सामग्री पर जाएँ

महाभाष्यम्/तृतीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः

-3-2-1- कर्मण्यण् (768)
(439 अण्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आदृ 1 )
(1997 परिसंख्यावार्तिकम्।। 1 ।।)
(- कर्मणि निर्र्वत्यमानविक्रियमाण इति वक्तव्यम्। इह मा भूत्----आदित्यं पश्यति, हिमवन्तं श्रृणोति, ग्रामं गच्छतीति।।
(1998 अप्राप्तविधायकवार्तिकम्।। 2 ।।)
- कर्मणि निर्वत्यमानविक्रियमाणे इति चेद् वेदाध्यायादीनामुपसंख्यानम्-
(भाष्यम्) कर्मणि निर्र्वत्यमानविक्रियमाण इति चेद्वेदाध्यायादीनामुपसंख्यानं कर्तव्यम्। वेदाध्यायः चर्चापारः शमनीपारः।।
(1999 परिगणनवार्तिकम्।। 3 ।।)
- यत्र च नियुक्तः-
(भाष्यम्) यत्र च नियुक्तस्तत्र चोपसंख्यानं कर्तव्यम्। छत्रधारः द्वारपालः।।
(2000 परिगणनवार्तिकम्।। 4 ।।)
- हृग्रहिनीवहिभ्यश्च-
(भाष्यम्) हृग्रहिनीवहिभ्यश्च वक्तव्यम्। दृ---भारहारः। हृ।। ग्रहि---कमण्डलुग्राहः। ग्रहि।। नी---उष्ट्रप्रणायः। नी।। वहि---भारवाहः। वहि।।
(2001 परिगणनप्रत्याख्यानवार्तिकम्।। 5 ।।)
- अपरिगणनं वा -
(भाष्यम्) न वार्थः परिगणनेन।।
(आक्षेपभाष्यम्)
कस्मान्न भवति----आदित्यं पश्यति, हिमवन्तं श्रृणोति, ग्रामं गच्छतीति?।
(2002 प्रत्याख्यानहेतुवार्तिकम्।। 6 ।।)
- अनिभिधानात्-
(भाष्यम्) अनभिधानादेव न भविष्यति।
(2003 विप्रतिषेधवार्तिकम्।। 7 ।।)
- अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन-
(भाष्यम्) अकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन। अनुपपदस्यावकाशः----पचतीति पचः, कर्मोपपदस्यावकाशः----कुम्भकारः नगरकारः। इहोभयं प्राप्नोति---ओदनपाचः। कर्मोपपदो भवति विप्रतिषेधेन।।
अनुपपदस्यावकाशः---विक्षिपः विलिखः। कर्मोपपदस्य स एव। इहोभयं प्राप्नोति---काष्ठभेदः। कर्मोपपदो भवति विप्रतिषेधेन।।
अनुपपदस्यावकाशः----जानातीति ज्ञः। कर्मोपपदस्य स एव। इहोभयं प्राप्नोति---अर्थज्ञः। कर्मोपपदो भवति विप्रतिषेधेन।।
(विप्रतिषेधायुक्तत्वभाष्यम्)
नैष युक्तो विप्रतिषेधाः। अनुपपदस्तृतीयः। ण्वुल्तृजचः। तेषां णः । तस्य कः। स यथैव को णं बाधते एवं कर्मोपपदमपि बाधेत।।
(विप्रतिषेधसाधकभाष्यम्)
कर्मोपपदोपि तृतीयः। ण्वुल्तृजचः। तेषामण्। अणः कः। उभयोस्तृतीययोर्युक्तो विप्रतिषेधः।।
(विप्रतिषेधोदाहरणान्तरभाष्यम्)
अनुपपदस्यावकाशः---लिम्पतीति लिम्पः। कर्मोपपदस्य ---स एव। इहोभयं प्राप्नोति---कुड्यलेप इति। कर्मोपपदो भवति विप्रतिषेधेन।।
(विप्रतिषेधबाधकभाष्यम्)
नैष युक्तो विप्रतिषेधः। अनुपपदस्तृतीयः। ण्वुल्तृजचः। तेषां कः। कस्य शः। स यथैव शः कं बाधते एवं कर्मोपपदमपि बाधेत।।
(सिध्युपायप्रश्नभाष्यम्)
का तर्हि गतिः?।
(सिध्युपायभाष्यम्)
मध्येऽपवादाः पूर्वान् विधीन्बाधन्ते नोत्तरानि त्येवं शः कं बाधिष्यते, कर्मोपपदं न बाधिष्यते।।
(विप्रतिषेधोदाहरणान्तरभाष्यम्)
अनुपपदस्यावकाशः सुग्लः सुम्लः। कर्मोपपदस्य स एव। इहोभयं प्राप्नोति। गोसंदायः बडवासंदायः। कर्मोपपदो भवति विप्रतिषेधेन।।
(विप्रतिषेधबाधकभाष्यम्)
नैष युक्तो विप्रतिषेधः। अनुपपदस्तृतीयः। ण्वुल्तृजचः। तेषां णः। तस्य कः। स यथैव को णं बाधते एवं कर्मोपपदमपि बाधेत।।
(गतिप्रश्नभाष्यम्)
का तर्हि गतिः?।
(गतिभाष्यम्)
पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानित्येवमयं को णं बाधिष्यते, कर्मोपपदं न बाधिष्यते।।
(2004 णप्रत्ययविधिवार्तिकम्।। 8 ।।)
- शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च-
(भाष्यम्) शीलिकामिभक्ष्याचरिभ्यो णो वक्तव्यः, पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। शीलिमांसशीलः। मांसशीला। कामि--- मांसकामः मांसकामा। भक्षि----मांसभक्षः मांसभक्षा। आचरी---कल्याणाचारः कल्याणाचारा।।
(2005 णप्रत्ययवार्तिकम्।। 9 ।।)
- इर्क्षिक्षमिभ्यां च-
(भाष्यम्) इर्क्षिक्षमिभ्यां चेति वक्तव्यम्। सुखप्रतीक्षः सुखप्रतीक्षा। कल्याणक्षमः कल्याणक्षमा।।
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।
(समाधानभाष्यम्)
पूर्वपदप्रकृतिस्वरत्वं वक्ष्यामि। इर्कारश्च माभूदिति।।
(प्रयोजननिराकरणभाष्यम्)
नेतदस्ति प्रयोजनम्। इह यो मांसं भक्षयति मांसं तस्य भक्षो भवति। तत्र योसौ भक्षयतेरच् तदन्तेन बहुव्रीहिः।।
(ज्ञापनभाष्यम्)
एवं तर्हि सिद्धे सति यत्कर्मोपपदं णं शास्ति तज्ज्ञापयत्याचार्यः---समानेर्थे केवलं विग्रहभेदाद् यत्र कर्मोपपदश्च प्राप्नोति बहुव्रीहिश्च, कर्मोपदस्तत्र भवतिःथ्द्य;ति।।
किमेतस्य ज्ञापने प्रयोजनम्?।
काण्डलावः। काण्डानि लावोऽस्येति बहुव्रीहिर्न भवति।।
(ज्ञापनवैर्यथ्यभाष्यम्)
भवति बहुव्रीहिरपि मांसे कामोस्य मांसकामः मांसकामुक इति वा।। (न त्वम्भोभिगमा।) न त्विदं भवति अम्भोऽभिगामोऽस्या अम्भोभिगमा इति। किं तर्हि?। अम्भोभिगामीःथ्द्य;त्येव भवति। काण्डलावेपि च विग्रहाभावान्न ज्ञापकस्य प्रयोजनं भवतीति। नैषोस्ति विग्रहः----काण्डानिलावोऽस्येति।।
(2006 वार्तिकम्।। 10 ।।)
- अन्नादायेति च कृतां व्यत्ययश्छन्दसि-
(भाष्यम्) अन्नादायेति च कृतां व्यत्ययश्छन्दसिद्रष्टव्यः। अन्नादायान्नपतये य आहुतिमन्नादां कृत्वा।। कर्मण्यम्।। 1 ।।
(अथ कप्रत्ययप्रकरणम्)
-3-2-3- आतोऽनुपसर्गे कः (770)
(470 कप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.2 सू.)
(2006 कबाधकवार्तिकम्।। 1 ।।)
- कविधौ सर्वत्र प्रसारणिभ्यो ङः-
(भाष्यम्) कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। ब्रह्मज्य इति।।
(आक्षेपभाष्यम्)
किमुच्यते--सर्वत्रेति?।
(समाधानभाष्यम्)
अन्यत्रापि। नावश्यमिहैव।
क्वान्यत्र?।
आह्वः प्रह्व इति।।
(2008 हेतुवार्तिकम्।। 2 ।।)
- के हि संप्रसारणप्रसङ्गः-
(भाष्यम्) के हि सति संप्रसारणं प्रसज्येत। संप्रसारणे कृते संप्रसारणस्य पूर्वत्वे च उवङादेशः। आहुव इत्येतद्रूपं प्रसज्येत।।
(आक्षेपभाष्यम्)
स तर्हि वक्तव्यः?।
(वार्तिकप्रत्याख्यानभाष्यम्)
न वक्तव्यः। अस्त्वत्र संप्रसारणम्। संप्रसारणे कृते आकारलोपः। तस्य स्थानिवद्भावादुवङादेशो न भविष्यति।।
(वार्तिकस्थापनभाष्यम्)
पूर्वत्वे कृते प्राप्नोति।।
(वार्तिकप्रत्याख्यानभाष्यम्)
एवं तर्हीदमिह संप्रधार्यम्----आकारलोपः क्रियताम्, पूर्वत्वमिति। किमत्र कर्तव्यम्?। परत्वाद् आकारलोपः।।
(वार्तिकस्थापनभाष्यम्)
न सिध्यति। अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति।।
(वार्तिकप्रत्याख्यानभाष्यम्)
एवं तर्हि वार्णादाङ्गं बलीयः इत्याकारलोपो भविष्यति।।
(प्रकारान्तरेण आकारलोपसाधकभाष्यम्)
एवं तर्हि---इदमिह संप्रधार्यम्। आकारलोपः क्रियतां, संप्रसारणमिति। किमंत्र कर्तव्यम्?। परत्वादकारलोपः।।
(वार्तिकस्थापनभाष्यम्)
नित्यं संप्रसारणम् कृतेऽप्याकारलोपे प्राप्नोति, अकृतेऽपि।।
(वार्तिकप्रत्याख्यानवादिभाष्यम्)
आकारलोपोपि नित्यः। कृतेपि संप्रसारणे प्राप्नोति, अकृतेपि।।
(वार्तिकावश्यकतासमर्थकभाष्यम्)
अनित्य आकारलोपः। न हि कृते संप्रसारणे प्राप्नोति। अन्तरङ्गं हि पूर्वत्वं बाधते।।
(वार्तिकप्रत्याख्यानभाष्यम्)
यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्। न च संप्रसारणमेवाकारलोपस्य निमित्तं विहन्ति। अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम्।।
(वार्तिकाभावे लक्ष्यतीत्युपसंहारभाष्यम्)
उभयोर्नित्ययोः परत्वादाकारलोपः। आकारलोपे कृते संप्रसारणे कृते यणादेशेन सिद्धं रूपम्आह्वः प्रह्व इति।।
(वार्तिकावश्यकतासाधकभाष्यम्)
एवमपि न सिध्यति। योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः आदिष्टाच्चैषोऽचः पूर्वो भवति।।
(वार्तिकप्रत्याख्यानभाष्यम्)
एवं तर्हि आकारलोपस्यासिद्धत्वादुवङादेशो न भविष्यति।।
(अनिष्टापत्तिभाष्यम्)
इहापि तर्ह्याकारलोपस्यासिद्धत्वादुवङादेशो न स्याद् जुहुवतुः जुहुवुरिति।।
(समाधानभाष्यम्)
अस्त्यत्र विशेषः। अकृतेत्रात्वे पूर्वत्वं भवति।। इदमिह संप्रधार्यम्---आत्वं क्रियताम्, पूर्वत्वमिति। किमिह कर्तव्यम्?। परत्वात्पूर्वत्वम्।।
(समाधानबाधकभाष्यम्)
न सिध्यति। अन्तरङ्गत्वादात्वं प्राप्नोति।। एवं तर्हीदमिह संप्रधार्यम्---आत्वं क्रियताम्, संप्रसारणमिति। किमत्र कर्तव्यम्?। परत्वादात्वम्।।
(समाधानसाधकभाष्यम्)
नित्यं संप्रसारणम्, कृतेऽप्यात्वे प्राप्नोति, अकृतेऽपि।।
(समाधानसाधकभाष्यम्)
आत्वमपि नित्यम्। कृतेऽपि संप्रसारणे प्राप्नोति, अकृतेऽपि।।
(समाधानसाधकभाष्यम्)
अनित्यमात्वम्। नहि कृते संप्रसारणे प्राप्नोति। परत्वात्पूर्वत्वेन भवितव्यम्।।
(समाधानबाधकभाष्यम्)
यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्। न च संप्रसारणमेवात्त्वस्य निमित्तं विहन्ति। अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम्। उभयोर्नित्ययोः परत्वादात्वम्। आत्त्वे कृते संप्रसारणम्।।
(समाधानभाष्यम्)
एवं तर्हि पूर्वत्वे योगविभागः करिष्यते---संप्रसारणात् संप्रसारणात्परः पूर्वो भवति।। ततः एङ एङश्च संप्रसारणात्पूर्वो भवति।। किमर्थमिदम्?। अकृते आत्त्वे पूर्वत्वं यथा स्यात्।। ततः पदान्तादिति ठएङः इत्येव।।
(आक्षेपभाष्यम्)
इहापि तर्ह्यकृत आत्त्वे पूर्वत्वं स्याद् आह्वः प्रह्व इति।।
(समाधानभाष्यम्)
अस्त्यत्र विशेषः। आकारान्तलक्षणः कप्रत्ययविधिः। तेनानेनावश्यमात्वं प्रतीक्ष्यम्। लिट् पुनरविशेषेण धातुमात्राद्विधीयते। नित्यं प्रसारणं ह्वो यण् वार्णादाङ्गं न पूर्वत्वं हि।
योनादिष्टादचः। पूर्वस्तत्कार्ये स्थानिवत्त्वं हि।।
प्रोवाच भगवान्कात्यस्तेनासिद्धिर्यणस्तु ते।
आतः को लिण्नैङः पूर्वः सिद्ध आह्वस्तथा सति।। आतोऽनुपसर्गे।। 3 ।।
-3-2-4- सुपि स्थः (771)
(471 कप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.3 सूत्रम्)
(2009 भावार्थविधिवार्तिकम्।। 1 ।।)
- सुपि स्थो भावे च-
(भाष्यम्) सुपिस्थ इत्यत्र भावे चेति वक्तव्यम्। इहापि यथा स्यात्---आखूत्थो वर्तते। श्येनोत्थः शलभोत्थः।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्।
(प्रत्याख्यानभाष्यम्)
न वक्तव्यम्।
(2010 प्रत्याख्यानसाधकवार्तिकम्।। 2 ।।)
- योगविभागात्सिद्धम्-
(भाष्यम्) योगविभागः करिष्यते----आतोऽनुपसर्गे कः आतोऽनुपसर्गे को भवति। ततः---सुपि सुपि चातः को भवति। कच्छेन पिबति कच्छपः। कटाहेन पिबति कटाहपः। द्वाभ्यां पिबति द्विपः। ततः----स्थः स्थश्च सुपि को भवति।। किमर्थमिदम्?। भावे यथा स्यात्।।
(आक्षेपभाष्यम्)
कुतो नु खल्वेतद् भावे भविष्यति, न पुनः कर्मादिष्वपि कारकेष्विति।
(समाधानभाष्यम्)
योगविभागादयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे आदिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्तीति। तद्यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति। सोऽसौ स्वार्थे भवन्भावे भविष्यति।। सुपि स्थः।। 4 ।।
-3-2-5- तुन्दशोकयोः परिमृजापनुदोः (772)
 (472 कप्रत्ययविधिसूत्रम्। 3 । 2 । 1 आ.4)
(2011 अर्थपरिसंख्यावार्तिकम्।। 1 ।।)
- तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयोः-
(भाष्यम्) तुन्दशोकयोः परिमृजापनुदोरित्यत्र आलस्यसुखाहरणयोः इति वक्तव्यम्। तुन्दपरिमृजोऽलसः। शोकापनुदः पुत्रो जातः। यो हि तुन्दं परिमार्ष्टि तुन्दपरिमार्जः स भवति। यश्च शोकमपनुदति शोकापनोदः स भवति।।
(2012 कप्रत्ययविधिवार्तिकम्।। 2 ।।)
- कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्-
(भाष्यम्) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानं कर्तव्यम्। मूलविभुजो रथः। नखमुचानि धनूंषि। काकगुहास्तिलाः। सरसीरुहं कुमुदम्।। तुन्दशोकयोः।। 5 ।।
-3-2-8- गापोष्टक् (775)
(473 टक्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.5 )
(2013 उपपदपरिसंख्यावार्तिकम्।। 1 ।।)
- सुराशीध्वोः पिबतेः-
(भाष्यम्) सुराशीध्वोः (पिबते) रिति वक्तव्यम्। इह मा भूत्----क्षीरपा ब्राह्मणीति।। पिबतेरिति च वक्तव्यम्। या हि सुरां पाति सुरापा सा भवति।।
(2014 वार्तिकम्।। 2 ।।)
- बहुलं तणि-
(भाष्यम्) बहुलं तणीति वक्तव्यम्।
किमिदं तणीति?।
संज्ञाछन्दसोर्ग्रहणम्। या ब्राह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति। या ब्राह्मणी सुरापा भवति नैनां देवाः पतिलोकं नयन्ति।। गापोष्टक्।। 8 ।।
(अथ अच्प्रकरणम्)
-3-2-9- हरतेरनुद्यमनेऽच् (776)
(474 अच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.6)
(2015 अच्प्रत्ययविधिवार्तिकम्।। 1 ।।)
- अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसंख्यानम्-
(भाष्यम्) अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघठीधनुष्षु ग्रहेरुपसंख्यानं कर्तव्यम्। शक्तिग्रहः। शक्ति।। लाङ्गलः----लाङ्गलग्रहः। लाङ्गल।। अङ्कुश---अङ्कुशग्रहः। अङ्कुश।। यष्टि---यष्टिग्रहः। यष्टि।। तोमर---तोमरग्रह। तोमर।। घट----घटग्रहः। घट।। घटी---घटीग्रहः । घटी।। धनुष्---धनुर्ग्रहः। धनुष्।।
