सामग्री पर जाएँ

बृहद्यात्रा/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ बृहद्यात्रा
अध्यायः २२
अध्यायः २३ →

अध्यायः-२२ वाजिलक्षणेङ्गितम्

[सम्पाद्यताम्]

आवर्तसत्त्वद्युतिवर्णजातियानस्वराङ्गादिगुणोपपन्नाः।

संक्षेपतोऽश्वा विजयाय राज्ञाम् आवर्तलेशोपनयो यतोऽयम्॥

अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुषु।

मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरनेषु चाशुभाः॥

ये प्रपानगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः।

ओष्ठवङ्क्रिfओओत्नोते{Bष् ६५.च्éġसक्थि}भुजकुक्षिपार्श्वगास् ते ललाटसहिताः सुशोभनाः॥

वालावकिरणहेषितधूमज्वालादि चोद्यमे लक्ष्यम्।

तुरगाणाम् अत्रार्याः प्रकीर्तिता विष्णुगुप्तकृताः॥

तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनम् एषाम्।

नेष्टम् इतरत्र शस्तम् वामेतरपार्श्वयोस् तद्वत्॥

समम् अन्यत् पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः।

राष्ट्रभयरोगसम्भ्रमसपत्नचक्रापमर्दकराः॥

प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम्।

अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा॥

नित्यं च बालकिरणे दाहज्वालास्फुलिङ्गकणधूमाः।

स्कन्धासनांसदेशे वधाय बन्धाय च रणेषु॥

वक्षोक्षिललाटभुजेष्व् अश्वानां हेषतां च वदनेभ्यः।

ज्वालोत्पत्तिर् जयदा धूमोत्पत्तिः स्वामिनोऽभावाय॥

नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु।

विजयाय प्रज्वलनं ताम्रासितहरितशवलानाम्॥

विजयाय सर्वैदैव हि सुशुक्लशुकवर्णयोर् ज्वलनम् एषु।

एवं च यथासम्भवम् अन्येष्व् अपि वाहनेषु फलम्॥

इष्टानिष्टव्यंजकम् अतः परं हेषितं समवधार्यम्।

तच् च प्रसारिताचलशिरोधरोद्भूतम् इष्टफलम्॥

ग्रासान्तर्वक्त्राणाम् उच्चैः स्निग्धानुनादि गम्भीरम्।

द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः॥

खलिनान्नपानवर्मस्वाम्युपकरणाभिनन्दिता चैषाम्।

सर्वार्थसिद्धये स्याद् दक्षिणपार्श्वं विलोकयताम्॥

सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश् च।

हेषन्तो भयजनना वधबन्धपराजयकराश् च॥

वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः।

वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय॥

सजृम्भणं पृष्ठविधूननं च वालप्रकारस् त्व् असकृल् लिलिक्षोः।

पादेन पादाकलनं प्रसङ्गः सेनासमुद्योगदृशां हयानाम्॥

निद्रानिरोधालसनीलनेत्राः प्रध्यानशून्यस्मृतयो दिनेषु।

निशासु चान्योन्यविरोधनष्टनिद्रास् तुरङ्गा न शिवाय भर्तुः॥

जंघे लिंहन्नव्रणरोमपङ्के पादौ च संहृष्टतनुर् जयाय।

विपर्ययः पश्चिमयोः प्रयत्नात् स्वयं तु यात्राभिमुखो नियम्य॥

मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यामानोऽप्य् अनुलोमयायी।

अकार्यभीतोऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगो विधत्ते॥

आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिहेषितश् च।

वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं योऽश्वः स भर्तुर् अचिरात् प्रतनोति लक्ष्मीम्॥E२१