महाभाष्यम्/षष्ठोऽध्यायः/तृतीयः पादः
<M.5.212>
-6-3-1- अलुगुत्तरपदे (2860)
(अलुगधिकरणम्)
(अधिकारमर्यादानिर्णयभाष्यम्)
आ कुतोऽयमधिकारः ?
अलुगधिकारः प्रागानङः ।
उत्तरपदाधिकारः प्रागङ्गाधिकारात् ।।
(अधिकारप्रयोजनजिज्ञासाभाष्यम्)
कानि पुनरुत्तरपदाधिकारस्य प्रयोजनानि ?
(6383 अधिकारप्रयोजनवार्तिकम् ।। 1 ।।)
- उत्तरपदाधिकारस्य प्रयोजनं स्तोकादिभ्योऽलुगानङिकोह्रस्वनलोपाः -
पञ्चम्याः स्तोकादिभ्यः (6-3-2) स्तोकान्मुक्तः, अल्पान्मुक्तः, कतिपयान्मुक्तः ।
उत्तरपद इति किमर्थम् ?
निष्क्रान्तः स्तोकात् --- निः स्तोकः ।।
आनङिकोह्रस्वनलोपाः प्रयोजनम् ।
आनङ् --- होतापोतारौ ।
उत्तरपद इति किमर्थम् ?
होतापोतृभ्याम् ।।
इको ह्रस्वोऽङ्यो गालवस्य (61) प्रयोजनम् । ग्रामणिकुलम्, सेनानिकुलम् ।
उत्तरपद इति किमर्थम् ?
ग्रामणीः, सेनानीः ।
उत्तरपद इति किमर्थम् ?
परमन ।
नैषोऽस्ति प्रयोगः ।
इदं तर्हि --- नतरां गमनम् ।।
<M.5.213>
(6384 उपसंख्यानवार्तिकम् ।। 2 ।।)
- एकवच्च -
एकवच्चालुग्भवतीति वक्तव्यम् ।
किं प्रयोजनम् ?
स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इति विगृह्य स्तोकान्मुक्त इत्येव यथा स्यात् ।।
(6385 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।)
- एकवद्वचनमनर्थकम् -
एकवद्भावश्चानर्थकः ।।
द्विबह्वोरलुक्कस्मान्न भवति ?
(6386 अनिष्टनिरासवार्तिकम् ।। 4 ।।)
- द्विबहुष्वसमासः -
द्विवचनबहुवचनान्तानामसमासः ।
किं वक्तव्यमेतत् ?
न हि ।
कथमनुच्यमानं गंस्यते ?
(6387 अनिष्टनिराससाधकवार्तिकम् ।। 5 ।।)
- उक्तं वा -
किमुक्तम् ?
अनभिधानादिति ।।
तच्चावश्यमनभिधानमाश्रयितव्यम् ।।
(6388 अनभिधानप्रयोजनवार्तिकम् ।। 6 ।।)
- एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः -
एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः स्यात् । गोषुचरः ।।
<M.5.214>
(6389 अनभिधानप्रयोजनवार्तिकम् ।। 7 ।।)
- वर्षाभ्यश्च जे -
वर्षाभ्यश्च जेऽतिप्रसङ्गो भवति । वर्षासुजः ।।
(6390 अनभिधाने दोषवार्तिकम् ।। 8 ।।)
- अपो योनियन्मतिषु चोपसंख्यानम् -
अपो योनियन्मतिषु चोपसंख्यानं कर्तव्यम्, जे चरे च तत्रातिप्रसङ्गो भवति ।
योनि --- अप्सुयोनिः । योनि ।।
यत् --- अप्सव्यम् । यत् ।।
मति --- अप्सुमतिः । मति ।।
जे --- अप्सुजः । जे ।।
चरे --- अप्सु चरो गह्वरेष्ठाः ।।
-6-3-2- पञ्चम्याः स्तोकादिभ्यः (2861)
(6391 उपसंख्यानवार्तिकम् ।। 1 ।।)
- पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानम् -
पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानं कर्तव्यम् । ब्राह्मणाच्छंसी ।।
(6392 पञ्चम्यर्थकथनवार्तिकम् ।। 2 ।।)
- अन्यार्थे च -
अन्यार्थे चैषा पञ्चमी द्रष्टव्या । ब्राह्मणानि शंसतीति ब्राह्मणाच्छंसी ।।
अथवा युक्त एवात्र पञ्चम्यर्थः । ब्राह्मणेभ्यो गृहीत्वा --- आहृत्याहृत्य शंसतीति ब्राह्मणाच्छंसी ।।
-6-3-3- ओजः सहोऽम्भस्तमसस्तृतीयायाः (2862)
(6393 उपसंख्यानवार्तिकम् ।। 1 ।।)
- तृतीयाया अञ्जस उपसंख्यानम् -
तृतीयाया अञ्जस उपसंख्यानं कर्तव्यम् । अञ्जसाकृतम् ।।
<M.5.215>
(6394 उपसंख्यानवार्तिकम् ।। 2 ।।)
- पुंसानुजो जनुषान्धो विकृताक्ष इति च -
पुंसानुजो जनुषान्धो विकृताक्ष इति चोपसंख्यानं कर्तव्यम् । पुंसानुजः, जनुषान्धः, विकृताक्षः ।।
-6-3-5- आज्ञायिनि च (2864)
(6395 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आत्मनश्च पूरणे -
आत्मनश्च पूरण उपसंख्यानं कर्तव्यम् । आत्मनापञ्चमः, आत्मनादशमः ।।
(6396 उपसंख्यानवार्तिकम् ।। 2 ।।)
- अन्यार्थे च -
अन्यार्थे चैषा तृतीया द्रष्टव्या । आत्मा पञ्चमोऽस्य आत्मनापञ्चमः, आत्मनादशमः ।।
अथवा युक्त एवात्र तृतीयार्थः । आत्मना कृतं तस्य तत् येनासौ पञ्चमः ।
कथं --- जनार्दनस्त्वात्मचतुर्थ एव --- इति ? ।
बहुव्रीहिरयम् । आत्मा चतुर्थोऽस्येति ।।
-6-3-7- वैयाकरणाख्यायां चतुर्थ्याः (2866)
(6397 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आत्मनेभाषपरस्मैभाषयोरुपसंख्यानम् -
आत्मनेभाषपरस्मैभाषयोरुपसंख्यानं कर्तव्यम् । आत्मनेभाषः, परस्मैभाषः ।।
(उपसंख्यानप्रयोजनभाष्यम्)
तत्कथं कर्तव्यम् ?
यदि व्याकरणे भवा --- वैयाकरणी, वैयाकरणी आख्या --- वैयाकरणाख्या, वैयाकरणाख्यायामिति ।।
अथ हि वैयाकरणानामाख्या --- वैयाकरणाख्या, वैयाकरणाख्यायामिति, नार्थ उपसंख्यानेन ।।
(उपसंख्यानस्य निष्प्रयोजनत्वबोधकभाष्यम्)
यद्यपि व्याकरणे भवा --- वैयाकरणी, वैयाकरणी आख्या --- वैयाकरणाख्या, वैयाकरणाख्यायामिति, एवमपि नार्थ उपसंख्यानेन ।
वचनाद्भविष्यति ।
अस्ति वचने प्रयोजनम्-
आत्मनेपदम्, परस्मैपदमिति ।
निपातनादेतत् सिद्धम् ।
किं निपातनम् ?
अनुदात्तङित आत्मनेपदम् शेषात्कर्तरि परस्मैपदम् (1-3-12;78) इति ।।
-6-3-8- परस्य च (2867)
(6397 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आत्मनेभाषपरस्मैभाषयोरुपसंख्यानम् -
आत्मनेभाषपरस्मैभाषयोरुपसंख्यानं कर्तव्यम् । आत्मनेभाषः, परस्मैभाषः ।।
(उपसंख्यानप्रयोजनभाष्यम्)
तत्कथं कर्तव्यम् ?
यदि व्याकरणे भवा --- वैयाकरणी, वैयाकरणी आख्या --- वैयाकरणाख्या, वैयाकरणाख्यायामिति ।।
अथ हि वैयाकरणानामाख्या --- वैयाकरणाख्या, वैयाकरणाख्यायामिति, नार्थ उपसंख्यानेन ।।
(उपसंख्यानस्य निष्प्रयोजनत्वबोधकभाष्यम्)
यद्यपि व्याकरणे भवा --- वैयाकरणी, वैयाकरणी आख्या --- वैयाकरणाख्या, वैयाकरणाख्यायामिति, एवमपि नार्थ उपसंख्यानेन ।
<M.5.216>
वचनाद्भविष्यति ।
अस्ति वचने प्रयोजनम्-
आत्मनेपदम्, परस्मैपदमिति ।
निपातनादेतत् सिद्धम् ।
किं निपातनम् ?
अनुदात्तङित आत्मनेपदम् शेषात्कर्तरि परस्मैपदम् (1-3-12;78) इति ।।
-6-3-9- हलदन्तात्सप्तम्याः संज्ञायाम् (2868)
(6398 उपसंख्यानवार्तिकम् ।। 1 ।।)
- हृद्युभ्यां ङेरुपसंख्यानम् -
हृद्युभ्यां ङेरुपसंख्यानं कर्तव्यम् । हृदिस्पृक्, दिविस्पृक् ।।
(6399 उपसंख्यानवार्तिकम् ।। 2 ।।)
- अन्यार्थे च -
अन्यार्थे चैषा सप्तमी द्रष्टव्या --- हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् ।।
(6400 एकदेशिन उपसंख्यानवार्तिकम् ।। 3 ।।)
- हलदन्ताधिकारे गोरुपसंख्यानम् -
हलदन्ताधिकारे गोरुपसंख्यानं कर्तव्यम् । गविष्ठिरः ।।
न कर्तव्यम् ।
लुकोऽवादेशो विप्रतिषेधेन । लुक्क्रियतामवादेश इति --- अवादेशो भविष्यति विप्रतिषेधेन ।
अवादेशे कृते हलदन्तादित्येव सिद्धम् ।।
(6401 विप्रतिषेधाक्षेपवार्तिकम् ।। 4 ।।)
- लुकोऽवादेशो विप्रतिषेधेनेति चेत् भूमिपाशेऽतिप्रसङ्गः -
लुकोऽवादेशो विप्रतिषेधेनेति चेत् भूमिपाशेऽतिप्रसङ्गो भवति । भूम्यां पाशो भूमिपाशः ।।
<M.5.217>
(6402 समाधानवार्तिकम् ।। 5 ।।)
- अकोऽत इति वा तत्सन्ध्यक्षरार्थम् -
एवं तर्हि अविशेषेण सप्तम्या अलुकमुक्त्वा अकोऽतः इति वक्ष्यामि, तन्नियमार्थं भविष्यति --- अकोऽत एव
भवति नान्यत इति ।
तत्सन्ध्यक्षरार्थम्, तेन सन्ध्यक्षराणां सिद्धं भवति ।
सिध्यति । सूत्रं तर्हि भिद्यते ।
(सिद्धान्तभाष्यम्)
यथान्यासमेवास्तु ।
ननु चोक्तं हलदन्ताधिकारे गोरुपसंख्यानमिति ।
नैष दोषः ।
निपातनात्सिद्धम् ।
किं निपातनम् ?
गविष्ठिरशब्दो बिदादिषु पठ्यते । असकृत्खल्वपि निपातनं क्रियते --- गवियुधिभ्यां स्थिरः (8-3-95) इति ।।
-6-3-10- कारनाम्नि च प्राचां हलादौ (2869)
(वार्तिकावतरणभाष्यम्)
किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ? ।
कथं च प्राप्ते, कथं चाप्राप्ते ?
यदि संज्ञायामिति वर्तते ततः --- प्राप्ते । अथ निवृत्तं ततः --- अप्राप्ते ।
कश्चात्र विशेषः ?
(6403 प्राप्तविभाषायां दोषवार्तिकम् ।। 1 ।।)
- कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्गः -
कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्गो भवति ।
इहापि प्राप्नोति --- अविकटे उरणो दातव्यः --- अविकटोरणः ।।
अस्तु तर्ह्यप्राप्ते ।
<M.5.218>
(6404 अप्राप्तविभाषायां दोषवार्तिकम् ।। 2 ।।)
- अप्राप्ते समासविधानम् -
यद्यप्राप्ते समासो विधेयः । प्राप्ते पुनः सति संज्ञायाम् (2-1-44) इत्येव समासः सिद्धः ।।
(अप्राप्तविभाषादोषानिवारकभाष्यम्)
नैष दोषः । एतदेव ज्ञापयति --- भवत्यत्र समास इति, यदयं कारनाम्नि सप्तम्या अलुकं शास्ति ।।
यद्यपि तावत् --- ज्ञापकात्समासः स्यात्, स्वरस्तु न सिध्यति ।
यद्धि तत्सप्तमीपूर्वपदं प्रकृतिस्वरं भवतीति, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं तत् ।
नैवात्रानेन स्वरेण भवितव्यम् ।
किन्तर्हि ?
सप्तमीहारिणौ र्धम्येऽहरणे (6-2-65) इत्यनेनात्र स्वरेण भवितव्यम् ।।
किं च भोः संज्ञा अपि लोके क्रियन्ते, न लोकः संज्ञासु प्रमाणम् । लोके च कारनाम संज्ञा ।।
(वार्तिकावतरणभाष्यम्)
ननु चोक्तं कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्ग इति ।
नैष दोषः ।।
(6405 प्राप्तविभाषादोषनिवारकवार्तिकम् ।। 3 ।।)
- योगविभागात्सिद्धम् -
योगविभागः करिष्यते --- कारनाम्नि च प्राचाम् । ततः--हलादौ । हलादौ च कारनाम्नि सप्तम्या अलुक् भवति ।
इदमिदानीं किमर्थम् ?
नियमार्थम् --- हलादावेव कारनाम्नि सप्तम्या अलुक् भवति नान्यत्र ।
क्व मा भूत् ?
अविकटे उरणो दातव्यः --- अविकटोरणः ।।
<M.5.219>
-6-3-11- मध्याद्गुरौ (2870)
(6406 उपसंख्यानवार्तिकम् ।। 1 ।।)
गुरावन्ताच्चेति वक्तव्यम् । अन्तेगुरुः ।।
-6-3-13- बन्धे च विभाषा (2872)
(विषयनिर्धारणे पूर्वपक्षिभाष्यम्)
स्वाङ्गग्रहणमनुवर्तते, उताहो न ।
किं चातः ?
यद्यनुवर्तते, सिद्धम् --- हस्तेबन्धः, हस्तबन्धः ।
चक्रेबन्धः, चक्रबन्ध इति न सिध्यति ।
अथ निवृत्तम्, सिद्धम् --- चक्रेबन्धः, चक्रबन्धः ।
हस्ते बन्धः, हस्तबन्ध इति न सिध्यति ।
किं कारणम् ?