(2013 वार्तिकम्।। 2 ।।)
- सूत्रे च धार्यर्थे-
(भाष्यम् सूत्रे च धार्यर्थे ग्रहेरुपसंख्यानं कर्तव्यम्। सूत्रग्रहः।। धार्यर्थ इति किमर्थम्?। यो हि सूत्रं गृह्णाति सूत्रग्राहः स भवति।। हरतेरनुद्यमने ।। 9 ।।
-3-2-13- स्तम्बकर्णयोरमिजपोः (780)
(475 अच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ।7)
(2017 अर्थपरिसंख्यावार्तिकम्।। 1 ।।)
- स्तम्बकर्णयोर्हस्तिसूचकयोः-
(भाष्यम्) स्तम्बकर्णयोरित्यत्र हस्तिसूचकयोरिति वक्तव्यम्। स्तम्बेरमो हस्ती। कर्णेजपः सूचकः। स्तम्बेरन्ता कर्णे जपितेत्येवान्यत्र।। स्तम्बकर्णयोः।। 13 ।।
-3-2-14- शमि धातोः संज्ञायाम् (789)
(476 अच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.8)
(आक्षेपभाष्यम्)
धातुग्रहणं किमर्थम्?।
(2018 समाधानवार्तिकम्।। 1 ।।)
- शमि संज्ञायां धातुग्रहणं कृञ्ञो हेत्वादिषु टप्रतिषेधार्थम्-
(भाष्यम्) शमि संज्ञायां धातुग्रहणं क्रियते कृञ्ञो हेत्वादिषु टो मा भूदिति। शमि संज्ञायां धातोरज्भवतीत्यस्यावकाशः शंभवः शंवदः। टस्यावकाशः---श्राद्धकरः पिण्डकरः। शंकरा नाम परिव्राजिका शंकरा नाम शकुनिका तच्छीला च, तस्यामुभयं प्राप्नोति। परत्वाटः स्यात्।। धातुग्रहणसार्मथ्यादजेव भवति।।
(वार्तिकोक्तप्रयोजनप्रत्याख्यानभाष्यम्)
कुरणवाडवस्त्वाह---नैषा शंकरा। शंगरा एषा।। कुत एतत्?। गृणातिः शब्दकर्मा। तस्यैष प्रयोगः।। शमि धातो।। 14 ।।
-3-2-15- अधिकरणे शेतेः (782)
(477 अच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 । आ.9)
(2019 उपपदपरिसंख्यावार्तिकम्।। 1 ।।)
- अधिकरणे शेतेः पार्श्वादिषूपसंख्यानम्-
(भाष्यम्) अधिकरणे शेतेः पार्श्वादिषूपसंख्यानं कर्तव्यम्। पार्श्वशयः पृष्ठशयः उदरशयः।।
(2020 उपपदपरिसंख्यावार्तिकम्।। 2 ।।)
- दिग्धसहपूर्वाच्च-
(भाष्यम्) दिग्धसहपूर्वाच्चेति वक्तव्यम्। दिग्धसहशयः।।
(2021 उपपदन्यूनतापूरकवार्तिकम्।। 3 ।।)
- उत्तानादिषु कर्तृषु-
(भाष्यम्) उत्तनादिषु कर्तृष्विति वक्तव्यम्। उत्तानशयः। अवमूर्धशयः।
(2022 उपपदवार्तिकम्।। 4 ।।)
- गिरौ डश्छन्दसि-
(भाष्यम्) गिरावुपपदे छन्दसि डो वक्तव्यः। गिरौ शेते गिरिशः।।
(2023 प्रत्याख्यानवार्तिकम्।। 5 ।।)
- तद्धितो वा -
(भाष्यम्) तद्धितो वा पुनरेष भविष्यति। गिरौशेते गिरिरस्यास्तीति गिरिशः।। अधिकरणे।। 15 ।।
(टप्रत्ययप्रकरणम्)
-3-2-17- भिक्षासेनादायेषु च (784)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति---कुरूंश्चरति पञ्ञ्चालांश्चरतीति?।
(समाधानभाष्यम्)
अधिकरण इति वर्तते।।
ननु च कर्मणीत्यपि वर्तते। तत्र कुत एतद् अधिकरणे भविष्यति न पुनः कर्मणीति।।
(2024 समाधानवार्तिकम्।। 1 ।।)
- चरेर्भिक्षाग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य-
(भाष्यम्) यदयं भिक्षासेनादायेषु च इति चरेर्भिक्षाग्रहणं करोति तज्ज्ञापयत्याचार्यो न भवति कर्मणीति चरेष्टः।। 16 ।।
-3-2-21- दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु।(788)
(479 कृञ्ञष्टप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ. 11 सूत्रम्)
(2025 अच्प्रत्ययविधिवार्तिकम्।। 1 ।।)
- किंयत्तद्बहुषु कृञ्ञोऽज्विधानम्-
(भाष्यम्) किंयत्तद्बहुषु कृञ्ञोज्विधानं कर्तव्यम्। किंकरा यत्करा तत्करा बहुकरा।। दिवाविभा।। 21 ।।
-3-2-24- स्तम्बशकृतोरिन् (791)
(अथेन्प्रत्ययप्रकरणम्)
(2026 अर्थपरिसंख्यावार्तिकम्।। 1 ।।)
- स्तम्बशकृतोर्व्रीहिवत्सयोः-
(भाष्यम्) स्तम्बशकृतोरित्यत्र व्रीहिवत्सयोरिति वक्तव्यम्। स्तम्बकरिव्रीहिः शकृत्करिर्वत्सः।। स्तम्बशकृतो।। 24 ।।
-3-2-26- फलेग्रहिरात्मंभरिश्च (793)
(481 इन्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.13)
(आक्षेपभाष्यम्)
आत्मंभरिरिति किं निपात्यते।
(समाधानभाष्यम्)
आत्मनो मुम् भृञ्ञश्चेन्प्रत्ययः।।
(न्यूनताप्रदर्शकभाष्यम्)
अत्यल्पमिदमुच्यते आत्मनः इति।
(2027 न्यूनतापूरकवार्तिकम्।। 1 ।।)
- भृञ्ञः कुक्ष्यात्मनोर्मुम् च-
(भाष्यम्) भृञ्ञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्यम्। कुक्षिंभरिः। आत्मंभरिश्चरति यूथमसेवमानः।। फलेग्रहिरात्मं।।
26 ।।
-3-2-28- एजेः खश् (794)
(482 खश्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ. 14 सू)
(2028 खश्प्रत्ययविधिवार्तिकम्।। 1 ।।)
- खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः-
(भाष्यम्) खश्प्रकरणे वातशुनीतिलशर्धेषु अजधेट्तुदजहातिभ्य इति वक्तव्यम्। वातमजाः मृगाः वात।। शुनी---शुनिंधयः। शुनी।। तिल---तिलंतुदः। तिल।। शर्ध ---- शर्धंजहा माषाः।। शर्ध।। एजेः।। खश्।। 28 ।।
-3-2-28- एजेः खश् 794
(482 खश्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ. 14 सू)
(2028 खश्प्रत्ययविधिवार्तिकम्।। 1 ।।)
- खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः -
(भाष्यम्) खश्प्रकरणे वातशुनीतिलर्शर्धेषु अजधेट्तुदजहातिभ्य इति वक्तव्यम्। वातमजाः मृगाः वात।। शुनी---शुर्निधयः। शुनी।। तिल---तिलंतुदः। तिल।। शर्ध----शर्धेजहा माषाः।। शर्ध।। एजेः खश्।। 28 ।।
-3-2-29- नासिकास्तनयोर्ध्माधेटोः (796)
(473 खश्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ. 15 सूत्रम्)
(2029 करणीयसूत्रपाठदर्शकवार्तिकम्।। 1।।)
- स्तने धेटः-
(भाष्यम्) स्तने धेट इति वक्तव्यम्। स्तनंधयः। ततो,
(2030 करणीयसूत्रपाठदर्शकवार्तिकम्।। 2 ।।)
- मुष्टौ ध्मश्च-
(भाष्यम्) मुष्टौ ध्मश्च धेटश्चेति वक्तव्यम्। मुष्टिंधमः मुष्टिंधयः।
(2031 करणीयसूत्रपाठदर्शकवार्तिकम्।। 3 ।।)
- नासिकायां ध्मश्च धेष्टश्च-
(भाष्यम्) नासिकायां ध्मश्च धेटश्चेति वक्तव्यम्। नासिकंधमः। नासिकंधयः।।
(न्यूनताप्रदर्शकभाष्यम्)
अत्यल्पमिदमुच्यते।
(2032 न्यूनतापूरकवार्तिकम्।। 4 ।।)
- नासिका नाडीमुष्टिघटीखारीषु-
(भाष्यम्) नासिकानाडीमुष्टिघटीखारीष्विति वक्तव्यम्।
नासिकंधयः नासिकंधमः। नासिका।। नाडिंधयः नाडिंधमः घटिंधयः। घटी।। खारिंधयः खारिंधमः। खारी।। नासिकास्तन।। 29 ।।
-3-2-30- नाडीमुष्ट्योश्च (797)
(2029 करणीयसूत्रपाठदर्शकवार्तिकम्।। 1।।)
- स्तने धेटः-
(भाष्यम्) स्तने धेट इति वक्तव्यम्। स्तनंधयः। ततो,
(2030 करणीयसूत्रपाठदर्शकवार्तिकम्।। 2 ।।)
- मुष्टौ ध्मश्च-
(भाष्यम्) मुष्टौ ध्मश्च धेटश्चेति वक्तव्यम्। मुष्टिंधमः मुष्टिंधयः।
(2031 करणीयसूत्रपाठदर्शकवार्तिकम्।। 3 ।।)
- नासिकायां ध्मश्च धेष्टश्च-
(भाष्यम्) नासिकायां ध्मश्च धेटश्चेति वक्तव्यम्। नासिकंधमः। नासिकंधयः।।
(न्यूनताप्रदर्शकभाष्यम्)
अत्यल्पमिदमुच्यते।
(2032 न्यूनतापूरकवार्तिकम्।। 4 ।।)
- नासिका नाडीमुष्टिघटीखारीषु-
(भाष्यम्) नासिकानाडीमुष्टिघटीखारीष्विति वक्तव्यम्।
नासिकंधयः नासिकंधमः। नासिका।। नाडिंधयः नाडिंधमः घटिंधयः। घटी।। खारिंधयः खारिंधमः। खारी।। नासिकास्तन।। 30 ।।-3-3-38- प्रियवशे वदः खच् (805)
(484 खच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.16 सू.)
(2033 खच्प्रत्ययवार्तिकम्।। 1 ।।)
- खच्प्रकरणे गमेः सुपि उपसंख्यानम्-
(भाष्यम्) खच्प्रकरणे गमेः सुपि उपसंख्यानं कर्तव्यम्। मितंगमो हस्ती मितंगमा हस्तिनी।।
(2034 वार्तिकम्।। 2 ।।)
- खच्च डिद्धा-
(भाष्यम्) डे च विहायसो विह इत्ययमादेशो वक्तव्यः विहगः।। प्रियवशे।। 38 ।।
-3-2-48- अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः (7815)
(485 गमेर्डप्रत्ययविधिसूत्रम्।। 3 । 2 ।। 1 ।। आ.17 सू.)
(2037 उपपदन्यूनतापूरकवार्तिकम्।। 1 ।।)
- डप्रकरणे सर्वत्रपन्नयोरुपसंख्यानम्-
(भाष्यम्) डप्रकरणे सर्वत्रपन्नयोरुपसंख्यानं कर्तव्यम्। सर्वत्रगः पन्नगः।।
(2038 न्यूनतापूरकवार्तिकम्।। 2 ।।)
- उरसो लोपश्च-
(भाष्यम्) उरसो लोपश्च वक्तव्यः उरगः।।
(2039 न्यूनतापूरकवार्तिकम्।। 3 ।।)
- सुदुरोरधिकरणे-
(भाष्यम्) सुदुरोरधिकरणे डो वक्तव्यः। सुगः दुर्गः।।
(2040 न्यूनतापूरकवार्तिकम्।। 4 ।।)
- निसो देशे -
(भाष्यम्) निसो देशे डो वक्तव्यः। निर्गो देशः।। अपर आह----
(2041 अपरिसंख्यातोपपदवार्तिकम्।। 5 ।।)
- डप्रकरणे अन्येष्वपि दृश्यते-
(भाष्यम्) डप्रकरणे अन्येष्वपि डो भवतीति वक्तव्यम्। तत्र स्त्र्यगारगः अश्नुते यावदन्नाय ग्रामगः ध्वंसते गुरुतल्पग इति।। अन्तात्यन्ता।। 48 ।।
-3-2-49- आशिषि हनः (816)
(486 डप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.18 सू.)
(2042 अन्प्रत्ययादिविधिवार्तिकम्।। 1 ।।)
- दारावुपपदे आङ्पूर्वाद्धन्तेरण्वक्तव्यः। अन्त्यस्य च टो वक्तव्यः। दार्वाघाटस्ते वनस्पतीनाम्।।
(2043 वार्तिकम्।। 2 ।।)
- चारौ वा -
(भाष्यम्) चारावुपपदे आङ्पूर्वाद्धन्तेरण्वक्तव्यः। अन्त्यस्य च टो वा वक्तव्यः। वर्णसंघाटः वर्णसंघातः। पदसंघाटः
पदसंघातः।। आशिषि।। 49 ।।
-3-2-52- लक्षणे जायापत्योष्टक् (819)
(487 टक्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.19 सूत्रम्)
(आक्षेपभाष्यम्)
कथमिदं विज्ञायते---लक्षणे कर्तरि, आहोस्वित् लक्षणवति कर्तरीति। किं चातः?। यदि विज्ञायते----लक्षणे कर्तरी ति। सिद्धं जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखेति। इदं तु न सिध्यति---जायाघ्नो ब्राह्मणः, पतिघ्नी
वृषलीति।।
अथ विज्ञायते---लक्षणवति कर्तरीति। सिद्धं जायाघ्नो ब्राह्मणः पतिघ्नी वृषलीति। जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखेति न सिध्यति।।
(प्रथमकल्पस्वीकरणभाष्यम्)
अस्तु तर्हि लक्षणे कर्तरीति।।
(दूषणभाष्यम्)
कथं जायाघ्नो ब्राह्मणः पतिघ्नी वृषलीति?।
(दूषणोद्धारभाष्यम्)
अकारो मत्वर्थीयः। जायाघ्नोऽस्मिन्नस्ति सोऽयं जायाघ्न इति।।
(आक्षेपभाष्यम्)
पतिघ्नी वृषलीति न सिध्यति।।
(द्वितीयकल्पस्वीकरणभाष्यम्)
अस्तु तर्हि लक्षणवति कर्तरीति।।
(दूषणस्मारणभाष्यम्)
कथंजायाघ्नस्तिलकालकः पतिघ्नी पाणिरेखेति?।
(समाधानभाष्यम्)
अमनुष्यकर्तृके च इत्येवं भविष्यति।। लक्षणे।। 52 ।।
-3-2-53- अमनुष्यकर्तृके च 820
(488 टक्प्रत्ययविधिसूत्रम् ।। 3।2।1।। आ. 20 सू.)
(2045 न्यूनतापरिहारवार्तिकम् )
- अप्रमाणिककर्तृके -
(भाष्यम् )
अप्रमाणिककर्तृक इति वक्तव्यम्। इह मा भूत् - नगरघातो हस्ती।।
(आक्षेपभाष्यम्)
यद्यप्राणिकर्तृक इत्युच्यते , शशघ्नी शकुनीति न सिध्यति।।
(समाधानभाष्यम्)
अस्तु तर्हि अमनुष्यकर्तृके च इत्येव ।
(आक्षेपभाष्यम्)
कथं नगरघातो हस्ती?
(समाधानभाष्यम्)
कृत्यल्युटो बहुलम् इत्येवात्राण् भविष्यति
अमनुष्यकर्तृके ।। 53 ।।
-3-2-55- पाणिघताडघौ शिल्पिनि (822)
(489 टक्प्रत्ययवत्वादिविधिसूत्रम्।। 3 । 2 । 1 आ.21)
(2046 न्यूनतापरिहारवार्तिकम्।। 1 ।।)
- राजघ उपसंख्यानम्-
(भाष्यम्) राजघ उपसंख्यानं कर्तव्यम्। राजघः।। पाणिघताडघौ ।। 55 ।।
-3-2-56- आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञ्ञः करणे ख्युन् (823)
(490 ख्युन्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.22)
(2047 च्विप्रतिषेधवैर्यथ्यवार्तिकम्।। 1 ।।)
- ख्युनि च्विप्रतिषेधानर्थक्यं ल्युट्ख्युनोरविशेषात्-
(भाष्यम्) ख्युनि च्विप्रतिषेधो अनर्थकः। किं कारणम्?। ल्युट्ख्युनोरविशेषात्। ख्युना मुक्ते ल्युटा भवितव्यम्। न चैवास्ति विशेषः च्व्यन्त उपपदे ख्युनो वा ल्युटो वा। तदेव रूपम् स एव च स्वरः।।
(विशेषदर्शकभाष्यम्)
अयमस्ति विशेषः। ल्युटि सति इर्कारेण भवितव्यम्। ख्युनि सति न भवितव्यम्।।
(अविशेषदर्शकभाष्यम्)
ख्युन्यपि सति इर्कारेण भवितव्यम्। एवं हि सौनागाः पठन्ति---- नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् इति।।
(विशेषप्रदर्शनभाष्यम्)
अयं तर्हि विशेषः----ख्युनि सति नित्यसमासेन भवितव्यम्। उपपदसमासो हि नित्यसमास इति। ल्युटि सति न भवितव्यम्।।
(अविशेषप्रदर्शनभाष्यम्)
ल्युट्यपि सति भवितव्यम्। गतिसमासोपि हि नित्यसमासः। च्व्यन्तं गतिसंज्ञं भवति।।
(2048 प्रयोजनवार्तिकम्।। 2 ।।)
- मुमर्थं तु-
(भाष्यम्) मुमर्थे तर्हि प्रतिषेधो वक्तव्यः। ख्युनि सति मुमा भवितव्यम्, ल्युटि सति न भवितव्यम्।।
(2049 प्रयोजननिरासवार्तिकम्।। 3 ।।)
- मुमर्थमिति चेन्नाव्ययत्वात्-
(भाष्यम्) मुमर्थमिति चेत्। तन्न। किं कारणम्?। अव्ययत्वात्। अनव्ययस्य मुमुच्यते। च्व्यन्तं चाव्ययसंज्ञं भवति।।
(2050 प्रयोजनवार्तिकम्।। 4 ।।)
- उत्तरार्थं तु -
(भाष्यम्) उत्तरार्थं तर्हि प्रतिषेधो वक्तव्यः। कर्तरि भुवः खिष्णुच्खुकञ्ञौ अच्वावित्येव। आढ्यीभविता।।
(आक्षेपभाष्यम्)
अथेदानीमनेन मुक्ते ताच्छीलिक इष्णुज् विधीयते सोत्र कस्मान्न भवति?।
(समाधानभाष्यम्)
रूढिशब्दप्रकारास्ताच्छीलिकाः। न च रूढिशब्दागतिभिर्विशेष्यन्ते। न हि भवति----देवदत्तःउप्रदेवदत्त इति।। आढ्य।। 56 ।।
-3-2-57- कर्तरि भुवः खिष्णुच्खुकञ्ञौ (824)
(491 प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 । आ 19 सू.)
