिरशब्दस्यापि मकारान्तत्वं निपात्यते । प्राह्णे, प्रगे इत्येकारान्तत्वम् ।

  • चिरपरुत्परारिभ्यस्त्नो वक्तव्यः * (म.बा.2.304 )। चिरत्नम् । परुत्नम् । परारित्नम् ।
  • प्रगस्य छन्दसि गलोपश्च * (म.भा.2.304)। प्रत्नम् ।
  • अग्रपश्चाड्डिमच्‌ * (म.भा.2.304)। अग्रिमम् । पश्चिमम् ।
  • अन्ताच्चेति वक्तव्यम् * (म.भा.2.304)। अन्तिमम् ।।

विभाषा पूर्वाह्णापराह्णाभ्याम् ।। 4-3-24 ।।
पूर्वाह्णापराह्णशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतस्तुट्‌ च तयोरागमः । कालाट्ठञ्‌(4-3-11/1381) इति ठञि प्राप्ते वचनम्, पक्षे सोऽपि भवति । पूर्वाह्णेतनम् । अपराह्णेतनम् । पौर्वाह्णिकम् । आपराह्णिकम् । घकालतनेषु कालनाम्नः(6-3-17/975) इति सप्तम्या अलुक्‌ । यदा तु न सप्तमी समर्थविभक्तिः पूर्वाह्णः सोढोऽस्येति, तदा पूर्वाह्णतन इति भवितव्यम् ।।
तत्र जातः ।। 4-3-25 ।।
अणादयो घादयश्च प्रत्ययाः प्रकृताः, तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्ते । तत्रेति सप्तमीसमर्थात्‌ `जातः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्ने जातः स्रौघ्नः । माथुरः (4-1-83/1073) । औत्सः । औदपानः (4-1-86/1078)। राष्ट्रियः । अवारपारीणः (4-2-93/1313)। शाकलिकः । माकलिकः (4-2-117/1341)। ग्राम्यः । ग्रामीणः (4-2-94/1314)। कात्त्रेयकः । औम्भेयकः
(4-2-95/1315)।।
प्रावृषष्ठप्‌ ।। 4-3-26 ।।
प्रावृट्‌शब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे ठप्‌ प्रत्ययो भवति । एण्यस्य (4-3-17/1388)अपवादः । पकारः स्वरार्थः । प्रावृषि जातः प्रावृषिकः ।।
संज्ञायां शरदो वुञ्‌ ।। 4-3-27 ।।
शरच्छब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे वुञ्‌ प्रत्ययो भवति, ऋत्वणः (4-3-16/1387)अपवादः समुदायेन चेत्संज्ञा गम्यते । शारदका दर्भाः । शारदका मुद्‌गाः । दर्भविशेषस्य मुद्‌गविशेषस्य चेयं संज्ञा ।
संज्ञायामिति किम् ? शारदं सस्यम् ।
संज्ञाधिकारं केचित्‌ कृतलब्धक्रीतकुशलाः(4-3-38/1413) इति यावदनुवर्त्तयन्ति ।।
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्‌ वुन्‌ ।। 4-3-28 ।।
पूर्वाह्णादिभ्यः शब्देभ्यो वुन्‌ प्रत्ययो भवति तत्र जातः(4-3-25/1394) इत्येतस्मिन्विषये संज्ञायां गम्यमानायाम् । पूर्वाह्णकः । अपराह्णकः । विभाषा पूर्वाह्णापराह्णाभ्याम्(4-3-24/1392) इत्यस्यापवादः । आर्द्रकः । मूलकः । नक्षत्राणः(4-2-3/1204)अपवादः । प्रदोषकः । निशाप्रदोषाभ्यां च(4-3-14/1384) इत्यस्यापवादः । अवस्करकः । औत्सर्गिकस्याणः(4-1-83/1073) अपवादः । असंज्ञायां तु यथाप्राप्तं ठञादय एव भवन्ति ।।
पथः पन्थ च ।। 4-3-29 ।।
पथिशब्दाद्वुन्‌ प्रत्ययो भवति `तत्र जातः इत्येतस्मिन्विषये, अणोऽपवादः । प्रत्ययसन्नियोगेन च पथः `पन्थ इत्ययमादेशो भवति । पथि जातः पन्थकः ।।
अमावास्याया वा ।। 4-3-30 ।।
अमावास्याशब्दाद्‌ वुन्‌ प्रत्ययो भवति वा `तत्र जातः इत्येतस्मिन्विषये । सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्(4-3-16/1387) इत्यादिषु पाठादणोऽपवादः । अमावास्यकः, आमावास्यः ।
एकदेशविकृतस्यानन्यत्वादमावस्यशब्दादपि भवति । अमावस्यकः । आमावस्यः ।
अ च ।। 4-3-31 ।।
अमावास्याशब्दादकारः प्रत्ययो भवति तत्र जातः(4-3-25/1393) इत्येतस्मिन्‌ विषये । पूर्वेण वुन्नणोः प्राप्तयोरयं तृतीयः प्रत्ययो विधीयते । अमावास्यः । अमावास्यकः । आमावास्यः । अमावस्यः । अमावस्यकः । आमावस्यः ।।
सिन्ध्वपकाराभ्यां कन्‌ ।। 4-3-32 ।।
सिन्धुशब्दादपकरशब्दाच्च कन्‌ प्रत्ययो भवति तत्र जातः(4-3-25/1393) इत्येतस्मिन्विषये । सिन्धुशब्दः कच्छादिः, ततोऽणि मनुष्यवुञि च(4-2-133>,134/1357,1358) प्राप्ते विधानम्, अपकरशब्दादप्यौत्सर्गिकेऽणि । सिन्धुकः । अपकरकः ।।
अणञौ च ।। 4-3-33 ।।
सिन्ध्वपकरशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः तत्र जातः(4-3-25/1393) इत्येतस्मिन्विषये । पूर्वेण कनि प्राप्ते वचनम् । सैन्धवः । आपकरः ।।
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशखाषाढाबहुलाल्लुक्‌ ।। 4-3-34 ।।
श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य(4-2-3/1204) जातार्थे लुग्भवति । तस्मिंस्त्रीप्रत्ययस्यापि लुक्तद्धितलुकि(1-2-49/1408) इति भवति । श्रविष्ठासु जातः श्रविष्ठः । फल्गुनः । अनुराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अषाढः । बहुलः ।

  • लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यानम् * (म.भा.2.307)। चित्रायां जाता चित्रा । रेवती । रोहिणी । स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वात्(4-1-41/498) ङीष्‌ ।

</4-4-11>

  • फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ * (म.भा.2.308)। `फल्गुनी(तै.सं.<2-1-2>.2) । `अषाढा(तै.सं.<4-4-10>.2) ।
  • श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः * (म.भा.2.308)। श्राविष्ठीयः । आषाढीयः ।।

