पृष्ठम्:न्यायमकरन्दः.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ न्यायमकरन्द मू०–चक्रभावानुपपत्तेः, अनन्यलभ्यस्तु शाब्द् इति हि त्रैविद्यवृद्धाः. । किञ्चायमभिधाव्यापारश्चदन्तरेणाभिधाव्यापारान्तर मभिधेयः किमर्थ एव तथा न स्याद्, अभिधाव्यापारा न्तरकल्पने त्वभिहितैवानवस्था,। कश्चायमाभधाव्यापारः, नतावत् प्रस्पन्द् , तस्य मूत्यैनुविधायितया विभौ विभुगुणे वा शब्दे मूत्र्यभावे नासंभवाद्, असर्वगतद्रव्यपरिमाणं मृर्तिरिति च प्रामा टी०-ह-“ अनन्य ” इति,। न व्यापारान्तरेण नापि तेन किन्तु शब्दैरेवमेवाभिधीयत - त्याशङ्कयाह-* केिञ्च ?” इति, । व्यापारान्तरेणाभिधेयत्वस्वी कारेऽभिहितामन्नवस्थां स्मारयति-" अभिधा ' इति, । स्वरू पतो दुर्निरूपत्वादपि नाभिधाव्यापार इत्याह -' कश्र ' इति,। किं परिस्पन्दः किं वा प्रयख इति विकल्प्याधं दूषयति नतावद् इति, । मूर्तेष्वेव कर्मणोऽवस्थाननियमात्सर्बगदूद्रव्य त्वेन गुणत्वेन च मूर्तत्वाभावेन परिस्पन्दः न सम्भवतीत्यर्थ, शब्दः सर्वगद्द्रव्यमितिभाट्टाः, गुण इति प्रभाकरा वैशेषिकादयश्च, मू त्र्यभाव एव कथमित्यत आह-' अस्वगत इति, । द्वितीयं पक्षं दूषयति –* नापि ?” इति, । व्यापारान्तरमेव