(इकारादित्वनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत। तत्रायमप्यर्थः---स्वरार्थश्चकारो न कर्तव्यो भवति।
(प्रत्याक्षेपभाष्यम्)
केनेदानीमिकारादित्वं क्रियते?।
(2051 प्रत्याक्षेपसमाधानवार्तिकम्।। 1 ।।)
- इष्णुच इकारादित्वमुदात्तत्वात् कृतं भुवः-
(भाष्यम्) भवतिरुदात्तस्तस्योदात्तत्वादिड्भविष्यति।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनं खिदयं क्रियते। तत्र र्चत्वे कृते संदेहः स्यात्----किद्वा, खिद्वेति।।
(प्रयोजननिराकरणभाष्यम्)
संदेहमात्रमेतद्भवति। सर्वसंदेहेषु चेदमुपतिष्ठते---व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणमिति। खिदिति व्याख्यास्यामः।।
(2052 प्रत्योजनवार्तिकम्।। 2 ।।)
- नञ्ञस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः-
(भाष्यम्) इदं तर्हि प्रयोजनं कृत्योकेष्णुच्चार्वा दयश्च इत्येष स्वरो यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अयमपि इटि कृते षत्वे णत्वे चेष्णुजेव भविष्यति।।
(प्रयोजनसाधकभाष्यम्)
न सिध्यति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। अथ वा असिद्धं खल्वपि षत्वम्। तस्यासिद्धत्वादिष्णुजेव भवति।।
इष्णुच इकारादित्वमुदात्तत्वात् कृतं भुवः।
नञ्ञस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः।।
कर्तरि भुवः।। 58 ।।
-3-2-59- ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्ञ्चुयुजिक्रुञ्ञ्चां च (826)
(493 प्रत्ययविधिसूत्रम्।। 3 2 । 1 आ.21)
(प्रश्नभाष्यम्)
दधृगिति किं निपात्यते।
(2053 समाधानवार्तिकम्।। 1।।)
- धृषेर्द्धिर्वचनमन्तोदात्तत्वं च-
(भाष्यम्) धृषेर्द्विर्वचनमन्तोदात्तत्वं च निपात्यते।। ऋत्विग्द।। 59 ।।
-3-2-60- त्यादिषु दृशोऽनालोचने कञ्ञ्च (827)
(494 कञ्ञ्क्विन्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.22)
(आक्षेपभाष्यम्)
किमर्थो ञ्ञकारः।
(समाधानभाष्यम्)
स्वरार्थः ज्नितीत्याद्युदात्तत्वं यथा स्यात्।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। भविष्यति। क्व विशेषणार्थेनार्थः?। कञ्ञ्क्वरबि ति। कन्क्वरबित्युच्यमाने याविका इत्यत्रापि प्रसज्येत।।
(2054 उपपदान्तरेऽपि प्रत्ययविधिवार्तिकम्।। 1 ।।)
- कृदर्थानुपपत्तिस्तु-
(भाष्यम्) कृदर्थस्तु नोपपद्यते। दृशेः कर्तरि प्राप्नोति।।
(2056 तद्धितविधिवार्तिकम्।। 3 ।।)
- इवार्थे तु तद्धितः-
(भाष्यम्) इवार्थे त्वयं तद्धितो द्रष्टव्यः। स इवायं तादृक् तादृशः। अन्य इवायमन्यादृक् अन्यादृश इति।
(कृदर्थोपपादनभाष्यम्)
अथ वा युक्त एवायं कृदर्थः। कर्मकर्ताऽयम्। तमिवेमं पश्यन्ति जनाः। सोयं स इव दृश्यमानस्तमिवात्मानं पश्यति तादृक्। अन्यमिवेमं पश्यन्तिजनाः सोयमन्य इव दृश्यमानोऽन्यमिवात्मानं पश्यति अन्यादृगिति।। त्यदादिषु।। 60 ।।
-3-2-61- सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् (828)
(495 क्विप्प्रत्ययविधिसूत्रम्।। 3। 2 । 1 आदृ 23)
(2057 वार्तिकम्।। 1 ।।)
- सदादिषु सुब्ग्रहणम्-
(भाष्यम्) सदादिषु सुब्ग्रहणं कर्तव्यम्। होता वोदिषत। अतिथिर्दुरोणसत्।।
(प्रश्रभाष्यम्)
न तर्हीदानीमुपसर्गेऽपीति कवक्तव्यम्।।
(समाधानभाष्यम्)
वक्तव्यं च। किं प्रयोजनम्। किं ज्ञाप्यम्?। एतज्ज्ञापयत्याचार्यः----अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवति इति। किमेतस्य ज्ञापने प्रयोजनम्?। वदः सुप्यनुपसर्गग्रहणं चोदितम्।। तन्न वक्तव्यं भवति।। सत्सूद्विष।। 61 ।।
-3-2-68- आदोनन्ने (835)
(अथ विट्प्रकरणम्)
(496---497 विट्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आदृ 24-25)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न अदोनन्ने इत्येव सिद्धम्।
(समाधानभाष्यम्)
न सिध्यति। छन्दसीति वर्तते। भाषार्थोऽयमारम्भः।।
(समाधानबाधकभाष्यम्)
पूर्वस्मिन्नेव योगे छन्दोग्रहणं निवृत्तम्। तच्चावश्यं निर्वत्यम्। आमादित्येवमर्थम्।।
(समाधानभाष्यम्)
अत उत्तरं पठति।
(2058 समाधानवार्तिकम्।। 1 ।।)
- अदोनन्नेक्रव्यग्रहणं वासरूपनिवृत्यर्थम्-
(भाष्यम्) अदोनन्ने क्रव्यग्रहणं क्रियते वासरूपो मा भूदिति।। अदोन।। क्रव्ये च ।। 68।।
-3-2-69- क्रव्ये च (836)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न अदोनन्ने इत्येव सिद्धम्।
(समाधानभाष्यम्)
न सिध्यति। छन्दसीति वर्तते। भाषार्थोऽयमारम्भः।।
(समाधानबाधकभाष्यम्)
पूर्वस्मिन्नेव योगे छन्दोग्रहणं निवृत्तम्। तच्चावश्यं निर्वत्यम्। आमादित्येवमर्थम्।।
(समाधानभाष्यम्)
अत उत्तरं पठति।
(2058 समाधानवार्तिकम्।। 1 ।।)
- अदोनन्नेक्रव्यग्रहणं वासरूपनिवृत्यर्थम्-
(भाष्यम्) अदोनन्ने क्रव्यग्रहणं क्रियते वासरूपो मा भूदिति।। अदोन।। क्रव्ये च ।। 69।।
-3-2-71- मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (838)
(अथ ण्विन् प्रकरणम्)
(498 ण्विन् प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आदृ 26)
(2059 ण्विन् बाधकवार्तिकम्।। 1 ।।)
- श्वेतवहादीनां डस्-
(भाष्यम्) श्वेतवहादीनां डस्वक्तव्यः।। श्वेतवा इन्द्रः।।
(2060 पूर्वशेषवार्तिकम्।। 2 ।।)
- पदस्य च-
(भाष्यम्) पदस्येति च वक्तव्यम्। इह मा भूत्---श्वेतवाहौ श्वेतवाह इति।।
(प्रयोजनप्रश्नभाष्यम्)
किं प्रयोजनम्?।।
(2061 प्रयोजनवार्तिकम्।। 3 ।।)
- र्वर्थम्-
(भाष्यम्) रुर्यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
क्रियते र्वर्थे निपातनम्----अवयाः श्वेतवाः पुरोडाश्च इति। आतश्च र्वर्थम्। उक्थशः शब्दस्य सामान्येन रुः सिद्धः। न तस्य निपातनं क्रियते।।
(निपातनानावश्यकताभाष्यम्)
तन्न वक्तव्यं भवति।।
(निपातनावश्यकताभाष्यम्)
अवश्यं तद्वक्तव्यम्। दीर्घार्थम्।।
(निपातनावश्यकताभाष्यम्)
नैतदस्ति प्रयोजनम्। सिद्धमत्र दीर्घत्वम्---अत्वसन्तस्य चाधातोरि ति।।
(निपातनावश्यकताभाष्यम्)
यत्र तेन न सिध्यति तदर्थम्।। क्व च तेन न सिध्यति?। संबुद्धौ---हेश्वेतवाः इति।।
(प्रश्नभाष्यम्)
न तर्हीदानीं डस्वक्तव्यः।।
(समाधानभाष्यम्)
वक्तव्यश्च। किं प्रयोजनम्?। उत्वार्थम्। श्वेतवोभ्यां श्वेतवोभिः।। मन्त्रे श्वेत।। 71 ।।
-3-2-77- स्थः क च (744)
(499 कक्विप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आदृ 27)
(प्रश्नभाष्यम्)
किमर्थं स्थः कक्विपावुच्येते। नु क्विप्सिद्धः अन्येभ्योपि दृश्यते इति, कश्च आतोऽनुपसर्गे कः इति?।।
(उत्तरभाष्यम्)
न सिध्यति। विशेषविहितः कः सामान्यविहितं क्विपं बाधेत।।
(अन्यथासिद्धिभाष्यम्)
वासरूपेण क्विबपि भविष्यति।।
(अनन्यथासिद्धप्रयोजनभाष्यम्)
इदं तर्हि शंस्थः शंस्थाः।।
(अन्यथासिद्धभाष्यम्)
उक्तमेतत्---- शमिसंज्ञायां धातुग्रहणं कृञ्ञो हेत्वादिषु टप्रतिषेधार्थम् इति। स यथैवाच् टं बाधते। एवं कक्विपावपि बाधेत।। स्थः क च।। 77 ।।
-3-2-78- सुप्यजातौ णिनिस्ताच्छील्ये (845)
(500 णिनिप्रतययविधिसूत्रम्।। 3 । 2 । 1 आदृ 28)
(आक्षेपभाष्यम्)
सुपीति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
अनुपसर्ग इत्येवं तदभूत्। इदं सुम्मात्रे यथा स्यात्---उदासारिण्यः प्रत्यासारिण्य इति।।
(2062 वार्तिकम्।। 1 ।।)
- णिन्विधौ साधुकारिण्युपसंख्यानम्-
(भाष्यम्) णिन्विधौ साधुकारिण्युपसंख्यानं कर्तव्यम्। साधुकारी साधुदायी।।
(2063 वार्तिकम्।। 2 ।।)
- ब्रह्मणि वदः-
(भाष्यम्) ब्रह्मणि वद उपसंख्यानं कर्तव्यम्। ब्रह्मवादिनो वदन्ति।। सुप्यजा।। 78 ।।
-3-2-80- व्रते (847)
(501 णिनिप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आदृ 29)
(प्रश्नभाष्यम्)
किमुदाहरणम्?।
(समाधानभाष्यम्)
अश्राद्धभोजी।।
(आक्षेपभाष्यम्)
किं योऽश्राद्धं भुङ्क्ते सोश्राद्धभोजी?।। किं चातः?। यदासावश्राद्धं न भुङ्क्ते तदास्य व्रतलोपः स्यात्। तद्यथा स्थण्डिलस्थायी यदा स्थण्डिले न तिष्ठति तदास्य व्रतलोपो भवति।।
(पर्युदासेन समाधानभाष्यम्)
एवं तर्हि णिन्यन्तेन समासो भविष्यति। न श्राद्धभोज्यश्राद्धभोजीति।।
(समाधानबाधकभाष्यम्)
नैवं शक्यम्। स्वरे हि दोषः स्यात्। अश्राद्धभोजीत्येवं स्वरः प्रसज्येत। अश्राद्धभोजीत्येवं चेष्यते।।
(प्रतिसज्यप्रतिषेधाङ्गीकारभाष्यम्)
एवं तर्हि नञ्ञ एवायं भुजिप्रतिषेधवाचिनः श्राद्धशब्देनासमर्थसमर्थसमासः---न भोजी श्राद्धस्येति।।
(प्रसज्यप्रतिषेधे गौरवभाष्यम्)
स तर्ह्यसमर्थसमासो वक्तव्यः।।
(इष्टापत्तिभाष्यम्)
यद्यपि वक्तव्यः। अथ वै तर्हि बहूनि प्रयोजनानि।। कानि?। असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मणः। सुडनपुंसकस्येति।। व्रते।। 80 ।।
-3-2-83- आत्ममाने खश्च (850)
(502 खश्णिनिप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.30)
(आक्षेपभाष्यम्)
आत्मग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
परमाने मा भूदिति।।
(समाधानानुपपत्तिभाष्यम्)
क्रियमाणेपि वै आत्मग्रहणे परमाने प्राप्नोति।। किं कारणम्?। आत्मन इतीयं कर्तरि षष्ठी। मान इत्यकारो भावे । स यद्येवात्मानं मन्यतेऽथापि परम्। आत्मन एवासौ मानो भवति।
(समाधानसाधकभाष्यम्)
नैष दोषः। आत्मन इतीयं कर्मणि षष्ठी। कथम्?। कर्तृकर्मणोः कृति इति।।
(समाधानबाधकाक्षेपभाष्यम्)
ननु च कर्तर्यपि वै तेनैव विधीयते। तत्र कुत एतत्---कर्मणि भविष्यति, न पुनः कर्तरीति।।
(समाधानान्तरभाष्यम्)
एवं तर्हि,
(2064 वार्तिकम्।। 1 ।।)
(- कर्मकर्तरि च-)
(भाष्यम्) कर्मकर्तरि खश् चेति वक्तव्यम्।।
(प्रश्नभाष्यम्)
तत्तर्हि वक्तव्यम्।।
(समाधानभाष्यम्)
न वक्तव्यम्। आत्मन इतीयं कर्मणि षष्ठी। कथम्?। कर्तृकर्मणोः कृति इति।।
(समाधानबाधकस्मारणभाष्यम्)
ननु चोक्तं कर्तर्यपि वै तेनैव विधीयते। तत्र कुत एतत्। कर्मणि भविष्यति न पुनः कर्तरीति?।।
(प्रत्याख्यानसाधकभाष्यम्)
एवं तर्हि आत्मग्रहणसार्मथ्यात्कर्मणि विज्ञास्यते।।
(प्रत्याख्यानबाधकभाष्यम्)
एवमपि कर्मकर्तृग्रहणं कर्तव्यम्। कर्मापदिष्टो यग्यथा स्यात्, श्यन्माभूदिति।।
(प्रत्याक्षेपभाष्यम्)
कश्चात्र विशेषः यको वा श्यनो वा।।
(प्रत्याक्षेपसमाधानभाष्यम्)
यति सत्यन्तोदात्तत्वेन भवितव्यम्। श्यनि सपाद्युदात्तत्वेन।।
(विशेषाभावभाष्यम्)
श्यन्यपि सत्यन्तोदात्तत्वेनैव भवितव्यम्। कथम्?। खश्स्वरः श्यन्स्वरं बाधिष्यते।।
(विशेषबाधकभाष्यम्)
सतिशिष्टत्वात् श्यन्स्वरः प्राप्नोति।।
(विशेषबाधकभाष्यम्)
आचार्यप्रवृत्तिर्ज्ञापयति सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधत इति यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति।।
(ज्ञपनस्यविशेषविषयत्वभाष्यम्)
लसार्वधातुक एवैतज्ज्ञापकं स्यात्।।
(ज्ञपकस्यसामान्यविषयत्वभाष्यम्)
नेत्याह। अविशेषेण ज्ञापकम्। आत्ममाने ।। 83 ।।
इति श्रीमद्भगवत्पतञ्ञ्चलिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्।।
-3-2-84- भूते (851)
(506 अधिकारसूत्रम्।। 3 । 2 । 2 आ.1)
(भूतपदार्थविशेष्यभूतपदार्थनिर्णयाधिकरणम्)
 (आक्षेपभाष्यम्)
भूत इत्युच्यते। कस्मिन् भूते?।
(समाधानभाष्यम्)
काले।
(भाष्यम्) न वै कालाधिकारोस्ति।।
(भाष्यम्) एवं तर्हि धातोरिति वर्तते। धातौ भूते।।
(भाष्यम्) धातुर्वै शब्दः। न च शब्दस्य भूत भविष्यद्वर्तमानतायाः संभवोस्ति।।
(आक्षेपवार्तिकशेषभाष्यम्)
यद्येवं।
(2065 आक्षेपवार्तिकम्।। 1 ।।)
- निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः-
(भाष्यम्) निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः स्यात्।।
का इतरेतराश्रयता?।
भूतकालेनायं शब्देन निर्देशः। क्रियते। निर्देशोत्तरकालं च भूतकालता। तदेतदितरेतराश्रयं भवति।। इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते।।
(2066 समाधानवार्तिकम्।। 2 ।।)
- अव्ययनिर्देशात्सिद्धम्-
(भाष्यम्)