नेन्सिद्धबध्नातिषु च (6-3-39) इति प्रतिषेधः प्राप्नोति ।।
(विषयनिर्धारणे सिद्धान्तभाष्यम्)
नैष दोषः ।
सर्वत्रैवोत्तरपदाधिकारे तत्पुरुषे कृति बहुलम् (14) इति प्राप्ते नेन्सिद्धबध्नातिषु इति प्रतिषेध उच्यते, तस्मिन्नित्ये प्राप्ते इयं विभाषा आरभ्यते ।।
एवमपि न ज्ञायते --- कस्मिन् विषये विभाषा कस्मिन् विषये प्रतिषेध इति ।
घञ्ञन्तस्येदं बन्धशब्दस्य ग्रहणम्, प्रतिषेधेषु च धातुग्रहणम् । तेन घञ्ञन्ते विभाषा, अन्यत्र प्रतिषेधः ।।
-6-3-14- तत्पुरुषे कृति बहुलम् (2873)
(6407 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- तत्पुरुषे कृति बहुलमकर्मधारये -
तत्पुरुषे कृति बहुलमित्यत्राकर्मधारय इति वक्तव्यम् ।
इह मा भूत् --- परमे कारके --- परमकारक इति ।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् । बहुलवचनान्न भविष्यति ।।
<M.5.220>
(वार्तिकावतरणभाष्यम्)
अथ किमर्थं लुगलुगनुक्रमणं क्रियते, न तत्पुरुषे कृति बहुलम् इत्येव सिद्धम् ।।
(6408 अनुक्रमणप्रयोजनवार्तिकम् ।। 2 ।।)
- लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नत्वात् -
लुगलुगनुक्रमणं क्रियते, अकृत्स्नं बहुलवचनमिति ।।
यद्यकृत्स्नं बहुलवचनम्, यदनेन कृतमकृतं तत् ।
एवं तर्हि न ब्रूमः --- अकृत्स्नमिति, कृत्स्नं च --- कारकं च, साधकं च, निर्वर्तकं च, यदनेन कृतं सुकृतं तत् ।
किमर्थं तर्हि लुगलुगनुक्रमणं क्रियते ?
उदारणभूयस्त्वात् ।
ते वै खल्वपि विधयः सुपरिगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च । केवलं लक्षणं केवलः प्रपञ्ञ्चो वा न तथा कारकं भवति ।।
अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम् --- बहुलम्, अन्यतरस्याम्, उभयथा, एकेषामिति । सर्ववेदपारिषदं हीदं शास्त्रम्, तत्र नैकः पन्थाः शक्य आस्थातुम् ।।
<M.5.221>
-6-3-21- षष्ठ्या आक्रोशे (2880)
(6409 उपसंख्यानवार्तिकम् ।। 1 ।।)
- षष्ठीप्रकरणे वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानम् -
षष्ठीप्रकरणे वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानं कर्तव्यम् । वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः ।।
(6410 उपसंख्यानवार्तिकम् ।। 2 ।।)
- आमुष्यायणामुष्यपुत्रिका -
आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानं कर्तव्यम् । आमुष्यायणः, अमुष्यपुत्रिका ।।
अमुष्यकुलिकेति च वक्तव्यम् । अमुष्यकुलिका ।।
(6411 उपसंख्यानवार्तिकम् ।। 3 ।।)
- देवानांप्रिय इति च -
देवानां प्रिय इति चोपसंख्यानं कर्तव्यम् । देवानांप्रियः ।।
(6412 उपसंख्यानवार्तिकम् ।। 4 ।।)
- शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामुपसंख्यानम् -
शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामुपसंख्यानं कर्तव्यम् । शुनः शेपः, शुनः पुच्छः, शुनोलाङ्गूलः ।।
(6413 उपसंख्यानवार्तिकम् ।। 5 ।।)
- दिवश्च दासे -
दिवश्च दासे उपसंख्यानं कर्तव्यम् । दिवोदासाय गायत ।।
-6-3-23- ऋतो विद्यायोनिसंबन्धेभ्यः (2882)
(6414 उपसंख्यानवार्तिकम् ।। 1 ।।)
- विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् -
विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यम् । विद्यासंबन्धेभ्यो विद्यासंबन्धेषु यथा स्यात् । योनिसंबन्धेभ्यो योनिसंबन्धेषु यथा स्यात् ।
व्यतिकरो मा भूत् ।।
अथैषां व्यतिरेकेण भवितव्यम् ?
बाढं भवितव्यम् । होतुःपुत्रः, पितुरन्तेवासी ।।
-6-3-25- आनङ् ऋतो द्वन्द्वे (2884)
(आनङोऽधिकरणम्)
(नकारप्रयोजनभाष्यम्)
क्वायं नकारः श्रूयते ?
न क्वचिच्छ्रूयते, लोपोऽस्य भवति नलोपः प्रातिपदिकान्तस्य (8-2-7) इति ।
यदि न क्वचिच्छ्रूयते, किमर्थमुच्चार्यते ?
रपरत्वं मा भूदिति ।।
क्रियमाणेऽपि वै नकारे रपरत्वं प्राप्नोति ।
किं कारणम् ?
नलोपे कृते एषोऽपि हि उः स्थाने अण् शिष्यते ।
नैष दोषः ।
उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते, न चायमुः स्थाने अणेव शिष्यते ।
किं तर्हि ?
अण् चानण् च ।।
<M.5.222>
(वार्तिकावतरणभाष्यम्)
कथं पुनरिदं विज्ञायते --- किमृकारान्तानां यो द्वन्द्व इति, आहोस्वित् द्वन्द्वे ऋकारान्तस्येति ?
कश्चात्र विशेषः ?
(6415 पूर्वस्मिन् पक्षे उपसंख्यानवार्तिकम् ।। 1 ।।)
- ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् -
ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानं कर्तव्यम् । पितापुत्रौ ।।
(6416 पूर्वस्मिन् पक्षे दोषवार्तिकम् ।। 2 ।।)
- कार्यी चानिर्दिष्टः -
कार्यी चानिर्दिष्टो भवति । ऋकारान्तानां द्वन्द्वे न ज्ञायते--कस्यानङा भवितव्यमिति ।।
(द्वितीयपक्षोपस्थापकभाष्यम्)
अस्तु तर्हि द्वन्द्वे ऋकारान्तस्येति ।।
(6417 द्वितीयपक्षे दोषवार्तिकम् ।। 3 ।।)
- अविशेषेण पितृपितामहादिष्वतिप्रसङ्गः -
अविशेषेण पितृपितामहादिष्वतिप्रसङ्गो भवति । पितृपितामहाविति ।।
(प्रथमपक्षे दोषोद्धारभाष्यम्)
अस्तु तर्हि ऋकारान्तानां यो द्वन्द्व इति ।
ननु चोक्तम् ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् इति ।
नैष दोषः ।
पुत्रग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
पुत्रेऽन्यतरस्याम् (22) इति ।
यदि तदनुवर्तते, विभाषा स्वसृपत्योः (24) पुत्रे च --- इति पुत्रेऽपि विभाषा प्राप्नोति ।
नैष दोषः ।
सम्बन्धमनुवर्तिष्यते । षष्ठ्या आक्रोशे (21) । पुत्रेऽन्यतरस्याम् (22), षष्ठ्या आक्रोशे ।। ऋतो विद्यायोनिसम्बन्धेभ्यः (23), पुत्रेऽन्यतरस्याम्, षष्ठ्या आक्रोशे ।। विभाषा स्वसृपत्योः (24), पुत्रेऽन्यतरस्याम्, षष्ठ्या आक्रोशे ।। आनङ् ऋतो द्वन्द्वे । पुत्रग्रहणमनुवर्तते, षष्ठ्या आक्रोश इति निवृत्तम्
।।
(द्वितीयदोषनिवारकभाष्यम्)
यदप्युच्यते --- कार्यी चानिर्दिष्टः इति, कार्यी च निर्दिष्टः ।
कथम् ?
उत्तरपद इति वर्तते । ङिच्चायं क्रियते । सोऽन्तरेणापि कार्यिनिर्देशमृकारान्तस्यैव भविष्यति ।।
पुत्रे तर्हि कार्यी अनिर्दिष्टः ।
पुत्रे च कार्यी निर्दिष्टः ।
कथम् ?
ऋकारग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
ऋतो विद्यायोनिसम्बन्धेभ्यः इति ।
तद्वै पञ्चमीनिर्दिष्टं, षष्ठीनिर्दिष्टेन चेहार्थः ।
पुत्र इत्येषा सप्तमी ऋत इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति --- तस्मिन्निति निर्दिष्टे पूर्वस्य इति ।।
-6-3-26- देवताद्वन्द्वे च (2885)
(6418 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- देवताद्वन्द्व उभयत्र वायोः प्रतिषेधः -
देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधो वक्तव्यः । अग्निवायू, वाय्वग्नी ।।
<M.5.223>
(6419 प्रतिषेधोपसंख्यानवार्तिकम् ।। 2 ।।)
- ब्रह्मप्रजापत्यादीनां च -
ब्रह्मप्रजापत्यादीनां च प्रतिषेधो वक्तव्यः । ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
स तर्हि वक्तव्यः ।
न वक्तव्यः । द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणस्यैतत्प्रयोजनम् --- लोकवेदयोर्यो द्वन्द्वस्तत्र यथा स्यात् ।
कश्च लोकवेदयोर्द्वन्द्वः ?
वेदे ये सहनिर्वापनिर्दिष्टाः । न चैते वेदे सह निर्वापनिर्दिष्टाः ।।
-6-3-28- इद्वृद्धौ (2887)
(6420 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- इद्वृद्धौ विष्णोः प्रतिषेधः -
इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः । आग्नावैष्णवं चरुं निर्वपेत् ।।
-6-3-32- मातरपितरावुदीचाम् (2891)
(निपातनबोधकभाष्यम्)
किं निपात्यते ?
पूर्वोत्तरपदयोर्ऋकारस्यारारौ निपात्येते । मातरपितरौ भोजय, मातरपितरावानय, आ मा गन्तां पितरामातरा चा मा सोमो अमृतत्वाय गम्यात् ।।
इति श्रीभगवत्पतञ्जलिप्रणीते महाभाष्ये षष्ठाध्यायस्य तृतीये पादे प्रथममाह्निकम् ।।
-6-3-33- पितरामातरा च च्छन्दसि (2892)
(निपातनबोधकभाष्यम्)
किं निपात्यते ?
पूर्वोत्तरपदयोर्ऋकारस्यारारौ निपात्येते । मातरपितरौ भोजय, मातरपितरावानय, आ मा गन्तां पितरामातरा चा मा सोमो अमृतत्वाय गम्यात् ।।
इति श्रीभगवत्पतञ्जलिप्रणीते महाभाष्ये षष्ठाध्यायस्य तृतीये पादे प्रथममाह्निकम् ।।
<M.5.224>
-6-3-34- स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु (2893)
(पुंवद्भावाधिकरणम्)
(भाषितपुंस्कपदार्थे पक्षद्वयोपस्थापकभाष्यम्)
भाषितपुंस्कादिति कथमिदं विज्ञायते--समानायामाकृतौ यद्भाषितपुंस्कम्, आहोस्वित् क्वचिद्यद्भाषितपुंस्कमिति ?
किं चातः ?
(प्रथमपक्षे दोषभाष्यम्)
यदि विज्ञायते--समानायामाकृतौ यद्भाषितपुंस्कमिति, गर्भिभार्यः --- प्रसूतभार्यः --- प्रजातभार्यः --- अत्र न प्राप्नोति ।।
(द्वितीयपक्षे दोषभाष्यम्)
अथ विज्ञायते--क्वचिद्यद्भाषितपुंस्कमिति, द्रोणीभार्यः --- कुटीभार्यः --- पात्रीभार्यः--अत्रापि प्राप्नोति ।।
(सिद्धान्तपक्षोपस्थापकभाष्यम्)
अस्तु तर्हि समानायामाकृतौ यद्भाषितपुंस्कमिति ।
कथं तर्हि गर्भिभार्यः--प्रजातभार्यः --- प्रसूतभार्य इति ?
कर्तव्योऽत्र यत्नः ।।
<M.5.225>
(ऊङो निषेधप्रकरणे पाठोपस्थापकभाष्यम्)
अथ किमर्थमूङः पृथक् प्रतिषेध उच्यते न यत्रैवान्यः प्रतिषेधस्तत्रैवायमप्युच्येत --- न कोपधायाः (37) इत्युक्त्वा ततः ऊङश्च इत्येवोच्येत । तत्रायमप्यर्थः --- द्विः प्रतिषेधो न वक्तव्यो भवति ।।
(निषेधप्रकरणे पाठे दोषभाष्यम्)
नैवं शक्यम् । पठिष्यति ह्याचार्यः --- पुंवत्कर्मधारये प्रतिषेधार्थमिति । स पुंवद्भावो यथेह भवति --- कारिका वृन्दारिका--कारकवृन्दारिका, एवमिहापि स्यात् --- ब्रह्मबन्धूर्वृन्दारिका --- ब्रह्मबन्धूवृन्दारिकेति ।।
(पृथक्प्रतिषेधे दोषनिवारकभाष्यम्)
अथ पृथक्प्रतिषेधेऽप्युच्यमाने यस्मादेव स प्रतिषिद्धार्थ आरम्भः कस्मादेवात्र न भवति ?
पृथक्प्रतिषेधवचनसार्मथ्यात् ।
अथवा --- अनूङिति तत्रानुवर्तिष्यते ।।
अथवा --- नायं प्रसज्यप्रतिषेधः ।
किं तर्हि ?
पर्युदासोऽयं यदन्यदूङ इति । स च प्रतिषेधार्थ आरम्भः ।।
(स्त्रीग्रहणे पक्षत्रयोपस्थापकभाष्यम्)
किं पुनरिदम्पुंवद्भावे स्त्रीग्रहणं --- स्त्रीप्रत्ययग्रहणम्, उत स्त्रीशब्दस्य ग्रहणम्, आहोस्वित् स्त्र्यर्थस्य ग्रहणम् ।
कश्चात्र विशेषः ?
<M.5.226>
(6421 प्रथमपक्षे दोषवार्तिकम् ।। 1 ।।)
- पुंवद्भावे स्त्रीग्रहणं स्त्रीप्रत्ययग्रहणं चेत् तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधविज्ञानम् -
पुंवद्भावे स्त्रीग्रहणं स्त्रीप्रत्ययग्रहणं चेत् तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधोऽयं विज्ञायेत ।
कस्य ?