स्थानान्तगोशालखरशालाच्च ।। 4-3-35 ।।
स्थानान्तात्‌ प्रातिपदिकाद्‌ गोशालशब्दात्‌ खरशालशब्दाज्जातार्थे प्रत्ययस्य लुग्भवति । गोस्थाने जातः गोस्थानः । अश्वस्थानः । गोशालः । खरशालः ।।
वत्सशालाभिजिदश्वयुक्छतभिषजो वा ।। 4-3-36 ।।
वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग्‌ वा भवति । वत्सशालायां जातः वत्सशालः, वात्सशालः । अभिजित्‌, आभिजितः । अश्वयुक्‌, आश्वयुजः । शतभिषक्‌, शातभिषजः । बहुलग्रहणस्यायं प्रपञ्चः ।।
नक्षत्रेभ्यो बहुलम् ।। 4-3-37 ।।
नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग्भवति । रोहिणः, रौहिणः । मृगशिराः, मार्गशीर्षः ।।
कृतलब्धक्रीतकुशलाः ।। 4-3-38 ।।
`तत्र इत्येव । सप्तमीसमर्थात्‌ कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघ्नः । माथुरः । राष्ट्रियः ।
ननु च यद्यत्र कृतं जातमपि तत्तत्र भवति, यच्च यत्र क्रीतं लब्धमपि तत्तत्रैव भवति, किमर्थं भेदेनोपादानं क्रियते ? शब्दार्थस्याभिन्नत्वात्‌ । वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस्तु भिद्यत एव ।।
प्रायभवः ।। 4-3-39 ।।
`तत्र इत्येव । सप्तमीसमर्थाद्‌ ङ्याप्प्रातिपदिकात्‌ `प्रायभवः इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । प्रायशब्दः साकल्यस्य किञ्चिन्न्यूनतामाह । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः । माथुरः । राष्ट्रियः ।
प्रायभवग्रहणमनर्थकम्, तत्रभवेन कृतार्थत्वात्‌ (म.भा.2.308)।
अनित्यभवः प्रायभव इति चेद्‌ ? मुक्तसंशयेन तुल्यम् (म.भा.2.308)।।
उपजानूपकर्णोपनीवेष्ठक्‌ ।। 4-3-40 ।।
उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः `प्रायभवः इत्येतस्मिन्‌ विषये ठक्‌ प्रत्ययो भवति । अणोऽपवादः । औपजानुकः । औपकर्णिकः । औपनीविकः ।।
सम्भूते ।। 4-3-41 ।।
`तत्र इत्येव । सप्तमीसमर्थाद्‌ ङ्याप्प्रातिपदिकात्‌ `सम्भूते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । अवक्लृप्तिः प्रमाणानतिरेकश्च सम्भवत्यर्थ इह गृह्यते, नोत्पत्तिः, सत्ता वा; जातभवाभ्यां गतत्वात्‌ । स्रुघ्ने सम्भवति स्रौघ्नः । माथुरः । राष्ट्रियः ।
कोशाड्‌ढञ्‌ ।। 4-3-42 ।।
कोशशब्दाद्‌ ढञ्‌ प्रत्ययो भवति `तत्र सम्भूते इत्यस्मिन्विषये । अणोऽपवादः । कोशे सम्भूतं कौशेयं वस्त्रम् । रूढिरेषा, तेन क्रिमौ न भवति, खड्गकोशाच्च ।।
कालात्साधुपुष्प्यत्पच्यमानेषु ।। 4-3-43 ।।
`तत्र इत्येव । कालविशेषवाचिभ्यः सप्तमीसमर्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । हेमन्ते साधुः हैमनः प्राकारः । शैशिरमनुलेपनम् । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । ग्रैष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । ग्रैष्मा यवाः ।।
उप्ते च ।। 4-3-44 ।।
`तत्र इत्येव, `कालात्‌ इति च । सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकादुप्ते यथाविहितं प्रत्ययो भवति । हेमन्ते उप्यन्ते हैमन्ता यवाः । ग्रैष्मा व्रीहयः । योगविभाग उत्तरार्थः ।।
आश्वयुज्या वुञ्‌ ।। 4-3-45 ।।
आश्वयुजीशब्दाद्वुञ्‌ प्रत्ययो भवति उप्तेऽर्थे । ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ।
अश्विनीभ्यां युक्ता पौर्णमासी आश्वयुजी । अश्विनीपर्यायोऽश्वयुक्शब्दः ।।
ग्रीष्मवसन्तादन्यतरस्याम् ।। 4-3-46 ।।
ग्रीष्मवसन्तशब्दाभ्यामन्यतरस्यां वुञ्‌ प्रत्ययो भवति उप्तेऽर्थे । ऋत्वणोऽपवादः । ग्रैष्मं सस्यम्, ग्रैष्मकम् । वासन्तकम्, वासन्तम् ।।
देयमृणे ।। 4-3-47 ।।
`तत्र इत्येव, `कालात्‌ इति च । सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्देयमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्‌ देयमृणं चेत्तद्भवति । मासे देयमृणं मासिकम् । आर्द्धमासिकम् । सांवत्सरिकम् ।
ऋण इति किम् ? मासे देया भिक्षा ।।
कलाप्यश्वत्थयवबुसाद्‌ वुन्‌ ।। 4-3-48 ।।
`कालात्‌ इत्येव । कलापिन्, अश्वत्थ, यवबुस - इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यः `देयमृणम् इत्येतस्मिन्नर्थे वुन्प्रत्ययो भवति ।
कलाप्यादयः शब्दाः साहचर्यात्काले वर्त्तन्ते । यस्मिन्काले मयूराः कलापिनो भवन्ति स कलापी । यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः । यस्मिन्यवबुसं सम्पद्यते स यवबुसशब्देनोच्यते ।
कलापिनि काले देयमृणं कलापकम् । अश्वत्थकम् । यवबुसकम् ।।
ग्रीष्मावरसमाद्‌ वुञ्‌ ।। 4-3-49 ।।
ग्रीष्मावर-समशब्दाभ्यां वुञ्‌ प्रत्ययो भवति `देयमृणम् इत्येतस्मिन्नर्थे । अण्‌ठञोरपवादः । ग्रीष्मे देयमृणं ग्रैष्मकम् । आवरसमकम् ।
प्रत्ययान्तरकरणं वृद्ध्यर्थम् । समाशब्दो वर्षपर्यायः ।।
संवत्सराग्रहायणीभ्यां ठञ्च ।। 4-3-50 ।।
संवत्सराग्रहायणीशब्दाभ्यां ठञ्‌ प्रत्ययो भवति, चकाराद्‌ वुञ्च `देयमृणम् इत्येतस्मिन्नर्थे । संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकम् । आग्रहायणिकम्, आग्रहायणकम् ।
वेति वक्तव्ये ठञ्ग्रहणं सन्धिवेलादिषु `संवत्सरात्फलपर्वणोः इति पठ्यते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति ।।
व्याहरति मृगः ।। 4-3-51 ।।
`तत्र इत्येव, `कालात्‌ इति च । कालवाचिनः सप्तमीसमर्थात्‌ प्रातिपदिकाद्‌ `व्याहरति मृगः इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । निशायां व्याहरति मृगः नैशः, नैशिकः । प्रादोषः, प्रादोषिकः ।
मृग इति किम् ? निशायां व्याहरत्युलूकः ।।
तदस्य सोढम् ।। 4-3-52 ।।
`कालात्‌ इत्येव । तदिति प्रथमासमर्थात्कालवाचिनः प्रातिपदिकात्‌ `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थञ्चेत्तद्भवति । सोढम् = जितम्, अभ्यस्तमित्यर्थः । निशासहचरितमध्ययनं निशा, तत्सोढमस्य छात्त्रस्य नैशः, नैशिकः । प्रादोषः, प्रादोषिकः ।।
तत्र भवः ।। 4-3-53 ।।
`कालात्‌ इति निवृत्तम् । तत्रेति सप्तमीसमर्थाद्‌ ङ्याप्प्रातिपदिकाद्‌ `भवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सत्ता भवत्यर्थो गृह्यते, न जन्म; तत्र जातः(4-3-25/1393) इति गतार्थत्वात्‌ । स्रुघ्ने भवः स्रौघ्नः । माथुरः । राष्ट्रियः । पुनस्तत्रग्रहणम् `तदस्य इति निवृत्त्यर्थम् ।।
दिगादिभ्यो यत्‌ ।। 4-3-54 ।।
`दिश्‌ इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणश्छस्य चापवादः । दिशि भवं दिश्यम् । वर्ग्यम् ।
मुख-जघनशब्दयोरशरीरावयवार्थः पाठः - सेनामुख्यम् , सेनाजघन्यमिति ।
दिश्‌ । वर्ग । पूग । गण । पक्ष । धाय्या । मित्त्र । मेधा । अन्तर । पथिन्‌ । रहस्‌ । अलीक ।
उखा । साक्षिन्‌ । आदि । अन्त । मुख । जघन । मेघ । यूथ । * उदकात्संज्ञायाम् * (ग.सू.105)।। न्याय । वंश । अनुवंश । विश । काल । अप्‌ । आकाश । दिगादिः ।।
शरीरावयवाच्च ।। 4-3-55 ।।
शरीरम् = प्राणिकायः । शरीरावयववाचिनः प्रातिपदिकाद्‌ यत्प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणोऽपवादः । दन्तेषु भवं दन्त्यम्‌ । कर्ण्यम् । ओष्ठ्यम् ।।
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्‌ ।। 4-3-56 ।।
दृत्यादिभ्यः प्रातिपदिकेभ्यो ढञ्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । दृतौ भवं दार्तेयम् । कौक्षेयम् । कालशेयम् । वास्तेयम् । आस्तेयम् । आहेयमजरं विषम् ।
अस्तिशब्दः प्रातिपदिकम्, न तिङन्तः ।।
ग्रीवाभ्योऽण्‌ च ।। 4-3-57 ।।
ग्रीवाशब्दादण्प्रत्ययो भवति, चकाराड्ढञ्च, `तत्र भवः इत्येतस्मिन्विषये, शरीरावयवाद्यतोऽपवादः । ग्रीवासु भवं ग्रैवम् । ग्रैवेयम् ।
ग्रीवाशब्दो धमनीवचनः, तासां बहुत्वाद्बहुवचनं कृतम् ।।
गम्भीराञ्ञ्यः ।। 4-3-58 ।।
गम्भीरशब्दाद्‌ ञ्यः प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणोऽपवादः । गम्भीरे भवं गाम्भीर्यम् ।

  • बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् * (म.भा.2.310)। बाह्यम् । दैव्यम् । पाञ्चजन्यम् ।।

अव्ययीभावाच्च ।। 4-3-59 ।।
अव्ययीभावसंज्ञकात्प्रातिपदिकाच्च ञ्यः प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणोऽपवादः । न च सर्वस्मादव्ययीभावाद् भवति, किं तर्हि ? परिमुखादेः, परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनम् - तेषां विशेषणमव्ययीभावग्रहणम् । परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । परिमुखादेरन्यत्र न भवति - औपकूलम् ।
परिमुख । परिहनु । पर्योष्ठ । पर्युलूखल । परिसीर । अनुसीर । उपसीर । उपस्थल । उपकलाप । अनुपथ । अनुखड्ग । अनुतिल । अनुशीत । अनुमाष । अनुयव । अनुयूप । अनुवंश ।।
अन्तः पूर्वपादट्ठञ्‌ ।। 4-3-60 ।।
`अव्ययीभावात्‌ इत्येव । अन्तः शब्दो विभक्त्यर्थे समस्यते, तत्पूर्वपदादव्ययीभावाट्ठञ्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणोऽपवादः । आन्तर्वेश्मिकम् । आन्तर्गेहिकम् ।

  • समानशब्दाट्ठञ्‌ वक्तव्यः * (म.भा.2.310)। समाने भवं सामानिकम् ।
  • तदादेश्च * (म.भा.2.310)। सामानग्रामिकम् । सामानदेशिकम् ।
  • अध्यात्मादिभ्यश्च * (म.भा.2.310)। आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । अध्मयात्मादिराकृतिगणः ।
  • ऊर्ध्वन्दमाच्च ठ?ञ्‌ वक्तव्यः * (म.भा.2.310)। और्ध्वन्दमिकः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वन्दमशब्दः ।
  • ऊर्ध्वदेहाच्च * (म.भा.2.310)। और्ध्वदेहिकम् ।
  • लोकोत्तरपदाच्च * (म.भा.2.310)। ऐहलौकिकम् । पारलौकिकम् ।
  • मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः * (म.भा.2.310)। मुखतीयम् । पार्श्वतीयम् ।
  • जनपरयोः कुक्च * (म.भा.2.310)। जनकीयम् । परकीयम् ।
  • मध्यशब्दादीयः * (म.भा.2.310)। मध्यीयः ।
  • मण्मीयौ च प्रत्ययौ वक्तव्यौ * (म.भा.2.310)। माध्यमम् । मध्यमीयम् ।
  • मध्यो मध्यं दिनण्‌ चास्मात्‌ * (म.भा.2.310)। मध्ये भवं माध्यन्दिनम् ।
  • स्थाम्नो लुग्वक्तव्यः * (म.भा.2.310)। अश्वत्थामा ।
  • अजिनान्ताच्च * (म.भा.2.310)। वृकाजिनः । सिंहाजिनः ।।