अव्ययवता शब्देन निर्देशः करिष्यते। अवर्तमाने अभविष्यतीति।
(अनुयोगभाष्यम्)
स तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः?।
(समाधानभाष्यम्)
न कर्तव्यः। अव्ययमेष भूतेशब्दः। नैषा भवतेर्निष्ठा।।
कथमव्ययत्वम्?।
उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपाताव्ययमित्यव्ययसंज्ञा।।
(निष्ठापक्षेपि समाधानभाष्यम्)
अथापि भवतेर्निष्ठा। एवमप्यव्ययमेव। कथम्?। नव्येतीत्यव्ययमिति।
क्व पुनर्न व्येति?।
एतौ कालविशेषौ भविष्यद्वर्तमानौ। स्वभावतो भूते एव वर्तते।।
(वार्तिकावतरणभाष्यम्)
यदि तर्हि न व्येतीत्यव्यम्-----
(2037 अधिकारवैर्य्यथ्याक्षेपवार्तिकम्।। 3 ।।)
- न वा तद्विधानस्यानन्यत्राभावात्-
(भाष्यम्) न वा भूताधिकारेणार्थः। किं कारणम्?। तद्विधानस्यान्यत्राभावात्। येऽपि ह्येते इत उत्तरं प्रत्ययाः शिष्यन्ते तेऽप्येतौ कालविशेषौ न वियन्ति भविष्यद्वर्तमानौ। स्वभावतो भूत एव वर्तन्ते।।
(समाधानवार्तिकावतरणभाष्यम्)
अत उत्तरं पठति-----
(2038 समाधानवार्तिकम्।। 4 ।।)
(- प्रयोजनं कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुन्वन्तः सुषुपुषोऽनेहाः अग्निमादधानस्य-)
(भाष्यम्) भूताधिकारस्य प्रयोजनम्। कुमारघाती, शीर्षघाती, आखुहा बिडालः, सुत्वानः सुन्वन्तः सुषुपुषोऽनेहाः अग्निमादधानस्य (भूतकालनिवृत्त्यर्थेभविष्यद्वर्तमानकालसंप्रत्ययार्थम्?)।।
कुमारघाती शीर्षघातीति भविष्यद्वर्तमानार्थो भूतनिवृत्त्यर्थः।।
आखुहा बिडाल इति भवतिष्यद्वर्तमानार्थो भूतनिवृत्त्यर्थः। इतरथा हि ब्रह्मादिनियमस्त्रिषु कालेषु निवर्तकः स्यात्।।
सुत्वानः सुन्वन्तः। यज्ञसंयोगे ङ्वनिपस्त्रिषु कालेषु शतापवादो मा भूत्।।
सुषुपुषः। नजिङ् सर्वकालापवादो मा भूत्।।
अनेहा इति वर्तमानकाल एव। अन्यत्र अनहन्ता।।
आदधानस्य कानचश्चानश् ताच्छील्यादिषु सर्वकालापवादो मा भूत्। अग्निमादधानस्येत्येवान्यत्र भूते।। 84 ।।
-3-2-87- ब्रह्मभ्रूणवृत्रेषु क्विप् (854)
(504 क्विप्प्रत्ययनियमसूत्रम्।। 3 । 2 । 2 आ.2 )
(आक्षेपभाष्यम्)
किमर्थं ब्रह्मदिषु हन्तेः क्विब्विधीयते, न क्विप्चान्येभ्योपि दृश्यते इत्येव सिद्धम्?।
(2069 समाधानवार्तिकम्।। 1 ।।)
- ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम्-
(भाष्यम्) नियमार्थोयमारम्भः।। (ब्रह्मादिष्वेव हन्तेर्भूते क्विब्यथा स्यादिति।।)
किमविशेषेण?।
(भाष्यम्) नेत्याह। उपपदविशेषे एतस्मिंश्च विशेषे।।
(भाष्यम्) अथ ब्रह्मादिषु हन्तेर्णिनिना भवितव्यम्?।
न भवितव्यम्। किं कारणम्?।
उभयतोनियमात्।
(भाष्यम्) उभयतो नियमोयम्। ब्रह्मादिष्वेव हन्तेर्भूते क्विब्भवति। क्विबेव हन्तेर्भूते ब्रह्मादिष्विति।।
(2070 दृष्टोपपत्तिवार्तिकम्।। 2।। )
- तथा चोत्तरस्य वचनार्थः-
(भाष्यम्) एवं च कृत्वोत्तरस्य योगस्य वचनार्थ उपपन्नो भवति-----बहुलं छन्दसि इति। यो मातृहा पितृहा भ्रातृहा। न च भवति-----अमित्रघात इति।। ब्रह्मभ्रूण।। 87 ।।
-3-2-93- कर्मणीनि विक्रियः (860)
(405 इनिप्रत्ययविधिसूत्रम्।। 3 । 2 । 2 आ.3 )
(2079 वार्तिकम्।। 1 ।।)
- कर्मणि कुत्सिते-
(भाष्यम्) कर्मणि कुत्सिते इति वक्तव्यम्। इह मा भूत्-----धान्यविक्राय इति।।
-3-2-101- अन्येष्वपि दृश्यते (868)
(506 डप्रत्ययविधिसूत्रम्।। 3 । 2 । 2 आ 4)
(2072 वार्तिकम् ।। 1 ।।)।
- अन्येभ्योपि दृश्यते-
(भाष्यम्) अन्येभ्योपि दृश्यत इति वक्तव्यम्। इहापि यथा स्यात्----आखा उखा परिखा।। अन्येष्वपि।। 101।।
-3-2-102- निष्ठा (869)
507 निष्ठासंज्ञकप्रत्ययविधिसूत्रम्।। 3 2 । 2 आ. 5)
(2073 अन्योन्याश्रयदूषणवार्तिकम्।। 1 ।।)
- निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः-
(भाष्यम्) निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः स्यात्।।
केतरेतराश्रयता?।
सतोः क्तक्तवत्त्वोः संज्ञया भवितव्यम्। संज्ञया च क्तक्तवतू भाव्येते। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।।
(2074 गौरवापत्तिवार्तिकम्।। 2।।)
- द्विर्वा क्तक्तवतुग्रहणम्-
(भाष्यम्) द्विर्वा क्तक्तवतुग्रहणं कर्तव्यं भवति---क्तक्तवतू भूते। क्तक्तवतू निष्ठा इति।।
(गैरववारणभाष्यम्)
यदि पुनरिहैव निष्ठासंज्ञाप्युच्येत---क्तक्तवतू भूते। ततो निष्ठा क्तक्तवतू निष्ठासंज्ञौ भवत इति।।
किं कृतं भवति?।
द्विः क्तक्तवतुग्रहणं न कर्तव्यं भवति।।
(गौरवस्यापरिहार्यताभाष्यम्)
एवमपि तौ इति वक्तव्यं स्यात्। वक्ष्यति ह्येतत्---- तौ सदिति वचनमसंसर्गार्थम् इति। असंसक्तयोर्भूतकालेन क्तक्तवत्वोर्निष्ठा संज्ञा यथा स्यात---ञ्ञिमिदा। मिन्नः। ञ्ञिक्ष्विदा क्ष्विण्णः।।
(अन्योन्याश्रयाद्विः करणदूषणपरिहारभाष्यम्)
यदि पुनरदृष्टश्रुतावेव क्तक्तवतू गृहीत्वा निष्ठा संज्ञोच्येत।
(परिहाराशक्यत्वभाष्यम्)
नैवं शक्यम्। दृष्टस्रुतयोर्हि न स्यात्---ञ्ञिमिदा---मिन्नः, ञ्ञिक्ष्विदा-----क्ष्विण्ण इति। तस्मान्नैवं शक्यम्। न चेदेवं, द्विः क्तक्तवतुग्रहणं कर्तव्यं भवति। इतरेतराश्रयं वा भवति।।
(अन्योन्याश्रयपरिहारस्मारणभाष्यम्)
नैष दोषः। इतरेतराश्रयमात्रमेतद्भवति। सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि--- सिद्धं तु
नित्यशब्दत्वाद् इति।।
(उक्तपरिहाराप्राप्तिभाष्यम्)
नेदं तुल्यमन्यैरितरेतराश्रयैः। न हि संज्ञा नित्या।।
(परिहारान्तरस्मारणभाष्यम्)
एवं तर्हि भाविनी संज्ञा विज्ञास्यते। तद्यथा कश्चित्कंचित्तन्तुवायमाह---अस्य सूत्रस्य शाटकं वय इति। स पश्यति---यदि शाटको न वातव्यः। अथ वातव्यो, न शाटकः। शाटको वातव्यश्चेति विप्रतिषिद्धम्। भाविनी खल्वस्य संज्ञाभिप्रेता। स मन्ये वातव्यः यस्मिन्नुते शाटक इत्येतद्भवति इति। एवमिहापि तौ भूते काले भवतो ययोरभिनिर्वृत्तयोर्निष्ठेत्येषा संज्ञा भविष्यति।।
(2075 निष्ठाविधिवार्तिकम्।। 3 ।।)
- आदिकर्मणि निष्ठा-
(भाष्यम्) आदिकर्मणि निष्ठा वक्तव्या। प्रकृतः कटं देवदत्त इति।।
(प्रश्नभाष्यम्)
किं पुनः कारणं न सिध्यति?।
(2076 हेतुवार्तिकम्।। 4 ।।)
- यद्वा भवन्त्यर्थे-
(भाष्यम्) यद्वा भवन्त्या अर्थे भाष्यते। प्रकृतः कटे देवदत्तः प्रकरोति कटं देवदत्त इति।।
(2077 प्रत्याख्यानवार्तिकम्।। 5 ।।)
- न्याय्या त्वाद्यपवर्गात्-
(भाष्यम्) न्याय्या त्वेषा भूतकालता। कुतः?। आद्यपवर्गात्। अदिरत्रापवृक्तः। एष च नाम न्याय्यो भूतकालः---यत्र
किंचिदपवृक्तं दृश्यते।।
(2078 (2076 वार्तिक) प्रत्याख्यानवार्तिकम्।। 6 ।।)
- वा चाद्यतन्याम्-
(भाष्यम्) वा चाद्यतन्यां भाष्यते। प्रकृतः कटं देवदत्तः, प्राकार्षीत्कटं देवदत्त इति।
(आक्षेपभाष्यम्)
किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतो न्याय्यैषा भूतकालता।।
(समाधानभाष्यम्)
नावश्यं प्रयोगादेव। क्रिया नामेयमत्यन्तापरदृष्टा अनुमानगम्या न शक्या पिण्डीभूता निदर्शयितुम्। यथा गर्भो निर्लुठित इति। सासौ येन येन शब्देनाभिसंबध्यते तावति तावति परिसमाप्यते तद्यथा---कश्चित्पाटलिपुत्रं जिगमिषुरेकमहर्गत्वाह इदमद्य गतम् इति। न च तावता तस्य व्रजिक्रिया समाप्ता भवति। यत्तु गतं तदभिसमीक्ष्यैतत् प्रयुज्यते इदमद्य गतम् इति। एवमिहापि यत्कृतं तदभिसमीक्ष्यैतत्प्रयुज्यते---प्रकृतः कटं देवदत्तः इति। यदा हि वेणिकान्तः कटोभिसमीक्षितो भवति। प्रकरोति कटम् इत्येव तदा भवितव्यम्।। निष्ठा।। 102 ।।
-3-2-106- लिटः कानज्वा (873)
(508 लिटः कानज्विधिसूत्रम्।। 3 । 2 । 2 आ.6 )
(वाग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं कानच्क्वस्वोर्वावचनं क्रियते।
- कानच्क्वस्वोर्वावचनं छन्दसि तिङो दर्शनात्-
(भाष्यम्) कानच्क्वस्वोर्वावचनं क्रियते। छन्दसि तिङो दर्शनात्। छन्दसि तिङपि दृश्यते---अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततानेति।।
(2080 समाधानासंगतिवार्तिकम्।। 2 ।।)
- न वानेन विहितस्यादेशवचनात्-
(भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनेन विहितस्यादेशवचनात्।।
(आक्षेपभाष्यम्)
अस्त्वनेन विहितस्यादेशः। केनेदानीं छन्दसिविहितस्य लिटः तिङः श्रवणं भविष्यति।।
(समाधानभाष्यम्)
छन्दसि लुङ्लङ्लिटः इत्यनेन। तदेतद्वावचनं तिष्ठतु तावत् सांन्यासिकम्।।
(कित्करणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ कित्करणं किमर्थम्। न असंयोगाल्लिट्कित् इत्येव सिद्धम्।
(2081 प्रयोजनवार्तिकम्।। 3 ।।)
- कित्करणं संयोगान्तार्थम्-
(भाष्यम्) कित्करणं क्रियते। संयोगान्तार्थम्। संयोगान्ताः प्रयोजयन्ति। बन्धे वृत्रस्य यद्बद्धधानस्य रोदसी। त्वमर्णवान् बद्बधानाँ अरम्णाः। अञ्ञ्चेः आजिवानिति।।
(प्रयोजननिराकरणभाष्यम्)
छान्दसौ कानच्क्वसू। लिट् च छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिद् ङिद्वद्भवति। ङित्त्वादुपधालोपे भविष्यति।।
(2082 प्रयोजनान्तरवार्तिकम्।। 4 ।।)
- ऋकारान्तगुणप्रतिषेधार्थं वा-
(भाष्यम्) ऋकारान्तानां गुणप्रतिषेधार्थं तर्हि कित्त्वं वक्तव्यम्। अयं हि लिटि ऋकारान्तानां प्रतिषेधविषये गुण
आरभ्यते। स यथैवेह प्रतिषेधं बाधित्वा गुणो भवति----तेरतुः तेरुरिति। एवमिहापि स्यात्---तितीर्वान्, तितिराण इति। पुनः कित्करणात् प्रतिषिध्यते। तस्मात्कित्त्वं कर्तव्यम्।। लिटः कानञ्ञ्वा।। 106 ।।
-3-2-107- क्वसुश्च (874)
(509 लिटः क्वसुविधिसूत्रम्।। 3 । 2 । 2 आ.7)
(वाग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं कानच्क्वस्वोर्वावचनं क्रियते।
- कानच्क्वस्वोर्वावचनं छन्दसि तिङो दर्शनात्-
(भाष्यम्) कानच्क्वस्वोर्वावचनं क्रियते। छन्दसि तिङो दर्शनात्। छन्दसि तिङपि दृश्यते---अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततानेति।।
(2080 समाधानासंगतिवार्तिकम्।। 2 ।।)
- न वानेन विहितस्यादेशवचनात्-
(भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनेन विहितस्यादेशवचनात्।।
(आक्षेपभाष्यम्)
अस्त्वनेन विहितस्यादेशः। केनेदानीं छन्दसिविहितस्य लिटः तिङः श्रवणं भविष्यति।।
(समाधानभाष्यम्)
छन्दसि लुङ्लङ्लिटः इत्यनेन। तदेतद्वावचनं तिष्ठतु तावत् सांन्यासिकम्।।
(कित्करणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ कित्करणं किमर्थम्। न असंयोगाल्लिट्कित् इत्येव सिद्धम्।
(2081 प्रयोजनवार्तिकम्।। 3 ।।)
- कित्करणं संयोगान्तार्थम्-
(भाष्यम्) कित्करणं क्रियते। संयोगान्तार्थम्। संयोगान्ताः प्रयोजयन्ति। बन्धे वृत्रस्य यद्बद्धधानस्य रोदसी। त्वमर्णवान् बद्बधानाँ अरम्णाः। अञ्ञ्चेः आजिवानिति।।
(प्रयोजननिराकरणभाष्यम्)
छान्दसौ कानच्क्वसू। लिट् च छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिद् ङिद्वद्भवति। ङित्त्वादुपधालोपे भविष्यति।।
(2082 प्रयोजनान्तरवार्तिकम्।। 4 ।।)
- ऋकारान्तगुणप्रतिषेधार्थं वा-
(भाष्यम्) ऋकारान्तानां गुणप्रतिषेधार्थं तर्हि कित्त्वं वक्तव्यम्। अयं हि लिटि ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते। स यथैवेह प्रतिषेधं बाधित्वा गुणो भवति----तेरतुः तेरुरिति। एवमिहापि स्यात्---तितीर्वान्, तितिराण इति। पुनः कित्करणात् प्रतिषिध्यते। तस्मात्कित्त्वं कर्तव्यम्।। लिटः कानञ्ञ्वा।। 107 ।।
-3-2-108- भाषायां सदवसश्रुवः (895)
(590 क्वसुः विधिसूत्रम्।। 3। 2 । 2 आ.8)
(2083 लिड्विकल्पवार्तिकम्।। 1 ।।)
- भाषायां सदादिभ्यो वा लिट्-
(भाष्यम्) भाषायां सदादिभ्यो वा लिड्वक्तव्यः। किं प्रयोजनम्?।।
(2084 लिड्विकल्पवार्तिकशेषवार्तिकम्।। 2 ।।)
- तद्विषये लुङोऽनिवृत्त्यर्थम्-
(भाष्यम्) तस्य लिटो विषये लुङोऽनिवृत्तिर्यथा स्यात्। उपसेदिवान् कौत्सः पाणिनिम्। उपासदत्।।
(2085 लङ्समावेशवार्तिकम्।। 3 ।।)
- अनद्यतनपरोक्षयोश्च-
(भाष्यम्) अनद्यतनपरोक्षयोश्च वा लिड्वक्तव्यः। उपसेदिवान् कौत्सः पाणिनिम्। उपासीदत्। उपससाद।।