स्त्रीप्रत्ययस्य ।।
(प्रथमपक्षदोषसंभवाक्षेपभाष्यम्)
किमुच्यते स्त्रीप्रत्ययस्य प्रतिषेध इति, न पुनरन्यदपि किंचित् पुंसः प्रतिपदं कार्यमुच्यते
यत्समानाधिकरण उत्तरपदे भाषितपुंस्कस्यातिदिश्येत ?
(समाधानभाष्यम्)
अनारम्भात् पुंसि । न किंचित् पुंसः प्रतिपदं कार्यमुच्यते यत्समानाधिकरणे उत्तरपदे भाषितपुंस्कस्यातिदिश्येत । तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः स्त्रीप्रत्ययप्रतिषेधात् ।।
(दोषोपपादकभाष्यम्)
कथं पुनः पुंवत् इत्यनेन स्त्रीप्रत्ययस्य प्रतिषेधः शक्यो विज्ञातुम् ?
वतिनिर्देशोऽयम् । कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम् ।
तद्यथा --- उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति । मातृवदस्याः कलाः सन्ति, न सन्तीति ।
एवमिहापि पुंवन्न भवति इत्येवं वाक्यशेषं समर्थयिष्यामहे ।
यथा पुंसः स्त्रीप्रत्ययो न भवति, एवं समानाधिकरणे उत्तरपदे भाषितपुंस्कस्यापि न भवतीति ।।
(6422 प्रथमपक्षस्वीकारे दोषवार्तिकम् ।। 2 ।।)
- प्रातिपदिकस्य च प्रत्यापत्तिः -
प्रातिपदिकस्य च प्रत्यापत्तिर्वक्तव्या । एनी भार्या अस्य --- एतभार्यः, श्येनी भार्या अस्यश्येतभार्यः ।।
पुंवद्भावेन किं क्रियते ?
स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः --- स्त्रीत्वम्, तस्यानिवृत्तत्वात् केन नशब्दो न श्रूयेत ?
स्त्रियामित्युच्यमानः प्राप्नोति ।।
(6423 प्रथमपक्षस्वीकारे दोषवार्तिकम् ।। 3 ।।)
- स्थानिवत्प्रसङ्गश्च -
स्थानिवद्भावश्च प्राप्नोति । पट्वी भार्या अस्य --- पटुभार्यः ।
पुंवद्भावेन किं क्रियते ?
स्त्रीप्रत्ययस्य निवृत्तिः । तस्य स्थानिवद्भावाद्यणादेशः प्राप्नोति ।।
<M.5.227>
(दोषद्वयोपसंख्यानतात्पर्यभाष्यम्)
किमर्थमिदमुभयमुच्यते, न प्रातिपदिकस्य प्रत्यापत्तिरित्येव स्थानिवद्भावोऽपि चोदितः स्यात् ?
पुरस्तादिदमाचार्येण दृष्टम् --- स्थानिवत्प्रसङ्गश्चेति, तत्पठितम् । तत उत्तरकालमिदं दृष्टम् --- प्रातिपदिकस्य प्रत्यापत्तिरिति, तदपि पठितम् ।
न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।।
(6424 दोषोपसंख्यानवार्तिकम् ।। 4 ।।)
- वतण्ड्यादिषु पुंवद्वचनम् -
वतण्ड्यादिषु पुंवद्भावो वक्तव्यः ।
के पुनर्वतण्ड्यादयः ?
लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययाः ।
लुक् --- गार्ग्यो वृन्दारिकाः --- गर्गवृन्दारिकाः ।
पुंवद्भावेन किं क्रियते ?
स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः स्त्रीत्वम्, तस्यानिवृत्तत्वात् केन यशब्दो न श्रूयेत । अस्त्रियामिति हि लुगुच्यते । लुक् ।।
अलुक् --- वतण्डी वृन्दारिका --- वातण्ड्यवृन्दारिका ।
पुंवद्भावेन किं क्रियते ?
स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः स्त्रीत्वम्, तस्यानिवृत्तत्वात् लुक् स्त्रियां वतण्डाच्च इति यकारस्य लुक् प्राप्नोति ।
(एतद्दोषनिवारकभाष्यम्)
यदि पुनरयमीकार एव लुगुच्येत ।
तदीकारग्रहणं कर्तव्यम् ।
न कर्तव्यम् ।
क्रियते न्यास एव । प्रश्लिष्टनिर्देशोऽयम् --- स्त्री इर् स्त्री, स्त्रियामिति ।। इर्कारविधावप्रत्ययकस्य पाठः क्रियते --- वतण्डेति । शार्ङ्गरवादौ वै सप्रत्ययकस्य पाठः करिष्यते ।
स वै तत्र सप्रत्ययकस्य पाठः कर्तव्यः । अन्तरङ्गत्वाच्च लुक् प्राप्नोति । अलुक् ।।
अस्त्रीविषय --- कौण्डीवृसी वृन्दारिका --- कौण्डीवृस्यवृन्दारिका ।
पुंवद्भावेन किं क्रियते ?
स्त्रीप्रत्ययस्य निवृत्तिः ।
अर्थोऽनिवृत्तः स्त्रीत्वम्, तस्यानिवृत्तत्वात् केन यशब्दः श्रूयेत ?
अस्त्रियामिति हि ञ्ञ्यो विधीयते । अस्त्रीविषय ।।
द्विस्त्रीप्रत्यय --- गार्ग्यायणी वृन्दारिका --- गार्ग्यवृन्दारिका ।
अत्र पुंवद्भावो न प्राप्नोति ।
किं कारणम् ?
भाषितपुंस्कादनूङः समानाधिकरणे उत्तरपदे पुंवद्भावो भवतीत्युच्यते । यच्चात्र भाषितपुंस्कात् परं नैतदुत्तरपदे, यच्चोत्तरपदे, न तद्भाषितपुंस्कात् परमिति ।।
<M.5.228>
(द्वितीयपक्षोपस्थापकभाष्यम्)
अस्तु तर्हि स्त्रीशब्दग्रहणम् ।।
(6425 द्वितीयपक्षे दोषवार्तिकम् ।। 5 ।।)
- स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत् सर्वप्रसङ्गोऽविशेषात् -
स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत् सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति । अस्यापि प्राप्नोति --- अङ्गारका नाम शकुनयः, तेषां कालिकाः स्त्रियः । कालिका वृन्दारिकाः --- अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ।
क्षेमवृद्धयः क्षत्रियाः, तेषां तनुकेश्यः स्त्रियः । तनुकेश्यो वृन्दारिकाः --- क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ।
हंसस्य वरटा । कच्छपस्य दुली । ऋश्यस्य रोहित् । अश्वस्य वडवा । पुरुषस्य योषित् ।
किं कारणम् ?
अविशेषात् । न हि कश्चित् विशेष उपादीयते एवं जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशो भवतीति ।
अनुपादीयमाने हि विशेषे सर्वप्रसङ्गः ।।
(द्वितीयदोषोद्भावकवार्तिकावतरणभाष्यम्)
कथं च नाम नोपादीयते यावता भाषितपुंस्कादित्युच्यते ? ।।
(6426 द्वितीयपक्षे दोषवार्तिकम् ।। 6 ।।)
- भाषितपुंस्कानुपपत्तिश्च -
ह्यर्थे चायं चः पठितः ।
सर्वो हि शब्दो भाषितपुंस्कात्परः शक्यः कर्तुम् ।।
<M.5.229>
(तृतीयपक्षोद्भावकं भाष्यम्)
अस्तु तर्हि अर्थग्रहणम्।
(6427 तृतीयपक्षे दोषवार्तिकम् ।। 7 ।।)
- अर्थातिदेशे विप्रतिषेधानुपपत्तिः -
अर्थातिदेशे विप्रतिषेधो नोपपद्यते । पठिष्यति ह्याचार्यो विप्रतिषेधं --- पुंवद्भावाद्ह्रस्वत्वं खिद्धादिकेषु
इति स विप्रतिषेधो नोपपद्यते ।
किं कारणम् ?
द्विकार्ययोगो हि नाम विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः, शब्दस्य ह्रस्वत्वम् --- अर्थस्य पुंवद्भावः ।।
(तृतीयपक्षे द्वितीयोक्तदोषप्राप्तिबोधकभाष्यम्)
किं च --- सर्वप्रसङ्गोऽविशेषादिति । सर्वस्य स्त्र्यर्थस्य पुंवदर्थः प्राप्नोति ।
अस्यापि प्राप्नोति --- अङ्गारका नाम शकुनयः, तेषां कलिकाः स्त्रियः । कालिका वृन्दारिकाः --- अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ।।
क्षेमवृद्धयः क्षत्रियाः । तेषां तनुकेश्यः स्त्रियः । तनुकेश्यो वृन्दारिकाः --- क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ।।
हंसस्य वरटा । कच्छपस्य दुली । ऋश्यस्य रोहित् । अश्वस्य वडवा । पुरुषस्य योषित् ।
किं कारणम् ?
अविशेषात् । न हि कश्चित् विशेष उपादीयते एवं जातीयकस्य स्त्र्यर्थस्य पुंवदर्थो भवतीति । अनुपादीयमाने हि विशेषे सर्वप्रसङ्गः ।
कथं नाम नोपादीयते यावता भाषितपुंस्कादित्युच्यते ?
भाषितपुंस्कानुपपत्तिश्च भवति । न ह्यर्थेन पौर्वापर्यमस्ति ।।
(विप्रतिषेधानुपपत्तिरूपप्रथमदोषनिवारकमेकदेशिभाष्यम्)
अयं तावददोषः --- यदुच्यते अर्थातिदेशे विप्रतिषेधानुपपत्तिः इति ।
नावश्यं द्विकार्ययोग एव विप्रतिषेधः ।
किं तर्हि ?
असंभवोऽपि । स चात्रास्त्यसंभवः ।
कोसावसम्भवः ?
पुंवद्भावोऽभिनिर्वर्तमानो ह्रस्वत्वस्य निमित्तं विहन्ति, ह्रस्वत्वमभिनिर्वर्तमानं पुंवद्भावं बाधते ---
एषोऽसंभवः । सत्यसंभवे युक्तो विप्रतिषेधः ।।
(एकदेशिनो द्वितीयपक्षस्थापकभाष्यम्)
अयं तर्हि दोषः --- सर्वप्रसङ्गोऽविशेषादिति ।
तस्मादस्तु स एव मध्यमः पक्षः ।
<M.5.230>
(द्वितीयपक्षे दोषवारकभाष्यम्)
ननु चोक्तम् --- स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत्सर्वप्रसङ्गोऽविशेषादिति ।
नैष दोषः ।
समासनिर्देशोऽयम्, भाषितपुंस्कादनूङ्यस्मिन् सोऽयम् --- भाषितपुंस्कादनूङिति ।
यद्येवं लुक् प्राप्नोति ।
निपातनान्न भविष्यति ।
अथवा --- अलुक् प्रकृतः सोऽनुवर्तिष्यते ।।
(प्रथमपक्षोपस्थापकभाष्यम्)
कथं पुनः अनूङ् इत्यनेन स्त्रीप्रत्ययस्य ग्रहणं शक्यं विज्ञातुम् ?
नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्ते चान्यस्मिंस्तत्सदृशे कार्यं विज्ञायते तथाह्यर्थो गम्यते ।
तद्यथा --- अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश आनीयते नासौ लोष्टमानीय कृती भवति ।
एवमिहापि अनूङ् इति ऊङ्प्रतिषेधादन्यस्मिन् ऊङ्सदृशे कार्यं विज्ञास्यते ।
किं चान्यत् अनूङ् ऊङ्सदृशम् ?
स्त्रीप्रत्ययः इति ।।
(प्रथमे प्राप्तदोषवारकभाष्यम्)
एवमपि इडबिड् वृन्दारिका --- ऐडबिडवृन्दारिका, पृथ्वृन्दारिका --- पार्थवृन्दारिका, उशिक् वृन्दारिका --- औशिजवृन्दारिका, दरद् वृन्दारिका --- दारद्वृन्दारिका --- अत्र पुंवद्भावो न प्राप्नोति ।।
कर्तव्योऽत्र यत्नः ।।
<M.5.231>
(सन्देहस्थलनिर्णयभाष्यम्)
अथेह कथं भवितव्यम् ---
पट्वीमृद्व्यौ भार्ये अस्य --- पट्वीमृदुभार्यः, आहोस्वित् पटुमृदुभार्यः ?
पट्वीमृदुभार्य इति भवितव्यम् ।
पुंवद्भावः कस्मान्न भवति ?
भाषितपुंस्कादित्युच्यते ।
ननु च भोः पटुशब्दो मृदुशब्दश्च पुंसि भाष्येते ।
समानायामाकृतौ यद्भाषितपुंस्कम्, आकृत्यन्तरे चैतौ भाषितपुंस्कौ ।
समानायामाकृतावपि भाषितपुंस्कौ ।
कथम् ?
आरभ्यतेऽत्र मतुब्लोपः ।
एवं तर्हि भाषितपुंस्कादनूङः समानाधिकरण उत्तरपदे पुंवद्भवति --- इत्युच्यते । यश्चात्र भाषितपुंस्कादनूङ् समानाधिकरण उत्तरपदे, कृतस्तस्य पुंवद्भावः । यस्य चाकृतः, नासौ भाषितपुंस्कादनूङ् समानाधिकरण उत्तरपदे ।।
(6428 उपसंख्यानवार्तिकम् ।। 8 ।।)
- पूरण्यां प्रधानपूरणीग्रहणम् -
पूरण्यां प्रधानपूरणीग्रहणं कर्तव्यम् । प्रधानं या पूरणी तत्रेति वक्तव्यम् ।
इह मा भूत् --- कल्याणी पञ्चमी अस्य पक्षस्यकल्याणपञ्चमीकः पक्ष इति ।।
अथेह कथं भवितव्यम् --- कल्याणी पञ्चमी आसां रात्रीणामिति ?
कल्याणीपञ्चमा रात्रय इति भवितव्यम् । रात्रयोऽत्र प्रधानम् ।।
-6-3-35- तसिलादिष्वा कृत्वसुचः (2894)
(परिगणनबोधकभाष्यम्)
इह केचित् तसिलादय आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावो नेष्यते । केचिच्चान्यत्र
पठ्यन्ते येषु पुंवद्भाव इष्यते ।
तत्र किं न्याय्यम् ?
