२२४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ किं करिष्यावहे वत्स कै वा गच्छाव लक्ष्मण। केनोपायेन पश्येयं सीतैामिति विचिन्तय ।। ३॥ तं तथा परितापार्त लक्ष्मणो राममब्रवीत् ।। ४ ।। इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥ राक्षसैर्बहुभिः कीर्ण नानादुमलतायुतम् ।। ५ ।। सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च । गुहाश्च विविधा घोरा नानामृगगणाकुलाः ।। ६ ।। आवासाः किन्नराणां च गन्धर्वभवनानि च ॥ तानि युक्तो मया सार्ध त्वमन्वेषितुमर्हसि ॥ ७ ॥ त्वद्विधा बुद्धिसंपन्ना महात्मानो नरर्षभ ॥ आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ॥ ८ ॥ इत्युक्तस्तद्वनं सैर्व विचचार सलक्ष्मणः । कुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ॥ ९ ॥ ततः पर्वतकूटाभं मैहाभागं द्विजोत्तमम् ॥ ददर्श पतितं भूमौ क्षतजाद्रं जटायुषम् । तं दृष्ट्रा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।। १० ।। अनेन सीता वैदेही भक्षिता नात्र संशयः । गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने ॥ ११ ॥ भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ॥ एनं वधिष्ये दीप्तौखैर्घोरैर्वाणैरजिह्मगैः ।। १२ ।। इत्युक्त्वाऽभ्यपतद्वधै सन्धाय धनुषि क्षुरम्। कुद्धो रामः समुंद्रान्तां कम्पयन्निव मेदिनीम् ॥१३॥ तै 'दीनं दीनया वाचा सफेनं रुधिरं वमन् ॥ अभ्यभाषत पक्षी तुं रामं दशरथात्मजम् ।। १४॥ यामोषधिमिवायुष्मन्नन्वेषसि महावने ।। सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ १५ ॥ त्वया विरहिता देवी लक्ष्मणेन च राघव ॥ ह्रियमाणा मया दृष्टा रावणेन बलीयसा ।। १६ ।। सीतामभ्यवपन्नोऽहं रावणश्च रणे मैया ॥ विध्वंसितरंथश्चात्र पतितो धरणीतले ॥ १७ ॥ महासारमिति ।। १-२ ॥ पश्येयं पश्येव ॥ ३ ॥ |न्तीत्यजिह्मगाः तैः ॥१२॥ अभ्यपतत् अभिमुखं गतः। तमित्यर्धमेकैकंवाक्यं ।। ४-५ । इह जनस्थाने । | समुद्रान्तां समुद्रपर्यन्तां ।। १३ । दशरथात्मजमिति गिरिगतानि दुर्गाणि गन्तुमशक्यप्रदेशा इत्यर्थः । | संबन्धोक्तिः॥१४॥ यथा महौषध्यन्वेषिणः प्रतिवनम निर्दराः विदीर्णपाषाणाः। कन्दराणि पाषाणसन्धयः। न्वेषन्ते तथा यामस्मिन्विस्तीर्णे वनेऽन्वेषसि । एष गुहाः देवखातबिलानि । युक्तः संनद्धः ॥६-७॥ न |गतावित्यस्माद्वयत्ययेन परस्मैपदं । नित्यंप्राणसमेत्युक्ता प्रकम्पन्ते न चश्चलचित्ता भवन्तीत्यर्थः ।। ८ । क्षुरं | सा देवी मम प्राणाश्च उभयं रावणेन हृतं । मम प्राणा क्षुरप्राख्यं शरं । सीताया अदर्शनात्क्रोधः ॥ ९॥ |न्हृतप्रायान्कृत्वा सीतां रावणो हृतवानित्यर्थः । कूटः श्रृङ्गं । महाभागं महाभाग्यं । स्वाम्यर्थे त्यक्त- | खरवधादिना रामबलंज्ञात्वाप्यस्थानेभयशङ्कितया शरीरत्वात् । द्विजोत्तमं पक्षिश्रेष्ठं । “दन्तविप्राण्डजा |रामस्यायुः प्रार्थयते-आयुष्मन्निति ।। १५-१६ ।। द्विजाः” इत्यमरः । क्षतजं रुधिरं ।। १० । भक्षिता | अभ्यवपन्न: आभिमुख्येन गत: । हियमाणांसीतामः रुधिरात्विादिति भावः। गृधेति । गृध्रस्य रूपमिव रूपं |वलोक्य तदभिमुखमागत इत्यर्थः । रावणश्च विध्वं यस्य तत्तथा।॥११॥ अजिहां अकुण्ठं अवक्रे वा गच्छ- | सितरथः:सन् अत्र धरणीतले पातित: रथाद्धंशित शि० कुद्धः कुर्धजहातिसः त्यक्तकोपोरामः ॥ ९ ॥ शिः इदंगृध्ररूपंवस्तु यदिरक्षः राक्षसः तर्हि अनेनरक्षसाभक्षितासीता अत्र अस्योदरे भ्रमति भ्रमेत् । संशयोन । यदीत्यध्याहृतं । भ्रमतीत्यनेन तस्याः नित्यत्वंसूचितं तेनैतदुदरान्निर्गच्छेदितिसंभ [ पा० ] १ च. छ. ज. ल. कगच्छावच. २ घ. झ. पश्यावः. ३ ड. झ. ट. सीतामिह. क. सीतांसुरसुतोपमां. ४ घ ड. झ. ट. वाक्यमब्रवीत्. ५ ध.-ट. समम्वेषितुं. ६ ख. घोरं. ७ च. छ. ज. महाकायं. ८ च. छ. ज. अ. किल. ९ ग ड.-ट. व्यक्तंरक्षोभ्रमतिकाननं. १० क. ग. ड.-ट. दीप्तात्रैःशरैघोरैरजिह्मगैः. ११ ड. झ. ट. भ्यपतद्रष्टं. १२ ख. च. छ ज. अ. सुसंभ्रान्तश्चालयन्निव. क. ग. घ. ड. झ. ट. समुद्रान्तांचालयन्निव. १३ ख. च. दीनो. ड. झ. अ. दीनदीनया १४ ड. झ. ट. सरामं. १५ ड. झ. ट. प्रभो. १६ क.--ट, रथच्छत्रः, १७ ख .-ट. पतितो
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२६
दिखावट