(2086 हेतुवार्तिकम्।। 4 ।।)
- अपवादविप्रतिषेधाद्धि तयोर्भावः-
(भाष्यम्) अपवादविप्रतिषेधाद्धि तौ स्याताम्। कौ?। लङ्लिटौ।।
(2087 वार्तिकम्।। 5 ।।)
- तस्य क्वसुरपरोक्षे नित्यम्-
(भाष्यम्) तस्य लिटो भाषायां क्वसुरपरोक्षे नित्यमिति वक्तव्यम्।।
(अपरोक्षग्रहणप्रत्याख्यानभाष्यम्)
अपरोक्षग्रहणेन नार्थः। तस्य क्वसुर्नित्यमित्येव।।
केनेदानीं लिटः परोक्षे श्रवणं भविष्यति?।।
परोक्षे लिडित्यनेन।।
तत्तर्हि वक्तव्यम्?।।
न वक्तव्यम्। अनुवृत्तिः करिष्यते। भाषायां सदादिभ्यो वा लिङ् भवति। लिटश्च क्वसुर्भवति।। ततो लुङ् लुङ् भूते काले भवति। भाषायां सदादिभ्यो वा लिड् भवति,लिटश्च क्वसुर्भवति।। ततः----अनद्यतने लङ् । अनद्यतने भूतकाले लङ् भवति। भाषायां सदादिभ्यो वा लिड् भवति, लिटश्च क्वसुर्भवति।। (ततः---) परोक्षे लिट्। परोक्षे लिड् भवति। भाषायां सदादिभ्यो वा लिड्भवति लिटश्च क्वसुर्भवति। तत्रायमप्यर्थः---- तस्य क्वसुरपरोक्षे नित्यम् इत्येतन्न वक्तव्यं भवति।। भाषायां सद।। 108 ।।
-3-2-109- उपेयिवाननाश्वाननूचानश्च (876)
(511 क्वसुप्रत्ययसंनियोगनिपातनसूत्रम्।। 3 । 2 । 2 आ.9)
(आक्षेपभाष्यम्)
किमर्थमुपेयिवानिति निपातनं क्रियते।।
(2088 निपातनप्रयोजनवार्तिकम्।। 1 ।।)
- उपेयुषि निपातनमिडर्थम्-
(भाष्यम्) उपेयुषि निपातनं क्रियते इडर्थम्। इड्यथा स्यादिति।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। सिद्धोऽत्रेङ् वस्वेकाजाद्धसाम् इत्येव।
(प्रयोजनबाधकभाष्यम्)
द्विर्वचने कृतेऽनेकाच्त्वान्न प्राप्नोति।
(प्रयोजनबाधकभाष्यम्)
इदमिह संप्रधार्यं, द्विर्वचनं क्रियतामिडिति। किमत्र कर्तव्यम्। परत्वादिडागमः।।
(साधकभाष्यम्)
नित्यं द्विर्वचनं कृतेऽपीटि प्राप्नोत्यकृतेऽपि प्राप्नोति।।
(बाधकभाष्यम्)
इडपि नित्यः, कृतेऽपि द्विर्वचने एकादेशे च प्राप्नोत्यकृतेऽपि प्रप्नोति।।
(साधकभाष्यम्)
नात्रैकादेशः प्राप्नोति। किं कारणम्। दिर्घःथ्द्य;णः कितीति इति दीर्घत्वेन बाध्यते। तदेतदुपेयुषि निपातनमिडर्थे क्रियते।।
(2089 दूषणवार्तिकम्।। 2 ।।)
- उपेयुषि निपातनमिडर्थमिति चेदजादावतिप्रसङ्गः-
(भाष्यम्) उपेयुषि निपातनमिडर्थमिति चेदजादाविटोऽतिप्रसङ्गो भवति। उपेयुषा उपेयुषे उपेयुषः उपेयुषीति।।
(2090 निपातनीयान्तरवार्तिकम्।। 3 ।।)
- एकादिष्टस्येय्भावार्थं तु-
(भाष्यम्) एकादिष्टस्येय्भावार्थं तु निपातनं क्रियते। एकादिष्टस्य इर्य् इत्येतद्रूपं निपात्यते।।
(उक्तदूषणस्मारणभाष्यम्)
ननु चोक्तं नात्रैकादेशः प्राप्नोति। किं कारणम्?। दिर्घ इणः किति इति दीर्घत्वेन बाध्यत इति।।
(तद्दूषणासामञ्ञ्जस्यभाष्यम्)
तद्धि न सुष्ठूच्यते। न हि दीर्घत्वमेकादेशं बाधते। कस्तर्हि बाधते?। यणादेशः। स चापि क्व बाधते?। यत्रास्य निमित्तमस्ति। यत्र हि निमित्तं नास्ति निष्प्रतिद्वन्द्वस्तत्रैकादेशः।।
(2091 निपातनीयान्तरवार्तिकम्।। 4 ।।)
- व्यञ्ञ्जने यणादेशार्थं वा-
(भाष्यम्) अथ वा व्यञ्ञ्जन एव यणादेशो निपात्यते। यणादेशे कृते एकाच इतीट् सिद्धो भवति।।
(ऋष्यन्तरमतभाष्यम्)
अपर आह----
(2092 वार्तिकम्।। 5 ।।)
- नोपेयिवान्निपात्यो द्विर्वचनादिड्भविष्यति परत्वाद्-
(भाष्यम्) द्विर्वचनं क्रियतामिडिति परत्वादिड् भविष्यति विप्रतिषेधेन।।
(आक्षेपभाष्यम्)
इहापि तर्हि द्विर्वचनादिट् स्याद् बिभिद्वान् चिच्छिद्वानिति।।
(2093 वार्तिकम्।। 6 ।।)
- अन्येषामेकाचां द्विर्वचनं नित्यमित्याहुः-
(भाष्यम्) अन्येषामेकाचां द्विर्वचनं नित्यम्----कृतेऽपीटि प्राप्नोति, अकृतेऽपि।
(2094 वार्तिकम्।। 7 ।।)
- अस्य पुनरिट् च नित्यो द्विर्वचनं च न विहन्यते ह्यस्य-
(भाष्यम्) अस्य पुनरिट् चैवं नित्योऽस्य हि द्विर्वचनं च न विहन्यते।
(2095 वार्तिकम्।। 8 ।।)
- द्विर्वचने चैकाच्त्वात्-
(भाष्यम्) द्विर्वचने कृते एकादेशे चैकाज्भवति।
(2096 वार्तिकम्।। 9 ।।)
- तस्मादिड्बाधते द्वित्वम्-
(भाष्यम्) तस्मादिड् द्विर्वचनं बाधते।।
(2097 वार्तिकम्।। 10 ।।)
- अनूचानः कर्तरि-
(भाष्यम्) अनूचानः कर्तरीति वक्तव्यम्। अनूक्तवाननूचानः। अनूक्तमित्येवान्यत्र।।
नोपेयिवान्निपात्यो द्विर्वचनादिड् भविष्यति परत्वात्।
अन्येषामेकाचां द्विर्वचनं नित्यमित्याहुः।।
अस्य पुनरिट् च नित्यो द्विर्वचनं च न विहन्यते ह्यस्य। द्विर्वचने चैकाच्त्वात्तस्मादिड्बाधते द्वित्वम्।।
उपेयि।। 109 ।।
-3-2-110- लुङ् (877)
(512 लुङ्विधिसूत्रम्।। 3 । 2 । 2 आ. 10)
(2098 आक्षेपवार्तिकम्।। 1 ।।)
- लुङ्लृटोरपवादप्रसङ्गो भूतभविष्यतोरविशेषवचनात्-
(भाष्यम्) लुङ्लृटोरपवादः प्राप्नोति। अगमामघोषान्। अपाम पयः। अशयिष्महि पूतीकतृणेषु। गमिष्यामो घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु। किं कारणम्। भूतभविष्यतोरविशेषवचनात्। भूतभविष्यतोर्ह्यविशेषेणैतौ विधीयेते लुङ्लृटौ, तयोर्विशेषविहितौ लङ्लुटावपवादौ प्राप्नुतः।।
(2099 आक्षेपोद्धारवार्तिकम्।। 2 ।।)
- न वापवादस्य निमित्ताभावादनद्यतने हि तयोर्विधानम्-
(भाष्यम्) न वा एष दोषः। किं कारणम्?। अपवादस्य निमित्ताभावात्। नात्रापवादस्य निमित्तमस्ति। किं कारणम्?। अनद्यतने हि तयोर्विधानम्। अनद्यतने हि तौ लङ्लुटौ विधीयेते। न चात्रानद्यतनः कालो विवक्षितः। किं तर्हि?। भूतकालसामान्यं भविष्यत्कालसामान्यं च।
(आक्षेपभाष्यम्)
यद्यपि तावदेतच्छक्यते वक्तुम---गमिष्यामो घोषान्पास्यामः पयः। शयिष्यामहे पूतीकतृणेषु। यत्रैतन्न ज्ञायते---किं कदेति। इह तु कथम्----अगमाम घोषान्, अपाम पयः, अशयिष्महि पूतीकतृणेष्विति। यत्रैतन्निर्ज्ञातं भवति अमुष्मिन्नहनि गतमिति।।
(समाधानभाष्यम्)
अत्रापि नवापवादस्यनिमित्ताभावादनद्यतने हि तयोर्विधानमित्येव। कथं पुनः सतो नामाविवक्षा स्यात्। सतोऽप्यविवक्षा भवति। तद्यथाऽलोमिका एडका अनुदरा कन्येति। असतश्च विवक्षा भवति। तद्यथा समुद्रः कुण्डिका विन्ध्योवर्धितकमिति।
(3000 वार्तिकम्।। 3 ।।)
(भाष्यम्) वसेर्लुङ्रात्रिशेषे वक्तव्यः। न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित् कंचित्पृच्छति क्व भवानुषित इति, स आह अमुत्रावात्सम् इति। अमुत्रावसमिति प्राप्नोति।।
(3001 वार्तिकम्।। 4 ।।)
- जागरणसन्ततौ-
(भाष्यम्) जागरणसंतताविति वक्तव्यम्। यो हि मुहूर्तमात्रमपि स्वपिति तत्र अमुत्रावसम् इत्येव भवितव्यम्।। लुङ् ।। 110 ।।
-3-2-111- अनद्यतने लङ् (878)
(593. लङ्विधिसूत्रम्।। 3 । 2 । आदृ 11 )
(3002 आक्षेपवार्तिकम्।। 1 ।।)
- अनद्यतन इतिबहुव्रीहिनिर्देशोऽद्य ह्योऽमुक्ष्महीति-
(भाष्यम्) अनद्यतन इति बहुव्रीहिनिर्देशः----कर्तव्यः। अविद्यमानाद्यतनोनद्यतन इति।। किं प्रयोजनम्?। अद्य ह्योभुक्ष्महीति।। अद्य च ह्यश्चाभुक्ष्महीति व्यामिश्रे व्यामिश्रे लुङेव यथा स्यात्।।
(आक्षेपभाष्यम्)
यद्येवमद्यतेनपि लङ् प्राप्नोति। न ह्यद्यतनेद्यतनो विद्यते।
(आक्षेपबाधकभाष्यम्)
अद्यतनेपि हि अद्यतनो विद्यते। कथम्?। व्यपदेशिवद्भावेन।
(3003 वार्तिकम्।। 2 ।।)
- परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये-
(भाष्यम्) परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शिनविषये लङ्वक्तव्यः। अरुणद्यवनः साकेतम्। अरुणद्यवनो मध्वमिकाम्।।
(आक्षेपभाष्यम्)
परोक्ष इति किमर्थम्?।
उदगादादित्यः।।
(आक्षेपभाष्यम्)
लोकविज्ञात इति किमर्थम्?।
(प्रत्युदाहरणभाष्यम्)
चकार कटं देवदत्तः।।
(आक्षेपभाष्यम्)
प्रयोक्तुर्दर्शनविषय इति किमर्थम्?।
(प्रत्युदाहरणभाष्यम्)
जघान कंसं किल वासुदेवः।। अनद्यतने।। 111 ।।
-3-2-114- विभाषा साकाङ्क्षे (881)
(514 लृड्विकल्पसूत्रम्।। 3 । 2 । 2 आदृ 12)
(आक्षेपभाष्यम्)
किमुदाहरणम्?।
(समाधानभाष्यम्)
अभिजानासि देवदत्त कश्मीरान् गमिष्यामः। तत्र सक्तून् पास्यामः। अभिजानासि देवदत्त कश्मीरानगच्छाम। तत्र सक्तूनपिबाम।।
(आक्षेपभाष्यम्)
भवेत् पूर्वं परमाकाङ्क्षतीति साकाङ्क्षं स्यात्, परं तु कथं साकाङ्क्षम्।
(समाधानभाष्यम्)
परमपि साकाङ्क्षम्। कथम्?। अस्त्यस्मिन्नाकाङ्क्षेत्यतः साकाङ्क्षम्।।
(3004 वार्तिकम्।। 1 ।।)
- विभाषा साकाङ्क्षे सर्वत्र-
(भाष्यम्) विभाषा साकाङ्क्षे सर्वत्रेति वक्तव्यम्। क्व सर्वत्र?। यदि चायदि च। यदि तावत्-------अभिजानासि देवदत्त यत्कश्मीरान् गमिष्यामः, यत्कश्मीरानगच्छाम। यत्तत्रौदनं भोक्ष्मामहे, यत्तत्रौदनमभुञ्ञ्ज्महि। अयदि----अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरानगच्छाम। तत्रौदनं भोक्ष्यामहे।। तत्रौदनमभुञ्ञ्ज्महि।। विभाषा सादृ ।। 114 ।।
-3-2-115- परोक्षे लिट् (882)
(515 लिडि्वधिसूत्रम्।। 3 । 2 । 2 आदृ 16)
(परोक्षशब्दसिध्यधिकरणम्)
(आक्षेपभाष्यम्)
परोक्ष इत्युच्यते। किं परोक्षं नाम?।
(समाधानभाष्यम्)
परमक्ष्णः परोक्षम्।।
(प्रश्नभाष्यम्)
अक्षि पुनः किम्?।
(समाधानभाष्यम्)
अश्नोतेरयमौणादिकः करणसाधनः सिप्रत्ययः। अश्नुतेऽनेनेत्यक्षि।
(आक्षेपभाष्यम्)

यद्येवं परोक्षमिति प्राप्नोति।
(दूषणपरिहारभाष्यम्)
नैष दोषः।।
(3005 निपातनवार्तिकम्।। 1 ।।)
- परोभावः परस्याक्षे परोक्षे लिटि दृश्यताम्-
(भाष्यम्) परशब्दस्याक्षशब्दे उत्तरपदे परोभावो वक्तव्यः।।
(3006 निपातनान्तरवार्तिकम्।। 2 ।।)
- उत्वं वादेः पारदक्ष्णः -
(भाष्यम्) अथ वा परशब्दादुत्तरस्याक्षिशब्दस्योत्वं वक्तव्यम्।।
(3007 निपातनान्तरवार्तिकम्।। 3 ।।)
- सिद्धं वास्मान्निपातनात्-
(भाष्यम्) अथ वा निपातनादेव सिद्धं परोक्षे लिड् इति।।
(परोक्षार्थविशेष्यविचाराधिकरणम्)
(आक्षेपभाष्यम्)
कस्मिन्पुनः परोक्षे लिड् भवति?।
(समाधानभाष्यम्)
काले।
(समाधानबाधकभाष्यम्)
न वैकालाधिकारोस्ति।
(समाधानान्तरभाष्यम्)
एवं तर्हि धातोः इति वर्तते, धातौ परोक्षे।।
(समाधानबाधकभाष्यम्)
धातुर्वै शब्दः। न च शब्दस्य प्रत्यक्षपरोक्षतायां संभवोस्ति।
(समाधानसाधकभाष्यम्)
शब्देऽसंभवादर्थे कार्यं विज्ञास्यते---परोक्षे धातौउपरोक्षे धात्वर्थ इति।।
(आक्षेपभाष्यम्)
कः पुनर्धात्वर्थः।
(समाधानभाष्यम्)
क्रिया क्रियायां परोक्षायामिति।।
(समाधानबाधकभाष्यम्)
यद्येवं ह्योपचदित्यत्र लिट् प्राप्नोति। किं कारणम्?। क्रिया नामेयमत्यन्तापरदृष्टा अनुमानगम्याऽशक्या पिण्डीभूता निर्दर्शयितुम्। यथा गर्भो निर्लुठितः।।
(समाधानभाष्यम्)
एवं तर्हि साधनेषु परोक्षेषु।
(आक्षेपभाष्यम्)
साधनेषु च परोक्षेषु भवतः कः संप्रत्ययः?।
(समाधानभाष्यम्)
यदि तावद् गुणसमुदायः साधनम्। साधनमप्यनुमानगम्यम्।।
(भाष्यम्) अथान्यद् गुणेभ्यः साधनम्, भवति प्रत्यक्षपरोक्षतायां संभवः।।
(आक्षेपभाष्यम्)
अथ यदानेन रथ्यायां तण्डुलोदकं दृष्टं कथं तत्र भवितव्यम्,
(समाधानभाष्यम्)
यदि तावत्साधनेषु परोक्षेषु?। पपाचेति भवितव्यम्। भवन्ति हि तस्य साधनानि परोक्षाणि।
(भाष्यम्) अत य एते क्रियाकृता विशेषाश्चीत्काराः फूत्काराश्च तेषु परोक्षेषु, एवमपि पपाचेति भवितव्यम्।।
(परोक्षकालनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
कथंजातीयकं पुनः परोक्षं नाम?।
(समाधानभाष्यम्)
केचित्तावदाहुः---वर्षशतवृत्तं परोक्षमिति।।
अपर आहुः---वर्षसहस्रवृत्तं परोक्षमिति।।
अपर आहुः----कुड्यकटान्तरितं परोक्षमिति।।
अपर आहुः-----द्व्यहवृत्तं त्र्यहवृत्तं चेति।।
(उत्तमपुरुषोपपादनाधिकरणम्)
(आक्षेपभाष्यम्)
सर्वथोत्तमो न सिध्यति।।
(3008 समाधानवार्तिकम्।। 4 ।।)
- सुप्तमत्तयोरुत्तमः-
(भाष्यम्) सुप्तमत्तयोरुत्तम इति वक्तव्यम्। सुप्तोहं किल विललाप। मत्तोहं किल विललाप। सुप्तोन्वहं किल विललाप। मत्तोन्वहं किल विललाप।।
(परोक्षत्वाङ्गीकारभाष्यम्)
अथ वा भवति वै कश्चिज्जाग्रदपि वर्तमानं कालं नोपलभते। तद्यथा वैयाकरणानां शाकटायनो रथमार्गे आसीनः शकटसार्थं यान्तं नोपलेभे।
किं पुनः कारणं कश्चिज्जाग्रदपि वर्तमानकालं नोपलभते?.