`समानस्य तदादेश्च अध्यात्मादिषु चेष्यते ।
ऊर्ध्वन्दामाच्च देहाच्च लोकोत्तरपदस्य च ।।
मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च ।
ईयःकार्योऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा ।।
मध्यो मध्यं दिनण्चास्मात्स्थाम्नो लुगजिनात्तथा।।(म.भा.2.310)
ग्रामत्पर्यनुपूर्वात्‌ ।। 4-3-61 ।।
`अव्ययीभावात्‌ इत्येव । ग्रामशब्दान्तादव्ययीभावात्‌ परि, अनु इत्येवम्पूर्वाट्ठञ्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणोऽपवादः । पारिग्रामिकः । आनुग्रामिकः ।।
जिह्वामूलाङ्‌गुलेश्छः ।। 4-3-62 ।।
जिह्वामूलशब्दादङ्गुलिशब्दाच्च छः प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । यतोऽपवादः । जिह्वामूलीयम् । अङ्गुलीयम् ।।
वर्गान्ताच्च ।। 4-3-63 ।।
वर्गशब्दान्ताच्च प्रातिपदिकाच्छः प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अणोऽपवादः । कवर्गीयम् । चवर्गीयम् ।।
अशब्दे यत्खावन्यतरस्याम् ।। 4-3-64 ।।
`वर्गान्तात् इत्येव । शब्दादन्यस्मिन्प्रत्ययार्थे वर्गान्तात्प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः `तत्र भवः इत्येतस्मिन्विषये । छे प्राप्ते वचनम्, पक्षे सोऽपि भवति । वासुदेववर्ग्यः । वासुदेववर्गीणः । वासुदेववर्गीयः । युधिष्ठिरवर्ग्यः । युधिष्ठिरवर्गीणः । युधिष्ठिरवर्गीयः ।
अशब्द इति किम् ? कवर्गीयो वर्णः ।।
कर्णललाटात्कनलंकारे ।। 4-3-65 ।।
कर्ण-ललाटशब्दाभ्यां कन्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्‌ विषयेऽलङ्कारेऽभिधेये । यतोऽपवादः । कर्णिका । ललाटिका ।
अलङ्कार इति किम् ? कर्ण्यम् । ललाट्यम् ।।
तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ।। 4-3-66 ।।
व्याख्यायतेऽनेनेति व्याख्यानम्, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम । तस्येति षष्ठीसमर्थाद्‌ व्याख्यातव्यनाम्नः प्रातिपदिकाद्‌ व्याख्यानेऽभिधेये यथाविहितं प्रत्ययो भवति, तत्र भवे च । वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति - तत्र भवः(4-3-53/1428) इति । सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्त्तः । सुप्सु भवं सौपम् । तैङम् । कार्त्तम् ।
व्याख्यातव्यनाम्न इति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोशला, पाटलिपुत्रः सुकोशलया व्याख्यायते - एवंसंनिवेशं पाटलिपुत्रमिति, न तु पाटलिपुत्रो व्याख्यातव्यनाम ।
भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः (म.भा.2.311)। कृतनिर्देशौ हि तौ ।।
बह्वचोऽन्तोदात्ताट्ठञ्‌ ।। 4-3-67 ।।
बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद्‌ भवव्याख्यानयोष्ठञ्‌ प्रत्ययो भवति । अणोऽपवादः । षात्वणत्विकम् । नातानतिकम् । समासस्वरेणान्तोदात्ताः प्रकृतयः ।
बह्वच इति किम् ? द्व्यचष्ठकं (4-3-72/1451)वक्ष्यति । एकाच्‌ प्रत्युदाह्रियते - सौपम्‌, तैङम्, कार्त्तम् ।
अन्तोदात्तादिति किम् ? संहितायाः सांहितम् । संहिताशब्दो हि गतिस्वरेणाद्युदात्तः ।।
क्रतुयज्ञेभ्यश्च ।। 4-3-68 ।।
क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोष्ठञ्‌ प्रत्ययो भवति । अणोऽपवादः । क्रतुभ्यस्तावत्‌ - अग्निष्टोमस्य व्याख्यानस्तत्र भवः आग्निष्टोमिकः । वाजपेयिकः । राजसूयिकः (म.भा.2.312)। यज्ञेभ्यः - पाकयज्ञिकः । नावयज्ञिकः ।
अनन्तोदात्तार्थ आरम्भः । `क्रतुभ्यः इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात्‌ - पाञ्चौदनिकः ।
दाशौदनिकः । बहुवचनं स्वरूपविधिनिरासार्थम् ।।
अध्यायेष्वेवर्षेः ।। 4-3-69 ।।
ऋषिशब्दाः प्रवरनामधेयानि, तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोरर्थयोष्ठञ्‌ प्रत्ययो भवति । अणोऽपवादः । अध्यायेष्वेव प्रत्ययार्थविशेषणेषु । `व्याख्यातव्यनाम्नः इत्यनुवर्त्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते । वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः । वैश्वामित्रिकः ।
अध्यायेष्विति किम् ? वासिष्ठी ऋक्‌ ।।
पौरोडाशपुरोडाशात्‌ ष्ठन्‌ ।। 4-3-70 ।।
पौरोडाशशब्दात्‌, पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन्‌ प्रत्ययो भवति । पुरोडाशाः = पिष्टपिण्डाः; तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः । पौरोडाशिकी । पुरोडाशसहचरितो ग्रन्थः पुरोडाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः । पुरोडाशिकी । षकारो ङीषर्थः ।।
छन्दसो यदणौ ।। 4-3-71 ।।
छन्दश्शब्दाद् भवव्याख्यानयोरर्थयोर्यदणौ प्रत्ययौ भवतः । `द्व्यचः इति ठकि प्राप्ते वचनम् । छन्दस्यः । छान्दसः ।।
द्व्यजृद्‌ब्राह्मणर्कप्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्‌ ।। 4-3-72 ।।
द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोष्ठक्‌ प्रत्ययो भवति । अणादेरपवादः । द्व्यचस्तावत्‌ - ऐष्टिकः । पाशुकः । ऋकारान्तात्‌- चातुर्होतृकः । पाञ्चहोतृकः । ब्राह्मण - ब्राह्मणिकः । ऋक्‌ - आर्चिकः । प्रथम - प्राथमिकः । अध्वर - आध्वरिकः । पुरश्चरण - पौरश्चरणिकः ।
नामाख्यातग्रहणं सङ्घातविगृहीतार्थम् । नामिकः । आख्यातिकः । नामाख्यातिकः ।।
अणृगयनादिभ्यः ।। 4-3-73 ।।
ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण्‌ प्रत्ययो भवति । ठञादेरपवादः । आर्गयनः । पादव्याख्यानः । अण्ग्रहणं बाधकबाधनार्थम् । वास्तुविद्यः ।
ऋगयन । पदव्याख्यान । छन्दोनाम । धन्दोभाषा । छन्दोविचिति । न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्त्रविद्या । उत्पात । उत्पाद । संवत्सर । मुहूर्त्त । निमित्त । उपनिषत्‌ । शिक्षा । ऋगयनादिः ।।
तत आगतः ।। 4-3-74 ।।
तत इति पञ्चमीसमर्थात्‌ `आगतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्नादागतः स्रौघ्नः । माथुरः । राष्ट्रियः ।
तत इति मुख्यं यदपादानं विवक्षितं तदिह गृह्यते, न नान्तरीयकम् । स्रुघ्नादागच्छन्वृक्षमूलादागत इति ।।
ठगायस्थानेभ्यः ।। 4-3-75 ।।
`आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम् । आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक्‌ प्रत्ययो भवति `तत आगतः इत्येतस्मिन्विषये, अणोऽपवादः । छं तु परत्वाद्बाधते । शुल्कशालाया आगतः, शौल्कशालिकः । आकरिकम् । बहुवचनं स्वरूपविधिनिरासार्थम् ।।
शुण्डिकादिभ्योऽण्‌ ।। 4-3-76 ।।
`शुण्डिक- इत्येवमादिभ्यः प्रातिपदिकेभ्योऽण्‌ प्रत्ययो भवति `तत आगतः इत्येतस्मिन्विषये । आयस्थानठकोऽपवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः ।
अण्ग्रहणं बाधकबाधनार्थम् । औदपानः ।
शुण्डिक । कृकण । स्थण्डिल । उदपान । उपल । तीर्थ । भूमि । तृण । पर्ण। शुण्डिकादिः ।।
विद्यायोनिसम्बन्धेभ्यो वुञ्‌ ।। 4-3-77 ।।
विद्यायोनिकृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, तद्वाचिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति `तत आगतः इत्येतस्मिन्विषये । अणोऽपवादः । छं तु परत्वाद्बाधते । विद्यासम्बन्धेभ्यस्तावत्‌ - उपाध्यायादागतम्
औपाध्यायकम् । शैष्यकम् । आचार्यकम् । योनिसम्बन्धेब्यः - मातामहकः । पैतामहकः ।।
ऋतष्ठञ्‌ ।। 4-3-78 ।।
`विद्यायोनिसम्बन्धेभ्यः इत्येव । ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसम्बन्धवाचिभ्यष्ठञ्‌ प्रत्ययो भवति `तत आगतः इत्येतस्मिन्विषये । वुञोऽपवादः । विद्यासम्बन्धवाचिभ्यस्तावत्‌ - होतुरागतं हौतृकम् । पौतृकम् । योनिसम्बन्धवाचिभ्यः - भ्रातृकम् । स्वासृकम् । मातृकम् ।
</2-1-2>
तपरकरणं मुखसुखार्थम् । विद्यायोनिभ्यामन्यत्र - `सावित्रम्(तै.सं.<1-8-2>.1) ।।
पितुर्यच्च ।। 4-3-79 ।।
पितृशब्दाद्‌ यत्‌ प्रत्ययो भवति चकाराट्ठञ्च `तत आगतः इत्येतस्मिन्विषये । पितुरागतं पित्र्यम् । पैतृकम् ।।
गोत्रादङ्कवत्‌ ।। 4-3-80 ।।
अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते । गोत्रप्रत्ययान्तात्प्रातिपदिकादङ्कवत्‌ प्रत्ययविधिर्भवति `तत आगतः इत्येतस्मिन्विषये । अङ्कग्रहणेन तस्येदमर्थसामान्यं लक्ष्यते । तस्माद्‌ वुञतिदिश्यते, नाणेव - सङ्घाङ्कलक्षणेष्वञ्यञिञामण्(4-3-127/1507) इति । औपगवानामङ्कः औपगवकः । कापटवकः । नाडायनकः । चारायणकः । एवम् - औपगवेभ्य आगतमौपगवकम् । कापटवकम् । नाडायनकम् । चारायणकम् ।।
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।। 4-3-81 ।।
हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति `तत आगतः इत्येतस्मिन्विषये । मनुष्यग्रहणमहेत्वर्थम् । हेतुः = कारणम् । हेतुभ्यस्तावत्‌ - समादागतं समरूप्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच्छः (4-2-138/1362)। मनुष्येभ्यः - देवदत्तरूप्यम् । यज्ञदत्तरूप्यम् । दैवदत्तम् । याज्ञदत्तम् ।
बहुवचनं स्वरूपविधिनिरासार्थम् ।।
मयट्‌ च ।। 4-3-82 ।।
हेतुभ्यो मनुष्येभ्यश्च मयट्‌ प्रत्ययो भवति `तत आगतः इत्येतस्मिन्विषये । सममयम् । विषममयम् । मनुष्येभ्यः - देवदत्तमयम् । यज्ञदत्तमयम् । टकारो ङीबर्थः - सममयी ।
योगविभागो यथासङ्ख्यनिरासार्थः ।।
प्रभवति ।। 4-3-83 ।।
`ततः इत्येव । पञ्चमीसमर्थाद्‌ ङ्याप्प्रातिपदिकात्‌ `प्रभवति इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । प्रभवति = प्रकाशते, प्रथमत उपलभ्यते इत्यर्थः । हिमवतः प्रभवति हैमवतो गङ्गा । दारदी सिन्धुः ।।
विदूराञ्ञ्यः ।। 4-3-84 ।।
विदूरशब्दाञ्ञ्यः प्रत्ययो भवति `ततः प्रभवति इत्येतस्मिन्‌ विषये । अणोऽपवादः । विदूरात्प्रभवति वैदूर्यो मणिः ।
ननु च वालवायादसौ प्रभवति, न विदूरात्‌, तत्र तु संस्क्रियते ? एवं तर्हि -
`वालवायो विदूरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति चेद्‌ ब्रूयाज्जित्वरीवदुपाचरेत्।।(म.भा.2.313)
तद्गच्छति पथिदूतयोः ।। 4-3-85 ।।
तदिति द्वितीयासमर्थाद्‌ `गच्छति इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत्स भवति दूतो वा । स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा । माथुरः । तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते । अथ वा स्रुघ्नप्राप्तिः पथो गमनम् ।
पथिदूतयोरिति किम् ? स्रुघ्नं गच्छति सार्थः ।।
अभिनिष्क्रामति द्वारम् ।। 4-3-86 ।।
तदित्येव । द्वितीयासमर्थाद्‌ `अभिनिष्कामति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्तदभिनिष्क्रामति द्वारं चेत्तद्भवति । आभिमुख्येन निष्क्रामति = अभिनिष्क्रामति, स्रुघ्नमभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम् । माथुरम् । राष्ट्रियम् । द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धम्, तदिह स्वातन्त्र्येण विवक्ष्यते, यथा - साध्वसिश्छिनत्तीति ।
द्वारमिति किम् ? स्रुघ्नमभिनिष्क्रामति पुरुषः ।।
अधिकृत्य कृते ग्रन्थे ।। 4-3-87 ।।
`तत् इत्येव । अधिकृत्यैतदपेक्ष्य द्वितीया । अधिकृत्य = प्रस्तुत्य, आगूर्येत्यर्थः । तदिति द्वितीयासमर्थाद्‌ `अधिकृत्य कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्तत्कृतं ग्रन्थश्चेत्स भवति । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः । गौरिमित्रः । यायातः ।
ग्रन्थे इति किम् ? सुभद्रामधिकृत्य कृतः प्रासादः ।

  • लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम् * (म.भा.2.313)। वासदत्तामधिकृत्य कृताऽऽख्यायिका वासवदत्ता । सुमनोत्तरा । उर्वशी । न च भवति - भैमरथी ।।

शिशुक्रन्दयमभद्वन्द्वेन्द्रजननादिभ्यश्छः ।। 4-3-88 ।।
`तत्‌ इत्येव । `अधिकृत्य कृते ग्रन्थे इति च । शिशुक्रन्दादिभ्यो द्वितीयासमर्थेभ्यश्छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे । अणोऽपवादः । शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम्, यमसभीयः । द्वन्द्वात्‌ - अग्निकाश्यपीयः । श्येनकपोतीयः । शब्दार्थसम्बन्धीयं प्रकरणम् । वाक्यपदीयम् । इन्द्रजननादिभ्यः - इन्द्रजननीयम् । प्रद्युम्नागमनीयम् । इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्त्तव्यः, प्रातिपदिकेषु न पठ्यते ।

  • द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः * (म.भा.2.314)। दैवासुरम् । राक्षोऽसुरम् । गौणमुख्यम् ।

इन्द्रजननादेराकृतिगणत्वात्‌ शिशुक्रन्दादयोऽपि तत्रैव द्रष्टव्याः । प्रपञ्चार्थमेषां ग्रहणम् । एवं च सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश्छप्रत्ययस्यादर्शनात् ।।
सोऽस्य निवासः ।। 4-3-89 ।।
`स इति प्रथमासमर्थात्‌ `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं निवासश्चेत्स भवति । निवसन्त्यस्मिन्निवासः = देश उच्यते । स्रुघ्नो निवासोऽस्य स्रौघ्नः । माथुरः । राष्ट्रियः ।।
अभिजनश्च ।। 4-3-90 ।।
`सोऽस्य इत्येव । स इति प्रथमासमर्थात्‌ `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थमभिजनश्चेत्स भवति । अभिजनः = पूर्वबान्धवः । तत्सम्बन्धाद्‌ देशोऽप्यभिजन इत्युच्यते - यस्मिन्पूर्वबान्धवैरुषितम् । तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यः; निवासप्रत्यासत्तेः । स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । माथुरः । राष्ट्रियः ।
निवासाभिजनयोः को विशेषः ? यत्र सम्प्रत्युष्यते स निवासः । यत्र पूर्वैरषितं सोऽभिजनः ।(म.भा.2.314)
योगविभाग उत्तरार्थः ।।
आयुधजीविभ्यश्छः पर्वते ।। 4-3-91 ।।
`सोऽस्याभिजनः इति वर्त्तते । `आयुधजीविभ्यः इति तादर्थ्ये चतुर्थी, `पर्वते इति प्रकृतिविशेषणम् । पर्वतवाचिनः प्रथमासमर्थादभिजनाद्‌ `अस्य इति षष्ठ्यर्थे छः प्रत्ययो भवति । आयुधजीविभ्यः - आयुधजीव्यर्थमायुधजीविनोऽभिधातुं प्रत्ययो भवतीत्यर्थः । हृद्‌गोलः पर्वतोऽभिजन एषामायुधजीविनां हृद्‌गोलीयाः । अन्धकवर्त्तीयाः । रोहितगिरीयाः ।
आयुधजीविभ्य इति किम् ? ऋक्षोदः पर्वतोऽभिजन एषां ब्राह्मणानाम्, आर्क्षोदा ब्राह्मणाः ।
पर्वत इति किम् ? साङ्काश्यका आयुधजीविनः ।।
शण्डिकादिभ्यो ञ्यः ।। 4-3-92 ।।
`शण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ञ्यः प्रत्ययो भवति `सोऽस्याभिजनः इत्येतस्मिन्विषये । अणादेरपवादः । शाण्डिक्यः । सार्वसेन्यः ।
शण्डिक । सर्वसेन । सर्वकेश। शक । सट । रक । शङ्ख । बोध । शण्डिकादिः ।।
सिन्धुतक्षशिलादिभ्योऽणञौ ।। 4-3-93 ।।
आदिशब्दः प्रत्येकमभिसम्बध्यते । सिन्ध्वादिभ्यः प्रातिपदिकेभ्यस्तक्षशिलादिभ्यश्च यथासङ्ख्यमणञौ प्रत्ययौ भवतः `सोऽस्याभिजनः इत्येतस्मिन्विषये । सैन्धवः । वार्णवः ।
सिन्धु । वर्णु । गन्धार । मधुमत्‌ । कम्बोज । कश्मीर । साल्व । किष्किन्धा । गदिका । उरसा । दरत्‌ ।
ये तु कच्छादिषु पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस्तत एवाणि सिद्धे मनुष्यवुञो बाधनार्थं वचनम् ।
तक्षशिलादिभ्यः खल्वपि - ताक्षशिलः । वात्सोद्धरणः ।
तक्षशिला । वत्सोद्धरण । कौमेदुर । काण्डवारण । ग्रामणी । सरालक । कंस । किन्नर । सङ्कुचित । सिंहकोष्ठ । कर्णकोष्ठ । बर्वर । अवसान ।।
तूदीशलातुरवर्मतीकूचवाराड्‌ढक्छण्ढञ्यकः ।। 4-3-94 ।।
तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासङ्ख्यं चत्वार एव ढक्‌, छण्‌, ढञ्‌, यक्‌ इत्येते प्रत्यया भवन्ति `सोऽस्याभिजनः इत्येतस्मिन्विषये । अणोऽपवादः । तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ।।
भक्तिः ।। 4-3-95 ।।
समर्थविभक्तिः प्रत्ययार्थश्चानुवर्त्तते । `अभिजनः इति निवृत्तम् । स इति प्रथमासमर्थात्‌ `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं विभक्तिश्चेत्तद्भवति । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः । माथुरः । राष्ट्रियः ।।
अचित्ताददेशकालट्ठक्‌ ।। 4-3-96 ।।
देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट्ठक्‌ प्रत्ययो भवति `सोऽस्य भक्तिः इत्येतस्मिन्विषये । अणोऽपवादः । वृद्धाच्छं परत्वाद्बाधते । अपूपा भक्तिरस्य आपूपिकः । शाष्कुलिकः । पायसिकः ।
अचित्तादिति किम् ? दैवदत्तः । अदेशादिति किम् ? स्रौघ्नः । अकालादिति किम् ? ग्रैष्मः ।।
महाराजाट्ठञ्‌ ।। 4-3-97 ।।
महाराजशब्दाट्ठञ्‌ प्रत्ययो भवति `सोऽस्य भक्तिः इत्येतस्मिन्‌ विषये । अणोऽपवादः । महाराजो भक्तिरस्य माहाराजिकः । प्रत्ययान्तरकरणं स्वरार्थम् ।।
वासुदेवार्जुनाभ्यां वुन्‌ ।। 4-3-98 ।।
वासुदेव-अर्जुनशब्दाभ्यां वुन्प्रत्ययो भवति `सोऽस्य भक्तिः इत्येतस्मिन्विषये । छाणोरपवादः । वासुदेवो भक्तिरस्य वासुदेवकः । अर्जुनकः ।
ननु च वासुदेवशब्दाद्‌ गोत्रक्षत्त्रियाख्येभ्यः(4-3-99/1479) इति वुञस्त्येव, न चात्र वुन्वुञोर्विशेषो विद्यते(म.भा.2.314), किमर्थं वासुदेवग्रहणम् ? संज्ञैषा देवताविशेषस्य न क्षत्त्रियाख्या (म.भा.2.314)।
अजाद्यदन्तम्(2-2-33/904) अल्पाच्तरम्(2-2-34/905) इति चार्जुनशब्दस्य पूर्वनिपातमकुर्वन्‌ ज्ञापयति - अभ्यहितं पूर्वं निपततीति ।।
गोत्रक्षत्त्रियाख्येभ्यो बहुलं बुञ्‌ ।। 4-3-99 ।।
गोत्राख्येभ्यः क्षत्त्रियाख्येभ्यश्च प्रातिपदिकेभ्यो बहुलं वुञ्‌ प्रत्ययो भवति `सोऽस्य भक्तिः इत्येतस्मिन्विषये । अणोऽपवादः । वृद्धाच्छं परत्वाद्बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । औपगवकः । कापटवकः । क्षत्त्रियाख्येभ्यः - नाकुलकः । साहदेवकः । साम्बकः ।
आख्याग्रहणं प्रसिद्धक्षत्त्रियशब्दपरिग्रहार्थम् - यथाकथञ्चित्‌ क्षत्त्रियवृत्तिभ्यो मा भूत्‌ ।
बहुलग्रहणात्‌ क्वचिदप्रवृत्तिरेव - पाणिनो भक्तिरस्य पाणिनीयः । पौरवीयः ।।
जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ।। 4-3-100 ।।
जनपदिनो ये बहुवचने जनपदेन समानशब्दास्तेषां जनपदवत्सर्वं भवति - प्रत्ययः, प्रकृतिश्च, `सोऽस्य भक्तिः इत्येतस्मिन्विषये । जनपदतदवध्योश्च(4-2-124/1348) इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्योऽस्मिन्नर्थेऽतिदिश्यन्ते । जनपदिनः = जनपदस्वामिनः क्षत्त्रियाः। अङ्गाजनपदो भक्तिरस्य आङ्गकः । वाङ्गकः । सौह्मकः । पौण्ड्रकः ।
तद्वद्‌ - अङ्गाः क्षत्त्रिया भक्तिरस्य आङ्गकः । वाङ्गकः । सौह्मकः । पौण्ड्रकः ।
जनपदिनामिति किम् ? पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः ।
सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयति - वृद्धिनिमित्तेषु च वुञादिषु विशेषो नास्तीति ।
मद्रवृज्योः कनि विशेषः । मद्रस्यापत्यम् द्व्यञ्मगधकलिङ्गसूरमसादण्‌(4-1-170/1188) इत्यण्‌ - माद्रः । वृजिशब्दादपि वृद्धेत्कोसलाजादाञ्ञ्यङ्‌(4-1-171/1189), इति ञ्यङ्‌ - वार्ज्यः । स भक्तिरस्येति प्रकृतिनिर्ह्रासे कृते - मद्रकः, वृजिकः ।
जनपदेन समानशब्दानामिति किम् ? अनुषण्डो जनपदः, पौरवो राजा, स भक्तिरस्य पौरवीयः ।
बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम्; अन्यथा हि यत्रैव समानशब्दता तत्रैवातिदेशः स्याद्‌; एकवचनद्विचनयोर्न स्यात्‌, वाङ्गौ वा भक्तिरस्येति । बहुवचने तु, बहुवचने समानशब्दानामेकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवति - वाङ्गः वाङ्गौ वा भक्तिरस्य वाङ्गकः ।।
तेन प्रोक्तम् ।। 4-3-101 ।।
तेनेति तृतीयासमर्थात्‌ `प्रोक्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । प्रकर्षेणोक्तम् = प्रोक्तमित्युच्यते, न तु कृतम्‌; कृते ग्रन्थे(4-3-116/1496) इत्यनेन गतत्वात्‌ । अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः । पाणिनीयम् । आपिशलम् । काशकृत्स्नम् ।।
तित्तिरिवरतन्तुखण्डिकोखाच्छण्‌ ।। 4-3-102 ।।
तित्तिर्यादिभ्यः शब्देभ्यश्छण्‌ प्रत्ययो भवति `तेन प्रोक्तम् इत्येतस्मिन्विषये । अणोऽपवादः । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः ।
छन्दसि चाऽयमिष्यते - तित्तिरिणा प्रोक्तः श्लोक इत्यत्र न भवति । शौनकादिभ्यश्छन्दसि(4-3-106/1486) इत्यत्रास्यानुवृत्तेश्छन्दोऽधिकारविहितानां च तद्विषयतेष्यते ।।
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ।। 4-3-103 ।।
