सिद्धे सङ्गतिग्रहसत्त्वस्थापनोत्थापनम् । १८५ मू०-नाप्यस्पन्दात्मा प्रयलरूपः, चतनकाधारतया तस्या चेतने शब्दे ऽनुपपत्तेः, नचान्यो व्यापारः प्रसिद्धो लोके. यदि कश्चिद् ब्रयाद् अजनकावस्थातो जनकावस्था यामतिशयमात्रमिह व्यापारो न पुनः प्रस्पन्दप्रयत्न योरन्यतर इति, स इत्थं शिक्षणीयो-हन्तोभयवाद्यविवा दास्पद् एव विज्ञानगोचरभावलक्षणस्तादृशोऽतिशयोस्तु किमतिशयान्तरपरिकल्पनदुर्यसनेनेति, तस्मादभिधा व्यापार एव प्रव तक इत्यप्ययुक्ता कल्पना तथैव भावार्थफलबोधयोरपि प्रवर्तकभावः पराकर णीयः, तयोरपि कापि प्रवर्तकतादर्शनाद्, वर्तमानापदे शादौ च व्यभिचाराद्, । टी०-किं न स्यादित्यत आह -* नच इति, ॥ न्यूनतापरिहाराय व्यापारान्तरं शङ्कते –“ यदि ' इति, । झानविषयत्वस्यैवातिशयतया स्वविषयज्ञानस्य चाथैप्रतिपत्ति जनने नितरां व्यापारत्वादतिरिक्तव्यापारो न कल्पनीय इति परिह रति-* स इत्थम् ' ' इति, । भावार्थफलज्ञानयो. प्रवर्तकत्वं निराकरोति -- * तथा ? इति, । भावार्थपक्षे दूषणांतरमाह -* वर्तमान ?इति, । प क्ष्यत्यऽपाक्षीदित्यत्र भावार्थवोधेपि प्रवृतेरभावाद्, नच लिङ्ङदिप दबोध्यो धात्वर्थः प्रवर्त्तको, अनिष्टधात्वर्थवोधे व्यभिचारादित्यर्थ.,॥
पृष्ठम्:न्यायमकरन्दः.djvu/१८९
दिखावट