मनसा प्रयुक्तानीन्द्रियाण्युपलब्धौ कारणानि भवन्ति, मनसोऽसांनिध्यात्।
(3009 लिडि्वधिवार्तिकम्।। 5 ।।)
- परोक्षे लिडत्यन्तापह्नवे च-
(भाष्यम्) परोक्षे लिट् इत्यत्र अत्यन्तापह्नवे च इति वक्तव्यम्। नो खण्डिकान् जगाम। नोकलिङ्गाञ्ञ्जगाम।
न कारिसोमं प्रपपावग्ने, न दार्वजस्य प्रतिजग्राह, को मे मनुष्यः प्रहरेद्वधाय।।
परो भावः परस्याक्षे परोक्षे लिटि दृश्यताम्।
उत्वं वादेः परादक्ष्णः सिद्धं वास्मान्निपातनात्। परोक्षे लिट्।। 115 ।।
-3-2-118- लट् स्मे (885)
(516 लड्प्रत्ययविधिसूत्रम्।। 3 । 2 । 2 आ.14)
(3010 ---11 वार्तिकद्वयम्।। 1।।)
- स्मपुरा भूतमात्रे न स्मपुराद्यतने -
(भाष्यम्) स्मपुरा भूतमात्रे न स्मपुराद्यतनेति वक्तव्यम्।
(आक्षेपभाष्यम्)
किमयं स्मादिविधिः पुरान्तोऽविशेषेण भूतमात्रे भवति। तत्र वक्तव्यं स्मलक्षणः पुरालक्षणश्चाद्यतने न भवत इति।।
आहोस्वित् स्मलक्षणः पुरालक्षणश्चाविशेषेण भूतमात्रे भवतः इति। तत्र स्माद्यर्थे न स्मपुराद्यतन इति वक्तव्यम्?।
(3012 पूर्ववार्तिकप्रत्याख्यानवार्तिकम्।। 2 ।।)
- स्मादिविधिः पुरान्तो यद्यविशेषेण किं कृतं भवति न स्मपुराद्यतन इति ब्रुवता कात्यायनेनेह-
(भाष्यम्) स्मादिविधिः पुरान्तो यद्यविशेषेण भवति, किं वार्तिककारः प्रतिषेधेन करोति---न स्मपुराद्यतन इति।।
(3013 वार्तिकम्।। 2 ।।)
- अनुवृत्तिरनद्यतनस्य लट् स्म इति तत्र नास्ति नञ्ञ्कार्यम्-
(भाष्यम्) लट् स्मे इत्यत्रानद्यतन इत्येतदनुवर्तिष्यते।।
(3014 वार्तिकम्।। 3 ।।)
- अपरोक्षानद्यतनौ ननौ च नन्वोश्च विनिवृत्तौ।। न पुराद्यतन इति भवेदेतद्वाच्यम्-
(भाष्यम्)तत्रैतावद्वक्तव्यं स्याद्----- ठन पुराद्यतन इति।।
(3015 वार्तिकम्।। 4 ।।)
- तत्र चापि लुङ्ग्रहणम्-
(भाष्यम्) तत्र चापि लुङ्ग्रहणं ज्ञापकम्---न पुरालक्षणोद्यतने भवतीति।।
 (भाष्यम्) अथ बुद्धिरियम् अविशेषेण स्मपुराहेतू इति तत्र चापि श्रृणुभूयः।।
अपरोक्षे चेत्येष प्राक् पुरिसंशब्दनादविनिवृत्तः। सर्वत्रानद्यतनस्तथासति नञ्ञा किमिह कार्यम्।।
(अपरोक्षे च इत्यस्य प्रत्याख्यानभाष्यम्)
स्मादावपरोक्षे चेत्यकार्यमपि शक्यमेतदितिविद्धि।
शक्यं हि निवर्तयितुं परोक्ष इति लट् स्म इत्यत्र।।
(सूत्रसमर्थनभाष्यम्)
स्यादेषा तव बुद्धिः स्मलक्षणेप्येवमेव सिद्धमिति।
लट् स्म इति भवेन्नार्थस्तस्मात्कार्यं परार्थं तु। एवं तर्हि ज्ञापयत्याचार्यः----स्मलक्षणः पुरालक्षणश्चानद्यतने भवतः इति।। लट् स्मे।। 118 ।।
-3-2-120- ननौ पृष्टप्रतिवचने (887)
(517 लड्विधिसूत्रम्।। 3 । 2 । 2 आ.15)
- ननौ पृष्टप्रतिवचन इत्यशिष्यं क्रियासमाप्तेर्विवक्षितत्वात्-
(भाष्यम्) ननौ पृष्टप्रतिवचन इति अशिष्यो लट्। किं कारणम्?। क्रियासमाप्तेर्विवक्षितत्वात्। क्रियाया अत्र असमाप्तिर्विवक्षिता। एष एव न्याय्यो वर्तमानः कालः यत्र क्रियाया असमाप्तिर्भवति तत्र वर्तमाने लट् इत्येव सिद्धम्।।
(दूषणभाष्यम्)
यदि वर्तमाने लट् इत्येव लड् भवति। शतृशानचौ च प्राप्नुतः।।
(इष्टापत्तिभाष्यम्)
इष्येते शतृशानचौ---ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणं पश्येति।। ननौ पृष्टदृ ।। 120 ।।
-3-2-122- पुरि लुङ् चास्मे (889)
(598 लुङ्लड्विधिसूत्रम्।। 3 । 2 । 2 आदृ 16)
(3017 वार्तिकम्।। 1 ।।)
- हशश्वद्भ्यां पुरा-
(भाष्यम्) हशश्वल्लक्षणात्पुरालक्षणो भवति विप्रतिषेधेन। हशश्वल्लक्षणस्यावकाशः---इति हाकरोत् इति ह चकार, ----शश्वदकरोत् शश्वच्चकार पुरालक्षणस्यावकाशो----रथेनायं पुरा याति रथेनायं पुरायासीत्। इहोभयं प्राप्नोति-----रथेन हशस्वत्पुरा याति रथेन हशश्वत्पुरायासीत्। पुरालक्षणो भवति विप्रतिषेधेन।।
(3018 वार्तिकम्।। 2 ।।)
- स्मः सर्वेभ्यो विप्रतिषेधेन-
(भाष्यम्) स्मलक्षणः सर्वेभ्यो भवति विप्रतिषेधेन। हशस्वल्लक्षणात्पुरालक्षणाच्च। हशश्वल्लक्षणस्यावकाशः---इति
हाकरोत्उःथ्द्य;ति ह चकार। शश्वदकरोत्शश्वच्चकार। पुरालक्षणस्यावकाशः----णस्यावकाशः----धर्मेण स्म कुरवो युध्यन्ते। इह सर्वे प्राप्नोति---न ह स्म वै पुरा शश्वदग्निरपरशुवृक्णं दहति। स्मलक्षणो लड् भवति विप्रति षेधेन।। पुरि लुङ्।। 122 ।।
(इति भूताधिकारः)
-3-2-123- वर्तमाने लट् (890)
(अथ वर्तमानकालाधिकारः)
(519 लट्प्रत्ययविधिसूत्रम्।। 3 । 2 । 2 आ.17)
- प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमानत्वात्।। -
(भाष्यम्) प्रवृत्तस्याविरामे शासितव्या भवन्ती। इहाधीमहे, इह वसामः, इह पुष्यमित्रं याजयाम इति।। किं पुनः कारणं न सिध्यति?। अवर्तमानत्वात्।।
(3020 आक्षेपवार्तिकम्।। 2 ।।)
- नित्यप्रवृत्ते च कालाविभागात्-
(भाष्यम्) नित्यप्रवृत्ते च शासितव्या भवन्ती। तिष्ठन्ति पर्वताः स्रवन्ति नद्य इति। किं पुनः कारणं न सिध्यति? कालाविभागात्। इह भूतभविष्यत्प्रतिद्वन्द्वो वर्तमानः कालः। न चात्र भूतभविष्यन्तौ कालौ स्तः।।
(3021 प्रथमाक्षेपबाधकवार्तिकम्।। 3।।)
- न्याय्या त्वारम्भानपवर्गात्-
(भाष्यम्) न्याय्या त्वेषा वर्तमानकालता। कुतः? न्याय्यं मन्यते भुङ्क्ते देवदत्त इति। आरम्भानपवर्गात्। आरम्भोत्रानपवृक्तः। एष एव च नाम न्याय्यो वर्तमानकालो यत्रारम्भो नपवृक्तः।।
(3022 वार्तिकगम्।। 4 ।।)
- अस्ति च मुक्तसंशये विरामः-
(भाष्यम्) यं खल्वपि भवान्मुक्तसंशयं वर्तमानकालं न्यायं मन्यते भुङ्क्ते देवदत्त
इति। तेनैतत्तुल्यम्। सोपि ह्यवश्यं भुञ्ञ्जानो हसति वा जल्पति वा पानीयं वा पिबति। यद्यत्र युक्ता वर्तमानकालता दृश्यते। इहापि युक्ता दृश्यताम्।।
(2023 द्वितीयाक्षेपबाधकवार्तिकम्।। 5 ।।)
- सन्ति च कालविभागाः-
(भाष्यम्) सन्ति च खल्वपि कालविभागाः तिष्ठन्ति पर्वताः, स्थास्यन्ति पर्वताः, तस्थुः पर्वता इति।
(आक्षेपभाष्यम्)
किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतः सन्ति कालविभागाः?।
(समाधानभाष्यम्)
नावश्यं प्रयोगादेव। इह हि भूतभविष्यद्वर्तमानानां राज्ञां याः क्रियास्ताः तिष्ठतेरधिकरणम्। इह तावत् तिष्ठन्ति पर्वताः इति, संप्रति ये राजानस्तेषां याः क्रियास्तासु वर्तमानासु। स्थास्यन्ति पर्वताः इति इत उत्तरं ये राजानो भविष्यन्ति पर्वताः इति। इत उत्तरं ये राजानो भविष्यन्ति तेषां याः क्रियास्तासु भविष्यन्तीषु। तस्थुः पर्वताः इति, इह हि ये राजानो बभूवुस्तेषां याः क्रियास्तास्वतिक्रान्तासु।।
(आक्षेपभाष्यम्)
अपर आहुः----नास्ति वर्तमानः काल इति।। अपि चात्र श्लोकानुदाहरन्ति---
(भाष्यम्) न वर्तते चक्रमिषुर्न पात्यते।
न स्यन्दन्ते सरितः सागराय।
कूटस्थोयं लोको न विचेष्टितास्ति।
यो ह्येवं पश्यति सोप्यनन्धः।।
मीमांसको मन्यमानो युवा मेधाविसंमतः।
काकं स्मेहानुपृच्छति किं ते पतितलक्षणम्।।
अनामते न पतसि अतिक्रान्ते च काक न।
यदि संप्रति पतसि सर्वो लोकः पतत्ययम्।।
हिमवानपि गच्छति।।
अनागतमतिक्रान्तं वर्तमानमिति त्रयम्।
सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते।।
(आक्षेपपरिहारभाष्यम्)
क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम्। तत्समीक्ष्य प्रयुञ्ञ्जीत गच्छतीत्यविचारयन्।।
(मतान्तरेणाक्षेपपरिहारभाष्यम्)
अपर आह---अस्ति वर्तमानः काल इति। आदित्यगतिवन्नोपलभ्यत इति।। अपि चात्रश्लोकमुदाहरन्ति---
विसस्य वाला इव दह्यमाना।
न लक्ष्यते विकृतिः सन्निपाते।
अस्तीति तां वेदयन्ते त्रिभावाः।
सूक्ष्मो हि भावोऽनुमितेन गम्यः।। इति।।
वर्तमाने लट्।। 123 ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।।
-3-2-124- लटः शतृशानचावप्रथमासमानाधिकरणे (819)
(520 लटः शतृशानज्विधिसूत्रम्।। 3 । 2 । 3 आ.1)
(आदेशोपपादनाधिकरणम्)
(3024 आदेशानुपपत्तिवार्तिकम्।। 1 ।।)
- लस्याप्रथमासमानाधिकरणेनायोगादादेशानुपपत्तिर्यथान्यत्र-
(भाष्यम्) लस्य अप्रथमासमानाधिकरणेनायोगादादेशयोरनुपपत्तिर्यथान्यत्र। तद्यथा ----अन्यत्रापि लस्याप्रथमासमानाधिकरणेन योगो न भवति। क्वान्यत्र?। लङि---अपचदोदनं देवदत्तं इति।।
(3025 अन्यथा दूषणापत्तिवार्तिकम्।। 2 ।।)
- योग इति चेदन्यत्रापि योगः स्यात्-
(भाष्यम्) अथ मतमेतत्----भवति योग इति। अन्यत्रापि योगः स्यात्।। क्वान्यत्र?। लङि---अपचदोदनं देवदत्त इति।।
(अनुपपत्तिपरिहारभाष्यम्)
न क्वचिद्योग इति कृत्वातः सर्वत्र योगेन भवितव्यम्। क्वचिद्वाऽयोग इति कृत्वा सर्वत्रायोगेन।। तद्यथा---समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न। न चेदानीं कश्चिदर्थवान् इति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः। तत्र किमस्माभिः शक्यं कर्तुं यल्लटोऽप्रथमासमानाधिकरणेन योगो भवति, लङो न भवति, स्वाभाविकमेतत्।।
(परिहारान्तरभाष्यम्)
अथ वाऽऽदेशेन सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं प्रकृतेरपि सामानाधिकरण्यं भवति इति। तद्यथा---धूमं दृष्ट्वा अग्निरत्र इति गम्यते। त्रिविष्टब्धकं दृष्ट्वा परिव्राजक इति।
(परिहारान्तरासंभवभाष्यम्)
विषम उपन्यासः---प्रत्यक्षस्तेनाग्निधूमयोरभिसंबन्धः कृतो भवति, त्रिविष्टब्धकपरिव्राजकयोश्च ननु तद्विदेशस्थमपि दृष्ट्वाध्यवस्यति अग्निरत्र परिव्राजकोत्रेति।
(प्रत्यक्षस्यानुमानाबाधकताभाष्यम्)
भवति वै प्रत्यक्षादप्यनुमानबलीयस्त्वम्। तद्यथाऽलातचक्रं प्रत्यक्षं दृश्यते, अनुमानाच्च गम्यते नैतदस्ति इति।।
(अनुमानसाधकव्याप्तिसाधकभाष्यम्)
कस्यचित्खल्वपि सकृत्कृतोभिसंबन्धोऽत्यन्ताय कृतो भवति। तद्यथा---वृक्षपर्णयोः---अयं वृक्षः इदं पर्णम् इति। स तद्विदेशस्थमपि दृष्ट्वा जानाति वृक्षस्येदं पर्णम् इति।।
(आक्षेपभाष्यम्)
किं पुनरयं पर्युदासो यदन्यत्प्रथमासमानाधिकरणादिति, आहोस्वित् प्रसज्यप्रतिषेधः प्रथमासमानाधिकरणेनेति।
(प्रत्याक्षेपभाष्यम्)
कश्चात्र विशेषः।
(3026 पर्युदासे दूषणवार्तिकम्।। 3 ।।)
- लटः शतृशानचावप्रथमासमानाधिकरणे इति चेत्प्रत्ययोत्तरपदयोरुपसंख्यानम्-
(भाष्यम्) लटः शतृशानचावप्रथमासमानाधिकरण इति चेत् प्रत्ययोत्तरपदयोरुपसंख्यानं कर्तव्यम्। कौर्वतः पाचतः कुर्वद्भक्तिः, पचतभक्तिः, कुर्वाणभक्तिः, पचमानभक्तिरिति।
(प्रसज्यप्रतिषेधाङ्गीकारवार्तिकम्)
अस्तु तर्हि प्रसज्यप्रतिषेधः प्रथमासमानाधिकरणे नेति।
(3027 प्रसज्यप्रतिषेधदूषणवार्तिकम्।। 4 ।।)
- प्रथमाप्रतिषेधे उत्तरपदे आदेशानुपपत्तिः-
(भाष्यम्) प्रथमाप्रतिषेधे उत्तरपदे आदेशयोरनुपपत्तिः कुर्वती चासौ भक्तिश्च कुर्वद्भक्तिः पचद्भक्तिः, कुर्वाणभक्तिः,
पचमानभक्तिरिति। ये चाप्येते समानाधिकरणवृत्तयस्तद्धितास्तेषु शतृशानचौ न प्राप्नुतः। कुर्वत्तरः, पचत्तरः, कुर्वाणतरः, पचमानतरः कुर्वद्रूपः पचद्रूपः, कुर्वाणरूपः, पचमानरूपः, कुर्वत्कल्पः, पचत्कल्पः, कुर्वाणकल्पः,
पचमानकल्प इति।
(3028 समाधानवार्तिकम्।। 5 ।।)
(भाष्यम्) सिद्धमेतत्। कथम्?। प्रत्ययोत्तरपदयोश्च शतृशानचौ भवतः इति वक्तव्यम्।
(3029 समाधानदूषणप्रत्ययाप्रसिद्धिवार्तिकम्।। 6 ।।)
- तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः-
(भाष्यम्) तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः। आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तश्चादेशः तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते।।
(3030 समाधानदूषणोत्तरपदाप्रसिद्धिवार्तिकम्।। 7 ।।)
- उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः-
(भाष्यम्) उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः। उत्तरपदनिमित्तः सुप्सुबन्तनिमित्तं चोत्तरपदम्। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते।
(3031 प्रत्ययप्रसिद्धिसमाधानवार्तिकम्।। 8 ।।
- न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम्-
(भाष्यम्) न वा एष दोषः। किं कारणम्?। लकारस्य कृत्त्वात् प्रातिपदिकत्वम्। लकारः कृत्। कृत् प्रातिपदिकमिति प्रातिपदिकसंज्ञा। तदाश्रयं प्रत्ययविधानम्। प्रातिपदिकाश्रया स्वाद्युत्पत्तिर्भविष्यति।।
(3032 उत्तरपदप्रसिद्धिसमाधानवार्तिकम्।। 9 ।।)
