१३८ काव्यमाला । अद्यासितानुरहसं रभसेन काचः() कर्णीन्तकृष्टकुसुमेषुरविध्यदाशु ॥ ६१ ॥ विशिखक्षतहस्तिवर्चसानां खबलेनैव न राजवर्चसेन । वलोक्यबलाजनो भटानां न्यपतत्प्रत्युरसं तदाहवेषु ॥ ६२ ॥ अश्धोरसं हेस्त्यरसं च सैन्यं विविन्दतो यः समभूद्भटस्य । परिश्रमस्तं श्रममाशु निन्ये स्तनोपपीडं परिरभ्य कान्ता ॥ ६३ ॥ संकथ्यमानैरतिलालसाभिः सवै दिनं देववधूभिराजौ । खीभिः पुनर्वेश्मनि सर्वरात्रं वीरैरहोरात्रमपीति निन्ये ॥ ६४ ॥ रणागतं वेश्मनि मानवत्या निरीक्ष्य कान्तं प्रमदोद्भवस्य । चिराय मानग्रहणाय मेने नेत्राम्भसो यञ्जलमाशु दत्तम् ॥ ११ ॥ नारीमुखालोकॅनबद्धदृष्टिर्बभूव तस्मिन्सुचिराय लोकः । करोति दृष्टं शमिनोऽपि गूढान्विवर्तिताक्षिध्रुवमङ्गनास्यम् ॥ ६६ ॥ सुरखिया युद्धभुवि प्रियो मे व्यक्तं वृतोऽसावुपयामि तत्र । उपाध्वमेत्येभिधृता प्रयान्ती सख्याङ्गना द्यङ्गलमात्रबुद्धिः ॥ ६७ ॥ यो द्यहेन जितवान्स्वयमेकः स्वर्गताजमथ शर्वसखं च । स प्रियाविरहितो दशवक्रतां निशामनयदाहितखेदम् ॥ ६८ ॥ वाक्त्वचेन रुचिरेण सा प्रिया चौरिवोपशरदं विनिर्मला । तस्य चेतसि कृतास्पदा सती तुद्यते स्म मुंहुराहवेच्छया ॥ पुरःस्थिता यङ्गुलचौरुनासा() कविपुषेण क्षतलोकचिन्ताः । नेहो द्विव्योऽथ तथा त्रिमूव्यो मन्दोदरीचेष्टितमव सख्युः॥७०॥ तवाति राजन्रणशङ्कया यथा तथैव तस्यास्तह()कौशलं प्रति । तवोपवेत्साङ्गमिदं यथा स्थितं त्वैदङ्गमस्याः सततं तथा मनः ॥७१॥ उपनदमपि निश्चलं भवन्तं सततमुपागमशङ्कयायताक्षी । प्रतिककुभमसौ विलोकयन्ती कथमपि दर्शनवाञ्छया तवाशु ॥ ७२ ॥ १. ‘अध्यासिता' स्यात्, २. ‘हस्त्युरसं' स्यात्, ३. ‘विभिन्दतो' स्यात्, ४. ‘लो- कनिबद्ध' स्यात्. ५. ‘मेख्याभिधृता' स्यात्, ६. ‘खर्गराज' स्यात्. ७. ‘बहु' क. ८. ‘दारू' स्यात्. ५. ‘नाहुः' स्यात्, १०-११. ‘मूध' स्यात्, १२. ‘पचर्मा' स्याद, १३. ‘तद' स्यातू. [५ अ०४ पा०१७ स०] रावणार्जुनीयम् १३९ मेन्टुं तव दयितामुखमाभया स्फुरन्त्या । जयति तदधुना स एव तस्याः पतिरैहितं परिभूयते हि नारी ॥७३ ॥ उपपौर्णमासि समये शशिनं क्षणमेत्य राहुरपकान्तयति । दयितामुखं तव पुनर्विरहे यदहर्निशं परिभवः स तथा ॥ ७४ ॥ सुमेधसामप्यवमन्य वाक्यं दुर्मेधसः सा मनसानुशम्य । खद्दर्शनं यत्र भविष्यतीटं तचिन्तयन्ती सुदिनं निषण्णा ॥ ७१ ॥ तां सुमजां दुष्मजैजसं विपक्षं कृत्वा समानन्दयतु त्वरावान् । एतत्त्वया नः परिमुच्य धैर्यं धार्य वचो राक्षसधर्मणापि ॥ ७६ ॥ प्रिया सुपाद्य्यदती सुरूपा सुगन्धिनीलोत्पलगन्धिवक्रा । व्याधस्य जाता हरिणीव मुग्धा सा दक्षिणेर्मा विरहेऽद्य मृत्योः॥७७॥ भूयो भवानप्यति किं न युद्धं करिष्यते प्रतुरहं ब्रवीमि । प्रियां हितां जीवय जीवितेशां यतोर्धपू()जानिरिहोच्यसेऽसि ॥७८॥ या बिभेति न पिनाकधन्वनः शंकरादपि च ते भुजाश्रिता । साद्य पुष्पधनुषापि ते प्रिया प्रापिता परिभवास्पदं द्विषा ॥ ७९ ॥ अमुहृदपि सुहृत्वमेति सद्यस्तव दयितामवगम्य दीनचित्ताम् । उपदृषदमिदं त्वदीयचित्तं कठिनतया न मृदूयतीति मन्ये ॥ ८० ॥ उद्भन्धिपुष्पाणि वनानि तस्याः प्रकाशितश्रीतिलकश्च चन्द्रः । दृष्टानि चिते जनयन्ति बाधामभर्तृका स्त्री परिभूयते स्याम् ॥ ८१ ॥ आयतस्फुरदुरस्कमुत्सुका शुभ्रदशमुखावभाषितम् । निर्जितोद्धतविषक्षदण्डिकं द्रष्टुमिच्छति भवन्तमद्य सा ॥ ८२ ॥ त्वं सुभ्राता नित्यमेवाशु भूयाः प्रध्वस्तारिः स्या वहुश्रेयसीश्च । यावत्प्राचीं भानुरायाति नाशां तामाश्वास्य क्षिप्रमायाहि तावत् ॥८३॥ मुक्त्वा मानं मानिनी त्वत्समीपं किं सा नेया केवलं तां गुरुते । कुण्डोधी गौरन्निहोत्रस्य वासोः शुश्रूषायै त्वां विगर्हत्ययुक्तम् ॥८४॥ इत्यर्जुनरावणीये महाकाव्ये पादशात(पञ्चमाध्यायचतुर्थ)पादे सप्तदशः सर्गः ॥ १७ ॥ १. ‘रहिता' स्यात्, २. ‘सुप्रजा' स्यात्. ३. ‘जसे' ख. २०११
पृष्ठम्:रावणार्जुनीयम्.djvu/७३
दिखावट