सामग्री पर जाएँ

पृष्ठम्:शिवगीता.djvu/30

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२७
बालानन्दिनीव्याख्यासहिता ।

 
अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ।
कामक्रोधादयः सर्वे दह्यते तैस्तनुर्मम ॥ ११ ॥
अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ॥ १२ ॥
हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ।।
यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः ॥ १३ ॥
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥१४॥
  अगस्त्य उवाच ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रयच्छति ॥ १५ ॥


न हन्मि तदा मम जीवने किं फलमस्ति । स वा हन्तव्यो मया वा मर्तव्यमिति भावः ॥ १० ॥ अत इति । ते तत्त्वबोधेन । त्वया क्रियमाणेनोपदेशेनेत्यर्थः । मे किमपि प्रयोजनं नास्ति । कामक्रोधादयो ये सर्वे रजस्तमोविकारास्तैः । तनुर्देहः ॥ ११ ॥ किंच ॥ अहंकार इति । क्षत्रियोऽहमित्यादि गर्वोऽपि मे मम जीवनं प्राणधारणं हन्तुमुद्यतस्तस्मादलं श्रवणादिनेति भावः ॥ १२ ॥ ननु विषयदोषदर्शनेन विरक्तः सन् श्रवणादि कुर्यात् । विरक्तस्यैव तत्त्वबुभुत्सायामधिकार इति चेन्नेत्याह-हृतायामिति । निजकान्तायां शत्रुणा हृतायां सत्यां वा शत्रुणा अवमतस्य तिरस्कृतस्य यस्य तत्त्वबुभुत्सा तत्त्वं बोद्धुमिच्छा स्यात्स लोके पुरुषाधमः । देहादिष्वनित्याशुचिदुःखरूपत्वादिबुद्ध्या वैराग्यवत एव मोक्षशास्त्रेऽधिकारः । अन्ये तु प्रतिष्ठार्थं तच्छास्त्रं पठन्तीति रामोक्त्या सूचितम् ॥ १३ ॥ तस्मादिति । अम्बुधिं लङ्घयित्वा रणे तस्य रावणस्य वधे उपायं त्वत्त्तः त्वां विनेत्यर्थः ॥ १४ ॥ यस्य तत्त्वज्ञानमुपदेष्टव्यमेवेति निश्चयस्तेन गुरुणापि तच्छन्दानुरोधेन वर्तितव्यमिति लौकिकीं रीति-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/30&oldid=294516" इत्यस्माद् प्रतिप्राप्तम्