काश्यप-कौशिकशब्दाभ्यामृषिवाचिभ्यां णिनिः प्रत्ययो भवति `तेन प्रोक्तम् इत्येतस्मिन्विषये । छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः कल्प्यः, `ताभ्यां प्रोक्तः इति स्मर्यते, तस्यापि च तद्विषयता भवत्येव । शौनकादिभ्यश्छन्दसि(4-3-106/1486) इत्यत्रानुवृत्तेश्छन्दोऽधिकारविहितानां च तत्र तद्विषयतेष्यते - काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः । कौशिकिनः।
ऋषिभ्यामिति किम् ? इदानीन्तनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् ।।
कलापिवैशम्पायनान्तेवासिभ्यश्च ।। 4-3-104 ।।
कलाप्यन्तेवासिनां वैशम्पायनान्तेवासिनां च ये वाचकाः शब्दाः, तेभ्यो णिनिः प्रत्ययो भवति `तेन प्रोक्तम् इत्येतस्मिन्विषये । अणोऽपवादः । छं तु परत्वाद्बाधते । तत्र कलाप्यन्तेवासिनश्चत्वारः - हरिद्रुः, छगली, तुम्बुरुः, उलप इति । वैशम्पायनान्तेवासिनो नव - आलम्बिः, पलङ्गः, कमलः, ऋचाभः, अरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति ।
प्रत्यक्षकारिणो गृह्यन्ते, न तु व्यवहिताः शिष्यशिष्याः । कुतः ? कलापि - खाण्डायनग्रहणात्‌ । तथा हि - वैशम्पायनान्तेवासी कलापी, तदन्तेवासिनो वैशम्पायनान्तेवासिन एव भवन्ति किं कलापिग्रहणेन ? तथा वैशम्पायनान्तेवासी कठस्तदन्तेवासी खाडायनस्तस्य किं शौनकादिषु पाठेन ? तदेतत्प्रत्यक्षकारिग्रहणस्य लिङ्गम् ।
कलाप्यन्तेवासिभ्यस्तावत्‌ - हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः । तौम्बुरविणः । औलपिनः । छगलिनो ढिनुकं वक्ष्यति । वैशम्पायनान्तेवासिभ्यः - आलम्बिनः । पालङ्गिनः । कामलिनः । आर्चाभिनः । आरुणिनः । ताण्डिनः
। श्यामायनिनः । कठाल्लुकं वक्ष्यति(4-3-107/1487), कलापिनश्चाणम् (4-3-108/1488)।।
हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू ।
उलपेन चतुर्थेन कालापकमिहोच्यते ।।
आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ ।
ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे ।।
श्यामायन उदीच्येषु उक्तः कठकलापिनोः ।
चरक इति वैशम्पायनस्याख्या, तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते ।।
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ।। 4-3-105 ।।
प्रत्ययार्थविशेषणमेतत् । तृतीयासमर्थात्प्रोक्ते णिनिः प्रत्ययो भवति यत्प्रोक्तं पुराणप्रोक्ताश्चेद्‌ ब्राह्मणकल्पास्ते भवन्ति । पुराणेन = चिरन्तनेन मुनिना प्रोक्ताः । ब्राह्मणेषु तावत्‌ - भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । कल्पेषु - पैङ्गी कल्पः । आरुणपराजी ।
पुराणप्रोक्तेष्विति किम् ? याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः । याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्त्ता, तथा व्यवहरति सूत्रकारः, तद्विषयता कस्मान्न भवति ? प्रतिपदं ब्राह्मणेषु यः प्रत्ययः, तस्य तद्विषयता विधीयते णिनेः । अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु पाठादण्‌ ।
न वायं योगश्छन्दोऽधिकारमनुवर्त्तयति, तेन कल्पेष्वपि न भवति ।
पुराण इति निपातनात्तुडभावः । न वात्यन्तबाधैव, तेन पुरातनमित्यपि भवति ।।
शौनकादिभ्यश्छन्दसि ।। 4-3-106 ।।
`शौनक इत्येवमादिभ्यो णिनिः प्रत्ययो भवति, `तेन प्रोक्तम् इत्येतस्मिन्विषये छन्दस्यभिधेये । छाणोरपावदः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः ।
छन्दसीति किम् ? शौनकीया शिक्षा । `कठशाठ इत्यत्र पठ्यते सत्सङ्घातार्थम्, केवलाद्धि लुकं वक्ष्यति । कठशाठाभ्यां प्रोक्तमधीयते काठशाठिनः ।
शौनक । वाजसनेय । साङ्गरव । शार्ङ्गरव । साम्पेय । शाखेय । खाण्डायन । स्कन्ध । स्कन्द । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशाठ । कशाय । तलवकार । पुरुषांस । अश्वपेय । शौनकादिः ।।
कठचरकाल्लुक्‌ ।। 4-3-107 ।।
कठचरकशब्दाभ्यां परस्य प्रोक्तप्रत्ययस्य लुग्भवति । कठशब्दाद्वैशम्पायनान्तेवासिभ्यः(4-3-104/1484) इति णिनेश्चरशब्दादप्यणः । कठेन प्रोक्तमधीयते कठाः । चरकाः । छन्दसीत्येव - काठाः । चारकाः ।।
कलापिनोऽण्‌ ।। 4-3-108 ।।
कलापिशब्दादण्‌ प्रत्ययो भवति `तेन प्रोक्तम् इत्येतस्मिन्विषये । वैशम्पायनान्तेवासित्वाण्णिनेरपवादः । कलापिना प्रोक्तमधीयते कालापाः । इनण्यनपत्ये(6-4-164/1245) इति प्रकृतिभावे प्राप्ते, * नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमि तैतलिजाजलिजाङ्गलि लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् * इति टिलोपः ।
अथाण्ग्रहणं किम् , यथाप्राप्तमित्येव सिद्धम् ? अधिकविधानार्थम् । तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानीत्येवमादि सिद्धम् ।।
छगलिनो ढिनुक्‌ ।। 4-3-109 ।।
छगलिन्शब्दाद्‌ ढिनुक्‌ प्रत्ययो भवति `तेन प्रोक्तम् इत्येतस्मिन्‌ विषये । कलाप्यन्तेवासित्वाण्णिनेरपवादः । छगलिना प्रोक्तमधीयते छागलेयिनः ।।
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।। 4-3-110 ।।
णिनिरिहानुवर्त्तते, न ढिनुक्‌ । पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति `तेन प्रोक्तम् इत्येतस्मिन्विषये । `भिक्षुनटसूत्रयोः इति यथासङ्ख्यं प्रत्ययार्थविशेषणम्, सूत्रशब्दः प्रत्येकमभिसम्बध्यते, तद्विषयता चात्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्यम्, गुणकल्पनया च भिक्षुनटसूत्रयोश्छन्दस्त्वम् । पाराशर्येण प्रोक्तमधीयते पाराशरिणो भिक्षवः ।
शैलालिनो नटाः ।
भिक्षुनटसूत्रयोरिति किम् ? पाराशरम् । शैलालम् ।
कर्मन्दकृशाश्वादिनिः ।। 4-3-111 ।।
`भिक्षुनटसूत्रयोः इत्येव । कर्मन्द-कृशाश्वशब्दाभ्यामिनिः प्रत्ययो भवति । `तेन प्रोक्तम् इत्येतस्मिन्विषये यथासङ्ख्यं भिक्षुनटसूत्रयोरभिधेययोः । अणोऽपवादः । अत्रापि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ।
भिक्षुनटसूत्रयोरित्येव - कार्मन्दम् । कार्शाश्वम् ।।
तेनैकदिक्‌ ।। 4-3-112 ।।
तेनेति तृतीयासमर्थात्‌ `एकदिक्‌ इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । एकदिक्‌ = तुल्यदिक्‌, समानदिगित्यर्थः । सुदाम्ना एकदिक्‌ सौदामनी विद्युत्‌ । हैमवती । त्रैककुदी । पैलुमूली ।
`तेन इति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम् । पूर्वत्र हि छन्दोऽधिकारात्‌ तद्विषयता साध्यते ।।
तसिश्च ।। 4-3-113 ।।
तसिश्च प्रत्ययो भवति `तेनैकदिक्‌ इत्येतस्मिन्विषये । पूर्वेण घादिषु अणादिषु च प्राप्तेष्वयमपरः प्रत्ययो विधीयते । स्वरादिपाठादव्ययत्वम् । सुदामतः । हिमवत्तः । पिलुमूलतः ।।
उरसो यच्च ।। 4-3-114 ।।
`उरस्शब्दाद्यत्‌ प्रत्ययो भवति, चकारात्तसिश्च, `तेनैकदिक्‌ इत्येतस्मिन्विषये । अणोऽपवादः । उरसा एकदिग्‌ उरस्यः । उरस्तः ।।
उपज्ञाते ।। 4-3-115 ।।
`तेन इत्येव । तृतीयासमर्थात्‌ `उपज्ञाते इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । विनोपदेशेन ज्ञातम् = उपज्ञातम्, स्वयमभिसम्बद्धमित्यर्थः । पाणिनिनोपज्ञातं पाणिनीयमकालकं व्याकरणम् । काशकृत्स्नम् । गुरुलाघवम् । आपिशलम् । दुष्करणम् ।।
कृते ग्रन्थे ।। 4-3-116 ।।
`तेन इत्येव । तृतीयासमर्थात्‌ `कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तत्कृतं ग्रन्थश्चेत्स भवति । वररुचिना कृता वाररुचाः श्लोकाः । हैकुपादो ग्रन्थः । भैकुराटो ग्रन्थः । जालूकः ।
ग्रन्थ इति किम् ? तक्षकृतः प्रासादः ।
उत्पादितम् = कृतम्, विद्यमानमेव ज्ञातम् = उपज्ञातम् - इत्ययमनयोर्विशेषः ।।
संज्ञायाम् ।। 4-3-117 ।।
तृतीयासमर्थात्‌ `कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत्संज्ञा ज्ञायते । मक्षिकाभिः कृतं माक्षिकम् । कार्मुकम् । सारघम् । पौत्तिकम् । मधुनः संज्ञा एताः ।।
कुलालादिभ्यो वुञ्‌ ।। 4-3-118 ।।
`तेन `कृते `संज्ञायाम् इति चैतत्सर्वमनुवर्तते । कुलालादिभ्यो वुञ्‌ प्रत्ययो भवति `तेन कृतम् इत्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम् । कौलालकम् । वारुडकम् ।
कुलाल । वरुड । चण्डाल । निषाद । कर्मार । सेना । सिरिध्र । सेन्द्रिय । देवराज । परिषत्‌ । वधू । रुरु । ध्रुव । रुद्र । अनडुह्‌ । ब्रह्मन्‌ । कुम्भकार । श्वपाक । कुलालादिः ।।
क्षुद्राभ्रमरवटरपादपादञ्‌ ।। 4-3-119 ।।
`तेन `कृते `संज्ञायाम् इति सर्वमनुवर्तते । क्षुद्रादिभ्योऽञ्‌ प्रत्ययो भवति `तेन कृते इत्येतस्मिन्विषये संज्ञायां गम्यमानायाम् । अणोऽपवादः । स्वरे विशेषः । क्षुद्रादिभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ।।
तस्येदम् ।। 4-3-120 ।।
तस्येति षष्ठीसमर्थात्‌ `इदम् इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । अणादयः पञ्च महोत्सर्गाः । घादयश्च प्रत्यया यथाविहितं विधीयन्ते । प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितम्, यदपरं लिङ्गसङ्ख्याप्रत्यक्षपरोक्षादिकं तत्सर्वमविवक्षितम् । उपगोरिदमौपगवम् । कापटवम् । राष्ट्रियम् । अवारपारीणम् ।
अनन्तरादिष्वनभिधानान्न भवति - देवदत्तस्यानन्तरमिति ।

