पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री ।
श्रीलक्ष्मीसिंहाय नमः ।
नृसिंहप्रसादः ।
श्राद्धसारः ।



श्रीनृसिंहं नमस्कृत्य दलाधीशमहीपतिः ।
श्राद्धप्रसादं कुरुते सर्वेदिकतुष्टये ।
लिख्यते परिभाषाऽत्र प्रक्रियाऽनुक्रमेण तु ।
श्राद्धप्रशंसा प्रथमं देवतानां निरूपणम् ।।
ततः स्यादधिकारी हेि श्राद्धेषु विविधेष्वपि ।
ततोऽपराह्मनिणतिः क्रियते सर्वसम्मता ।
प्रसङ्गादागतं किञ्चिद् बुद्धिस्थत्वान्निरूप्यते ।
पात्रं निरूप्यते पश्वानिषिद्धानां निराकृतिः ।।
ततः परं तु क्रियते श्राद्धपाकविनिर्णयः ।
पाकयोग्यं ततो द्रव्यं ततो निणीयते ततः ।।
तच (त्र ) भक्ष्यमभक्यं किमेधं (सर्व) भवति निर्णयः ।
शाकानां निर्णयः सम्यक् भक्ष्याभक्ष्यतया ततः ।।
द्रव्यशुद्धिरतः शुद्धिभूमेरादौ निरूप्यते ।
उदकस्य ततः शुद्धिरभिधेया सुविस्तृता ।
सुवर्णरजतादीनामुच्यते शुद्धिरुत्तमा ।
द्रव्यरूपस्य शाकस्य शुद्धिः सम्यगिहोच्यते ।।