उत्तररामचरितम् /प्रथमोऽङ्कः

विकिस्रोतः तः

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे । विन्देम देवतां वाचममृतामात्मनः कलाम् ॥१॥
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥
सूत्रधारः - एषाऽस्मि कार्यवशादायोध्यकस्तदानींतनश्च संवृत्तः (समन्तादवलोक्य) भो भो ! यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायमभिषेकसमयो रात्रिन्दिवमसंतनान्दीकः, तत्किमिदानीं विश्रान्तचारणानि चत्वरस्थानानि ? (प्रविश्य) नटः - भाव ! प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुदो महात्मानः प्लवड्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावनाब्रह्मर्षयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् । सूत्रधारः - आ, अस्त्येतन्निमित्तम् । नटः - अन्यच्च -

वसिष्ठाधिष्ठिता देव्योगता रामस्य मातरः ।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥३॥

सूत्रधारः - वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता?
नटः - कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥४॥

विभाण्डकसुतस्तामृष्यश्रृङ्ग उपयेमे । तेन द्वादशवार्षिकं सत्रमारब्धम् । तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः । सूत्रधारः - तत्किमनेन ? एहि, राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः।
नटः - तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिं भावः । सुत्रधारः - मारिष !

सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥ ५॥

नटः - अतिदुर्जन इति वक्तव्यम् ।

देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।
रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥

सूत्रधारः - यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं स्यात् । नटः - सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य) भो भोः, क्वेदानीं महाराजः ? (आकर्ण्य) एवं जनाः कथयन्ति - स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
देव्यास्ततो विमनसः परिसान्त्वनाय
धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥
(इति निष्कान्तौ) इति प्रस्तावना। (ततः प्रविशत्युपविष्टो रामः सीता च) रामः-देवि ! वैदेहि ! विश्वसिहि, ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् ।

किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥८॥

सीता - जाणामि अज्जउत्त ! जाणामि । किंदु संदावआरिणो बन्धुजणविप्पओआ होन्ति । (जानामि आर्यपुत्र ! जानामि, किन्तु संतापकारिणो बन्धुजनविप्रयोगा भवन्ति ) । रावः - एवमेतत् । एते हि दयमर्मच्छिदः संसारभावा । येभ्यो बीभत्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः । (प्रविश्य) कञ्चुकी - रामभद्र ! (इत्यर्धोक्ते साशङ्कम्) महाराज ! - रामः- (सस्मितम्) आर्य ! ननु रामभद्र ! इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयनाम । कञ्चुकी - देव ! ऋश्यश्रृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता - अज्ज ! तदो किं विलम्बीअदि (आर्य ! ततः किं विलम्ब्यते)। रामः - त्वरितं प्रवेशय । (कञ्चुकी निष्कान्तः । प्रविश्य-) अष्टावक्रः-स्वस्ति वाम् । रामः-भगवान् ! अभिवादये, इत आस्यताम् । सीता-भअव, णमो दे । अवि कुसलं सजामातुअस्स गुरुअणस्स अज्जाए सन्ताए अ । (भगवन्,नमस्ते । अपि कुशलं सजामातृकस्य गुरुजनस्यार्यायाः शान्तायाश्च?) रामः-निर्विघ्नः सोमपीथी आवुत्तो मे भगवानृष्यश्रृङ्गः,आर्या च शान्ता? सीता - अम्हे वि सुमरेदि (अस्मानपि स्मरति?) अष्टावक्रः - (उपविश्य) अथ किम् । देवि ! कुलगुरुर्भगवान् वसिष्ठस्त्वामिदमाह-

विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते । तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥९॥

तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः । रामः-अनुगृहीताः स्मः ।

लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥१०॥

अष्टावक्रः-इदं च भगवत्याऽरुन्धत्या देवीभिः शान्तया च भूयो भूयः संदिष्टम्- ‘यः कश्चिद्गर्भदोहदो भवत्यस्याः सोऽवश्यमचिरान्मानयितव्य’ इति । रामः- क्रियते यद्येषा कथयति । अष्टावक्रः -ननान्दुः पत्या च देव्याः संदिष्टम्- ‘वत्से,कठोरगर्भेति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्यामः’ इति । रामः - (सहर्षलज्जास्मितम्) तथास्तु । भगवता वसिष्ठेन न किंचिदादिष्टोऽस्मि ।? अष्टावक्रः - श्रूयताम् ।

जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् । युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥ ११ ॥

रामः - यथा समादिशति भगवान्मैत्रावरुणिः ।

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥

सीता- अदो जेव्व राहवधुरन्धरो अज्जउत्तो । (अत एव राघवधुरन्धर आर्यपुत्रः ।) रामः - कः कोऽत्र भोः । विश्राम्यतादष्टावक्रः । अष्टावक्रः- (उत्थाय परिक्रम्य च) अये, कुमारलक्ष्मणः प्राप्तः । (इति निष्क्रान्तः) (प्रविश्य) लक्ष्मणः- जयति जयत्यायः । आर्य ! अर्जुनेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखतम् । तत्पश्यत्वार्यः। रामः- जानासि वत्स ! दुर्मनायमानां देवीं विनोदयितुम् । तत्कियन्तमवधिं यावत् । लक्ष्मणः-यावदार्याया हुताशनशुद्धिः । रामः-शान्तम् (ससान्त्ववचनम् ।)

उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः । तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥

देवि देवयजनसम्भवे ! प्रसीद । एष ते जीवितावधिः प्रवादः ।

क्लिष्टो जनः किल जनैरनुरञ्जनीयस्तन्नो यदुक्तमशुभं च न तत्क्षमं ते । नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४॥

सीता - होदु अज्जौत्त, होदु । एहि । पेक्खह्म दाव दे चरिदम् । (इत्युत्थाय परिक्रामति) (भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् ।) लक्ष्मणः - इदं तदालेख्यम् । सीता - (निर्वर्ण्य) के एदे उवरिणिरन्तरदा उवत्थुवन्दि विअ अज्जउत्तम् (क एते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ।) लक्ष्मणः - देवि ! एतानि तानि सरहस्यानि जृम्भकास्त्राणि, यानि भगवतः कृशाश्वात्कौशिकमृषिमुपसंक्रान्तानि । तेन ताटकावधे प्रसादीकृतान्यार्थस्य । रामः- वन्दस्व देवि, दिव्यास्त्राणि ।

ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि । एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥

सीता- नम एतेभ्यः। रामः- सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति । सीता-अणुगहीदह्मि । (अनुगृहीतास्मि ।) लक्ष्मणः - एष मिथिलावृत्तान्तः । सीता - अहो, दलन्नवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्ड मुग्धमुखमण्डल आर्यपुत्र आलिखितः । लक्ष्मणः - आर्ये ! पश्य पश्य ।

सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति । गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥

रामः - सुश्लिष्टमेतत् ।

जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥ १७ ॥

सीता - एते खलु तत्कालकृतगोदानमङ्गलश्चत्वारो भ्रातरो विवाहदीक्षिता यूयम् । अहो ! जानामि तस्मिन्नेव काले वर्ते । रामः - समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि ! गौतमार्पितः ।
अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥

लक्ष्मणः - इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः । सीता - वत्स, इयमप्यपरा का । लक्ष्मणः - (सलज्जास्मितम् । अपवार्य) अये, ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः सञ्चारयामि । (प्रकाशम् ।) आर्ये ! दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्मार्गवः । सीता - (ससंभ्रमम्) कम्पितास्मि । रामः - ऋषे ! नमस्ते । लक्ष्मणः - आर्ये ! पश्य । अयमार्येण---(इत्यर्धोक्ते ।) रामः - (साक्षेपम् ।) अयि ! बहुतरं द्रष्टव्यम् । अन्यतो दर्शय । सीता - (सस्नेहबहुमानं निर्वर्ण्य ।) सुष्ठु शोभसे आर्यपुत्र ! एतेन विनयमाहात्म्येन । लक्ष्मणः- एते वयमयोध्यां प्राप्ताः । रामः- स्मरामि ।

जीवत्सु तातपादेषु नूतने दारसंग्रहे ।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥

इयमपि तदा जानकी ।

प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलै- र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती मुखम् । ललिततलितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै- रकृतमधुरैरम्बानां मे कुतूहलमङ्गकैः ॥ २० ॥

लक्ष्मणः - एष मन्थरावृत्तान्तः । रामः - (सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि !

इङ्गुदीपादपः सोऽयं शृङ्गबेरपुरे पुरा । निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥

लक्ष्मणः - (विहस्य । स्वगतम् ।) अये, मध्यमाम्बावृत्तान्तोऽन्तरित आर्येण । सीता - अह्मो, एसो जडासंजमणवुत्तन्तो । (अहो, एष जटासंयमनवृत्तान्तः । ) लक्ष्मणः - पुत्रसंक्रान्तलक्ष्मीकैर्यद् व्रुद्धेक्ष्‌वाकुभिर्धृतम् ।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥२२॥

सीता ः एषा प्रसन्नपुण्यसलिला भगवती भागीरथी । ) रामः ः रघुकुलदेवते ! नमस्ते ।

तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे कपिलमहसा रोषात्प्लुष्टान् पितुश्च पितामहान् । अगणिततनूतापस्तप्त्वा तपांसि भगीरथो भगवति ! तव स्पृष्टानद्भिश्चिरादुदतीतरत् ॥२३॥

सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव । लक्ष्मणः - एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । (रामः सस्पृहमवलोकयति ।) सीता - स्मरति वा तं प्रदेशमार्यपुत्रः ? रामः अयि कथं विस्मर्यते ?

अलसललितमुग्धान्यध्वसम्पातखेदा- दशिथिलपरिम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥२४॥

लक्ष्मणः - एष विन्ध्याटवीमुखे विराधसंवादः । सीता - अलं तावदेतेन । पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथिकत्वम् । रामः - एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि ।
येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥२५॥

लक्ष्मणः - अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम । रामः - स्मरसि सुतनु ? तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।

स्मरसि सरसनीरां तय्र गोदावरीं वा स्मरसि च तदुपान्तेष्वेवयोर्वर्तनानि ॥२६॥

किं च । किमपि किमपि मन्दं मन्दमासक्तियोगा- दविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेव व्यरंसीत् ॥२७॥

लक्ष्मणः - एष पञ्चवट्यां शूर्पणखाविवादः । सीता - हा अज्जउत्त ! एत्तिअं दे दंसणम् ! (हा आर्यपुत्र ! एतावत्ते दर्शनम् !) रामः - अयि वियोगत्रस्ते ! चित्रमेतत् । सीता - यथा तथा भवतु दुर्जनोऽसुखमुत्पादयति । रामः - हन्त ! वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । लक्ष्मणः - अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितै- रपि ग्रावा रोदित्यपि दलति वज्रस्य दयम् ॥२८॥

सीता - (सास्रमात्मगतम् ।) अहो, दिनकरकुलानन्दन एवमपि मम कारणात् क्लान्त आसीत् । लक्ष्मणः - (रामं निर्नर्ण्य साकूतम्) आर्य ! किमेतत् ?

अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः । निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति चिरमाध्मातदयः ॥२९॥

रामः - वत्स !

तत्कालं प्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः । दुःखाग्निर्मनसि पुनर्विपच्यमानो न्मर्मव्रण इव वेदनां तनोति ॥३०॥

सीता - हा धिक् हा धिक् ! अहमप्यतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि । लक्ष्मणः - (स्वगतम् ।) भवतु, आक्षिपामि । (चित्रं विकोल्य प्रकाशम् ।) अथैतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम् । सीता - हा तात ! निर्व्यूढस्तेऽपत्यस्नेहः ।) रामः - हा तात काश्यपशकुन्तराज ! क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थभूतस्य साधोः संभवः ? लक्ष्मणः - अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनुकबन्धाधिष्ठितो दण्डकारण्यभागः । तदिदममुष्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणा नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः । सीता - यत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमक्तकण्ठं प्ररुदितमासीत् ।) रामः - देवि ! परं रमणीयमेतत्सरः । एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः ॥३१॥

लक्ष्मणः - अयमार्यो हनूमान् ! सीता - एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः । रामः - दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥३२॥

