सामग्री पर जाएँ

पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ काव्यमाला । आदितः संदिग्धे । ३ । ६१ ।। यदा षडिंशल्यक्षरं छन्दो भवति, तदा किं प्रतिपत्तव्यम्? । किं गायत्री खराड्? उतो ष्णिग्विराड् ? इति । एवं संदिग्धे सति छन्दस्यादिभूतात् पादान्निर्णयः कर्तव्यः । यदि प्रथमः पादो गायत्र्यास्तदा गायत्र्येवासौ । अथोष्णिहस्तदोष्णिग् इति । एवं सर्वत्रं । देवतादितश्च । ३ । ६२ ।। इदमपरं निर्णयनिमित्तमुच्यते । संदिग्धे छन्दसि देवतादेश्च निर्णयः कर्तव्यैः । आदि'ग्रहणं खरादिपरिग्रहार्थम् । स्वराट्पङ्कया यथा-अयाश्चाझेऽस्यनभिशस्तीश्च (१) सत्यर्मित्वमया अंसेि (२) । अयासावयसा कृतो (३) ऽया संन् हव्यमूहेिषे (४) ऽया नो धेहि भेषजम् (५) ॥ ( आश्च० श्रौ० सू० १।११।१३) स्वराष्ट्रत्रिष्टुभो यथा-‘इन्द्रांसोमा परिं वां भूतु विश्धतं (१) इयं मतिः कक्ष्या श्रेव वाजिना (२) । यां वां होत्रां परिहिनोमि मेधये (३) मा ब्रह्माणि नृपतीव जि न्वतम् (४) ॥' (ऋग्वेदे-अ० ५ अ० ७ व० ६ मं० १) स्वराड्जगल्या यथा—‘आरोहतं दशतश्शर्करीर्म (१) । ऋतेनांझ आयुषा वर्चसा सह (२) । ज्योग्जीवन्त उत्तरामुत्तरा५ समम् (३) । दर्शमहं पूर्णर्मांसं यज्ञ यथा यजै (४) ॥' (तै० ब्रा० १॥२॥१॥३५) ३. ‘खराड्वै तच्छन्दो यत्किञ्च चतुत्रिंशदक्षरम्’ (सां० ब्रा० १७॥१)-इति श्रुतिस्त्व नुष्टुप्परा । विशेषेण राजत इति विराट् । स्वेनैव राजत इति खराट्। १. ‘उष्णिग्गायत्रौ जागतश्च' (छं० शा० ३॥१८) इत्यनुशासनेनोष्णिहः प्रथमपा दस्यापि गायत्रत्वान्नेदं सूत्रं गायत्र्युष्णिहोः सन्देहे नियामकं भवितुमर्हति । अत 'यो अझीषोमः हविर्षा सपर्या (१) द्देवदीचा मनसा यो घृतेर्न (२) तस्य व्रतं रक्षतं पातमंहंसो (३) विशे जनाय महेि शर्म यच्छतम् (४) ।।' (ऋ० सं० १॥६॥२९॥२) इतीयं षट्चत्वारिंशदक्षरा किं त्रिष्टप्स्खैराट् ? उत जगती विराट्? इति सन्देहे प्रथमा पादस्यैकादशाक्षरत्वात्रिष्टबेवेत्युदाहार्यम् । २. “भवल्येव संशये छन्दसां दैवतेनाध्यवसायः, यथा-‘तव स्वादिष्टा- (ऋ सं० ३॥५॥१०॥५) ‘शिवा नः सख्या-' (ऋ० सं० ३॥५॥१०॥८) इत्यनुष्टबुष्णिहो र्मध्ये ‘घृतं न पूतं-' (ऋ० सं० ३॥५॥१०॥६) इति षाडंशत्यक्षरे द्वे ऋचा दैवतेन खराजौ. गायत्र्यावध्यवसीयेतें, न विराजावुष्णिही. ।” इत्यूक्प्रातिशाख्यव्याख्यायामु न्त्रटः ( १७॥२०)