- तिङादेशात् सुबुत्पत्तिः-
(भाष्यम्) तिङादेशः क्रियतां सुबुत्पत्तिरिति परत्वात्सुबुत्पत्तिर्भविष्यति।
(3033 वार्तिकशेषवार्तिकम्।। 10 ।।)
- तस्मादुत्तरपदप्रसिद्धिः-
(भाष्यम्) तस्मादुत्तरपदस्य प्रसिद्धिर्भविष्यति। उत्तरपदे प्रसिद्धे उत्तरपद इति शतृशानचौ भविष्यतः।।
(समाधानदूषणभाष्यम्)
इहापि तर्हि तिङादेशात्सुबुत्पत्तिः स्यात्---पचति पठतीति।।
(दूषणपरिहारभाष्यम्)
अस्त्यत्र विशेषः नित्योऽत्र तिङादेशः। उत्पन्नेऽपि सुपि प्राप्नोत्यनुत्पन्नेऽपि प्राप्नोति। नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिर्न भविष्यति।।
(दूषणभाष्यम्)
इहापि तर्हि नित्यत्वात्तिङादेशः स्यात्। कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिरिति।
(दूषणपरिहारभाष्यम्)
अस्त्यत्र विशेषः। शतृशानचौ तिङपवादौ तौ चात्र निमित्तवन्तौ। न चापवादविषये उत्सर्गोऽभिनिविशते। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः। प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशते। न तावदत्र कदाचित् तिङ् भवति। अपवादौ शतृशानचौ प्रतीक्षते।।
(दूषणपरिहारदूषणभाष्यम्)
तदेतत् क्व सिद्धं भवति। यत्र सामान्यादुत्पत्तिः। यत्र हि विशेषाद् अत इञ्ञ् इति इतरेतराश्रयमेव तत्र भवति। वीक्षमाणस्यापत्यं वैक्षमामणिरिति। इह च शतृशानचौ प्राप्नुतः पचतितरां जल्पतितरां पचतिरूपं जल्पतिरूपं पचतिकल्पं जल्पतिकल्पं पचति पठतीति।।
(प्रश्नभाष्यम्)
तदेतत्कथं कृत्वा सिद्धं भवति?।
(3034 समाधानवार्तिकम्।। 11 ।।)
- शतृशानचौ यदि लटो वा -
(भाष्यम्) यदि लटः शतृशानचौ वा भवतः व्यवस्थितविभाषा च। तेनेह च भविष्यतः----कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः पचन्पठन्निति च लटः शतृशानचौ। इह च न भविष्यतः----पचतितरां जल्पतितरां पचतिरूपं जल्पतिरूपं पचतिकल्पं जल्पतिकल्पं पचति पठतीति च लटः शतृशानचौ।।
(प्रश्नभाष्यम्)
तत्तर्हि वावचनं कर्तव्यम्।।
(समाधानभाष्यम्)
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। नन्वोर्विभाषा इति।
(आक्षेपभाष्यम्)
यदि तदनुवर्तते वर्तमाने लट् इति लडपि विभाषा प्राप्नोति।।
(समाधानभाष्यम्)
संबन्धमनुवर्तिष्यते। नन्वोर्विभाषा। पुरिलुङ्चास्मे विभाषा। लटः शतृशानचौ विभाषा। पुरि लुङ् चास्म इति निवृत्तिम्।।
(प्रश्नभाष्यम्)
न तर्हीदानीमप्रथमासमानाधिकरण इति वक्तव्यम्?।
(समाधानभाष्यम्)
वक्तव्यं च। किं प्रयोजनम्?। नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ शतृशानचौ यथा स्याताम्।।
(आक्षेपभाष्यम्)
क्व तर्हिदानीं विभाषा?।
(समाधानभाष्यम्)
प्रथमासमानाधिकरणे पचन् पचतीति पचमानः पचते इति।। लटः शतृ।। 124 ।।
-3-2-126- लक्षणहेत्वोः क्रियायाः (893)
(521 शतृशानज्विधिसूत्रम्।। 3 । 2 । 3 आ. 2 )
(3035 वार्तिकम्।।1 ।।)
- लक्षणहेत्वोः क्रियायाः गुण उपसंख्यानम्-
(भाष्यम्) लक्षणहेत्वोः क्रियाया गुण उपसंख्यानं कर्तव्यम्। तिष्ठन्मूत्रयति गच्छन्भक्षयतीति।
(3036 शतृशानज्विधिवार्तिकम्।।2 ।।)
- कर्तुश्च लक्षणयोः पर्यायेणाच योगे-
(भाष्यम्) कर्तुश्च लक्षणयोः पर्यायेणाचयोगउपसंख्यानं कर्तव्यम्। योधीयान आस्ते स देवदत्त इति। आसीनोधीते स देवदत्त इति।।
(प्रश्नभाष्यम्)
अचयोग इति किमर्थम्?।
(प्रत्युदाहरणभाष्यम्)
य आस्ते चाधीते च, स चैत्रः।
(3037 शतृशानज्विधिवार्तिकम्।। 3 ।।)
- तत्त्वाख्याने च-
(भाष्यम्) तत्त्वाख्याने चोपसंख्यानं कर्तव्यम्। शयाना वर्धते दूर्वा, आसीनं वर्धते विसमिति।।
(3038 विकल्पवार्तिकम्।। 4 ।।)
- सदादयश्च बहुलम्-
(भाष्यम्) सदादयश्च बहुलमिति वक्तव्यम्। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यते ब्राह्मण इति।।
(3039 विकल्पवार्तिकम्।। 5 ।।)
- इङ्जुहोत्योर्वावचनम्-
(भाष्यम्) इङ्जुहोत्योर्वेति वक्तव्यम्। अधीते, अधीयानः। जुहोति, जुहुवत्।
(3040 शतृशानज्विधिवार्तिकम्।। 6 ।।)
- माङ्याक्रोशे-
(भाष्यम्) माङ्याक्रोश इति वक्तव्यम्। मापचन्। मा पचमानः।।
(प्रश्नभाष्यम्)
तत्तर्हि वक्तव्यम्।।
(समाधानभाष्यम्)
न वक्तव्यम्। लक्षणहेत्वोः क्रियायाः इत्येव सिद्धम्। इह तावत्तिष्ठन् मूत्रयतीति, तिष्ठतिक्रिया मूत्रयतिक्रियाया लक्षणम्। गच्छन्भक्षयतीति, गच्छतिक्रिया भक्षयतिक्रियाया लक्षणम्। योधीयान आस्ते स देवदत्त इति, अध्ययनक्रिया आसनक्रियाया लक्षणम्। य आसीनोधीते स देवदत्त इति आसिक्रियाऽध्ययनक्रियाया लक्षणम्।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्----अचयोग इति वक्ष्यामीति। इह मा भूत्---य आस्ते चाधीते च स चैत्र इति।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। नैतत् क्रियालक्षणम्। किं तर्हि?। कर्तृलक्षणमेतत्--शयाना वर्धते दूर्वेति शेतिक्रिया वृद्धिक्रियाया लक्षणं भवति। आसीनं वर्धते विसमिति आसिक्रिया वृद्धिक्रियाया लक्षणमिति। सदादयश्च बहुलम् । इङ्जुहोत्योर्वा माङ्याक्रोश इत्येतद्वक्तव्यमेव।। लक्षणहेत्वोः।। 126 ।।
-3-2-127- तौ सत् (894)
(522 सत्संज्ञासूत्रम्।। 3 । 2 । 3 आ.)
(आक्षेपभाष्यम्)
तौग्रहणं किमर्थम्?।
(प्रयोजनभाष्यम्)
शतृशानचौ प्रतिनिर्दिश्येते।।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। प्रकृतौ शतृशानचावनुवर्तिष्यते। क्व प्रकृतौ?। लटः शतृशानचावप्रथमासमानाधिकरणे इति।
(समाधानभाष्यम्)
अत उत्तरं पठति।
(3049 समाधानवार्तिकम्।। 1 ।।)
- तौ सदिति वचनमसंसर्गार्थम्-
(भाष्यम्) तौ ग्रहणं क्रियते। (किमर्थम्?।) असंसर्गार्थम्। असंसक्तयोरेतैर्विशेषैः शतृशानचोः सत्संज्ञा यथा स्यादिति।।
(आक्षेपभाष्यम्)
ननु चैते विशेषा निवर्तन्ते।
(समाधानभाष्यम्)
यद्यप्येते विशेषा निवर्तन्ते। अयं तु खलु वर्तमानः कालोऽवश्यमुत्तरार्थोनुर्वत्यः। तस्मिन्ननुवर्तमाने वर्तमानकालविहितयोरेव शतृशानचोः सत्संज्ञा स्यात्। भूतभविष्यत्कालविहितयोर्न स्यात्।।
(आक्षेपभाष्यम्)
किं पुनर्भूतभविष्यत्कालविहितयोः सत्संज्ञावचने प्रयोजनम्?।
(3042 वार्तिकम्।। 2 ।।)
- प्रयोजनं पूरणगुणसुहितार्थसदिति-
(भाष्यम्) ब्राह्मणस्य पक्ष्यन्। ब्राह्मणस्य पक्ष्यमाणः।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेपि तौग्रहणे कथमेवासंसक्तयोरेतैर्विशेषैः सत्संज्ञा लभ्या?।
(समाधानभाष्यम्)
लभ्येत्याह। कथम्?। ताविति शब्दतः। सद् इति योगे क्रियमाणे तौ ग्रहणं योगाङ्गमुपजायते। सति च योगाङ्गे योगविभागः करिष्यते। तौ तावेतौ शतृशानचौ धातुमात्रात्परस्य प्रत्ययस्य भवतः। ततः सत्। सत्संज्ञौ भवतः शतृशानचाविति।।
(आक्षेपभाष्यम्)
इहापि तर्हि प्राप्नुतः कारको हारक इति।
(3043 वार्तिकम्।। 3 ।।)
- अवधारणं लृटि विधानम्-
(भाष्यम्) लृटः सद्वेत्येतन्नियमार्थं भविष्यति। लृट एव धातुमात्रात्परस्य नान्यस्येति।।
(नियमार्थत्वानुपपत्तिभाष्यम्)
कैमर्थक्यान्नियमो भवति। विधेयं नास्ति इति कृत्वा। इह चास्ति विधेयम्।। किम्?। नित्यौ शतृशानचौ प्राप्तौ तौ विभाषाविधेयौ। तत्रापूर्वो विधिरस्तु नियमोस्त्विति अपूर्व एव विधिः स्यान्न नियमः।।
(3044 नियमार्थत्वोपपत्तिवार्तिकम्।। 4 ।।)
- योगविभागतश्च विहितं सत्-
(भाष्यम्) एवं तर्हि योगविभागः करिष्यते----लृटः सत्। लृटः सत्संज्ञकौ भवतः। किमर्थमिदम्?। नियमार्थम्। लृट एव धातुमात्रात्परस्य नान्यस्येति।। ततो वा। वा च लृटः शतृशानचौ सत्संज्ञौ भवतः।। तत्रायमप्यर्थः----सद्विधिर्नित्यमप्रथमासमानाधिकर
णे इति वक्ष्यति, तन्न वक्तव्यं भवति।।
(आक्षेपभाष्यम्)
अथ यावेतावुत्तरौ शत्रानौ किमेतौ लादेशौ, आहोस्विदलादेशौ।
(प्रत्याक्षेपभाष्यम्)
कश्चात्र विशेषः?।।
(3045 लादेशपक्षे दूषणवार्तिकम्।। 5 ।।)
- उत्तरयोर्लादेशे वावचनम्-
(भाष्यम्) उत्तरयोर्लादेशे वावचनं कर्तव्यम्। पचमानः यजमानः। पचते यजत इत्यपि यथा स्यात्।।
(3046 दूषणान्तरवार्तिकम्।। 6 ।।)
- साधनाभिधानं च-
(भाष्यम्) साधनाभिधानं च प्राप्नोति लः कर्मणि च भावे चाकर्मकेभ्य इति भावकर्मणोरपि प्राप्नुतः।।
(3047 दूषणवार्तिकम्।। 7 ।।)
- स्वरः-
(भाष्यम्) स्वरश्च साध्यः । कतीह पचमानाः। अदुपदेशाल्लसार्वधातुकमनुदात्तं भवती त्येष स्वरः प्राप्नोति।।
(3048 दूषणवार्तिकम्।। 8 ।।)
- उपग्रहप्रतिषेधश्च-
(भाष्यम्) उपग्रहस्य च प्रतिषेधो वक्तव्यः। कतीह निघ्नानाः तङानावात्मनेपदम् इत्यात्मनेपदसंज्ञा प्राप्नोति।।
(अलादेशपक्षाङ्गीकारभाष्यम्)
स्तां तर्हि अलादेशौ।
(3049 दूषणवार्तिकम्।। 9 ।।)
- अलादेशे षष्ठीप्रतिषेधः-
(भाष्यम्) अलादेशे षष्ठीप्रतिषेधो वक्तव्यः सोमं पवमानः। नडमाघ्रानः। अधीयन्पारायणम्। लप्रयोगे नेति प्रतिषेधो न प्राप्नोति।।
(दूषणवारणभाष्यम्)
मा भूदेवम् तृन्नित्येवं भविष्यति। कथम्?। तृन्निति नेदं प्रत्ययग्रहणम् किं तर्हि?।। प्रत्याहारग्रहणम्।।
(प्रश्नभाष्यम्)
क्व संनिविष्टानां प्रत्याहारः?।
(समाधानभाष्यम्)
लटः शतृ इत्यत आरभ्यातृनो नकारात्।
(दूषणभाष्यम्)
यदि प्रत्याहारग्रहणं चोरस्य द्विषन् वृषलस्य द्विषन् अत्रापि प्राप्नोति।।
(3050 समाधानवार्तिकम्।। 10 ।।)
- द्विषः शतुर्वावचनम्-
(भाष्यम्) द्विषः शतुर्वेति वक्तव्यम्। तच्चावश्यं वक्तव्यम्। प्रत्ययग्रहणे सति प्रतिषेधार्थम्। तदेव प्रत्याहारग्रहणे सति विध्यर्थं भविष्यतीति।। तौ सत्।। 127 ।।
-3-2-135- तृन् (902)
(अथ ताच्छीलिकप्रकरणम्)
(523 तृन्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 ।। आ.4)
(3051 वार्तिकम्।। 1 ।।)
- तृन्विधावृत्विक्षु चानुपसर्गस्य-
(भाष्यम्) तृन्विधौ ऋत्विक्षु चानुपसर्गस्येति वक्तव्यम्। होता पोता।।
(आक्षेपभाष्यम्)
अनुपसर्गस्येति किमर्थम्?।
(प्रत्युदाहरणभाष्यम्)
प्रशास्ता प्रतिहर्ता।।
(3052 वार्तिकम्।। 2।।)
- नयतेः षुक् च-
(भाष्यम्) नयतेः षुग्वक्तव्यः। तृंश्च प्रत्ययो वक्तव्यः। नेष्टा।
(3053 प्रत्याख्यानवार्तिकम्।। 3 ।।)
- न वा धात्वन्यत्वात्-
(भाष्यम्) न वा वक्तव्यः। किं कारणम्?। धात्वन्यत्वात्। धात्वन्तरं नेषतिः।।
(प्रश्नभाष्यम्)
कथं ज्ञायते?।।
(3054 प्रत्याख्यानहेतुवार्तिकम्।। 4 ।।)
- नेषतुनेष्टादिति दर्शनात्-
(भाष्यम्) नेषतुनेष्टादिति हि प्रयोगो दृश्यते इन्द्रो वस्तेन नेषतु। गावो नेष्टात्।।
(3055 वार्तिकम्।। 5 ।।)
- त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च-
(भाष्यम्) त्विषेर्देवतायां तृन्वक्तव्यः। अकारश्चोपधायाः। अनिट्त्वं च वक्तव्यम्। त्वष्टा।।
(प्रश्नभाष्यम्)
किं पुनरिदं त्विषेरेवानिट्त्वम्।
(समाधानभाष्यम्)
नेत्याह। यच्चानुक्रान्तं यच्चानुक्रंस्यते सर्वस्यैष शेषोऽनिट्त्वं चेति।।
(3056 वार्तिकम्।। 6 ।।)
- क्षदेश्च युक्ते-
(भाष्यम्) क्षदेश्च युक्ते तृन्वक्तव्यः। क्षत्ता।।
(3057 वार्तिकम्।। 7 ।।)
- छन्दसि तृच्च-
(भाष्यम्) छन्दसि तृच्च तृञ्ञ्च वक्तव्यः।। क्षतृभ्यः संगृहीतृभ्यः। क्षतृभ्यः संगृहीतृभ्यः।। तृन्।। 135 ।।
-3-2-139- ग्लाजिस्थश्च क्स्नुः (906)
(524 क्स्नुप्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आ. 5)
(प्रत्ययस्य गित्त्वनिर्णयाधिकरणम्)
(3058 कित्त्वे दूषणवार्तिकम्।। 1 ।।)
- स्नोः कित्त्वे स्थ इर्कारप्रतिषेधः-
(भाष्यम्) स्नोः कित्त्वे स्थ इर्कारस्य प्रतिषेधो वक्तव्यः। स्थास्नुरिति। घुमास्था---- इतीत्वं प्राप्नोति।।
(अकिदङ्गीकरभाष्यम्)
एवं तर्ह्यकित्करिष्यते।।
(3059 अकिदङ्गीकारे दूषणवार्तिकम्।। 2 ।।)
- अकिति गुणप्रतिषेधः।-
(भाष्यम्) यद्यकित् क्रियते, गुणप्रतिषेधो वक्तव्यः। जिष्णुरिति।
(3060 दूषणान्तरवार्तिकम्।। 3 ।।)
- भुव इट् प्रतिषेधश्च-
(भाष्यम्) भुव इट्प्रतिषेधश्च वक्तव्यः।
किं चान्यत्?।
गुणप्रतिषेधश्च। भूष्णुरिति।।
(किदङ्गीकारभाष्यम्)
अस्तु तर्हि कित्।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् स्नोः कित्त्वे इर्कारप्रतिषेध इति।
(दूषणोद्धारभाष्यम्)
नैष दोषः।
(3061 स्नुविधिवार्तिकम्।। 4 ।।)
- स्थादंशिभ्यां स्नुश्छन्दसि-