परिगणनं कर्तव्यम् ।।
<M.5.232>
(6429 परिगणनवार्तिकम् ।। 1 ।।)
- तसिलादी त्रतसौ -
त्रतसौ तसिलादी द्रष्टव्यौ । तस्यां शालायां वसति-तत्र वसति । तस्याः-ततः । यस्याः--यतः ।।
(6430 परिगणनवार्तिकम् ।। 2 ।।)
- तरप्तमपौ -
तरप्तमपौ तसिलादी द्रष्टव्यौ । दर्शनीयतरा । दर्शनीयतमा ।।
(6431 परिगणनवार्तिकम् ।। 3 ।।)
- चरट्जातीयरौ -
चरट्जातीयरौ तसिलादी द्रष्टव्यौ । पटुचरी । पटुजातीया ।।
(6432 परिगणनवार्तिकम् ।। 4 ।।)
- कल्पप्देशीयरौ -
कल्पप्देशीयरौ तसिलादी द्रष्टव्यौ । दर्शनीयकल्पा । दर्शनीयदेशीया ।।
(6433 परिगणनवार्तिकम् ।। 5 ।।)
- रूपप्पाशपौ -
रूपप्पाशपौ तसिलादी द्रष्टव्यौ । दर्शनीयरूपा । दर्शनीयपाशा ।।
(6434 परिगणनवार्तिकम् ।। 6 ।।)
- थम्थालौ -
थम्थालौ तसिलादी द्रष्टव्यौ । कया आकृत्या--कथम् । यया आकृत्या--यथा ।।
(6435 परिगणनवार्तिकम् ।। 7 ।।)
- दार्हिलौ -
दार्हिलौ तसिलादी द्रष्टव्यौ । तस्यां वेलायां--तदा । तस्यां वेलायां-तर्हि ।।
(6436 परिगणनवार्तिकम् ।। 8 ।।)
- तिल्थ्यनौ -
तिल्थ्यनौ तसिलादी द्रष्टव्यौ । वृकीवृकतिः । अजथ्या यूथिः ।।
(6437 परिगणनवार्तिकम् ।। 9 ।।)
- शसि बह्वल्पार्थस्य -
बह्वल्पार्थस्य शसि पुंवद्भावो वक्तव्यः । बह्नीभ्यो देहि--बहुशो देहि । अल्पशो देहि ।।
(6438 परिगणनवार्तिकम् ।। 10 ।।)
- त्वतलोर्गुणवचनस्य -
त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः । पट्वीभावः--पटुत्वम् । मृद्वीभावः--मृदुत्वम् । पटुता । मृदुता ।
गुणवचनस्येति किमर्थम् ? कठीभावः--कठीत्वम्, कठीता ।।
(6439 परिगणनवार्तिकम् ।। 11 ।।)
- भस्याढे तद्धिते -
भस्याढे तद्धिते पुंवद्भावो वक्तव्यः । हस्तिनीनां समूहो हास्तिकम् ।।
अढ इति किमर्थम् ?
श्यैनेयः, रौहिणेयः ।।
<M.5.233>
(आक्षेपभाष्यम्)
यद्यढ इत्युच्यते, अग्नायी देवता अस्य स्थालीपाकस्य --- आग्नेयः स्थालीपाकः, अत्र न प्राप्नोति ।
इह च प्राप्नोति --- कौण्डिन्यः, सापत्न इति ।।
(प्रत्याक्षेपभाष्यम्)
यदि पुनरनपत्य इत्युच्यते ।
नैवं शक्यम् ।
इह हि न स्यात्--गार्ग्यायण्या अपत्यं माणवकः--गार्गो जाल्मः ।
(समाधानभाष्यम्)
अस्तु तर्हि अढ इत्येव ।
कथं कौण्डिन्यः सापत्न इति ?
कौण्डिन्ये निपातनात् सिद्धम् ।
किं निपातनम् ?
आगस्त्यकौण्डिन्ययोः --- इति ।
सापत्नः प्रकृत्यन्तरत्वात् ।
सपत्नशब्दः प्रकृत्यन्तरमस्ति ।
कथमग्नायी देवता अस्य स्थालीपाकस्य --- आग्नेयः स्थालीपाक इति ?
अस्तु तर्ह्यनपत्य इत्येव ।
कथं गार्गो जाल्मः ?
गार्गाग्नेयौ न संवदेते ।
कर्तव्योऽत्र यत्नः ।।
<M.5.234>
(6440 उपसंख्यानवार्तिकम् ।। 12 ।।)
- ठक्छसौश्च -
ठक्छसोश्च पुंवद्भावो वक्तव्यः । भवत्याः छात्राः --- भावत्काः, भवदीयाः ।
ठक्ग्रहणं किमर्थम्, न इके कृते अजादौ इत्येव सिद्धम् ?
नैवं शक्यम् ।
अजादिलक्षणे हि माथितिकादिवत्प्रसङ्गः अजादिलक्षणे हि माथितिकादिवत्प्रसज्येत ।
तद्यथा --- मथितं पण्यमस्य माथितिक इत्यकारलोपे कृते तान्तादिति कादेशो न भवति, एवमिहापि न
स्यात् । तसिलादि ।।
-6-3-36- क्यङ्मानिनोश्च (2895)
(पदकृत्यभाष्यम्)
मानिन्ग्रहणं किमर्थम् ?
(6441 पदप्रयोजनवार्तिकम् ।। 1 ।।)
- मानिन्ग्रहणमस्त्र्यर्थमसमानाधिकरणार्थं च -
मानिन्ग्रहणं क्रियतेऽस्त्र्यर्थमसमानाधिकरणार्थं च ।
अस्त्र्यर्थं तवात् --- दर्शनीयां मन्यते देवदत्तो यज्ञदत्तां --- दर्शनीयमानी अयमस्याः ।
असमानाधिकरणार्थम् --- दर्शनीयां मन्यते देवदत्तां यज्ञदत्ता --- दर्शनीयमानिनी इयमस्याः ।।
-6-3-37- न कोपधायाः (2896)
(निषेधविषये पक्षद्वयोपस्थापकं भाष्यम्)
किमिदमेवमाद्यनुक्रमणं--आद्यस्य योगस्य विषये, आहोस्वित् पुंवद्भावमात्रस्य ?
किं चातः ?
(प्रथमपक्षे दोषभाष्यम्)
यद्याद्यस्य योगस्य विषये, माध्यमिकीयाः --- शालूकिकीयाः --- अत्र न प्राप्नोति ।
विधिरप्यत्र न सिध्यति ।
किं कारणम् ?
भाषितपुंस्कादनूङित्युच्यते, न ह्येतद्भाषितपुंस्कादनूङ् ।
इह तर्हि विलेपिकाया र्धम्यम् --- वैलेपिकम्, विधिश्च सिद्धो भवति, प्रतिषेधश्च न प्राप्नोति ।।
<M.5.235>
(द्वितीयपक्षे दोषभाष्यम्)
अथ पुंवद्भावमात्रस्य विषये, हस्तिनीनां समूहः --- हास्तिकम् । जातिलक्षणः पुंवद्भावप्रतिषेधः प्राप्नोति ।।
(सिद्धान्तपक्षोंपपादकभाष्यम्)
एवं तर्हि न कोपधायाः इत्ययं योगः पुंवद्भावमात्रस्य विषये । तत उक्तम् --- एवमाद्यनुक्रमणमाद्यस्य योगस्य विषये ।।
(6442 उपसंख्यानवार्तिकम् ।। 1 ।।)
- कोपधप्रतिषेधे तद्धितवुग्रहणम् -
कोपधप्रतिषेधे तद्धितस्य यः ककारो वोश्च यः, तस्य ग्रहणं कर्तव्यम् ।
इह मा भूत् --- पाकभार्यः, भेकभार्यः ।।
-6-3-40- स्वाङ्गाच्चेतः (2899)
(6443 उपसंख्यानवार्तिकम् ।। 1 ।।)
- स्वाङ्गाच्चेतोऽमानिनि -
स्वाङ्गाच्चेतोऽमानिनीति वक्तव्यम् ।
इहापि यथा स्यात् --- दीर्घमुखमानी, श्लक्ष्णमुखमानी ।।
यद्यमानिनीत्युच्यते, दीर्घमुखमानिनी --- श्लक्ष्णमुखमानिनी --- इति न सिध्यति ।
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवं भविष्यति ।।
-6-3-42- पुंवत्कर्मधारयजातीयदेशीयेषु (2901)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न सामान्येन सिद्धम् ?
(6444 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- पुंवत्कर्मधारये प्रतिषिद्धार्थम् -
प्रतिषिद्धार्थोऽयमारम्भः । न कोपधायाः (37) इत्युक्तं तत्रापि पुंवद्भावो भवति । कारिका वृन्दारिका --- कारकवृन्दारिका, कारकजातीया, कारकदेशीया ।।
<M.5.236>
संज्ञापूरण्योश्च (38) इत्युक्तं तत्रापि पुंवद्भवति । दत्ता वृन्दारिका --- दत्तवृन्दारिका, दत्तजातीया, दत्तदेशीया । पञ्चमी वृन्दारिका --- पञ्चमवृन्दारिका, पञ्चमजातीया, पञ्चमदेशीया ।।
वृद्धिनिमित्तस्य --- (39) इत्युक्तं तत्रापि पुंवद्भावो भवति । स्रौघ्नी वृन्दारिका --- स्रौघ्नवृन्दारिका, स्रौघ्नजातीया, स्रौघ्नदेशीया ।।
स्वाङ्गाच्चेतोऽमानिनि (40) इत्युक्तं तत्रापि पुंवद्भावो भवति । श्लक्ष्णमुखी वृन्दारिका --- श्लक्ष्णमुखवृन्दारिका, श्लक्ष्णमुखजातीया, श्लक्ष्णमुखदेशीया ।।
जातेश्च (41) इत्युक्तं तत्रापि पुंवद्भवति । कठी वृन्दारिका --- कठवृन्दारिका, कठजातीया, कठदेशीया ।।
(6445 उपसंख्यानवार्तिकम् ।। 2 ।।)
- कुक्कुट्यादीनामण्डादिषु पुंवद्वचनम् -
कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्या अण्डं --- कुक्कुटाण्डम् । मृग्याः पदं--मृगपदम् । काक्याः शावः --- काकशावः ।।
(6446 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।)
- न वाऽस्त्रीपूर्वपदविवक्षितत्वात् -
न वा वक्तव्यम् ।
किं कारणम् ?
अस्त्रीपूर्वपदविवक्षितत्वात् ।
नात्र स्त्रीपूर्वपदं विवक्षितम् ।
किं तर्हि ?
अस्त्रीपूर्वपदं विवक्षितम् । उभयोरण्डम्, उभयोः पदम्, उभयोः शावः ।।
यद्यपि तावदत्रैतच्छक्यते वक्तुम् । इह तु कथं-मृग्याः क्षीरं --- मृगक्षीरम् ?
अत्रापि न वाऽस्त्रीपूर्वपदविवक्षितत्वादित्येव ।
कथं पुनः सतो नामाविवक्षा स्यात् ?
सतोऽप्यविवक्षा भवति । तद्यथा --- अलोमिका एडका, अनुदरा कन्या ।
असतश्च विवक्षा भवति । तद्यथा --- समुद्रः कुण्डिका, विन्ध्यो वर्द्धितकमिति ।।
(6447 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 4 ।।)
- अग्नेरीत्वाद्वरुणवृद्धिर्विप्रतिषेधेन -
अग्नेरीत्वाद्वरुणस्य वृद्धिर्भवति विप्रतिषेधेन । अग्नेरीत्वस्यावकाशः --- अग्नीषोमौ ।
वरुणस्य वृद्धेरवकाशः --- वायुवारुणम् ।
इहोभयं प्राप्नोति --- आग्नीवारुणीमनड्वाहीमालभेत ।
वरुणस्य वृद्धिर्भवति विप्रतिषेधेन ।।
<M.5.237>
(आक्षेपभाष्यम्)
नैष युक्तो विप्रतिषेधः ।
द्विकार्ययोगो हि विप्रतिषेधः, नात्रैको द्विकार्ययुक्तः ।
कथम् ?
अग्नेरीत्वम्, वरुणस्य वृद्धिः --- इति ।।
(समाधानभाष्यम्)
नावश्यं द्विकार्ययोग एव विप्रतिषेधः ।
किं तर्हि ?
असंभवोऽपि, स चात्रास्त्यसम्भवः ।
कोऽसावसंभवः ?
अग्नेरीत्वमभिनिर्वर्तमानं वरुणस्य वृद्धिं बाधते । वरुणस्य वृद्धिरभिनिर्वर्तमाना अग्नेरीत्वं बाधते । एषोऽसंभवः ।
सत्यसंभवे युक्तो विप्रतिषेधः ।।
(6448 विप्रतिषेधवार्तिकम् ।। 5 ।।)
- पुंवद्भावात् ह्रस्वत्वं खिद्धादिकेषु -
पुंवद्भावाद् ह्रस्वत्वं भवति विप्रतिषेधेन ।
पुंवद्भावस्यावकाशः --- पटुभार्यः, मृदुभार्यः ।
खिति ह्रस्वत्वं भवतीत्यस्यावकाशः --- कालिम्मन्यः, हरिणिम्मन्यः ।
इहोभयं प्राप्नोति --- कालिम्मन्या, हरिणिम्मन्या ।
ह्रस्वो भवति विप्रतिषेधेन ।।
घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः --- नर्तकितरा, नर्तकितमा ।
पुंवद्भावस्यावकाशः --- दर्शनीयतरा, दर्शनीयतमा ।
इहोभयं प्राप्नोति --- पटि्वतरा, पटि्वतमा ।
ह्रस्वो भवति विप्रतिषेधेन ।।
के ह्रस्वो भवतीत्यस्यावकाशः --- नर्तकिका ।
पुंवद्भावस्यावकाशः--दारदिका ।
इहोभयं प्राप्नोति --- पटि्वका, मृद्विका ।
ह्रस्वत्वं भवति विप्रतिषेधेन ।।
अथेदानीं ह्रस्वत्वे कृते पुनः प्रसङ्गविज्ञानात्पुंवद्भावः कस्मान्न भवति ?
सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ।।
-6-3-43- घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (2902)
(ह्रस्वाधिकरणम्)
(पदकृत्यभाष्यम्)
ङीग्रहणं किमर्थम् ?
अनेकाचो ह्रस्व इतीयत्युच्यमाने खट्वातरा --- मालातरा --- अत्रापि प्रसज्येत ।
नैतदस्ति प्रयोजनम् । भाषितपुंस्कादित्युच्यते ।।
एवमपि दत्तातरा--गुप्तातरा--अत्रापि प्राप्नोति ।
इर्त इति वर्तते ।
क्व प्रकृतम् ?
<M.5.238>
स्वाङ्गाच्चेतोऽमानिनि (6-3-40) इति ।।
एमवपि ग्रामणीतरः--सेनानीतरः--अत्रापि प्राप्नोति ।
स्त्रियामिति वर्तते ।।
एवमपि ग्रामणीतरा--सेनानीतरा--अत्रापि प्राप्नोति ।
स्त्रियाः स्त्रियामिति वर्तते ।।
शेषप्रक्लृप्त्यर्थं तर्हि ङीग्रहणं कर्तव्यम् । नद्याः शेषस्यान्यतरस्याम् (6-3-44) इति ।
कश्च शेषः ?