सीता - वत्स ! एष स कुसुमितकदम्बताण्डवितबर्हिणः किन्नामधेयो गिरिः ? यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरश्रीर्मूच्छंस्त्वा प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः । लक्ष्मणः - सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यम्मि- न्नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः । आर्येणास्मिन् .......... रामः- .............. विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः । लक्ष्मणः - अतः परमार्यस्य तत्रभवतां राक्षसानां चापरिसङ्ख्यान्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि ‘विश्राम्यतामि’ति । सीता - आर्यपुत्र ! एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया मम विज्ञापनीयमस्ति । रामः - नन्वाज्ञापय । सीता - जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु बित्य पवित्रनिर्मलशिशिरसलिलां भगवतीं भागीरथीमवगाहिष्य इति । रामः - वत्स लक्ष्मण ! लक्ष्मणः - एषोऽस्मि ! रामः - वत्स ! अचिरादेव संपादनीयो दौद इति संप्रत्येव गुरुभिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय । सीता - आर्यपुत्र ! युष्माभिरप्यागन्तव्यम् । रामः - अतिकठिनदये ! एतदपि वक्तव्यम् ? सीता - तेन हि प्रियं मे । लक्ष्मणः - यदाज्ञापयत्यार्यः । (इति निष्क्रान्तः ।) रामः - प्रिये ! वातायनोपकण्ठे संविष्टा भव । सीता - एवं भवतु । अपतास्मि परिश्रमनिद्रया) रामः - तेन हि निरन्तरमवलम्बस्व मामत्र शयनाय ।

जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥३४॥

(तथा कारयन्सानन्दम्) प्रिये ! किमेतत् ?

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयनि च सम्मीलयति च ॥३५॥

सीता - धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् । रामः- म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहकानि । एतानि ते सुवचनानि सरोरुहाक्षि ! कर्णामृतानि मनसश्च रसायनानि ॥३६॥

सीता- प्रियंवद ! एहि ! संविशावः । (इति शयनाय समन्ततोऽपि निरूपयति।) रामः - अयि ! किमन्वेष्टव्यम् ?

आ विवाहसमयाद् गृहे वने शंशवे तदनु यौवने पुनः । स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥३७॥

सीता- (निद्रां नाटयन्ती) अस्त्येतत् । आर्यपुत्र ! अस्त्येतत् । इति स्वपिति । रामः-कथं प्रियवचनैव मे वक्षसि प्रसुप्ता ? (निर्वर्ण्य । सस्नेहम्) ।

इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोर्-
असावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥३८॥

(प्रविश्य) प्रतीहारी-देव ! उपस्थितः रामः - अयि ! कः ? प्रतीहारी- आसण्णपरिआरओ देवस्स दुम्मुहो । (आसन्नपरिचारको देवस्य दुर्मुखः।) रामः- (स्वगतम्) शुद्धान्तचारी दुर्मुखः । स मया पौरजानपदेष्वपसर्पः प्रहितः । (प्रकाशम्) आगच्छतु । (प्रतीहारी निष्क्रान्ता ।) (प्रविश्य ।) दुर्मुखः - (स्वगतम्) हा कथमिदानीं देवीमन्तरेणेदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि ? अथवा नियोगः खलु मम मन्दभागधेयस्यैषः ) सीता- (उत्स्वप्नायते) आर्यपुत्र ! कुत्रासि ? रामः- सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्योगं करोति । (सस्नेहमङ्गमस्याः परामृशन् ।)

अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् ।
विश्रामो हृदयस्य यत्र जरसा यस्मिन्न हार्यो रसः ।
कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितम् ।
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते ॥३९॥

दुर्मुखः - (उपसृत्य) जयतु देवः। रामः - ब्रूहि यदुपलब्धम् । दुर्मुखः - उपस्तुवन्ति देवं पौरजानपदाः, यथा विस्मारिता वयं महाराजदशरथस्य रामदेवेनेति रामः- अर्थवाद एवैषः । दोषं तु मे कथंचित्कथय, येन प्रतिविधीयते । दुर्मुखः - (सास्रम्) (कर्णे) शृणोतु महाराजः । एवमिव ! रामः- अहह, अतितीव्रोऽयं वाग्वज्रः । (इति मूर्च्छति ।) दुर्मुखः- आश्वसितु देवः । रामः- (आश्वस्य) हा हा धिक् ! परगृहवासदूषणं यद्वैदेह्याः प्रशमितमद्भुतैरुपायैः । एतत्तत्पुनरपि दैवदुर्विपाकादालर्कं विषमिव सर्वतः प्रसक्तम् ॥४०॥