(भाष्यम्) स्थादंशिभ्यां स्नुश्छन्दसि वक्तव्यः। स्थास्नु जङ्गमं दङ्क्ष्णवः पशवः इति। स इदानीं स्थः स्नुरविशेषेण विधास्यते।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं स्नोः कित्वे स्थ इर्कारप्रतिषेध इति।।
(समाधानभाष्यम्)
एवं तर्हि गित्करिष्यते।।
(3062 वार्तिकम्।। 5 ।।)
- स्नोर्गित्वान्न स्थ इर्कारः-
(भाष्यम्) स्नोर्गित्वात् स्थ इर्कारो न भविष्यति। किं कारणम्?।
(3063 हेतुवार्तिकम्।। 6 ।।)
- क्ङितोरीत्वशासनात्-
(भाष्यम्) क्ङितोरीत्वं शिष्यते।।
(आक्षेपभाष्यम्)
इह तर्हि जिष्णुरिति गुणः प्राप्नोति।
(3064 समाधानवार्तिकम्।। 7 ।।)
- गुणाभावस्त्रिषु स्मार्यः-
(भाष्यम्) गुणाभावस्त्रिषु स्मर्तव्यः। गितिकिति ङिति चेति।।
(प्रश्नभाष्यम्)
तद्गकारग्रहणं कर्तव्यम्।।
(समाधानभाष्यम्)
न कर्तव्यम्। क्रियते न्यास एव। ककारे गकार्रश्चत्वभूतौ निर्दिश्यते----क्क्ङिति चेति। (
(आक्षेपभाष्यम्)
इह तर्हि भूष्णुरिति श्र्युकः किति इतीट् प्रतिषेधो न प्राप्नोति।।
(3065 समाधानवार्तिकम्।। 8 ।।)
- श्र्युकोनिट्त्वं गकोरितोः-
(भाष्यम्) श्र्युकोनिट्त्वं गकारककारयोरिति वक्तव्यम्।।
(प्रश्नभाष्यम्)
तद्गकारग्रहणं कर्तव्यम्।।
(समाधानभाष्यम्)
न कर्तव्यम्। क्रियते न्यास एव। ककारे गकार्रश्चत्वभूतो निर्दिश्यते श्र्युकः क्किती ति।।
(आक्षेपभाष्यम्)
यद्येवं र्चत्वस्यासिद्धत्वाद् हशि च इत्युत्वं प्राप्नोति।।
(समाधानभाष्यम्)
सौत्रो निर्देशः।। अथवाऽसंहितया निर्देशः करिष्यते---श्र्युकः क्कितीति।।
-3-2-141- शमित्यष्टाभ्यो घिनुण् (908)
(525 घिनुण्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आ.6)
(आक्षेपभाष्यमा)
घिनणयं वक्तव्यः। घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिन इति उगिदचां सर्वनामस्थान इति नुम्प्रसज्येत।
(घिनुण्वादिभाष्यम्)
नैष दोषः। झल्ग्रहणं तत्र चोदयिष्यति।
(घिनण्वाद्याक्षेपभाष्यम्)
इह तर्हि शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा। उगितो घादिषु नद्या अन्यतरस्यां ह्रस्वो भवती इत्न्यतरस्यां हस्वत्वं प्रसज्येत। तस्माद् घिनणंय वक्तव्यः।
(घिनुण्वादिभाष्यम्)
इष्यत एव हस्वत्वम्।।
(3066 वार्तकम्।। 1।।)
- घिनुणकर्मकाणाम्-
(भाष्यम्) घिनुणकर्मकाणामिति वक्तव्यम्। इह मा भूत्---संपृणक्ति शाकमिति।।
(3067 वार्तिकप्रत्याख्यानम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?। अनभिधानादिति।। शमित्यष्टा।। 141 ।।
-3-2-146- निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्ञ् (913)
(526 वुञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 । आ. 7)
(आक्षेपभाष्यम्)
किमर्थं निन्दादिभ्यो वुञ्ञ्विधीयते। न ण्वुलैव सिद्धम्। नह्यस्ति विशेषः। निन्दादिभ्यो ण्वुलो वा वुञ्ञो वा। तदेवरूपं स एव स्वरः।।
(3038 वार्तिकम्।। 1 ।।)
- वुञ्ञमनेकाचः-
(भाष्यम्) वञ्ञमनेकाचः प्रयोजयन्ति। असूयकः।
(आक्षेपभाष्यम्)
अथ येऽत्रैकाचः पठ्यन्ते। तेषां ग्रहणं किमर्थम्। न तेषां ण्वुलैव सिद्धम्।
(आक्षेपबाधकभाष्यम्)
न सिध्यति। अयं तच्छीलादिष्वर्थेषु तृन्विधीयते स विशेषविहितः सामान्यविहितं ण्वुलं बाधेत।
(आक्षेपसाधकभाष्यम्)
वाऽसरूपेण न्यायेन ण्वुलपि भविष्यति।
अत उत्तरं पठति----
(3069 समाधानवार्तिकम्।। 2 ।।)
- निन्दादिभ्यो वुञ्ञ्वचनमन्येभ्योण्वुलः प्रतिषेधार्थम्-
(भाष्यम्) निन्दादिभ्यो वुञ्ञ्वचनं क्रियते ( किमर्थम्?) ज्ञापकार्थम्। किं ज्ञाप्यम्?। एतज्ज्ञापयत्याचार्यः तच्छीलादिषु वासरूपन्यायेनान्येभ्यो ण्वुल् न भवतीति।
(6070 वार्तिकम्।। 1 ।।)
- तृजादिप्रतिषेधार्थं वा एके-
(भाष्यम्) अथ वा एके मन्यन्ते---एतज्ज्ञापयत्याचार्यः ताच्छीलिकेषु सर्व एव तृजादयो वासरूपेण न भवन्तीति निन्दहिंस।। 146 ।।
-3-2-150- जुचङ्क्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः (927)
(युच्प्रत्ययप्रकरणम्)
527 युच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आदृ 8)
(3071 वार्तिकम्।। 1 ।।)
- पदिग्रहणमनर्थकमनुदात्तेतश्च हलादेरिति सिद्धत्वात्-
(भाष्यम्) पदिग्रहणमनर्थम्। किं कारणम्?। अनुदात्तेतश्च हलादेः। इति सिद्धत्वात्। अनुदात्तेतश्च हलादेः इत्येवात्र युच् सिद्धः।
(भाष्यम्) न सिध्यति। अयं पदेरुकञ्ञ् विधीयते---लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्ञ् इति। स विशेषविहितः सामान्यविहितं युचं बाधेत।।
वासरूपन्यायेन युजपि भविष्यति।।
(3072 वार्तिकम्।। 2 ।।)
- असरूपनिवृत्त्यर्थं तु-
(भाष्यम्) असरूपनिवृत्त्यर्थं तर्हि पदिग्रहणं क्रियते।
एतज्ज्ञापयत्याचार्यः ताच्छीलिकेषु ताच्छीलिका वासरूपेण न भवन्तीति।।
(आक्षेपभाष्यम्)
यद्येतज्ज्ञाप्यते सूददीपदीक्षश्च इति दीपिग्रहणमनर्थकम्। अयं दीपे रो विधीयते---नमिकम्पिस्म्य जसकमहिंसदीपो र इति स विशेषविहितः सामान्यविहितं युचं बाधिष्यते।।
(समाधानभाष्यम्)
एवं तर्हि सिद्धे सति यद् दीपिग्रहणं करोति। तज्ज्ञापयत्याचार्यः भवति युचो रेण समावेश इति।।
(प्रश्नभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम्?।
(समाधानभाष्यम्)
कम्रा कन्या कमना कन्येत्येतत्सिद्धं भवति।। जुचंक्रम्य।। 150 ।।
-3-2-158- स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् (935)
(528 आलुच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आ.9)
(आक्षेपभाष्यम्)
किमर्थमालुज्विधीयते, न लुशेवोच्यत।
(प्रश्नभाष्यम्)
का रूपसिद्धिः?। स्पृहयालुः दयालुः।
(उत्तरभाष्यम्)
शपि कृते अतो दीर्घो यञ्ञी ति दीर्घो भविष्यति।
(समाधानभाष्यम्)
एवं तर्हि। सिद्धे सति यदालुचं शास्ति, तज्ज्ञापयत्याचार्योऽन्येभ्योऽप्ययं भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?।
आलुचि शीङ्ग्रहणं चोदयिष्यति। तन्न कर्तव्यं भवति।
(3073 वार्तिकम्।। 1 ।।)
- आलुचि शीङ्ग्रहणम्-
(भाष्यम्) आलुचि शीङ्ग्रहणं कर्तव्यम्। शयालुः।। स्पहिगृहि।। 158 ।।
-3-2-171- आदृगमहनजनः किकिनौ लिट् च (948)
(529 किकिन्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आ.10)
(आक्षेपभाष्यम्)
किमर्थं किकिनोः कित्त्वं क्रियते। न असंयोगाल्लिट् कित् इत्येव सिद्धम्।
(3074 आक्षेपबाधकवार्तिकम्।। 1 ।।)
- किकिनोः कित्त्वमॄकारगुणप्रतिषेधार्थम्-
(भाष्यम्) किकिनोः कित्करणं क्रियते। (किमर्थम्?।) ॠकारस्य गुणप्रतिषेधार्थम्। अयमॄकारान्तानां लिटि गुणः
प्रतिषेधविषये आरभ्यते ऋच्छत्यॄताम् इति। स यथेह भवति आतस्तरतुरातस्तरुरिति। एवमिहापि प्रसज्येत---मित्रावरुणौ ततुरिः, दूरे अध्वा जगुरिरिति। स पुनः कित्त्वेन बाध्यते।
(6075 वार्तिकम्।। 2 ।।)
।। 8 ।। उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्-
(भाष्यम्) उत्सर्गश्छन्दसि किकिनौ वक्तव्यौ। किं प्रयोजनम्?। सदादिभ्यो दर्शनात्। सदादिभ्य हि किकिनौ दृश्येते। सदिरमिनमिमनिविचीनां सेदिः, रेमिः, मेनिः, नेमिश्चक्रमिवाभवत्। विविचिं रत्नधातमम्।।
(6076 वार्तिकम्।। 3 ।।)
- भाषायां धाञ्ञूकृसृजनिनमिभ्यः-
(भाष्यम्) भाषायां दाञ्ञ्कृसृजनिनमिभ्यः किकिनौ वक्तव्यौ। धाञ्ञ्----दधिः। कृ---चक्रिः। सृ---सस्रिः। जनि---जज्ञिः। नज्ञिः। नमि---नेमिः।
(3077 वार्तिकम्।। 4 ।।)
- सासहिवावहिचाचलिपापतीनां निपातनम्-
(भाष्यम्) सासहिवावहिचाचलिपापतीनां निपातनं कर्तव्यम्। वृषा सहमानं सासहिः। वावहिः चाचलिः पापतिः।।
अपर आह----
(3078 वार्तिकम्।। 5 ।।)
- सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ-
(भाष्यम्) तान्येवोदाहरणानि।। आदृगम।। 171 ।।
-3-2-174- भियः क्रुक्लुकनौ (951)
(530 क्रुक्लुकन्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आ.11)
(3079 वार्तिकम्।। 1 ।।)
- भियः क्रुकन्नपि-
(भाष्यम्) भियः क्रुकन्नपि वक्तव्यः। भीरुकः।। भियः क्रु।। 174 ।।
-3-2-178- अन्येभ्योऽपि दृश्यते (955)
(531 क्विप्प्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आदृ 12)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते। न क्विप् चान्येभ्योपि दृश्यते इत्येव सिद्धम्।
(3080 वार्तिकम्।। 1 ।।)
- क्विब्विधिरनुपपदार्थः-
(भाष्यम्) अनुपपदार्थोयमारम्भः। पचेः पक्। भिदेः भित्। छिदेः छित्।
(आक्षेपभाष्यम्)
अथ योत्र सोपपदस्तस्य ग्रहणं किमर्थम्। न तेनैव सिद्धम्।
(समाधानभाष्यम्)
न सिध्यति। इह केचिद् आ क्वेः इति सूत्रं पठन्ति। केचित् प्राक् क्वेः इति । तत्र ये आक्वेः इति पठन्ति तैः क्विबप्याक्षिप्तो भवति। तत्र तच्छीलादिष्वर्थेषु क्विब् यथा स्यात्।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। य एवासाविशेषविहितः स तच्छीलादिषु भविष्यति। अन्यत्र च।।
(समाधानसाधकभाष्यम्)
न सिध्यति। अयं तच्छीलादिष्वर्थेषु तृन्विधीयते स विशेषविहितः सामान्यविहितं क्विपं बाधेत।।
(बाधकभाष्यम्)
वासरूपेण क्विबपि भविष्यति।।
(समाधानसाधकभाष्यम्)
न सिध्यति। इदानीमेवह्युक्तम्----तच्छीलादिष्वर्थेषु वासरूपेण तृजादयो न भवन्ति इति। क्विप्चापि तृजादिः।।
(3081 वार्तिकम्।। 2 ।।)
- वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घश्च-
(भाष्यम्) वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घत्वं च वक्तव्यम्। क्विप्च।। वचि---वाक्।। प्रच्छि शब्दप्राट्। आयतस्तु---आयतस्तूः। कटप्रु----कटप्रूः। जु---जूः। श्रि---श्रीः।।
(मुन्यन्तरवाक्यम्)
अपर आह----
 वचिप्रच्छ्योरसम्प्रसारणं चेति वक्तव्यम्।
(प्रश्नभाष्यम्)
तत्तर्हि वक्तव्यम्।
(समाधानभाष्यम्)
न वक्तव्यम्। दीर्घवचनसार्मथ्यात्सम्प्रसारणं न भविष्यति। इदमिह सम्प्रधार्यम्। दीर्घत्वं क्रियतां सम्प्रसारणमिति। किमत्र कर्तव्यम्?। परत्वात्सम्प्रसारणम्। अन्तरङ्गं दीर्घत्वम्। का अन्तरङ्गता?। प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वमुच्यते। उत्पन्ने प्रत्यये सम्प्रसारणम्। तत्रान्तरङ्गत्वाद्दीर्घत्वे कृते सम्प्रसारणम्। सम्प्रसारणपूर्वत्वे कृते कार्यकृतत्वात्पुनर्दीर्घत्वं न स्यात्। तस्मात् सुष्ठूच्यते। दीर्घवचनसार्मथ्यात् सम्प्रसारणं न भवतीति।
(3082 वार्तिकम्।। 3 ।।)
- द्युतिगमिजुहोतीनां द्वे च-
(भाष्यम्) द्युतिगमिजुहोतीनां द्वे चेति वक्तव्यम्। दिद्युत्। गमि। जगत्।। जुहोतेर्दीर्घश्च।। जुहूः।।
(3083 वार्तिकम्।। 4 ।।)
(- दृणातेर्हूस्वश्च द्वे च क्विप् च-)
(भाष्यम्) दृणातेर्ह्रस्वश्च द्वे च क्विप्चेति वक्तव्यम्। ददृत्।।
(धात्वन्तरसाधनभाष्यम्)
जुहूर्जुहोतेर्हूयतेर्वा। ददृत् दृणातेर्दीर्यतेर्वा।। जूः ज्वरतेर्जीर्यतेर्वा।
(3084 वार्तिकम्।। 5 ।।)
- ध्यायतेः सम्परसारणं च-
(भाष्यम्) ध्यायतेः सम्पसारणं च क्विप्च वक्तव्यः।। धीः।।
(धात्वन्तरसाधनभाष्यम्)
धीर्ध्यायतेर्दधातेर्वा।। अन्येभ्यो।। 178 ।।
-3-2-180- विप्रसंभ्यो ड्वसंज्ञायाम् (957)
(532 डुप्रत्ययविधिसूत्रम्।। 3 । 2 । 3 आ.13)
(3085 वार्तिकम्।। 1 ।।)
- डुप्रकरणे मितद्रावादिभ्य उपसंख्यानं धातुविधितुक्प्रतिषेधार्थम्-
(भाष्यम्) डुप्रकरणे मितद्रावादिभ्य उपसंख्यानं कर्तव्यम्। किं प्रयोजनम्?। धातुविधितुक्प्रतिषेधार्थम्। धातुविधेस्तुकश्च प्रतिषेधो यथा स्यात्। मितद्रुः मितद्रू मितद्रवः। अचिश्नुधातुभ्रुवाम् इत्युवङादेशो भा भूत्। इह च मितद्रूवा। मितद्रवे----नोङ्धात्वोः इति प्रतिषेधो मा भूत्।। तुग्विधि---मितद्रुः। हस्वस्य पिति कृति तुग् इति तुङ् मा भूदिति।। विप्रसंभ्योदृ।। 180 ।।
-3-2-188- मतिबुद्धिपूजार्थेभ्यश्च (965)
(433 कर्तरि क्तप्रत्ययविधिसूत्रम्।। 3 । 2 । 3 ।। आ.14)
शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि।
रुष्टः च रुषितः चोभावभिव्याहृत इत्यपि।।
हृष्टतुष्टौ तथाक्रान्तस्तथोभौ संयतोद्यतौ।
कष्टं भविष्यतीत्याहुरमृताः पूर्ववत्स्मृताः।।
न म्रियन्ते अमृताः।। मतिबुद्धि।। 188 ।।
इति श्रीम्द्भगवत्पतञ्ञ्जलिविरचते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य द्वितीये पादे तृतीयमाह्निकम्।। पादश्च समाप्तः।।
पादश्चायं द्वितीयः समाप्तः।।
-9-9-999-