अङी च या नदी, ङ्यन्तं च यदेकाच् ।।
(ङीग्रहणप्रत्याख्यानभाष्यम्)
अन्तरेणापि ङीग्रहणं प्रक्लृप्तः शेषः ।
कथम् ?
इर्त इति वर्तते । अनीच्च या नदी, इर्दन्तं चापि यदेकाच् ।।
(शेषग्रहणप्रत्याख्यानभाष्यम्)
शेषग्रहणं चापि शक्यमकर्तुम् ।
कथम् ?
अविशेषेण घादिषु नद्या अन्यतरस्यां ह्रस्वत्वमुत्सर्गः, तस्य अनेकाचः इति नित्यं ह्रस्वत्वमपवादः ।
तस्मिन्नित्ये प्राप्ते उगितो विभाषेयमारभ्यते ।।
यद्येवं लक्ष्मितरा--तन्त्रितरा--इति न सिध्यति, लक्ष्मीतरा--तन्त्रीतरा--इति प्राप्नोति ।
इष्टमेवैतत्संगृहीतम्, लक्ष्मीतरा--तन्त्रीतरा--इत्येव भवितव्यम् ।
एवं हि सौनागाः पठन्ति --- घादिषु नद्या ह्रस्वत्वे कृन्नद्याः प्रतिषेध इति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ।।
<M.5.239>
-6-3-46- आन्महतः समानाधिकरणजातीययोः (2905)
(आत्वाधिकरणम्)
(महद्विषयाक्षेपभाष्यम्)
इह कस्मान्न भवति --- अमहान् महान् संपन्नो महद्भूतश्चन्द्रमा इति ।।
(महद्भूते आत्वाभावसाधकं श्लोकवार्तिकम्)
अन्यप्रकृतिरमहान् भूतप्रकृतौ महान् महत्येव ।
अन्यः --- महान् । अन्यः --- अमहान् भूतप्रकृतौ वर्तते । महान् --- महत्येव ।।
(आत्वाभावसाधकं श्लोकवार्तिकम्)
तस्मादात्वं न स्यात्
तस्मादात्वं न भविष्यति ।।
(पुंवद्भावाक्षेपभाष्यम्)
पुंवत्तु कथं भवेदत्र ।। 1 ।।
पुंवद्भावोऽपि तर्हि न प्राप्नोति । अमहती महती संपन्ना महद्भूता ब्राह्मणी ।।
एवं तर्हि ---
<M.5.240>
(आक्षेपबाधकं श्लोकवार्तिकम्)
अमहति महान् हि वृत्तस्तद्वाची चात्र भूतशब्दोऽयम् ।
अमहति हि महच्छब्दो वर्तते, तद्वाची भूतशब्दोऽयं प्रयुज्यते ।
किं वाची ?
महद्वाची ।।
जहद्धर्मान्तरं पूर्वमुपादत्ते यदा परम् ।
तत्वादप्रच्युतो धर्मी परिणामः स उच्यते ।। इति ।
पूर्वावस्थामविजहत्संस्पृशन् धर्ममुत्तरम् ।
संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ।। इति ।
(पुंवद्भावसाधकं श्लोकवार्तिकम्)
तस्मात् सिध्यति पुंवत्
तस्मात् सिध्यति पुंवद्भावः ।।
(वार्तिकावतरणभाष्यम्)
यद्येवमात्वमपि प्राप्नोति --- महद्भूतश्चन्द्रमा इति ।।
(आक्षेपसाधकं श्लोकभाष्यम्)
निर्वत्यमात्वन्तु मन्यन्ते ।। 2 ।।
आत्वमपि प्राप्नोति ।।
नैष दोषः ।
कथम् ?
<M.5.241>
(आत्वबाधकं श्लोकभाष्यम्)
यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रयं ह्यात्वम् ।
कर्तव्यं मन्यन्ते न लक्षणेन लक्षणोक्तश्चायम् ।। 3 ।।
एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति प्रतिपदं यः समासो विहितस्तस्य ग्रहणम्, लक्षणोक्तश्चायम् ।
(प्रत्याक्षेपभाष्यम्)
इहापि तर्हि न प्राप्नोति --- महान् बाहुरस्य --- महाबाहुरिति ।।
(प्रत्याक्षेपसमाधानभाष्यम्)
शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुव्रीहिः ।
तस्मात्सिद्ध्यति तस्मिन्
यस्मात् शेषो बहुव्रीहिः (2-2-3) इति सिद्धे अनेकमन्यपदार्थे (24) इत्याह, तेन प्रतिपदोक्तं तत्र भवति ।।
(प्रकारान्तरणे समाधानश्लोकभाष्यम्)
प्रधानतो वा यतो वृत्तिः ।। 4 ।।
अथवा गौणमुख्ययोर्मुख्ये संप्रत्ययः । तद्यथा --- गौरनूबन्ध्योऽजोऽग्नीषोमीय इति न वाहीकोऽनुबध्यते ?
कथं तर्हि वाहीके वृद्ध्यात्वे भवतः --- गौस्तिष्ठति, गामानयेति ।
अर्थाश्रय एवदेवं भवति, यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ।।
<M.5.243>
(6449 उपसंख्यानवार्तिकम् ।। 1 ।।)
- महदात्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्वचनं चासमानाधिकरणार्थम् -
महदात्वे घासकरविशिष्टेषूपसंख्यानं कर्तव्यम्, पुंवद्भावश्चासमानाधिकरणार्थो द्रष्टव्यः । महत्या घासः--महाघासः । महत्याः करः --- महाकरः । महत्या विशिष्टः --- महाविशिष्टः ।।
(6450 उपसंख्यानवार्तिकम् ।। 2 ।।)
- अष्टनः कपाले हविषि -
अष्टनः कपाले हविषि उपसंख्यानं कर्तव्यम् । अष्टाकपालः ।
हविषीति किमर्थम् ?
अष्टकपालं ब्राह्मणस्य ।।
(6451 उपसंख्यानवार्तिकम् ।। 3 ।।)
- गवि च युक्ते -
गवि च युक्त उपसंख्यानं कर्तव्यम् । अष्टागवेन शकटेन ।
युक्त इति किमर्थम् ?
अष्टगवं ब्राह्मणस्य ।।
(श्लोकसंग्रहः)
अन्यप्रकृतिरमहान् भूतप्रकृतौ महान् महत्येव ।।
तस्मादात्वं न स्यात्पुंवत्तु कथं भवेत्तत्र ।। 1 ।।
अमहति महान् हि वृत्तस्तद्वाची चात्र भूतशब्दोऽयम् ।।
तस्मात्सिद्ध्यति पुंवन्निर्वत्त्यमात्वं तु मन्यन्ते ।। 2 ।।
यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रयं ह्यात्वम् ।।
कर्तव्यं मन्यन्ते न लक्षणेन लक्षणोक्तश्चायम् ।। 3 ।।
शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुव्रीहिः ।।
तस्मात् सिध्यति तस्मिन् प्रधानतो वा यतो वृत्तिः ।। 4 ।।
<M.5.244>
-6-3-47- द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (2906)
(मर्यादाकरणभाष्यम्)
प्राक्शतादिति वक्तव्यम् ।
इह मा भूत् --- द्विशतम्, अष्टशतम्, द्विसहस्रम्, अष्टसहस्रम् ।।
-6-3-49- विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् (2908)
(पदकृत्यभाष्यम्)
सर्वेषां ग्रहणं किमर्थम् ?
चत्वारिंशत्प्रभृतौ सर्वेषां ग्रहणं सर्वेषां विभाषा यथा स्यात्, द्व्यष्टनः --- त्रेश्च ।।
नैतदस्ति प्रयोजनम् । प्रकृतं द्व्यष्टनोर्ग्रहणमनुवर्तिष्यते ।
यदि तदनुवर्तते, त्रेस्त्रयस् --- द्व्यष्टनोश्चेति द्व्यष्टनोरपि त्रयश्चादेशः प्राप्नोति ।
नैष दोषः । मण्डूकगतयोऽधिकाराः ।
तद्यथा --- मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ।
(प्रकारान्तरबोधकभाष्यम्)
अथवा एकयोगः करिष्यते --- द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः, त्रेस्त्रयः । ततः --- विभाषा चत्वारिंशत्प्रभृतौ सर्वेषामिति । नैकयोगेऽनुवृत्तिर्भवति ।
अथवा उभयं निवृत्तं तदपेक्षिष्यामहे ।।
-6-3-50- हृदयस्य हृल्लेखयदण्लासेषु - (2909)
(हृदादेशाधिकरणम्)
(अण्ग्रहणाक्षेपभाष्यम्)
यदण्ग्रहणमिदं प्रत्ययग्रहणम्, तत्र प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति यदणन्ते प्राप्नोति ।।
(6452 समाधानवार्तिकम् ।। 1 ।।)
- यदण्ग्रहणे रूपग्रहणं लेखग्रहणात् -
यदण्ग्रहणे रूपग्रहणं द्रष्टव्यम् ।
कुतः ?
लेखग्रहणात् । यदयं लेखग्रहणं करोति तत् ज्ञापयत्याचार्यः --- न यदणन्ते भवतीति ।।
<M.5.245>
(सामान्यापेक्षज्ञापकभाष्यम्)
अपर आह --- अत्यल्पमिदं ज्ञाप्यते, सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणं द्रष्टव्यम् ।
कुतः ?
लेखग्रहणादेव ।
किं प्रयोजनम् ?
कुमारीगौरितरा । घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत ।।
(ज्ञापकाक्षेपभाष्यम्)
यद्येतत् ज्ञाप्यते, खित्यनव्ययस्य (6-3-66) इति खित्येवानन्तरस्यानव्ययस्य ह्रस्वत्वं प्राप्नोति ।।
(समाधानभाष्यम्)
खित्यनन्तरो ह्रस्वभावी नास्तीति कृत्वा खिदन्ते उत्तरपदे भविष्यति ।
ननु चायमस्ति --- स्तनन्धय इति ।
अत्रापि शपा व्यवधानम् ।
एकादेशे कृते नास्ति व्यवधानम् ।
एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ।
अथवैतज्ज्ञापयत्याचार्यः --- खित्यनन्तरस्य न भवतीति यदयमनव्ययस्येति प्रतिषेधं शास्ति । न हि खित्यनन्तरमव्ययमस्ति ।।
-6-3-52- पादस्य पदाज्यातिगोपहतेषु (2911)
(पदादेशाधिकरणम्)
(6453 उपसंख्यानवार्तिकम् ।। 1 ।।)
- पदादेशेऽन्तोदात्तनिपातनं पदोपहतार्थम् -
पदादेशेऽन्तोदात्तनिपातनं कर्तव्यम् ।
किं प्रयोजनम् ?
पदोपहतार्थम् । पादेनोपहतं --- पदोपहतम् । तृतीया कर्मणि (6-2-48) इति पूर्वपदप्रकृतिस्वरत्वे पूर्वपदान्तोदात्वं यथा स्यात् ।।
<M.5.246>
(6454 उपसंख्यानवार्तिकम् ।। 2 ।।)
- उपदेशिवद्वचनं च स्वरसिद्ध्यर्थम् -
उपदेशिवद्भावश्च वक्तव्यः ।।
किं प्रयोजनम् ?
स्वरसिद्ध्यर्थम् । उपदेशावस्थायामन्तोदात्तनिपातने कृते समासस्वरेण बाधनं यथा स्यात् । पदाजिः, पदातिः ।।
-6-3-53- पद्यत्यतदर्थे (2912)
(6455 उपसंख्यानवार्तिकम् ।। 1 ।।)
- पद्भावे इके चरतावुपसंख्यानम् -
पद्भावे इके चरतावुपसंख्यानं कर्तव्यम् । पादेन चरति--पदिकः ।।
-6-3-56- वा घोषमिश्रशब्देषु (2915)
(6456 उपसंख्यानवार्तिकम् ।। 1 ।।)
- निष्के चोपसंख्यानम् -
निष्के चोपसंख्यानं कर्तव्यम् । पन्निष्केण । पादनिष्केण ।।
-6-3-57- उदकस्योदः संज्ञायाम् (2913)
(उदादेशाऽधिकरणम्)
(6457 उपसंख्यानवार्तिकम् ।। 1 ।।)
- संज्ञायामुत्तरपदस्य च -
संज्ञायामुत्तरपदस्येति वक्तव्यम् । इहापि यथा स्यात् --- लोहितोदः । क्षीरोद इति ।।
-6-3-59- एकहलादौ पूरयितव्येऽन्यतरस्याम् (2918)
(एकहलादिपदाक्षेपभाष्यम्)
एकहलादाविति किमर्थम् ?
उदकस्थानम् ।।
उच्यमानेऽप्येतस्मिन् वचनेऽत्र प्राप्नोति, एतदप्येकहलादि ।
किं कारणम् ?
एकैकवर्णवर्त्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम् । एकैकवर्णवर्त्तिनी वाक् न द्वौ युगपदुच्चारयति <M.5.247>।
तद्यथा --- गौरित्युक्ते यावद्गकारे वाक् प्रवर्तते, न तावदौकारे न विसर्जनीये । यावदौकारे, न तावद्गकारे न विसर्जनीये । यावद्विसर्जनीये, न तावद्गकारे नापि औकारे । उच्चरितप्रध्वंसित्वाच्च वर्णानाम् । उच्चरितो वर्णः प्रध्वस्त इति ।
अथापरः प्रयुज्यते, न वर्णो वर्णान्तरस्य सहायः ।।
(एकहलादिपदप्रयोजनभाष्यम्)
एवं तर्हि एकहलादौ इत्युच्यते, सर्वश्चैवैकहलादिः । तत्र प्रकर्षगतिर्विज्ञास्यते --- साधीयो य एकहलादिरिति ।
कश्च साधीयः ?
यत्रैकं हलमुच्चार्याजुच्यते ।।
-6-3-61- इको ह्रस्वोऽङ्यो गालवस्य (2920)
(ह्रस्वाधिकरणम्)
(6458 उपसंख्यानवार्तिकम् ।। 1 ।।)
- इको ह्रस्वत्वमुत्तरपदमात्रे -
इको ह्रस्वत्वमुत्तरपदमात्रे वक्तव्यम् । इहापि यथा स्यात् --- अलाबुकर्कन्धुदृन्भुफलम् --- इति ।
किं पुनः कारणं न सिध्यति ?
