पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ रेषु प्रन्थेषु साख्यादिशब्दवत् । तथा च गौणवृत्त्यां कचेिदन्यत्र प्रयोगेऽपि मुख्यवृत्त्या वच्छेद एव छन्द इति संसिद्धम् ॥ अथ छन्दोवादः । ननु किमिदं वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्यतिरेकेण छन्दःखरूपं निरूप्यते तनावकल्पते । गतियत्यध्वपरिच्छित्तिच्छन्दसामनर्थान्तरत्वात् । न च वृत्ति यो ध्वनिरिति गतेस्रयो मेदाः, अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पश्च मेदाः, लिप्यध्वपरिच्छित्तिर्गल्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ मेदौ, वर्णच्छन्दो गण =छन्दो मात्राच्छन्दश्चेति छन्दसस्रयो मेदाः,--इतीत्थमेषां चतुर्णा नितान्तवैषम्यं प्रतिपद्यत इति वृाच्यम् । आपाततस्तेषां मेदकल्पनायामपि वस्तुतः । स्वरूपान्नातरकात् तथा हि-गतित्रैविध्ये वृत्तिध्वन्योर्वर्णवेदीयपदार्थत्वाच्छन्दसश्च वर्णोपलक्षितत्वेऽपि वर्णानात्मकत्वात्तत्र यद्यपि वृत्तिध्वन्योरप्रवेशः प्रतिपद्यते । अथाप्येष लयः खलु यति तारतम्यनिबन्धनो न यतेरतिरिच्यते । अयमेव तु लयो गरयध्वपरिच्छित्तिशब्दान्त रेणाप्याख्यायते । तयोर्विवेकानुपलम्भात् । मसजसततगेषु हि वणैरभिनीयमानेघू चारयितुरुचारणसामञ्जस्यमनुभूयते । जसयोः स्थाने तभयोः संनिवेशे त्ववश्यमुच्चा राष्टिता भवति । तत्र चायं द्वितीयः सगणोऽवष्टम्भी विष्टम्भमजानताप्यभिनीय मानः खयमवष्टम्भमुपस्थापयति खान्ते । तदिदमवष्टम्भित्वं तत्र केन रूपेण-2 द्वादशाक्षरवेन वा, शार्दूलविक्रीडितसंबन्धित्वेन वा, तथाविधसत्वेन वा गणतुरी वा ? । नाद्यः-मरभनयययेषु नगणघटकस्य द्वादशाक्षरत्वेऽप्यवष्टम्भानपेक्षणात् । न द्वितीयः--तत्र मगणजगणादीनां विष्टम्भनिरपेक्षत्वात् । न तृतीयः–तत्रैव द्वितीय न तुरीयः-सजससगेषु तुरीयस्यापि तस्य तदनपेक्षणान् तस्मान्मसजोत्तरसगणघटकत्वेनैव रूपेण तस्य द्वादशाक्षरस्यावष्टम्भित्वं वाच्यम् । तथा च मस्य सगष्टाव्यवहितपूर्ववृत्तित्वेनावस्थानं, सस्य मगणोत्तरवृत्तित्वजगणपूर्ववर्तित्वाभ्यां, जस्य च सगणद्वयमध्यवर्तित्वेन । सस्य पुनर्जगणोत्तरवर्तित्वतगणप्राग्वर्तित्वाभ्यां चेलेय वमवस्थानक्रम एकाध्वपरिच्छित्तिः स्यात् । तत क्रमात्प्रच्यवमानानां तेएामुच्चारणे कृिष्टतानुभवात् । अथेत्थं पौर्वापर्येणोच्चारणमेवैषां लयगतिविशेषः स्यात् । निर्दिष्ट रीत्या तेनैव रूपेणावष्टम्भसापेक्षत्वात् । अवष्टम्भापेक्षाप्रयोजकत्वाप्रयोजकत्वाभ्यामेव च लयगतिप्रत्यवमशत् । तदिदं पैौर्वापर्यं च मसजसानां प्रत्येकस्य कमिकावस्थान लक्षणान्नातिरिच्यते-इति लयगतेरनतिरिक्ताध्वपरिच्छित्तिः । यतश्च मसजोत्तरस घटकत्वेन यतिमत्त्वं दृश्यते, ततो यतिमत्वव्याप्यतया मसंजोत्तरसघटकत्वरूपाया लय गतैरध्वपरिच्छितिर्वा यद्यप्यर्थान्तरत्वमापाततः प्रतिभातेि. अथाप्यवष्टम्भप्रयोजक त्वाप्रयोजकत्वेोपलक्षितपौर्वापर्यसैव गतिरूपत्वप्रतिपत्त्या अन्वयव्यतिरेकाभ्यामस्या