पृष्ठम्:Kalidasa's Śakuntala.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

83] षष्ठो ऽङ्कः V1. [9. I विदूषकः । तिण्णि आइदीओ दीसन्ति । सव्वाओो जेव दंसणी आओो । ता कदमा तत्थभोदी सउन्तला । 3 मिश्रकेशी । अणहिण्णो एस तवस्सी सहीए रूवस्स । मोहचक्खुणो इअं ण गदा से पचक्खदं । राजा । त्वं तावत्कतमां तर्कयसि । 6विदूषकः । । निर्वण्यै ॥ तकेमि जा एसा अवसे असिणिद्धपलुवं असो अलदिअं संसिदा सिढिलकेसबन्धुव्वम्मन्तकुसुमेण बद्धसेदबिन्दुणा वअणेण विसे सणमिदसाहाहिं बाहालदिआहिं ऊससिदणीविणा वसणेण ईसिपरिस्सन्ता 9विअ आलिहिदा सा तत्थभोदी सउन्तला सेसाओ सहीओ त् ि। राजा । निपुणो भवान् । अस्त्यत्र ममापि भावचिहम् । खिन्नाङ्गुलीनिवेशाद्रेखा प्रान्तेषु दृश्यते मलिना । अश्रु च कपोलपतितं लक्ष्यमिदं वर्णकोच्छासात् ॥ १८ ॥ चतुरिके। अर्धलिखितमेतद्विनोदस्थानमस्माभिः। तद्वच्छ। वर्तिकास्तावदानय। चेटी । अज्ज माधव्व । अवलम्बसु चित्तफलअं जाव गच्छामि । 3राजा । अहमेवैनमवलम्बे । । इति यथोक्तं करोति । चेटी निष्क्रान्ता ॥ विदूषकः । भो । किं एत्थ अवरं आलिहिदव्वं । मिश्रकेशी । जो जो पिअसहीए अहिमदो पदेसो तं तं आलिहिदुकामो 6त्ति तकेमि । राजा । सस्खे । श्रूयताम्। कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादस्तामभितो निषण्णचमरो गौरीगुरोः पावनः । शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृजे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १९ ॥ विदूषकः । । अपवार्य ॥ जधा मन्तेदि तधा । तकेमि पूरिदो अणेण