(6459 उपसंख्यानफलबोधकवार्तिकम् ।। 2 ।।)
- सर्वान्ते लोकविज्ञानम् -
लोकविज्ञानाद्धि यदेतत् सर्वान्त्यं पदं तस्मिन् पूर्वपदस्य ह्रस्वत्वं स्यात् ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
अथवा एवं विग्रहः करिष्यते --- अलाबूश्च कर्कन्धूश्च --- अलाबुकर्कन्ध्वौ, अलाबुकर्कन्ध्वौ च दृन्भूश्च --- अलाबुकर्कन्धुदृन्भ्वः, अलाबुकर्कन्धुदृन्भूनां फलं --- अलाबुकर्कन्धुदृन्भुफलम् --- इति ।
यद्येवं दृन्भ्वाः पूर्वनिपातः प्राप्नोति ।
राजदन्तादिषु पाठः करिष्यते ।।
<M.5.248>
(उपसंख्यानानर्थक्ये प्रकारान्तरबोधकभाष्यम्)
अथवा एवं विग्रहः करिष्यते --- दृन्भ्वाः फलं --- दृन्भुफलं, कर्कन्धूश्च दृन्भुफलं च --- कर्कन्धुदृन्भुफलम्, अलाबूश्च कर्कन्धुदृन्भुफलं च --- अलाबुकर्कन्धुदृन्भुफलमिति ।
एवमपि फलेनाकृतोऽभिसंबन्धो भवति ।
नैष दोषः ।
प्रत्येकं फलशब्दः परिसमाप्यते ।।
(6460 प्रतिषेधोपसंख्यानवार्तिकम् ।। 3 ।।)
?B- इयङुवङव्ययप्रतिषेधः -
इयङुवङ्भाविनामव्ययानां च प्रतिषेधो वक्तव्यः । श्रीकुलम्, भूकुलम् । काण्डीभूतम्, कुड्यीभूतम् --- वृषलकुलम् ।।
(पर्युदासभाष्यम्)
अभ्रूकुंसादीनामिति वक्तव्यम् । भ्ररुकुंसः,भ्ररुकुंसः। भ्ररुकुटिः, भ्ररुकुटिः।
अपर आह --- अकारो भ्रूकुंसादीनामिति वक्तव्यम् । भ्रकुंसः । भ्रकुटिः ।।
-6-3-62- एकतद्धिते च (2921)
(एकतद्धितेपदप्रयोजनभाष्यम्)
एकतद्धिते किमुदाहरणम् ?
एकत्वम्, एकता --- इति ।
नैतदस्ति प्रयोजनम् । पुंवद्भावेनाप्येतत् सिद्धम् ।
कथम् ?
तसिलादिष्वा कृत्वसुचः (6-3-35) इति ।।
इदं तर्हि प्रयोजनम् --- एकस्या आगतं --- एकरूप्यम्, एकमयम् ।
इदं चाप्युदाहरणम् --- एकत्वम्, एकता ।
ननु चोक्तं पुंवद्भावेनाप्येतत्सिद्धमिति ।
न सिद्ध्यति ।
उक्तमेतत् --- त्वतलोर्गुणवचनस्य इति ।।
(उत्तरपदे पदप्रयोजनभाष्यम्)
अथोत्तरपदे किमुदाहरणम् ?
एकशाटी ।
नैतदस्ति । पुंवद्भावेनाप्येतत्सिद्धम् ।
कथं पुंवद्भावः ?
समानाधिकरणलक्षणः पुंवद्भावः ।
इदं तर्हि --- एकस्याः क्षीरं --- एकक्षीरम् ।
इदं चाप्युदाहरणम् --- एकशाटी ।
ननु चोक्तं पुंवद्भावेनाप्येतत्सिद्धमिति ।
न सिद्ध्यति । न कोपधायाः (6-3-37) इति प्रतिषेधः प्राप्नोति ।
नैषोऽस्ति प्रतिषेधः ।
उक्तमेतत् कोपधप्रतिषेधे तद्धितवुग्रहणम् इति ।।
<M.5.249>
-6-3-66- खित्यनव्ययस्य (2925)
(6461 सूत्रार्थानुपपत्तिवार्तिकम् ।। 1 ।।)
- खिति ह्रस्वाप्रसिद्धिरनजन्तत्वात् -
खिति ह्रस्वस्याप्रसिद्धिः । कालिम्मन्या । हरिणिम्मन्या ।
किं कारणम् ?
अनजन्तत्वात् । मुमि कृतेऽनजन्तत्वात् ह्रस्वत्वं न प्राप्नोति ।।
(6462 उपपत्तिवार्तिकम् ।। 2 ।।)
- सिद्धं तु ह्रस्वान्तस्य मुम्वचनात् -
सिद्धमेतत् ।
कथम् ?
ह्रस्वान्तस्य मुम्भवतीति वक्तव्यम् ।।
(6463 प्रकारान्तरेणोपपत्तिवार्तिकम् ।। 3 ।।)
- सन्नियोगाद्वा -
अथवा सन्नियोगः करिष्यते ।
क एष यत्नश्चोद्यते सन्नियोगो नाम ?
चकारः कर्तव्यः --- मुम् च ।
किंच ?
यच्चान्यत्प्राप्नोति ।
किञ्ञ्चान्यत् प्राप्नोति ? ह्रस्वत्वम् ।
सिद्ध्यति । सूत्रं तर्हि भिद्यते ।।
यथान्यासमेवास्तु ।
ननु चोक्तं खिति ह्रस्वाप्रसिद्धिरनजन्तत्वात् इति ।
परिहृतमेतत् --- सिद्धन्तु ह्रस्वान्तस्य मुम्वचनात् इति ।
तत्तर्हि ह्रस्वग्रहणं कर्तव्यम् ।
न कर्तव्यम् । प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
इको ह्रस्वोऽङ्यो गालवस्य (61) इति ।
तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ।
खिति इत्येषा सप्तमी ह्रस्वः इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-66) इति ।।
<M.5.250>
(एकदेशिन उपपत्तिभाष्यम्)
अथवा खिति ह्रस्वो भवतीत्युच्यते । खित्यनन्तरो ह्रस्वभावी नास्तीति कृत्वा भूतपूर्वगतिर्विज्ञास्यते --- अजन्तं यद्भूतपूर्वमिति ।।
(पूर्वपक्षिण उपपत्तिभाष्यम्)
अथवा कार्यकालं संज्ञापरिभाषम् यत्र कार्यं तत्र द्रष्टव्यम् खिति ह्रस्वो भवतीत्युपस्थितमिदं
भवति --- अच इति । तत्र वचनादनजन्तस्यापि भविष्यति ।
इहापि तर्हि वचनात्प्राप्नोति --- वाक्मन्य इति ।
नैतदस्ति । इक इति वर्तते ।
एवमपि खट्वंमन्यः, अत्र न प्राप्नोति ।
नैष दोषः । आब्ग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
ङ्यापोः संज्ञाछन्दसोर्बहुलम् (63) इति ।।
(सिद्धान्तभाष्यम्)
एवमपि कीलालपंमन्यः, शुभंयंमन्यः --- अत्र न प्राप्नोति ।
तस्मात् पूर्वोक्तावेव परिहारौ ।।
-6-3-68- इच एकाचोऽम्प्रत्ययवच्च (2927)
(मुमोऽधिकरणम्)
(सूत्रप्रयोजनाक्षेपभाष्यम्)
अमः प्रत्ययवदनुदेशे किं प्रयोजनम् ?
(6464 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- अमः प्रत्ययवदनुदेशे प्रयोजनमात्वपूर्वसवर्णगुणेयङुवङादेशाः -
अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णगुणेयङुवङादेशाः --- प्रयोजनम् ।
आत्वं प्रयोजनम् --- गांमन्यः ।
पूर्वसवर्णः प्रयोजनम् --- स्त्रींमन्यः ।
गुणः प्रयोजनम् --- नरंमन्यः ।
इयङुवङौ प्रयोजनम् --- श्रियंमन्यः, भुवंमन्यः ।।
(6465 प्रयोजनाक्षेपवार्तिकम् ।। 2 ।।)
- अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णाप्रसिद्धिरप्रथमात्वात् -
अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णयोरप्रसिद्धिः ।
किं कारणम् ?
अप्रथमात्वात् । प्रथमयोरित्युच्यते, न चात्र प्रथमां पश्यामः ।
किं च भोः आत्वं प्रथमयोः इत्युच्यते ?
न खलु प्रथमयोरित्युच्यते, प्रथमयोरिति विज्ञायते ।
कथम् ?
अम्शसोरित्युच्यते, त एवं विज्ञास्यामः --- शस्सहचरितो योऽम्शब्दः ।
कश्च शस्सहचरितः ?
प्रथमैव ।।
ननु च प्रत्ययवदनुदेशाद्भविष्यति ।
न सिद्ध्यति ।
किं कारणम् ?
<M.5.251>
(6466 आक्षेपसाधकवार्तिकम् ।। 3 ।।)
- सामान्यातिदेशे हि विशेषानतिदेशः -
सामान्ये ह्यतिदिश्यमाने विशेषोऽनतिदिष्टो भवति ।
तद्यथा --- ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति सामान्यं यत् ब्राह्मणकार्यं तत् क्षत्रियेऽतिदिश्यते । यद्विशिष्टं माठरे कौण्डिन्ये वा, न तदतिदिश्यते ।
एवमिहापि सामान्यं यत्प्रत्ययकार्यं तदतिदिश्यते । यद्विशिष्टं द्वितीयैकवचने भवति --- प्रथमयोरिति, न तदतिदिश्यते ।।
(6467 समाधानवार्तिकम् ।। 4 ।।)
- सिद्धं तु द्वितीयैकवचनवद्वचनात् -
सिद्धमेतत् ।
कथम् ?
द्वितीयैकवचनवद्वचनात् । द्वितीयैकवचनवद्भवतीति वक्तव्यम् ।।
(6468 प्रकारान्तरेण समाधानवार्तिकम् ।। 5 ।।)
- एकशेषनिर्देशाद्वा -
अथवैकशेषनिर्देशोऽयम् । अम् च अम् च --- अम् । इच एकाचोऽम् भवति,
अम्प्रत्ययवच्चास्मिन् कार्यं भवति ।।
(प्रयोगसाधनाक्षेपभाष्यम्)
अथेह कथं भवितव्यम् --- श्रियं मन्यते ब्राह्मणकुलम् --- श्रियंमन्यं ब्राह्मणकुलम्, आहोस्विच्छ्रिमन्यमिति ?
श्रियंमन्यमिति भवितव्यम् ।
स्वमोर्नपुंसकात् (7-1-23) इति लुक्कस्मान्न भवति ?
(बाध्यसामान्यचिन्तया प्रयोगसाधकभाष्यम्)
नाप्राप्ते लुक्यम् --- आरभ्यते । स यथैव सुपो धातुप्रातिपदिकयोः (2-4-71) इत्येतं बाधत एवं स्वमोर्नपुंसकात् इत्येतमपि लुकं बाधेत ।।
<M.5.252>
(बाध्यविशेषचिन्तयाऽऽक्षेपभाष्यम्)
न बाधते ।
किं कारणम् ?
येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्ते सुपो धातुप्रातिपदिकयोः इत्येतस्मिन्नेतदारभ्यते, स्वमोर्नपुंसकात् इत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च ।।
अथवा मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमयममागमः सुपो धातुप्रातिपदिकयोः इत्येतं बाधते, स्वमोर्नपुंसकात् इत्येतन्न बाधते ।।
(समाधानभाष्यम्)
एवं तर्हि असिद्धं बहिरङ्गमन्तरङ्गे इत्यसिद्धत्वाद्बहिरङ्गलक्षणस्यामोऽन्तरङ्गलक्षणो लुक् न भविष्यति ।।
(पूर्वपक्षिणः सिद्धान्तभाष्यम्)
नैषा परिभाषेहोत्तरपदाधिकारे शक्या विज्ञातुम् ।
इह हि दोषः स्यात् --- द्विषन्तपः, परन्तपः --- इति ।।
तस्माच्छ्रिमन्यमित्येव भवितव्यम् ।।
-6-3-70- कारे सत्यागदस्य (2929)
(6469 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अस्तुसत्यागदस्य कार उपसंख्यानम् -
अस्तुसत्यागदस्य कार उपसंख्यानं कर्तव्यम् । अस्तुंकारः, सत्यङ्कारः, अगदंकारः ।।
<M.5.253>
(6470 उपसंख्यानवार्तिकम् ।। 2 ।।)
- भक्षस्य छन्दसि -
भक्षस्य च्छन्दस्युपसंख्यानं कर्तव्यम् । तस्यते भक्षङ्कारस्य ।
छन्दसीति किमर्थम् ?
भक्षकारस्य तन्मतमिति ।।
(6471 उपसंख्यानवार्तिकम् ।। 3 ।।)
- धेनोर्भव्यायाम् -
धेनोर्भव्यायामुपसंख्यानं कर्तव्यम् । धेनुम्भव्या ।।
(6472 उपसंख्यानवार्तिकम् ।। 4 ।।)
- लोकस्य पृणे -
लोकस्य पृण उपसंख्यानं कर्तव्यम् । लोकम्पृणस्य धन्विनः ।।
(6473 उपसंख्यानवार्तिकम् ।। 5 ।।)
- इत्येऽनभ्याशस्य -
इत्येऽनभ्याशस्योपसंख्यानं कर्तव्यम् । अनभ्याशमित्यम् ।।
(6474 उपसंख्यानवार्तिकम् ।। 6 ।।)
- भ्राष्ट्राग्न्योरिन्धे -
भ्राष्ट्राग्न्योरिन्ध उपसंख्यानं कर्तव्यम् । भ्राष्ट्रमिन्धः । अग्निमिन्धः ।।
(6475 उपसंख्यानवार्तिकम् ।। 7 ।।)
- गिलेऽगिलस्य -
गिलेऽगिलस्योपसंख्यानं कर्तव्यम् । तिमिंगिलः ।
अगिलस्येति किमर्थम् ?
गिलगिलः ।।
(6476 उपसंख्यानवार्तिकम् ।। 8 ।।)
- गिलगिले च -
गिलगिले चेति वक्तव्यम् । तिमिंगिलगिलः ।।
(6477 उपसंख्यानवार्तिकम् ।। 9 ।।)
- उष्णभद्रयोः करणे -
उष्णभद्रयोः करण उपसंख्यानं कर्तव्यम् । उष्णंकरणम्, भद्रंकरणम् ।।
(6478 उपसंख्यानवार्तिकम् ।। 10 ।।)
- सूतोग्रराज भोजकुलमेरुभ्यो दुहितुः पुत्रड्वा -
सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रट् वा भवतीति वक्तव्यम् ।
सूतपुत्री, सूतदुहिता --- सूत ।
उग्रपुत्री, उग्रदुहिता --- उग्र ।
राजपुत्री, राजदुहिता --- राज ।
भोजपुत्री, भोजदुहिता --- भोज ।
कुलपुत्री, कुलदुहिता --- कुल ।
मेरुपुत्री, मेरुदुहिता --- मेरु ।।
<M.5.254>
-6-3-72- रात्रेः कृति विभाषा (2931)
(विभाषास्वरूपजिज्ञासाभाष्यम्)
किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ?