तत्किमद्य मन्दभाग्यः करोमि । (विमृश्य सकरुणम् ।) अथवा किमेतत् ।

सतां केनापि कार्येण लोकस्याराधनं परम् । तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥४१॥

सम्प्रत्येव च भगवता वसिष्ठेन संदिष्टम् । अपि च ।

यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधु चित्रं चरित्रम् । मत्संबन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त ! धिङ्मामधन्यम् ॥४२॥

हा देवि देवयजनसंभवे ! हा स्वजन्मानुग्रहपवित्रितवसुन्धरे ! हा मुनिजनकनन्दिनि ! हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि ! हा राममयजीविते ! हा महारण्यवासप्रियसखि ! हा तातप्रिये ! हा स्तोकवादिनि ! कथमेवंविधायास्तवायमीदृशः परिणामः ?

त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः । नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥४३॥

(दुर्मुखं प्रति) दुर्मुख ! ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समाज्ञापयति । (कर्णे) एवमेवम् । इति । दुर्मुखः - हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्या दुर्जनवचनादिदं व्यवसितं देवेन ? रामः- शान्तं पापम् । शान्तं पापम् । दुर्जना नाम पौरजानपदाः ?

इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् । यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥४४॥

तद्गच्छ । दुर्मुखः- हा ! देवि ! (इति निष्क्रान्तः) रामः- हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।

शैशवात्प्रभृति पोषितां प्रियां सौदादपृथगाश्रयामिमाम् । छद्मना परिददामि मृत्यवे सौनिके गृहशकुन्तिकामिव ॥४५॥

तत्किमपस्पृश्यः पातकी देवीं दूषयामि? (इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य)

अपूर्वकर्मचण्डालमयि मुग्धे ! विमुञ्च माम् । श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥४६॥

(उत्थाय) हन्त हन्त ! संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः । काष्ठप्रायं शरीरम् । अशरणोऽस्मि । किं करोमि ? का गतिः ? अथवा ।

दुःखसंवेदनायैव रामे चैतन्यमागतम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं दि ॥४७॥

हा अम्ब अरुन्धति ! भगवन्तौ वसिष्ठविश्वामित्रौ ! भगवन् पावक ! हा देवि भूतधात्रि ! हा तात जनक ! हा मातः ! हा प्रियसख महाराज सुग्रीव ! सौम्य हनूमन् ! महोपकारिन् लङ्काधिपते विभीषण ! हा सखि त्रिजटे ! परिमुषिताः स्थ, परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाह्वाने ?

ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४८॥

योऽहम् -
विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य लक्ष्मीम् । आतङ्कस्फुरितकठोरगर्भगुर्वौ क्रव्याद्भ्यो बलिमिव दारुणः क्षिपामि ॥४९॥

(सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः । (इति रोदिति ।) (नेपथ्ये ।)
अब्रह्मण्यम्, अब्रह्मण्यम् । रामः- ज्ञायतां भोः ! किमेतत् ? (पुनर्नेपथ्ये ।) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥५०॥

रामः - कथमद्यापि राक्षसत्रासः ? तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य) हा देवि ! कथमेवंविधा गमिष्यति ? भगवति वसन्धरे ! सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् ।

जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् । यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥५१॥
(इति रुदन्निष्कान्तः ।) सीता - हा सौम्य आर्यपुत्र ! कुत्राऽसि ? हा धिक् हा धिक् ! दुःस्वप्नरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् ! एकाकिनीं प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः ? भवतु । अस्मै कोपिष्यामि, यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः ? (प्रविश्य ।) दुर्मुखः - देवि ! कुमारलक्ष्मणो विज्ञापयति - सज्जो रथः । तदारोहतु देवी इति । सीता - (उत्थाय परिक्रम्य) इयमारूढास्मि । स्फुरति मे गर्भभारः । शनैर्गच्छमः । दुर्मुखः _ इत इतो देवी । सीता _ नमो रघुकुलदेवताभ्यः । (इति निष्क्रान्ताः सर्वे) इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते चित्रदर्शनो नाम प्रथमोऽङ्कः ॥ १ ॥