  • संवहेस्तुरणिट्‌ च * (म.भा.2.318)। संवोढुः स्वं सांवहित्रम् । सिद्ध एवात्राण्‌ इडर्थमुपसङ्ख्यानम् ।
  • अग्नीधः शरणे रण्‌ भं च * (म.भा.2.318)। आग्नीध्रम् ।
  • समिधामाधाने षेण्यण्‌ * (म.भा.2.319)। सामिधेन्यो मन्त्रः । सामीधेनी ऋक्‌ ।।

रथाद्यत् ।। 4-3-121 ।।
रथशब्दाद्यत्‌ प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । अणोऽपवादः । रथस्येदं रथ्यम्, चक्रं वा,युगं वा ।
रथाङ्ग एवेष्यते, नान्यत्र; अनभिधानात्‌ ।

  • रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते * । परमरथ्यम् । उत्तमरथ्यम् ।।

पत्त्रपूर्वादञ्‌ ।। 4-3-122 ।।
पतन्ति तेनेति पत्त्रम् = अश्वादिकं वाहनमुच्यते । तत्पूर्वाद्रथशब्दादञ्‌ प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । पूर्वस्य यतोऽपवादः । आश्वरथं चक्रम् । औष्ट्ररथम् । गार्दभरथम् ।।
पत्त्राध्वर्युपरिषदश्च ।। 4-3-123 ।।
पत्त्रं वाहनं तद्वाचिनः प्रातिपदिकादध्वर्यु-परिषच्छब्दाभ्यां चाञ्प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । अणोऽपवादः ।

  • पत्त्राद्वाह्ये * (म.भा.2.319)। अश्वस्येदं वहनीयमाश्वम् । औष्ट्रम् । गार्दभम् । आध्वर्यवम् । पारिषदम् ।।

हलसीराट्ठक्‌ ।। 4-3-124 ।।
हल, सीरशब्दाभ्यां ठक्‌ प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । अणोऽपवादः । हलस्येदं हालिकम् । सैरिकम् ।।
द्वन्द्वाद्‌ वुन्वैरमैथुनिकयोः ।। 4-3-125 ।।
द्वन्द्वसंज्ञकाद्‌ वुन्‌ प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये, वैरमैथुनिकयोः प्रत्ययार्थविशेषणयोः । अणोऽपवादः । छं तु परत्वाद्बाधते ।
वैरे तावत्‌ - बाभ्रव्यशालङ्कायनिका । काकोलूकिका ।
मैथुनिकायाम् - अत्त्रिभरद्वाजिका । कुत्सकुशिकिका । विवहनमैथुनिका । वैरस्य नपुंसकत्वेऽप्यमी स्वभावतः स्त्रीलिङ्गाः ।

  • वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः * (म.भा.2.319)। दैवासुरम्। राक्षोऽसुरं वैरम् ।।

गोत्रचरणाद्‌ वुञ्‌ ।। 4-3-126 ।।
गोत्रवाचिभ्यश्चरणवाचिभ्यश्च प्रातिपदिकेभ्यो वुञ्‌ प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । अणोऽपवादः । छं तु परत्वाद्बाधते गोत्रात्तावत्‌ - ग्लौचुकायनकम्। औपगवकम् ।
चरणाद्धर्माम्नाययोरिष्यते । काठकम् । कालापकम्। मौदकम्। पैप्पलादकम् ।।
सङ्घाङ्कलक्षणेष्वञ्यञिञामण् ।। 4-3-127 ।।
सङ्घादिषु प्रत्ययार्थविशेषणेष्वञन्ताद्‌ यञन्ताद्‌ इञन्ताच्च प्रातिपदिकादण्प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । पूर्वस्व वुञोऽपवादः ।

  • घोषग्रहणमत्र कर्त्तव्यम् * (म.भा.2.319)। तेन वैषम्याद्यथासङ्ख्यं न भवति । अञन्तात्‌ - बैदः सङ्घः । बैदोऽङ्कः । बैदं लक्षणम् । बैदो घोषः । यञन्तात्‌ - गार्गः सङ्घः । गार्गोऽङ्कः । गार्गं लक्षणम् । गार्गो घोषः । इञन्तात्‌ - दाक्षः सङ्घः । दाक्षोऽङ्कः । दाक्षं लक्षणम् । दाक्षो घोषः ।

अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यभूतस्यैव चिह्नभूतं स्वम्, यथा - विद्या बिदानाम् । अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति । णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च । बैदी विद्याऽस्य बैदीविद्यः ।।
शाकलाद्वा ।। 4-3-128 ।।
शाकलशब्दात्सङ्घादिषु प्रत्ययार्थविशेषणेषु वाऽण्प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । वुञोऽपवादः । शाकलेन प्रोक्तमधीयते शाकलाः, तेषां सङ्घः शाकलः, शाकलकः । शाकलोऽङ्कः, शाकलकोऽङ्कः । शाकलं लक्षणम्, शाकलकं लक्षणम् । शाकलो घोषः, शाकलको घोषः ।।
छन्दोगौक्थिकयाज्ञिकबह्‌वृचनटाञ्ञ्यः ।। 4-3-129 ।।
सङ्घादयो निवृत्ताः, सामान्येन विधानम् । छन्दोगादिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । वुञणोरपवादः । `चरणाद्धर्माम्नाययोः, तत्साहचर्यान्नटशब्दादपि धर्माम्नाययोरेव भवति - छन्दोगानां धर्मो वाऽऽम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् । अन्यत्र - छान्दोगं कुलमित्यादि ।।
न दण्डमाणवान्तेवासिषु ।। 4-3-130 ।।
दण्डप्रधाना माणवा दण्डमाणवाः, अन्तेवासिनः = शिष्याः, तेष्वभिधेयेषु वुञ्प्रत्ययो न भवति । गोत्रग्रहणमिहानुवर्त्तते, तेन वुञ्प्रतिषेधो विज्ञायते । गौकक्षाः दण्डमाणवा अन्तेवासिनो वा । दाक्षाः । माहकाः ।।
रैवतिकादिभ्यश्छः ।। 4-3-131 ।।
रैवतिकादिभ्यश्छः प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम् । रैवतिकीयः । स्वापिशीयः ।
रेवतिक । स्वापिशि । क्षैमवृद्धि । गौरग्रीवि । औदमेयि । औदवाहि । बैजवापि । रैवतिकादिः ।।
कौपिञ्जलहास्तिपदादण्‌ ।। 4-3-132 ।।
कौपिञ्जल-हास्तिपदशब्दाभ्यामण्प्रत्ययो भवति `तस्येदम् इत्येतस्मिन्विषये । गौत्रवुञोऽपवादः; गोत्राधिकारात्‌ । कौपिञ्जलः । हास्तिपदः ।।
आथर्वणिकस्येकलोपश्च ।। 4-3-133 ।।
`अण्‌ इत्येव । आथर्वणिकशब्दादण्प्रत्ययो भवति तत्सन्नियोगेन च इकलोपः, `तस्येदम् इत्येतस्मिन्विषये । चरणवुञोऽपवादः । आथर्वणिकस्यायमाथर्वणो धर्म आम्नायो वा । `चरणाद्धर्माम्नाययोः(वा.475) ।।
तस्य विकारः ।। 4-3-134 ।।
तस्येति षष्ठीसमर्थात्‌ `विकारः इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । प्रकृतेरवस्थान्तरम् = विकारः । किमिहोदाहरणम् ? अप्राण्याद्युदात्तमवृद्धम्, यस्य च नान्यत्‌ प्रतिपदं विधानम्। अश्मनो विकारः आश्मः । आश्मनः । `अश्मनो विकारः इति टिलोपः पाक्षिकः । भास्मनः । मार्त्तिकः । नित्स्वरेणाद्युदात्ता एते ।
तस्य प्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम् (म.भा.2.321)। विकारावयवयोर्घादयो न भवन्ति - हालः, सैरः ।
अवयवे च प्राण्योषधिवृक्षेभ्यः ।। 4-3-135 ।।
प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्योऽवयवे यथाविहितं प्रत्ययो भवति, चकाराद्विकारे च । तत्र प्राणिभ्योऽञं वक्ष्यति । कपोतस्य विकारोऽवयवो वा कापोतः । मायूरः । तैत्तिरः । ओषधिभ्यः - मौर्वं काण्डम्, मौर्वं भस्म । वृक्षेभ्यः--कारीरं काण्डम्, कारीरं भस्म ।
इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति । अन्येभ्यस्तु विकारमात्रे । कथं द्वयमप्यधिक्रियते--`तस्य विकारः, `अवयवे च प्राण्योषधिवृक्षेभ्यः इति ? विकारावयवयोर्युगपदधिकारोऽपवादविधानार्थः । कृतनिर्देशौ हि तौ ।।
बिल्वादिभ्योऽण्‌ ।। 4-3-136 ।।
`बिल्व- इत्येवमादिभ्योऽण्प्रत्ययो भवति विकारावयवयोरर्थयोः । यथायोगमञ्मयटोरपवादः । बिल्वस्यावयवो विकारो वा बैल्वः । गवेधुकाशब्दोऽत्र पठ्यते, ततः कोपधादेव सिद्धे मयड्‌बाधनार्थं ग्रहणम् ।
बिल्व । व्रीहि । काण्ड । मुद्‌ग । मसूर । गोधूम । इक्षु । वेणु । गवेधुका । कर्पासी । पाटली । कर्कन्धू । कुटीर । बिल्वादिः ।।
कोपधाच्च ।। 4-3-137 ।।
ककारोपधात्प्रातिपदिकादण्‌ प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः । अञोऽपवादः । तर्कु--तार्कवम् । तित्तिडीक--तैत्तिडीकम् । माण्डूकम् । दार्दूरूकम् । माधूकम् ।।
त्रपुजतुनोः षुक्‌ ।। 4-3-138 ।।
त्रपु-जतुशब्दाभ्यामण्‌ प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगागमो भवति । ओरञोऽपवादः । त्रपुणो विकारः त्रापुषम् । जातुषम् । अप्राण्यादित्वान्नावयवे ।।
ओरञ्‌ ।। 4-3-139 ।।
उवर्णान्तात्प्रातिपदिकादञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । अणोऽपवादः । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारवम् । भाद्रदारवम् ।।
अनुदात्तादेश्च ।। 4-3-140 ।।
अनुदात्तादेः प्रातिपदिकादञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । अणोऽपवादः । दाधित्थम् । कापित्थम् । माहित्थम् ।।
पलाशादिभ्यो वा ।। 4-3-141 ।।
पलाशादिभ्यः प्रातिपदिकेभ्यो वाऽञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । पालाश्म् । खादिरम् । यावसम् । उभयत्रविभाषेयम् । पलाशखदिरशिंशपास्पन्दनानामनुदात्तादित्वात्प्राप्ते, अन्येषामप्राप्ते ।
पलाश । खदिर । शिंशपा । स्पन्दन । करीर । शिरीष । यवास । विकङ्कत । पलाशादिः ।।
शम्याष्ट्‌लञ्‌ ।। 4-3-142 ।।
शमीशब्दाट्‌ ट्‌लञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । अञोऽपवादः । शामीलं भस्म । शामीली स्रुक्‌ ।।
मयड्‌वैतयोर्भाषायामभक्ष्याच्छादनयोः ।। 4-3-143 ।।
प्रकृतिमात्राद्वा मयट्‌ प्रत्ययो भवति, भक्ष्याच्छादनवर्जितयोर्विकारावयवयोरर्थयोर्भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु । अश्ममयम् । आश्मनम् । मूर्वामयं, मौर्वम् ।
भाषायामिति किम् ? बैल्वः खादिरो वा यूपः स्यात्‌ । अभक्ष्याच्छादनयोरिति किम् ? मौद्‌गः सूपः । कार्पासमाच्छादनम् ।
एतयोरिति किमनेन, यावता विकारावयवौ प्रकृतावेव ? ये विशेषप्रत्ययाः प्राणिरजतादिभ्योऽञ्‌(4-3-154/1532) इत्येवमादयः, तद्विषयेऽपि यथा स्यात्‌--कपोतमयम्, कापोतम् । लोहमयम्‌, लौहमिति ।।
नित्यं वृद्धशरादिभ्यः ।। 4-3-144 ।।
`भाषायामभक्ष्याच्छादनयोः इत्येव । वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्चाभक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट्‌ प्रत्ययो भवति । वृद्धेभ्यस्तावत्‌--आम्रमयम् । शालमयम् । शाकमयम् । शरादिभ्यः--शरमयम् । दर्भमयम् । मृण्मयम् ।
नित्यग्रहणं किम्, यावताऽऽरम्भसामर्थ्यादेव नित्यं भविष्यति ? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते । त्वङ्‌मयम् । स्रङ्‌मयम् । वाङ्‌मयमिति ।
शर । दर्भ । मृत्‌ । कुटी । तृण । सोम । बल्वज । शरादिः ।।
गोश्च पुरीषे ।। 4-3-145 ।।
गोशब्दात्पुरीषेऽभिधेये मयट्‌ प्रत्ययो भवति । गोमयम् ।
पुरीष इति किम् ? गव्यं पयः । पुरीषं न विकारो न चावयवः । तस्येदंविषये विधानम् । विकारावयवयोस्तु गोपयसोर्यतं(4-3-160/1538) वक्ष्यति ।।
पिष्टाच्च ।। 4-3-146 ।।
पिष्टशब्दान्नित्यं मयट्‌ प्रत्ययो भवति `तस्य विकार इत्येतस्मिन्‌ विषये । अणोऽपवादः । पिष्टमयं भस्म ।।
संज्ञायां कन्‌ ।। 4-3-147 ।।
पिष्टशब्दात्कन्‌ प्रत्ययो भवति विकारे संज्ञायां विषये । मयटोऽपवादः । पिष्टकः ।।
व्रीहेः पुरोडाशे ।। 4-3-148 ।।
व्रीहिशब्दान्मयट्‌ प्रत्ययो भवति पुरोडाशे विकारे । बिल्वाद्यणोऽपवादः । व्रीहिमयः पुरोडाशः । व्रैहमन्यत्‌ ।।
असंज्ञायां तिलयवाभ्याम् ।। 4-3-149 ।।
तिल-यवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः । तिलमयम् । यवमयम् ।
असंज्ञायामिति किम् ? तैलम् । यावकः । यावादिभ्यः कन्‌(5-4-29/2097) ।।
द्व्यचश्छन्दसि ।। 4-3-150 ।।
</1-8-2>
द्व्यचः प्रातिपदिकाच्छन्दसि विषये मयट्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते--`यस्य पर्णमयी जुहूर्भवति(नि.<3-5-7>.1) । `दर्भमयं वासो भवति(मै.सं.<1-11-1>) । `शरमयं बर्हिर्भवति(काठ.सं.11.8) ।।
नोत्वद्वर्ध्रविल्वात्‌ ।। 4-3-151 ।।
</3-5-7>
उत्वतः प्रातिपदिकाद्‌ वर्ध्र-बिल्वशब्दाभ्यां च मयट्‌ प्रत्ययो न भवति । द्व्यचश्छन्दसि(4-3-150/3453) इति प्राप्तः प्रतिषिध्यते । `मौञ्जं शिक्यम्(तै.सं.<5-1-20>.1) । `गार्मुतं चरुम्(तै.सं.<2-4-4>.1) । वार्ध्री=बालप्रग्रथिता भवति । `बैल्वो ब्रह्मवर्चसकामेन कार्यः(मै.सं.<3-9-3>) ।
तपरकरणं तत्कालार्थम् । धूममयान्यभ्राणि । मतुब्निर्देशस्तदन्तविधिनिरासार्थः । इहैव स्यात्‌--वैणवी यष्टिरिति ।।
तालादिभ्योऽण्‌ ।। 4-3-152 ।।
तालादिभ्यः प्रातिपदिकेभ्योऽण्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । मयडादीनामपवादः । तालं धनुः । बार्हिणम् । ऐन्द्रालिशम् ।