कथं च प्राप्ते कथं वाऽप्राप्ते ?
यदि खितीत्यनुवर्तते, ततो नित्यं प्राप्ते ।
अथ नानुवर्तते, तदाऽप्राप्ते ।।
(विभाषानिर्णयभाष्यम्)
रात्रेरप्राप्ते विभाषा । प्राप्ते नित्यो विधिः --- रात्रिम्मन्यः । अप्राप्ते विभाषा --- रात्र्यटः, रात्रिमटः ।।
-6-3-73- नलोपो नञ्ञः (2932)
(नलोपाधिकरणम्)
(अनुबन्धप्रयोजनभाष्यम्)
किमर्थं नञ्ञः सानुबन्धकस्य ग्रहणं क्रियते, न नस्य इत्येवोच्येत ?
नस्य इतीयत्युच्यमाने कर्णपुत्रः --- पर्णपुत्रः इत्यत्रापि प्रसज्येत ।
नैष दोषः । अर्थवद्ग्रहणे नानर्थकस्य इत्येवमत्र न भविष्यति ।
एवमपि प्रश्नपुत्र --- विश्नपुत्रः इत्यत्रापि प्राप्नोति ।
नैष दोषः । अननुबन्धकग्रहणे न सानुबन्धकस्य इत्येवमस्य न भविष्यति ।
एवमपि वामनपुत्र --- पामानपुत्रः इत्यत्रापि प्राप्नोति ।
तस्मात् सानुबन्धकग्रहणं कर्तव्यम् ।।
(6479 उपसंख्यानवार्तिकम् ।। 1 ।।)
- नञ्ञो नलोपे अवक्षेपे तिङ्युपसंख्यानम् -
नञ्ञो नलोपेऽवक्षेपे तिङ्युपसंख्यानं कर्तव्यम् । अपचसि वै त्वं जाल्म । अकरोषि वै त्वं जाल्म ।।
-6-3-74- तस्मान्नुडचि (2933)
(तस्मात्पदाक्षेपभाष्यम्)
किमर्थं तस्मादित्युच्यते, न नुडचि इत्येवोच्येत ?
नुडचि इतीयत्युच्यमाने नञ्ञ एव नुट् प्रसज्येत ।।
<M.5.255>
(नुटः पूर्वान्तत्वेन सामाधानभाष्यम्)
एवं तर्हि पूर्वान्तः करिष्यते, तत्रायमप्यर्थः --- तदोः सः सावनन्त्ययोः (7-2-106) इति तदोर्ग्रहणं न कर्तव्यं भवति । तत्र हि तवर्गानिर्देश एतत्प्रयोजनम् --- इह मा भूत् --- अनेषः करोति --- इति ।
यावता पूर्वान्तोऽयम्, न दोषो भवति ।।
(सिद्धान्तभाष्यम्)
नैवं शक्यम् । इह हि --- अनुष्ण इति नलोपः प्रातिपदिकान्तस्य (8-2-7) इति नलोपः प्रसज्येत ।
नुग्वचनान्न भविष्यति ।
ङमुट् तर्हि प्राप्नोति ।
तस्मात्परादिः कर्तव्यः । परादौ च क्रियमाणे तस्मात् इति च वक्तव्यम् ।।
-6-3-76- एकादिश्चैकस्य चादुक् (2935)
(आदुस्थापकभाष्यम्)
किमर्थमादुगुच्यते न अदुगेवोच्येत ?
का रूपसिद्धिः ?
एकान्नविंशतिः --- एकान्नत्रिंशत् सवर्णदीर्घत्वेन सिद्धम् ।
न सिध्यति । अतो गुणे (6-1-97) इति पररूपत्वं प्राप्नोति ।।
एवं तर्ह्यदुट् करिष्यते ।
अदुट् चाशक्यः कर्तुम् । आनुनासिक्यं हि न स्यात् ।
यद्धि तत् यरोऽनुनासिकेऽनुनासिको वा (8-4-45) इति, पदान्तस्येत्येवं तत् ।
किं पुनः कारणं पदान्तस्येत्येवं तत् इति ?
इह मा भूत् --- ब्रध्नः,बुध्नः, बध्नाति, गृभ्णाति इति ।।
एवन्तर्ह्यनुट् करिष्यते ।
अनुट् चाशक्यः कर्तुम् ।
विभाषयाऽऽनुनासिक्यम् । तेनेदमेव रूपं स्यात् --- एकान्नविंशतिरिति । इदं न स्यात् --- एकाद्नविंशतिरिति ।।
(सिद्धान्तभाष्यम्)
अस्तु तर्ह्यदुगेव ।
ननु चोक्तं अतो गुण इति पररूपत्वं प्राप्नोति इति ।
नैष दोषः । अकारोच्चारणसार्मथ्यान्न भविष्यति ।
यदि तर्हि प्राप्नुवन् विधिरकारोच्चारणसार्मथ्यात् बाध्यते, सवर्णदीर्घत्वमपि तर्हि न प्राप्नोति ।
यं विधिं प्रत्यकारोच्चारणमनर्थकं भवति स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । पररूपं च प्रत्यकारोच्चारणमनर्थकम्, सवर्णदीर्घत्वस्य पुनर्निमित्तमेव ।।
<M.5.256>
-6-3-78- सहस्य सः संज्ञायाम् (2937)
(सादेशाधिकरणम्)
(6480 पूर्वपक्षिवार्तिकम् ।। 1 ।।)
- सहस्य हलोपवचनम् -
सहस्य हलोपो वक्तव्यः ।।
सादेशे हि सति स्वरे दोषः । आन्तर्यत उदात्तानुदात्तयोः स्थाने स्वरित आदेशः प्रसज्येत । सपुत्रः । सभार्यः ।।
(सिद्धान्तभाष्यम्)
स तर्हि लोपो वक्तव्यः ।
न वक्तव्यः । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति ।
एवमप्युपदेशिवद्भावो वक्तव्यः । स यथैव निपातनस्वरः प्रकृतिस्वरं बाधते, एवं समासस्वरमपि बाधेत --- सेष्टि, सपशुबन्धम् --- इति ।।
-6-3-79- ग्रन्थान्ताधिके च (2938)
(सूत्राक्षेपभाष्यम्)
ग्रन्थान्ते वचनानर्थक्यमव्ययीभावेन कृतत्वात् ।
अव्ययीभावे चाकाले इत्येव सिद्धम् ।
(सिद्धान्तभाष्यम्)
यस्तर्हि कालोत्तरपदो ग्रन्थान्तस्तदर्थमिदं वक्तव्यम् । सकाष्ठं ज्योतिषमधीते । सकलम्, समुहूर्तम् ।।
-6-3-82- वोपसर्जनस्य (2941)
(6481 आक्षेपवार्तिकम् ।। 1 ।।)
- उपसर्जनस्य वावचने सर्वप्रसङ्गोऽविशेषात् -
उपसर्जनस्य वावचने सर्वप्रसङ्गः, सर्वस्योपसर्जनस्य सादेशः प्राप्नोति ।
अस्यापि प्राप्नोति --- सहयुध्वा, सहकृत्वा ।
किं कारणम् ?
अविशेषात् । न हि कश्चिद्विशेष उपादीयते --- एवं जातीयकस्य सहशब्दस्योपसर्जनस्य सादेशो भवतीति ।
अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।।
(6482 समाधानवार्तिकम् ।। 2 ।।)
- सिद्धं तु बहुव्रीहिनिर्देशात् -
सिद्धमेतत् ।
कथम् ?
बहुव्रीहिनिर्देशात् ।
बहुव्रीहिनिर्देशः कर्तव्यः ।।
<M.5.257>
(सूत्रार्थसंपादकभाष्यम्)
एवमपि सहयुध्वप्रियः सहकृत्वप्रियः --- अत्र प्राप्नोति, बहुव्रीहौ यदुत्तरपदमित्येवं विज्ञास्यते ।
नन्वेतदपि बहुव्रीहावुत्तरपदम् ।
एवन्तर्हि बहुव्रीहौ यदुपसर्जनमित्येवं विज्ञास्यते ।
(नन्वेतदपि बहुव्रीहावुपसर्जनम् ।
एवं तर्हि नैवं विज्ञायते --- बहुव्रीहौ यदुपसर्जनमिति ।
किं तर्हि ?)
बहुव्रीहौ च यदुपसर्जनम्, बहुव्रीहिं प्रति च यदुपसर्जनम् ।।
(सूत्रेण सिद्धार्थत्वबोधकभाष्यम्)
स तर्हि बहुव्रीहिनिर्देशः कर्तव्यः ।
न कर्तव्यः ।
इह कश्चित्प्रधानानामेव समासः, कश्चिदुपसर्जनानामेव, कश्चित्प्रधानोपसर्जनानामेव ।
तद्य उपसर्जनानामेव समासस्तदुपसर्जनस्येदं ग्रहणम् ।।
अथवा --- अकारो मत्वर्थीयः । तद्यथा --- तुन्दः, घाट इति ।।
अथवा --- मतुब्लोपोऽत्र द्रष्टव्यः । तद्यथा --- पुष्यका येषां त इमे पुष्यकाः, कालका येषां त इमे कालका इति ।।
-6-3-83- प्रकृत्याशिषि (2942)
(6483 पर्युदासोपसंख्यानवार्तिकम् ।। 1 ।।)
- प्रकृत्याशिष्यगवादिषु -
प्रकृत्याशिष्यगवादिष्विति वक्तव्यम् । इह मा भूत् --- स्वस्ति भवते सगवे सवत्साय सहलायेति ।।
-6-3-86- चरणे ब्रह्मचारिणि (2945)
(वार्तिकावतरणभाष्यम्)
अत्र किं निपात्यते ?
<M.5.258>
(6484 निपातनबोधकवार्तिकम् ।। 1 ।।)
- ब्रह्मण्युपपदे समानपूर्वे व्रते कर्मणि चरेर्णिनिर्व्रतलोपश्च -
ब्रह्मण्युपपदे समानपूर्वे व्रत कर्मणि चरेर्णिनिः प्रत्ययो व्रतलोपश्च निपात्यते । समाने ब्रह्मणि व्रतचारीति --- सब्रह्मचारी ।।
-6-3-89- दृग्दृशवतुषु (2948)
(6485 उपसंख्यानवार्तिकम् ।। 1 ।।)
- दृग्दृशवतुषु दृक्ष उपसंख्यानम् -
दृग्दृशवतुषु दृक्ष उपसंख्यानं कर्तव्यम् । सदृक्षासः, प्रतिसदृक्षासः ।।
-6-3-92- विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये (2951)
(6487 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अद्रिसध्र्योरन्तोदात्तवचनं कृत्स्वरनिवृत्त्यर्थम् -
अद्रिसध्र्योरन्तोदात्तत्वं वक्तव्यम् ।
किं प्रयोजनम् ?
कृत्स्वरनिवृत्त्यर्थम् । कृत्स्वरो मा भूदिति । विष्वद्र्यङ्, विष्वद्र्यञ्ञ्चौ, विष्वद्र्यञ्ञ्चः । सध्र्यङ्, सध्र्यञ्ञ्चौ, सध्र्यञ्ञ्चः ।।
(प्रतिषेधभाष्यम्)
तत्र छन्दसि स्त्रियां प्रतिषेधो वक्तव्यः । विश्वाची, घृताची ।
यदि छन्दसि स्त्रियां प्रतिषेध उच्यते कथं --- सा कद्रीची ?
एवन्तर्हि छन्दसि स्त्रियां बहुलम् इति वक्तव्यम् ।।
-6-3-93- समः समि (2952)
(पूर्वपदादेशाधिकरणम्)
(क्विग्रहणानर्थक्यबोधकभाष्यम्)
किमर्थमञ्चतिनह्यादिषु क्विग्रहणं क्रियते ।
इह मा भूत् --- समञ्चनम्, उपनहनम् ।
नैतदस्ति प्रयोजनम् । उत्तरपदे इति वर्तते । न चान्तरेण क्विपमञ्चतिनह्यादय उत्तरपदानि भवन्ति ।
तत्रान्तरेण क्विब्ग्रहणं क्विबन्त एव भविष्यति ।
तदादिविधिना प्राप्नोति ।
अत उत्तरं पठति ---
(6486 क्विब्ग्रहणस्य ज्ञापकत्वबोधकवार्तिकम् ।। 1 ।।)
- अञ्चतिनह्यादिषु क्विब्ग्रहणानर्थक्यं यस्मिन् विधिस्तदादावल्ग्रहणे -
अञ्चतिनह्यादिषु क्विब्ग्रहणमनर्थकम् ।
किं कारणम् ?
यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेष्वेतद्भवति । न चेदमल्ग्रहणम् ।
एवं तर्हि सिद्धे सति यदञ्चतिनह्यादिषु क्विब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः --- अन्यत्र धातुग्रहणे तदाविधिर्भवतीति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इत्यत्र अयस्कृत् अयस्कार इत्यपि सिद्धं भवति ।।
<M.5.259>
-6-3-95- सहस्य सध्रिः (2954)
(6487 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अद्रिसध्र्योरन्तोदात्तवचनं कृत्स्वरनिवृत्त्यर्थम् -
अद्रिसध्र्योरन्तोदात्तत्वं वक्तव्यम् ।
किं प्रयोजनम् ?
कृत्स्वरनिवृत्त्यर्थम् । कृत्स्वरो मा भूदिति । विष्वद्र्यङ्, विष्वद्र्यञ्ञ्चौ, विष्वद्र्यञ्ञ्चः । सध्र्यङ्, सध्र्यञ्ञ्चौ, सध्र्यञ्ञ्चः ।।
(प्रतिषेधभाष्यम्)
तत्र छन्दसि स्त्रियां प्रतिषेधो वक्तव्यः । विश्वाची, घृताची ।
यदि छन्दसि स्त्रियां प्रतिषेध उच्यते कथं --- सा कद्रीची ?
एवन्तर्हि छन्दसि स्त्रियां बहुलम् इति वक्तव्यम् ।।
-6-3-97- द्व्यन्तरुपसर्गेभ्योऽप इर्त् (2956)
(6488 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- समाप इर्त्वप्रतिषेधः -
समाप इर्त्वप्रतिषेधो वक्तव्यः । समापं नाम देवयजनम् ।।
अपर आह --- इर्त्वमनवर्णादिति वक्तव्यम् । समीपम्, अन्तरीपम् ।
इह मा भूत् --- प्रापम्, परापम् ।।
-6-3-98- ऊदनोर्देशे (2957)
(दीर्घोच्चारणप्रयोजनभाष्यम्)
दीर्घोच्चारणं किमर्थम् ?