  • तालाद्धनिषि * । बार्हिण । इन्द्रालिश । इन्द्रादृश । इन्द्रायुध । चाप । श्यामाक । पीयुक्षा । तालादिः ।।

जातरूपेभ्यः परिमाणे ।। 4-3-153 ।।
जातरूपम् = सुवर्णम् । बहुवचननिर्देशात्तद्वाचिनः सर्वे गृह्यन्ते । जातरूपवाचिभ्यः प्रातिपदिकेभ्योऽण्‌ प्रत्ययो भवति परिमाणे विकारे । मयडादीनामपवादः । हाटको निष्कः । हाटकं कार्षापणम् । जातरूपम् । तापनीयम् ।
परिमाण इति किम् ? यष्टिरियं हाटकमयी ।।
प्राणिरजतादिभ्योऽञ्‌ ।। 4-3-154 ।।
प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । अणादीनामपवदः । अनुदात्तादेरञ्‌ विहित एव, परिशिष्टमिहोदाहरणम् । प्राणिभ्यस्तावत्‌--कापोतम् । मायूरम् । तैत्तिरम् । रजतादिभ्यः--राजतम् । सैसम् । लौहम् ।
रजतादिषु येऽनुदात्तादयः पठ्यन्ते--रजत-कण्टकारप्रभृतयः, तेभ्योऽञि सिद्धे पुनर्वचनं मयड्‌बाधनार्थम् ।
रजत । सीस । लोह । उदुम्बर । नीलदारु । रोहितक । बिभीतक । पीतदारु । तीव्रदारु । त्रिकण्टक । कण्टकार । रजतादिः ।।
ञितश्च तत्प्रत्ययात् ।। 4-3-155 ।।
`अञ्‌ इत्येव । तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः । ञिद्यो विकारावयवप्रत्ययस्तदन्तात्प्रातिपदिकादञ्प्रत्ययो भवति `विकारावयवयोः एव । मयटोऽपवादः । ओरञ्‌(4-2-71/1283), शम्याष्ट्‌लञ्‌(4-3-142/1522), प्राणिरजतादिभ्योऽञ्‌(4-3-154/1532), उष्ट्राद्‌वुञ्‌(4-3-157/1535), एण्याढञ्‌(4-3-159/1537), कंसीयपरशव्ययोर्यञञौ लुक्च(4-3-168/1547)--इत्येते प्रत्यया गृह्यन्ते । दैवदारवस्य विकारोऽवयवो वा दैवदारवम् । दाधित्थस्य दाधित्थम् । पालाशस्य पालाशम् । शामीलस्य शामीलम् । कापोतस्य कापोतम् । औष्ट्रकस्य औष्ट्रकम् । ऐणेयस्य ऐणेयम् । कांस्यस्य कांस्यम् । पारशवस्य पारशवम् ।
ञित इति किम् ? बैल्वमयम् । तत्प्रत्ययादिति किम् ? बैदमयम् ।।
क्रीतवत्परिमाणात् ।। 4-3-156 ।।
प्राग्वतेष्ठञ्‌(5-1-18/1680) इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद्विहितास्ते विकारेऽतिदिश्यन्ते । परिमाणात्‌ क्रीत इव प्रत्यया भवन्ति `तस्य विकारः इत्येतस्मिन्विषये । अणादीनामपवादः । सङ्ख्यापि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणमेव । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारो नैष्किकः । शतेन क्रीतं शत्यम्, शतिकम् । शतस्य विकारः शत्यः, शतिकः । साहस्रः ।
वतिः सर्वसादृश्यार्थः । अद्ध्यर्द्धपूर्वद्द्विगोर्लुगसंज्ञायाम्(5-1-28/1693) इत्येवमादिकमप्यतिदिश्यते । द्विसहस्रः, द्विसाहस्रः । द्विनिष्कः, द्विनैष्किकः ।।
उष्ट्राद्‌ वुञ्‌ ।। 4-3-157 ।।
उष्ट्रशब्दाद्वुञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । प्राण्यञोऽपवादः । उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः ।।
उमोर्णयोर्वा ।। 4-3-158 ।।
उमाशब्दादूर्णाशब्दाच्च वा वुञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । औमम्, औमकम् । और्णम्, और्णकम् ।।
एण्या ढञ्‌ ।। 4-3-159 ।।
एणीशब्दाद्‌ ढञ्‌ प्रत्ययो भवति विकारावयवयोरर्थयोः । प्राण्यञोऽपवादः । ऐणेयं मांसम् । पुंसस्त्वञेव भवति--एणस्य मांसमैणम् ।।
गोपयसोर्यत्‌ ।। 4-3-160 ।।
गो, पयस्‌शब्दाभ्यां यत् प्रत्ययो भवति विकारावयवयोरर्थयोः । गव्यम् । पयस्यम् ।
सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव, मयड्‌विषये तु विधीयते ।।
द्रोश्च ।। 4-3-161 ।।
द्रुशब्दाद्यत्प्रत्ययो भवति विकारावयवयोरर्थयोः । ओरञोऽपवादः । द्रव्यम् ।।
माने वयः ।। 4-3-162 ।।
द्रुशब्दान्माने विकारविशेषे वयः प्रत्ययो भवति । यतोऽपवादः । द्रुवयम् ।।
फले लुक्‌ ।। 4-3-163 ।।
विकारावयवयोरुत्पन्नस्य फले तद्विषये विवक्षिते लुग्भवति । आमलक्याः फलम् आमलकम् । कुवलम् । बदरम् । फलितस्य वृक्षस्य फलमवयवो भवति विकारश्च । पल्लवितस्येव पल्लवः ।।
प्लक्षादिभ्योऽण्‌ ।। 4-3-164 ।।
`फले इत्येव । प्लक्षादिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षितेऽण्‌ प्रत्ययो भवति । अञोऽपवादः । विधानसामर्थ्यात्तस्य न लुग्भवति । प्लाक्षम् । नैयग्रोधम् ।।
प्लक्ष । न्यग्रोध । अश्वत्थ । इङ्गुदी । शिग्रु । कर्कन्धु । बृहती । प्लक्षादिः ।।
जम्ब्वा वा ।। 4-3-165 ।।
`फले इत्येव । जम्बूशब्दात्फलेऽभिधेये वाऽण्‌ प्रत्ययो भवति । अञोऽपवादः । अत्राणो
विधानसामर्थ्याल्लुग्न भवति, अञस्तु भवत्येव--जाम्बवानि फलानि, जम्बूनि वा ।।
लुप्‌ च ।। 4-3-166 ।।
`वा इत्येव । जम्ब्वाः फलेऽभिधेये प्रत्ययस्य वा लुब्भवति । युक्तवद्भावे विशेषः । जम्ब्वाः फलं, जम्बूः फलम्, जम्बु फलम्, जाम्बवमिति वा ।।

  • लुप्प्रकरणे फलपाकशुषामुपसङ्ख्यानम् * (म.भा.2.327)। व्रीहयः । यवाः । माषाः । मुद्‌गाः । तिलाः ।
  • पुष्पमूलेषु बहुलम् * (म.भा.2.327)। मल्लिकायाः पुष्पं मल्लिका । नवमल्लिका जातिः । विदार्याः मूलं विदारी । अंशुमती । बृहती । न च भवति पाटलानि पुष्पाणि शाल्वानि मूलानि ।

बहुवचनात्क्वचिदन्यदपि भवति--कदम्बं पुष्पम्, अशोकम्, करवीरम् बैल्वानि फलानीति ।।
हरीतक्यादिभ्यश्च ।। 4-3-167 ।।
`हरीतकी इत्येवमादिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब्‌ भवति । लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः । हरीतक्याः फलं हरीतकी । कोशातकी । नखरजनी । अत्र च व्यक्तिर्युक्तवद्भावेनेष्यते, वचनं त्वभिधेयवदेव भवति । हरीतक्याः फलानि हरीतक्यः ।
हरीतकी । कोशातकी । नखरजनी । शष्कण्डी । दाडी । दोडी । दीडी । श्वेतपाकी । अर्जुनपाकी । काला । द्राक्षा । ध्वाङ्‌क्षा । गर्गरिका । कण्टकारिका । शेफालिका । येषां च फलपाकनिमित्तः शोषः । पुष्पमूलेषु बहुलम् । हरीतक्यादिः ।।
कंसीयपरशव्ययोर्यञञौ लुक्च ।। 4-3-168 ।।
प्राक्क्रीताच्छः(5-1-1/1661)- कंसीयः । उगवादिभ्यो यत्‌(5-1-2/1662)--परशव्यः । कंसीयपरशव्यशब्दाभ्यां यथासङ्ख्यं यञञौ प्रत्ययौ भवतः `तस्य विकारः इत्येतस्मिन्विषये, तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवति । कंसीयस्य विकारः कांस्यः । परशव्यस्य विकारः पारशवः ।
प्रातिपदिकाधिकाराद्धातुप्रत्ययस्य न लुग्भवति । परशव्यशब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम् ।
ननु च यस्येति च()<6-4-148/311 इति लोपे कृते हलस्तद्धितस्य(6-4-150/472) इति यलोपो भविष्यति ? नैतदस्ति; `ईति इति तत्र वर्त्तते ।।
            इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
                चतुर्थाध्यायस्य तृतीयः पादः