<M.5.260>
न उदनोर्देशे इत्येवोच्यते ?
का रूपसिद्धिः ?
अनूपम्, सवर्णदीर्घत्वेन सिद्धम् ।
न सिद्ध्यति । अवग्रहे हि दोषः स्यात् ।।
-6-3-99- अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु (2958)
(लक्ष्यसिद्धिसाधकभाष्यम्)
अषष्ठ्यतृतीयास्थस्येत्युच्यते, तत्रेदं न सिध्यतिअन्यस्येदं --- अन्यदीयम् । अन्यस्य कारकः --- अन्यत्कारक इति ।।
एवं तर्ह्यविशेषेण अन्यस्य दुक् छकारकयोः इत्युक्त्वा ततो वक्ष्यामि --- अषष्ठ्यतृतीयास्थस्याशीराशास्थास्थितोत्सुकोतिरागेषु इति ।।
-6-3-101- कोः कत्तत्पुरुषेऽचि (2960)
(6489 उपसंख्यानवार्तिकम् ।। 1 ।।)
कद्भावे त्रावुपसंख्यानं कर्तव्यम् । कत्र्त्रयः ।
किमिदं कत्र्त्रय इति ?
कुत्सितास्त्रयः --- कत्र्त्रयः । के वा त्रयः, न बिभृयुः --- कत्र्त्रय इति ।।
-6-3-109- पृषोदरादीनि यथोपदिष्टम् (2968)
(निपातनाधिकरणम्)
(आदिपदार्थबोधकभाष्यम्)
पृषोदरादीनीत्युच्यते, कानि पृषोदरादीनि ?
पृषोदरप्रकाराणि ।
कानि पुनः पृषोदरप्रकाराणि ?
येषु लोपागमवर्णविकाराः श्रूयन्ते, न चोच्यन्ते ।।
(यथाशब्दार्थबोधकभाष्यम्)
अथ यथा इति किमिदम् ?
प्रकारवचने थाल् (5-3-23) ।।
(उपदिष्टार्थबोधकभाष्यम्)
अथ किमिदमुपदिष्टानीति ?
उच्चारितानि ।
कुत एतत् ?
दिशिरुच्चारणक्रियः । उच्चार्य हि वर्णानाह --- उपदिष्टा इमे वर्णाः इति ।
कैः पुनरुपदिष्टानि ?
शिष्टैः ।।
<M.5.261>
(शिष्टलक्षणभाष्यम्)
के पुनः शिष्टाः ?
वैयाकरणाः ।
कुत एतत् ?
शास्त्रपूर्विका हि शिष्टिः, वैयाकरणाश्च शास्त्रज्ञाः ।
यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकं च शास्त्रम्, तदितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते ।
एवं तर्हि निवासतश्चाचारतश्च ।
स चाचार आर्यावर्ते एव ।
(आर्यावर्तलक्षणभाष्यम्)
कः पुनरार्यावर्तः ?
प्रागादर्शात् --- प्रत्यक् कालकवनात् --- दक्षिणेन हिमवन्तम् --- उत्तरेण पारियात्रम् । एतस्मिन् आर्यावर्ते आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः किंचिदन्तरेण कस्याश्चिद्विद्यायाः पारं गतास्तत्र भवन्तः शिष्टाः ।।
आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशेष्यते ।।
अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते ।। इति ।।
(शास्त्रप्रयोजनभाष्यम्)
यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याय्या क्रियते ?
शिष्टपरिज्ञानार्थाऽष्टाध्यायी ।
कथं पुनरष्टाध्याय्या शिष्टाः शक्या विज्ञातुम् ?
अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानं ये वाऽस्यां विहिताः शब्दास्तान् प्रयुञ्ञ्जानम् । स पश्यति --- नूनमस्य देवानुग्रहः स्वभावो वा, योऽयं न चाष्टाध्यायीमधीते, ये चास्यां विहिताः शब्दास्तांश्च प्रयुङ्क्ते । नूनमयमन्यानपि जानाति --- इति ।
एवमेषा शिष्टज्ञानार्थाऽष्टाध्यायी --- इति ।।
<M.5.262>
(6490 विकल्पवार्तिकम् ।। 1 ।।)
- दिक्शब्देभ्यस्तीरस्य तारभावो वा -
दिक्शब्देभ्यस्तीरस्य तारभावो वा वक्तव्यः । दक्षिणतीरम्, दक्षिणतारम् । उत्तरतीरम्, उत्तरतारम् ।।
(6491 उपसंख्यानवार्तिकम् ।। 2 ।।)
- वाचो वादेर्डत्वं वल्भावश्चोत्तरपदस्येञ्ञि -
वाचो वादेर्डत्वं वक्तव्यं वल्भावश्चोत्तरपदस्य इञ्ञि वक्तव्यः । वाग्वादस्यापत्यं --- वाड्वलिः ।।
(6492 उपसंख्यानवार्तिकम् ।। 3 ।।)
- षष उत्वं दतृदशसूत्तरपदादेः ष्टुत्वं च -
षष उत्वं वक्तव्यम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यम् । षोडन्, षोडश ।।
(6493 उपसंख्यानवार्तिकम् ।। 4 ।।)
- धासु वा -
धासु वेति वक्तव्यम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यम् । षोढा, षड्ढा कुरु ।।
अथ किमर्थं बहुवचननिर्देशः क्रियते, न पुनर्धायामित्येवोच्येत ?
नानाधिकरणवाची यो धाशब्दस्तस्य ग्रहणं यथा विज्ञायेत ।
इह मा भूत् --- षट् दधातीति षड्धा --- इति ।।
(उपसंख्यानभाष्यम्)
दुरो दाशनाशदभध्येषूत्वं वक्तव्यम्, उत्तरपदादेश्च ष्टुत्वम् । दूडाशः, दूणाशः, दूडभः, दूढ्यः ।।
(6494 उपसंख्यानवार्तिकम् ।। 5 ।।)
- स्वरो रोहतौ छन्दस्युत्वम् -
स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम् । एहि त्वं जाये स्वरो रोहाव --- इति ।।
<M.5.263>
(6495 उपसंख्यानवार्तिकम् ।। 6 ।।)
- पीवोपवसनादीनां छन्दसि लोपः -
पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः । पीवोपवसनानाम् । पयोपवसनानाम् । श्रियेदम् ।।
-6-3-111- ढ्रलोपे पूर्वस्य दीर्घोऽणः (2970)
(दीर्घाधिकरणम्)
(पूर्वग्रहणप्रयोजनभाष्यम्)
पूर्वग्रहणं किमर्थम्, न तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-66) इति पूर्वस्य भविष्यति ?
न सिध्यति । न हि ढ्रलोपेनानन्तर्यमस्ति ।।
अथेह कस्मान्न भवति --- करणीयम् --- हरणीयम् --- इति ।
नैष दोषः । नैवं विज्ञायते --- ढ्रोर्लोपः --- ढ्रलोपः, ढ्रलोप इति ।
कथं तर्हि ?
ढ्रोर्लोपोऽस्मिन् सोऽयं --- ढ्रलोप इति ।
यद्येवं, नार्थः पूर्वग्रहणेन । भवति हि ढ्रलोपेनानन्तर्यम् ।।
इदं तर्हि प्रयोजनम् --- उत्तरपदे इति वर्तते, तेनानन्तर्यमात्रे यथा स्यात् । औदुम्बरी राजा । धूमाकी रथेन । पुना रूपाणि प्रकल्पयन् ।।
-6-3-112- सहिवहोरोदवर्णस्य (2971)
(वर्णग्रहणप्रयोजनभाष्यम्)
वर्णग्रहणं किमर्थम्, न सहिवहोरोदस्य इत्येवोच्येत ?
वृद्धावपि कृतायामोत्त्वं यथा स्यात् । उदवोढाम्, उदवोढम्, उदवोढेति ।।
(अवर्णप्रयोजनभाष्यम्)
अथावर्णग्रहणं किमर्थम् ?
इह मा भूत् --- ऊढः, ऊढवानिति ।
नैतदस्ति प्रयोजनम् । भवत्येवात्रौत्त्वम् ।
श्रवणं कस्मान्न भवति ?
पूर्वत्वमस्य भविष्यति ।
इदमिह संप्रधार्यम् --- ओत्त्वं क्रियतां पूर्वत्वमिति, किमत्र कर्तव्यम् ?
परत्वादोत्त्वम्, अन्तरङ्गं पूर्वत्वम् ।।
<M.5.264>
एवं तर्हीदमिह संप्रधार्यम् --- ओत्त्वं क्रियतां संप्रसारणमिति, किमत्र कर्तव्यम् ?
परत्वादोत्त्वम् ।
नित्यं संप्रसारणम्, कृतेऽप्योत्त्वे प्राप्नोत्यकृतेऽपि ।
ओत्त्वमपि नित्यम् ।
कथम् ?
कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि ।
अनित्यमोत्त्वम् । न हि कृते संप्रसारणे प्राप्नोति ।
किं कारणम् ?
अन्तरङ्गं पूर्वत्वम् । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च संप्रसारणमेवौत्त्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादोत्त्वम् । ओत्त्वे कृते सम्प्रसारणे कृते संप्रसारणपरपूर्वत्वम् । तत्र कार्यकृतत्वात् पुनरोत्त्वं न भविष्यति ।।
-6-3-116- नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (2975)
(पूर्वपदादेशाधिकरणम्)
(क्विग्रहणानर्थक्यबोधकभाष्यम्)
किमर्थमञ्चतिनह्यादिषु क्विग्रहणं क्रियते ।
इह मा भूत् --- समञ्चनम्, उपनहनम् ।
नैतदस्ति प्रयोजनम् । उत्तरपदे इति वर्तते । न चान्तरेण क्विपमञ्चतिनह्यादय उत्तरपदानि भवन्ति ।
तत्रान्तरेण क्विब्ग्रहणं क्विबन्त एव भविष्यति ।
तदादिविधिना प्राप्नोति ।
अत उत्तरं पठति ---
(6486 क्विब्ग्रहणस्य ज्ञापकत्वबोधकवार्तिकम् ।। 1 ।।)
- अञ्चतिनह्यादिषु क्विब्ग्रहणानर्थक्यं यस्मिन् विधिस्तदादावल्ग्रहणे -
अञ्चतिनह्यादिषु क्विब्ग्रहणमनर्थकम् ।
किं कारणम् ?
यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेष्वेतद्भवति । न चेदमल्ग्रहणम् ।
एवं तर्हि सिद्धे सति यदञ्चतिनह्यादिषु क्विब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः --- अन्यत्र धातुग्रहणे तदाविधिर्भवतीति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इत्यत्र अयस्कृत् अयस्कार इत्यपि सिद्धं भवति ।।
-6-3-121- इको वहेऽपीलोः (2980)
(उपसंख्यानभाष्यम्)
अपील्वादीनामिति वक्तव्यम् ।
इह मा भूत् --- रुचिवहम्, चारुवहम् ।।
-6-3-122- उपसर्गस्य घञ्ञ्यमनुष्ये बहुलम् (2981)
(उपसंख्यानभाष्यम्)
अमनुष्यादिष्विति वक्तव्यम् ।
इह मा भूत् --- प्रसेवः, प्रसारः, प्रहारः ।।
(6496 उपसंख्यानवार्तिकम् ।। 1 ।।)
- सादकारयोः कृत्रिमे -
सादकारयोः कृत्रिम इति वक्तव्यम् ।
इहैव यथा स्यात् --- एषोऽस्य प्रासादः । एषोऽस्य प्राकारः ।
कृत्रिम इति किमर्थम् ?
एषोऽस्य प्रकारः । एषोऽस्य प्रसाद इति ।।
(6497 उपसंख्यानवार्तिकम् ।। 2 ।।)
- प्रतिवेशादीनां विभाषा -
प्रतिवेशादीनां विभाषा दीर्घत्वं वक्तव्यम् । प्रतिवेशः, प्रतीवेशः । प्रतिकारः, प्रतीकारः ।।
<M.5.265>
-6-3-124- दस्ति (2983)
(पक्षद्वयोपस्थापकं भाष्यम्)
कथमिदं विज्ञायते--दा इत्येतस्य--तकारादाविति, आहोस्वित्तकारान्त इति ।
किञ्ञ्चातः ?
यदि विज्ञायते--तकारादाविति, नीत्ता--वीत्ता--अत्र न प्राप्नोति ।
अथ विज्ञायते--तकारान्त इति, सुदत्तं--प्रतिदत्तं--अत्रापि प्राप्नोति ।।
(सिद्धान्तभाष्यम्)
यथेच्छसि तथाऽस्तु ।
अस्तु तावत्तकारादाविति ।
कथं नीत्ता वीत्ता ?
र्चत्वे कृते भविष्यति ।
असिद्धं र्चत्वं तस्यासिद्धत्वान्न प्राप्नोति ।
आश्रयात्सिद्धत्वं भविष्यति ।।
अथवा पुनरस्तु तकारान्त इति ।
कथं सुदत्तं प्रतिदत्तम् ?
नैतत्तकारान्तं
किं तर्हि ?
थकारान्तमेतत् ।।
-6-3-138- चौ (2997)
(ज्ञापकत्वसंपादकभाष्यम्)
इहान्ये आचार्याः --- चौ प्रत्यङ्गस्य प्रतिषेधमाहुः, तदिहापि साध्यम् ।
नैष दोषः ।
एतदेव ज्ञापयत्याचार्यः --- न चौ प्रत्यङ्गं भवतीति, यदयं चौ दीर्घत्वं शास्ति ।।
<M.5.266>
-6-3-139- सम्प्रसारणस्य (2998)
(6498 विप्रतिषेधवार्तिकम् ।। 1 ।।)
- इको ह्रस्वात्सम्प्रसारणदीर्घत्वं विप्रतिषेधेन -
इको ह्रस्वात्सम्प्रसारणदीर्घत्वं भवति विप्रतिषेधेन ।
इको ह्रस्वस्यावकाशः --- ग्रामणिकुलम्, सेनानिकुलम् ।
सम्प्रसारणदीर्घत्वस्यावकाशः --- विभाषा ह्रस्वत्वम्, यदा न ह्रस्वत्वं सोऽवकाशः ।
ह्रस्वप्रसङ्ग उभयं प्राप्नोति --- कारीषगन्धीपुत्रः, कौमुदगन्धीपुत्रः ।
सम्प्रसारणदीर्घत्वं भवति विप्रतिषेधेन ।।
अथेदानीं दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् ह्रस्वत्वं कस्मान्न भवति ?
सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव --- इति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य तृतीये पादे तृतीयमाह्निकम् ।।
इति पादश्च तृतीयः ।।
-9-9-999-